सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

स्वरूपत्वे कस्य दर्शनम्, अतोऽपरिदृष्टानेव सृजेत्, तत् ज्ञातेषु सृष्टि-
रिति पक्षो नोपपन्नः। अथवा अज्ञातेषु सृष्टिरिति न भवतां दर्शनं नाभ्यु-
पगम इत्यर्थः। अज्ञातेष्वपि बुद्धिमतामबुद्धिपूर्वा कथं सृष्टिः। निष्प्रयोजना
च कथं स्यात् सृष्टिः। क्रीडैव स्रष्टुः सृष्टिः सृष्टेस्वभावत्वं वेति हि भवतां
नेष्टम्॥ २५॥
पुनर्विकल्पयन्नाह--
तानि दृष्ट्वानुसृजति१ सृष्ट्वा वानुप्रपश्यति॥ २६॥
पश्यन्त्याः२ सत्यरूपायास्तत्सत्यत्वे न दर्शनम्३।
असत्ये सत्यदृष्ट्यैव पश्यन्त्यां मलिनात्मता॥ २७॥
असत्यान्सत्यरूपान्वा कथं सृजति कल्प्यताम्४।
तानि तानि वस्तूनि दृष्ट्वा ज्ञात्वा वा सृजति, सृष्ट्वा वा
प्रपश्यति इत्येतद्यथास्तु५, अनुशब्दोऽत्र६ पश्चादर्थः नुशब्दो वा वितर्के।
पश्यन्तीतत्वमेव न युक्तम्। तथा हि सत्यरूपा सा, तद्दृश्यानां च सत्यत्वे
न दर्शनं नाभ्युपगमो द्वैतप्रसङ्गात्। अथ तेषामसत्यत्वं, ततो यथैव
सत्यसर्गे मलिनता, तद्वदसत्यसृष्टौ मुख्यैव भ्रान्तिरूपता। पुनरपि च असत्या-
नर्थान् सत्यान्७ वा पश्यन्ती क्रीडाद्यभावेऽपि केन प्रयोजनप्रकारेण सृजतीति
विमृश्यताम्॥ २७॥
असत्यसत्यसर्गदर्शने प्रागुक्तेऽप्यविद्यापर्याप्तपर्यालोचना प्रसङ्ग-


१ दृष्ट्वा अवबुध्य। २ उभयमपि मिथ्यात्वेन कथयति।
३ भवदभिमतशासनम्। ४ समर्थ्यताम्। ५ स्वरूपेण स्थीयताम्।
'ज्ञातान्सृजत्यसौ तान्वा' इति पूर्वमेव तन्निरसनप्रकारस्योक्तत्वात्।
६ अनुशब्दोऽत्रेति तानि तान्यादौ ज्ञात्वा स्वविमर्शेनाकलय्यानु
पश्चात् सृजतीत्यर्थः। ननु च 'अत्रासवं पीत्वा गायति' इत्यादौ यथादो
तत्पानं, ततश्च गानं पूर्वकालद्योतकत्वात् क्त्वान्तत्वेनैव प्रतीयते, न
तत्र पश्चाच्छब्दादिनोपयोगः, ततश्च किमर्थमनुशब्दप्रयोग इत्या-
शङ्क्याह नुशब्दो वा। वाशब्दः पक्षान्तरे। नुशब्दो वितर्के, उभयकोट्य-
वलम्बी वितर्कः। ७ ततश्च न भ्रान्तिरूपता।

४२ शिवदृष्टिः [ आ०-२
दानाय पुनर्विकल्पिते प्रयोजनं विनैवाविद्याकृतः सर्ग¹ इति पर्या²-
लोचयन्नाह—
अविद्यास्याः स्वधर्मः³ किं परधर्मोऽथवा भवेत् ॥ २८ ॥
स्वधर्मत्वेऽस्या⁴ मालिन्यं परधर्मेऽपि कस्य सा⁵ ।
परस्य शास्त्रानिष्टस्य⁶ स्वतन्त्रा वा तथापि सा ॥ २९ ॥
