सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 290, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 290

270 स्मृतिचन्द्रिकायां
उदङ्मुखस्तु देवानां पितॄणां दक्षिणामुखः ।
प्रदद्यात्पार्वणश्राद्धे दैवपूर्वं विधानतः॥
इति । कात्यायनोपि विशेषमाह -
दक्षिणं पातयेज्जानुं देवान् परिचरन् सदा ।
पातयेदितरं जानुं पितॄन् परिचरन् सदा ॥
बोधायनोपि—
प्रदक्षिणं तु देवानां पितॄणामप्रदक्षिणम् ।
देवानाम्ऋजवो दर्भाः पितॄणां द्विगुणास्तथा ॥
द्विगुणाः मध्यभङ्गेन द्विगुणीकृत्येत्यर्थः । तथाच शौनकः—
'दर्भान् द्विगुणभुग्नानासनं प्रदापयेत्' इति । आसनग्रहणं
दर्भसाध्यपितृकर्मोपलक्षणार्थम् । दैवे पित्र्ये च साधारण-
धर्माः ब्रह्माण्डपुराणे दर्शिताः—
नांप्रोक्षितं स्पृशेत्किञ्चिद्दैवे पित्र्ये तथा पुनः ।
उच्चावचाश्चश्राद्धधर्मास्साधारण्यात् प्रकीर्तिताः ॥
उच्चावचा अनेकप्रकाराः श्राद्धदेशसंस्कारगोमयानुलेपनपरिश्च-
यणादयः । समागतब्राह्मणेष्वाचमनार्थवारिसमर्पणानन्तरं यत्क-
र्तव्यं तदाह शङ्खः—
संमार्जितोपलिप्ते तु द्वारि कुर्वीत मण्डलम् ।
इति । द्वारि द्वारसमीपे गृहस्याङ्गणप्रदेश इति यावत् । तथा
च मत्स्यपुराणे—