स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 459, कुल 474 में से
संदर्भ में पढ़ेंश्राद्धकाण्डे नित्यश्राद्धादिविषयाणि. 439
युग्मा द्विजातयः पूज्या नान्दीशब्दानुपूर्वकम् ।
इति । एवञ्चैवं प्रयोगः—नान्दीदैवे क्षणः क्रियतामिति दैवे
द्वयोर्द्वयोर्युगपदेव निमन्त्रणं कृत्वा ओं तथेति द्वाभ्यां वि-
प्राभ्यां युगपदुक्ते प्राप्नुतां भवन्ताविति कर्ता ब्रूयात् । विप्रौ
तु प्राप्नुवावेति युगपदेव प्रतिवचनं ब्रूयाताम् । एवमेव पित्र्य-
निमन्त्रणं नान्दीमुखश्राद्धे क्षणः क्रियतामिति तु विशेषः ।
आवाहनादौ तु प्रयोगप्रकारमाह कात्यायनः—"नान्दीमु-
खान् पितॄनावाहयिष्ये' इति पृच्छति, 'अस्तु स्वधा' इत्यस्य
स्थाने तु 'नान्दीमुखाः पितरः पितामहाः प्रपितामहाः मा-
तामहाश्च प्रीयन्ताम्' इति प्रतिवचनम् । 'स्वधां वाचयिष्ये'
इत्यस्य स्थाने 'नान्दीमुखान् पितॄन् वाचयिष्ये' इति पृच्छति,
नान्दीमुखाः पितर इत्यादि प्रीयन्तामित्यन्तं प्रतिवचनम्” इति ।
विप्रा ब्रूयुरित्यर्थः । तृप्ताः स्थेति प्रश्नस्थाने सम्पन्नमिति पृच्छे-
दित्याह स एव—'संपन्नमिति तृप्तिप्रश्ने' इति । पिण्डद्रव्ये
तु विशेषमाह स एव—
'दधिबदराक्षतमिश्राः पिण्डाः' इति । कार्या इति शेषः ।
अत एव वृद्धवसिष्ठः —
तृप्तिप्रश्ने तु संपन्नं दैवे रुचितामित्यपि ।
दधिकर्कन्धुसंमिश्राः पिण्डाः कार्या यथाक्रमम् ॥
इति । कर्कन्धूः बदरीफलम् । पिण्डदाने विशेषमाह स एव—
प्राङ्मुखो देवतीर्थेन प्राक्कूलेषु कुशेषु च ।
दत्त्वा पिण्डान् कुर्वीत पिण्डपात्रमधोमुखम् ॥