स्वातन्त्र्याद्दुर्न्निवारैव स्वतन्त्रः⁷ केन वार्यते ।
अविद्या किं पश्यन्त्याः स्वधर्मः, उत परधर्मः ? स्वधर्मत्वे तस्या
अविद्यास्वभावत्वे मालिन्यं स्यात्, परधर्मत्वे वा कस्य परस्यासौ
धर्मः । न ह्यद्वयवादे⁸ ब्रह्मणः कश्चिदर्थः परोऽस्तीति शास्त्रेऽभीष्टः ।
अथाविद्या स्वतन्त्रैव, न तु कस्यचिद्धर्मभूता, तथापि सा दुरुच्छेदेव
स्वातन्त्र्याद्धेतोः स्यात् । स्वतन्त्रो हि केनान्येन निवार्यते, केन वा
प्रवर्त्यते, तथाहि स्वतन्त्र एव न स्यात् । अतः प्रवृत्तौ स्वतन्त्रा निवृत्तिः
पुनरस्याः परकार्यापि स्यात्, तन्निवृत्तिकारणाभावमुखप्रेक्षिप्रवृत्तिकत्वेना-
स्वातन्त्र्यापत्तेः ॥ २६ ॥
अवाच्यत्वमविद्याया⁹ विमृशन्नाह--
¹⁰तत्त्वान्यत्वैरवाच्या¹¹ वा यद्यविद्याभिधीयते ॥ ३० ॥
१ एतदेव ह्यविद्याया अविद्यात्वं, यदनपेक्ष्यैव प्रयोजनं सृष्टिः ।
२ विवेचयन् । ३ धर्मः स्वभावः, स्वभावश्च स्वभाविनोऽव्यतिरिक्तः ।
४ अस्याः पश्यन्त्याः । ५ सा अविद्या । ६ पक्षद्वययोरनुपपत्ताह--परश्च
तस्या नाम न कश्चिदित्याह शास्त्रानिष्टस्येति, शास्त्रानिष्टस्य-शास्त्रेऽनभि-
हितस्येत्यर्थः । ७ एतदेव हि स्वतन्त्रस्य स्वातन्त्र्यं नाम, यदन्येनानिरा-
करणम् । ८ अस्तु परो नाम, तथापि किमित्यत आह नहीति । ९ ननु अत
एवेयमविद्या सत्त्वासत्त्वतदन्यत्वादिनानिर्वचनीयेति कथ्यते । यद्येतादृग्वि-
चारयोग्या स्यात्, तदा केनानिर्वाच्यत्वं स्यादायोग्यत्वे त्वनिर्वाच्यता
सिद्धेत्यपि समर्थयति । १० अविद्या हीयमवस्तुरूपा माया मिथ्यावभास-
स्वभावाभिधीयते तत्त्वाग्रहणं यतोऽविद्या, अग्रहणं च नाम कथं वस्तुधर्मे-
र्विकल्प्येत तदेतदाह तत्त्वान्यत्वैरिति । अत्राश्रयगतं बहुत्वमपेक्ष्य बहुवचनं
ततस्तत्त्वान्यत्वाभ्यां नित्यत्वानित्यत्वव्यापकत्वाव्यापकत्वपरिग्रह इत्यर्थः ।
११ अवस्तुरूपत्वात् ।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ४३
पश्यन्त्या लक्षितासौ वा न वा यदि न लक्षिता ।
पश्यन्ती जाड्यमायाति¹ लक्षिता तर्हि लक्षिता ॥ ३१ ॥
वस्तूनि हि तत्त्वान्यत्वनित्यत्वानित्यत्वादिभिर्वस्तुधर्मैर्वाच्यानि ।
अवस्तु पुनरविद्या निःस्वभावा कथं स्वभाववत्तया व्यपदेशार्हा
स्यादिति चेत्, तद्वस्तुभूता सा पश्यन्त्या दृष्टा न वा । यदि न दृष्टा,
