स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 461, कुल 474 में से
संदर्भ में पढ़ेंअथ वृद्धिश्राद्धस्यैव प्रयोगसौकर्यार्थ कात्यायनाद्युक्त-
प्रयोगपद्धतिः लिख्यते । तत्र तावत्कात्यायन आह—
अतः परं प्रवक्ष्यामि विशेष इह यो भवेत् ।
प्रातरामन्त्रितान् विप्रान् युग्मानुभयतस्तथा ॥
उपवेश्य कुशान् दद्यादृजूनेव हि पाणिना । इति ।
पूर्वेद्युर्निमन्त्रितान् विप्रान् उत्तरेद्युः प्रातः पूर्वाह्णे प्रक्षाळितपादा-
नासनेषूपवेश्य प्रक्रान्तं कर्म करिष्ये इत्यादि पार्वणवत्कु-
र्यात् । विशेषस्तु वैश्वदैविकार्थं पित्रर्थमपि युग्मानेव ब्राह्म-
णानुपवेश्य ऋजून् द्विगुणभङ्गरहितान् युग्मान् समूलान् कु-
शानासनार्थं विप्राणां प्राङ्मुखानामुदङ्मुखानां वा दक्षिणोरु-
समीपे पूर्वक्लृप्तासनस्योपरि प्राङ्मुख उदङ्मुखो वा दद्यात् ।
ततो नान्दीदैवे क्षणः क्रियतामित्यादिपूर्वप्रकरणोक्तप्रकारेण
दैवे पित्र्ये च पुनरामन्त्रणं च कुर्यात् । ततः पार्वणवद्विश्वान्
देवान् विप्रद्वये सकृदावाह्य मातृपितामहीप्रपितामहीरावा-
हयिष्ये इति मातृवर्गार्थविप्रौ पृष्ट्वा, 'उशन्तस्त्वा हवामहे'
इति मन्त्रेण विप्रद्वये मातृवर्गं सकृदावाह्य नान्दीमुखान् पितॄ-
नावाहयिष्ये इति पितृवर्गार्थविप्रौ पृष्ट्वा विप्रद्वयेऽपि पितृ-
वर्गमावाहयेत् । नात्र सपत्नीकानामावाहनम् । ततो नान्दी-
मुखान् मातामहान् सपत्नीकान् आवाहयिष्ये इति मातामह-
वर्गार्थविप्रौ पृष्ट्वा सपत्नीकं मातामहवर्गं विप्रद्वये सकृदा-
वाहयेत् । ततोऽर्घ्योदकसंस्कारं कुर्यात् । तत्र विशेष आ-
SMRITI CHA.—Vol. V. 56