स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 289, कुल 474 में से
संदर्भ में पढ़ें269
नादुपरितनभागे प्रयुक्तः, एवम्भूत एवापराह्नः श्राद्धविषये
ग्राह्य इत्यपराह्ननिर्णये प्रागेव समर्थितत्वात् । अत्रापि सा-
याह्नव्यतिरिक्तापराह्नो ग्राह्यः ।
ऊर्ध्वं मुहूर्तात्कुतपात् यन्मुहूर्तचतुष्टयम् ।
मुहूर्तपञ्चकं ह्येतत्स्वधाभवनमिष्यते ॥
इति स्मृत्यन्तरानुरोधात् । सुस्वागतमिति ब्राह्मणैः प्रतिवचनं
कर्तव्यं, प्रश्नस्योत्तरापेक्षितत्वात् । यमोपि—
ततस्स्नात्वा निवृत्तेभ्यः प्रत्युत्थाय कृताञ्जलिः ।
पाद्यमाचमनीयं च सम्प्रयच्छेद्यथाक्रमम् ॥
प्रत्युत्थाय कृताञ्जलिः स्वागतमित्युक्त्वा मार्गभवोपहतिशुद्ध्यर्थं
पादप्रक्षालनार्थमुदकमाचमनार्थमुदकं च क्रमेण प्रयच्छेदित्यर्थः ।
तत ऊर्ध्वं यद्यत्पित्र्यमनुष्ठीयते तत्तददक्षिणं प्राचीनावीतिना चा-
श्राद्धसमाप्तेरनुष्ठेयम् । तथाच मनुः—
प्राचीनावीतिना सर्वमपसव्यमतन्द्रिणा ।
पित्र्यमा निधनात्कार्यं विधिवद्दर्भपाणिना ॥
अपसव्यं अप्रदक्षिणं आ निधनादा श्राद्धसमाप्तेः । पित्र्यग्र-
हणादपित्र्ये वैश्वदैविके कर्मणि यज्ञोपवीतिना प्रदक्षिणं च सर्वं
कार्यमिति द्योतितम् । स्वागतप्रत्युत्थानादौ तु यज्ञोपवीतिना
कार्यमित्यादि सामान्यधर्म एव, तेषां शिष्टोपचारत्वेन श्राद्धाङ्ग-
त्वाभावात् । ब्रह्माण्डपुराणेऽपि दैविके पैतृके च विशेष उक्तः—