तर्हि पश्यन्ती जाड्यमायाति सर्वदर्शनाभावादपश्यन्ती स्यादित्यर्थः ।
अथ तया दृष्टा, तत् दृष्टैव उपलक्षितैव अपरविवेकेनैव प्रतिभातत्वात्
तदनुसारितया वाच्यापि भवेदिति यावत् । तत्त्वान्यत्वैरिति बहुवचनं
शौण्डार्धर्चादिन्यायेन² ॥ ३१ ॥
अवाच्यत्वेनापि अव्यवहार्यता तस्याः स्यादित्याह--
अवाच्यत्वेन भवतां तस्या रूपं कुतो गतम्³ ।
अलक्षितस्वरूपाया अविद्यात्वं कथं स्थितम् ॥ ३२ ॥
अलक्षितत्वे⁴ सति अवाच्यत्वेनापि तदीयं रूपं कुतः प्रमाणाद्भवता-
मवगतं तस्याप्यलक्षितत्वात्, अलक्षितस्वरूपत्वे५ चावाच्यत्ववदविद्यात्वमपि
कथं⁶ व्यवस्थाप्येत ॥ ३२ ॥
अनुमानसिद्धतां⁷ कल्पयन्नाह--
भेदबुद्ध्यनुमानाच्चेल्लक्षिता⁸ तर्हि लक्षिता ।
१ स्वभावप्रच्युतत्वात् । २ 'सप्तमी शौण्डैः । अर्धर्चाः पुंसि च ।'
इति पाणिनीये यथा बहुत्वेनाश्रयगतं बहुत्वं लक्ष्यते यथा शौण्डादय
अर्धर्चादय इति च । ३ अत्र गतमित्यत्र 'बुध अवगमने' इति ज्ञापकात् 'सर्वे
गत्यर्था ज्ञानार्थाः' इत्यानुशासिकशासनेन ज्ञानार्थतया मतिबुद्धीत्यादिना
क्तप्रत्यये, भवतामिति कर्तरि षष्ठी । ४ यदि भवद्भिर्विभीषिकयावाच्यत्व-
मिति तस्या गीयते, तद् लक्षितत्वे कथं, लक्षित एव तद्व्यपदेशोऽपि युक्तः ।
५ नामस्वरूपयोर्द्वयोरलक्षितत्वे निरास इत्यर्थः । ६ कथं केनानुभवप्रकारेणे-
त्यर्थः । ७ ननु केनेदमुक्तं कुतः प्रमाणादिति, अस्ति हि प्रत्यक्षतो बलवत्तर-
मनुमानं नाम प्रमाणं--तथाहि नदीपूरभेदेनालक्षिताया अपि वृष्टेरनुमानं
यथा, तथा अक्रमेऽखण्डितशब्दात्मकज्योतिःस्वरूपे भावभेदक्रमस्यान्यथानुपपत्त्या
भवितव्यमेवानुमानेनात्रापीति समर्थयत्यनुमानसिद्धतामिति । ८ भेदज्ञानं
हि कुतेऽविद्यां विना संभवेदिति ह्यविद्या संभवत्येव ।

४४ शिवदृष्टिः [ आ०-२
भावभेदसिद्धयन्यथानुपपत्त्या तथात्वेनाविद्या१ यदि लक्षिता
अनुमितेत्यर्थः । एवं तर्हि लक्षितैव, तत्किमित्यलक्षितत्वमुच्यतेऽस्या
अवाच्यत्वं वा ॥
एवमपि२ न सिद्ध्येत्याह--
न चानुमानमिष्टं तेऽप्यवस्थेत्यादिदूषणात् ॥ ३३ ॥
न चापि भवतोऽनुमानं सम्यग्ज्ञानमिष्टम्--
'अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिषु ।
भावानामनुमानेन प्रसिद्धिरतिदुर्लभा ॥'
( वाक्य प० १ । ३२ )
इति,
'हस्तस्पर्शादिवान्धेन विषमे पथि धावता ।
