स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 460, कुल 474 में से
संदर्भ में पढ़ें440 स्मृतिचन्द्रिकायां
इति । प्राक्कूलेषु प्रागग्रेषु । पिण्डदानमत्र नोच्छिष्टसमीपे । किन्तु
भोजनशालाया बहिः कार्य,
प्रदद्यात्प्राङ्मुखः पिण्डान् वृद्धौ नाम्ना स बाह्यतः ।
इति वृद्धशातातपस्मरणात्, 'बहिस्तु प्राक्कूलेषु च दध्यक्ष-
तकर्कन्धुमिश्रान् पिण्डान्निधापयेत्' इति प्रचेतसाऽभिधानाच्च ।
चतुर्विंशतिमतेऽपि विशेष उक्तः-
एकं नाम्ना परं तूष्णीं दद्यात्पिण्डान् पृथक्पृथक् ।
इति । पृथक्पृथगेकैकस्मिन् द्वौ द्वौ पिण्डौ दद्यात् । तत्र
प्रथमपिण्डं नाम्ना गोत्रमन्त्रसहितेन दद्यात् । द्वितीयं तूष्णीं
दद्यादित्यर्थः । भविष्यपुराणे तु पिण्डदानमत्र वैकल्पिकमित्युक्तं-
पिण्डनिर्वपणं कुर्यान्न वा कुर्यान्नराधिप ।
वृद्धिश्राद्धे महाबाहो कुलधर्मानवेक्ष्य तु ॥
इति । कुलधर्मानवेक्ष्येत्यभिधानात् येषां कुले पिण्डदानादि-
विप्रविसर्जनान्तस्य कर्मकलापस्य अननुष्ठानं तेषां विप्रभोज-
नान्तमेव वृद्धिश्राद्धं कार्यम् । विप्रविसर्जनान्तपक्षेऽपि पितृभ्यो
वरयाचनमन्त्रात् 'दातारः' इत्यादेः पूर्वं मातृभ्यो वरया-
चनमन्त्रोऽत्र प्रयोज्यः । एतदपि तत्रैवोक्तम्-
माता पितामही चैव तथैव प्रपितामही ।
एता भवन्तु मे प्रीताः प्रयच्छन्तु च मङ्गलम् ॥ इति ।
इति स्मृतिचन्द्रिकायां पार्वणश्राद्धविकृतिभूतश्राद्धेषु
नित्यादिश्राद्धविषयाणि.