सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 287, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 287

मेदश्शब्देन लक्ष्यते । मेदश्शब्दोऽकारान्तोप्यस्ति, मेदिनीसा-
दिषु दर्शनात् । आच्छादनेषु फलविशेषार्थमुपकल्पनीयानि
स्मृत्यन्तरे दर्शितानि—
आच्छादनं तु यो दद्यादहतं श्राद्धकर्मणि ।
आयुः प्राकाम्यमैश्वर्यं रूपं च लभते शुभम् ॥
कौशेयक्षौमकार्पासं दुकूलमहतं तथा ।
श्राद्धेष्वेतानि यो दद्यात्कामानाप्नोति पुष्कलान् ॥
इति । कौशेयं क्रिमिकोशोत्थतन्तुजम् । क्षौमं अतसीत्वक्स-
म्भवतन्तुनिर्मितम् । दुकूलमतिसूक्ष्मं वस्त्रं प्रसिद्धम् । अहतं
काश्यपेन निरूपितम्—
अहतं यत्त्वनिर्मुक्तमुक्तं वासः स्वयंभुवा ।
इति । एतच्च न श्राद्धे देयम्, यतोऽनन्तरमाह स एव—
शस्तं तन्माङ्गलिक्येषु तावत्कालं न सर्वदा ।
इति । माङ्गलिक्यं विवाहादिकम् । श्राद्धे देयं त्वहतं प्रचेत-
सोक्तम्—
ईषद्धौतं नवं श्वेतं सदशं यन्न धारितम् ।
अहतं तद्विजानीयात्सर्वकर्मसु पावनम् ॥
इति । ईषद्धौतं स्वेनैवेति शेषः । अतएव वृद्धमनुः—
स्वयंधौतेन कर्त्तव्याः क्रिया धर्म्या विपश्चिता ।
न तु नेजकधौतेन.......................... ॥ इति ॥
नेजको रजकः । स्वयंग्रहणादेव नेजकनिवृत्तौ सिद्धायामपि