अनुमानप्रधानेन विनिपातो न दुर्लभः ॥' ( १।४२ )
इति चान्यच्च वदतः । नहि वस्तुव्यवस्थापने शक्ततायां प्रत्यक्षात् न्यूनता
तस्य स्यात्, अशक्ततायां तु अप्रामाण्यमेव ॥ ३३ ॥
१ तत्कारणतया । २ एवमनुमानकल्पनायामपि । ननु चास्तु तस्याः
कार्यावस्थायां लक्षितत्वं यतो भावभेदानुपपत्त्यैव तत् कल्पितं, कारणा-
वस्थायां च तस्यां अलक्षितत्वमेवेति सिद्धेऽपि तत्रालक्षितत्वे पूर्वोक्तमेव
दूषणं, लक्षितत्वेऽवाच्यत्वहानिरिति, यत्पुनरलक्षितलक्षितत्वं नामानुमान-
कल्पितं, तत्र--
'अर्थवत्त्वं न चेज्जातं मुख्यैर्यस्य प्रयोजनैः ।
तस्यानुषङ्गिकेष्वाशा कुशकाशावलम्बनम् ॥'
इति नयेनानुभानस्यैव भवन्मतेऽनुपपत्तिता, येनार्धजरतीयन्यायेन लक्षिता-
लक्षितत्वं सिद्ध्येदित्याह--एवमपीति ।
'बहुकृत्वोऽपि वस्त्वात्मा तथैति परिनिश्चितः ।
देशकालादिभेदेन दृश्यते पुनरन्यथा ॥'
तथा
'ये तु प्रत्यक्षतो विश्वं पश्यन्ति हि मवादृशाः ।
किं दिव्यचक्षुषां तेषामनुमानप्रयोजनम् ॥'

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ४५
सत्या वा स्यादसत्या वा न मध्यायाः१ समन्वयः ।
विद्या२ न भवतीत्येवं तत्तुल्या काचिदापतेत् ॥ ३४ ॥
सत्यैव यदि विद्यानामभावस्तर्हि३ शून्यता ।
शून्यया बाध्यते चित्रं पश्यन्ती दर्शनात्मिका । ३५ ॥
सत्या सति सत्ये साधुः सती वा स्यादविद्या, असत्या तद्विपरीता
वेत्यर्थः । न मध्यायाः संभवः सदासतोः परस्पराभावरूपत्वान् न तृतीय-
राशिसंभवो यतः । तथा हि इयमविद्या विद्या न भवति,-इत्येवं विद्यापर्यु-
दासेन४ समस्तविश्वात्मतया प्रथमाना न प्रतिषेधमात्ररूपा, अतश्च विद्या-
सदृशी काचिद्विश्वात्मिका स्यादविद्या सत्यैव, अतश्च नानिर्वाच्यत्वं,
नाप्यद्वयम् । विद्यानां सम्यग्ज्ञानानामभावः प्रसज्यप्रतिषेधोऽपि५ यद्यविद्या,
तत् सा शून्यता निवृत्तिमात्रं न किञ्चिदिति यावत् । ततश्च शून्यया नीरूपया
पश्यन्ती नाम सम्यग्ज्ञानात्मकः पक्षो बाध्यते इति चित्रम् । सम्यग्दर्शन-
१ मध्याया इति--सदसदुभयात्मिकायाः--
‘असत्त्वे च निषिद्धेऽस्याः सत्त्वमेव बलाद्द्भवेत् ।
सदसद्व्यतिरिक्तो हि राशिरत्यन्तदुर्लभः ॥’
इति । २ सत्या वासत्या वा इति पक्षद्वयामाशङ्क्य निरस्यति विद्या
नेत्यादिना सत्यतापक्षं, यदीत्यादिनासत्यतापक्षम् ।
३ प्रतिषेधपक्षमाश्रित्याह-तर्हीति ।
४ 'प्राधान्यं तु विधेर्यत्र प्रतिषेधेऽप्रधानता ।
पर्युदासः स विज्ञेयः क्रिया सह यत्र नञ् ॥'
इति पर्युदासलक्षणम् । तथाचान्यत्र ‘नञ्युक्तं यत्, तदन्यस्मिंस्तत्सदृशे
संघटते’ यथा-अब्राह्मणमानयेति वाक्ये ब्राह्मणसदृशस्तत्तुल्योदरपाणिपाद-
नयन एवानीयते, नाश्वो न वा गर्दभ इति ।
५ प्रतिषेधमात्रप्रधानः प्रसज्यप्रतिषेधः । तथाचोक्तं--
‘अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता ।
प्रसज्यप्रतिषेधोऽसौ यत्रोत्तरपदेन नञ् ॥’
इति । तथा-अश्राद्धभोजी ब्राह्मणः श्राद्धे न भुङ्क्ते इत्यर्थः । उक्तं च वृद्धैः
‘अभावे स्वल्पभावे च सादृश्ये च विपर्यये ।
कुत्सायामपि नञ् ज्ञेयो रिष्टादौ च शुभोक्तिषु ॥’
इति ।

४६ शिवदृष्टिः [ आ०-२
बाधेनैव द्वैतभ्रान्तिः, अकिञ्चिद्रूपस्य बाधनशक्त्यभावान्न संभवत्येतदित्यर्थः ।
पश्यन्ती च नेश्वरप्रत्यभिज्ञोक्तन्यायेन शब्दनात्मिका परमेश्वरशक्तिरिष्यते
भवद्भिरीश्वरोपगमप्रसङ्गात्१, अपि तु सूक्ष्मो वाच्याभेदेन स्थितो वाचकः
शब्द इत्येवं शब्दात्मासौ ॥ ३५ ॥
इन्द्रियत्वाभावेऽपि पाण्यादि२ यथा पार्थिवत्वान्न परमार्थः, तथा
वायवी वागपीत्याह--
पाण्यादेश्चेद्धराद्यात्मा३ वाचो वाय्वात्मता न किम् ।
सिन्धुशब्दादिवच्छब्दो न पश्यन्त्यादिके४ भवेत् ॥ ३६ ॥
न शब्दमात्रं पश्यन्तीमध्यमादौ स्थातुमुत्सहते समुद्रघोषादिरिव तथा
तत्रादर्शनात् ॥ ३६ ॥
न पश्यन्त्याः सत्यभूताया अविद्यया बाधनम्५, अपि तु मध्यमाया
इत्याह--
अथ मध्यमया बाह्या७ भावा ग्राह्या ह्यविद्यया ।
तस्या एव हि संयोगो बुद्ध्या संकल्पनात्मना ॥ ३७ ॥
मध्यमाख्यया वाचा बाह्यत्वेन भेदेनाभास्यमाना भावा
अविद्यावशात् ग्राह्याः । तस्या एव संकल्पनात्मना अर्थावसायरूपया८
१ भवतां हि नेश्वरोपगमः अविद्यावादकल्पनात् । २ इत्थं वाच
इन्द्रियत्वमभ्युपगम्य परवादिमतं निरस्तम् । अथेदानों कारणानुगमतया
तदेव निरस्यति पाण्यादेरित्यादिना । ३ धरादितत्त्वं पाण्यादेरात्मा
स्वभावो न ब्रह्मतयाभ्युपगम्यते, तथा वागपीति । ४ पश्यन्त्यादित
इति पश्यन्ती आदिः प्रधानं यस्येति सार्वविभक्तिकस्तसिल् । ५
अविद्याकर्तृका बाधा न पश्यन्तीविषय इत्यर्थः, ततश्च न पश्यन्त्यां
काचित् क्षतिः । ६ तदेवं पश्यन्त्यां न कथंचनापि ह्यविद्यायोग इति
समर्थितं द्वैतप्रथा चाभासमाना कथं सिद्धेत्यर्थानुरोधेन यतो द्वैतप्रथा
मध्यमायामेवाभासते, ततोऽस्या एव तद्योगे न काचनानुपपत्तिर्नाम, तस्याः
स्वरूपज्योतीरूपत्वादस्याश्च स्फुटमेव संजल्परूपत्वादित्याह पूर्वपक्षमा-
शङ्कमानत्वेनाथेत्यादि । ७ बाह्यत्वेन भास्यमानाः । ८ पश्यन्त्यां हि
स्वरूपज्योतीरूपायां सर्वात्मनार्थोऽपि तन्मय एवेत्यतो मध्यमायां पदार्था-
वसायरूपत्वेनान्तःसंजल्पाकारेणावश्यमविद्यायोग इत्यर्थः ।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ४७
बुद्ध्या सम्बन्धोऽन्तःकरणे प्राणापानपथे तस्या एवावस्थानात्, न तु
पश्यन्त्याः१ ॥ ३७ ॥
इतदपि२ नेत्याह—
तत्रापि मध्यमा कस्य कार्यं पश्यन्त्यवस्थया।
सा जन्या३ हेतुना केन शबलां जनयेदसौ ॥ ३८ ॥
तत्रापि मध्यमाया बुद्धिपदे वेद्यवेदकद्वैतावभासिनि स्थिताया अविद्या-
योग इत्यभ्युपगमे मध्यमा४ वाक् कदाचिद्भावात् कार्यभावात्--
'वाच एव च पूर्वस्याः सा कार्या स्यात्...।'
इति न्यायेन अन्यकारणाभावात्५ पश्यन्त्यवस्थयैव६ सा जन्या प्राप्ता७।
एवं च सति केन हेतुना तां मध्यमां शबलां भिन्नग्राह्याच्छुरितामसौ८
शुद्धस्वभावा९ सती जनयेत् ॥ ३८ ॥
न कथञ्चित्तज्जननं१० युक्तमित्याह--
नहि तस्या११ निमित्तं वा कारणं समवायि१२ वा।
निमित्तत्वे१३ पृथक्त्वं स्यात्समवाये तदात्मता ॥ ३९ ॥
असावित्यनुवर्तते। असौ पश्यन्ती तस्या१४ निमित्तमात्रं१५ कारणं
१ नत्विति तदुत्तीर्णस्वरूपायाः। २ इत्थं पश्यन्त्यसमर्थनया संकु-
चितेन प्रतिवादिना मध्यमाकृत एवायमविद्यावाद इति गृहीतं, तदसहमान
आह एतदपि नेति। ३ व्यतिरिक्तकारणाभावात्। ४ अत्रेत्थं व्याप्तिः-
मध्यमा वाक् कादाचित्कावभासमयीत्यात् कार्यैव। यत्किंचित्कादाचित्का-
वभासमयं नास्ति, तत्कार्यमपि नास्ति। अस्ति चेयं कादाचित्कावभासा-
भावा पश्यन्ती, न ततः कार्यरूपेति। मध्यमा पुनः कादाचित्कावभासा,
ततश्च कार्यरूपेत्यर्थः। ५ भवद्भिरपि द्वैतवादाभ्युपगमानभिमतत्वात्।
६ नत्वविद्यया। ७ भवदनभिमतावपि बलादेवायाता। ८ कृतोपरागाम्।
९ शुद्धस्वभाववत्त्वमेवात्राभेदे हेतुः। १० इत्थं तत्कार्यता न कथंचन
मध्यमाया युक्ता, तत्कार्यत्वे कारणसदृशं कार्यमिति नीत्या विलक्षण-
स्वभावतानुपपत्तिः, तदकार्यत्वे कारणान्तरं कथनीयं, न च तदिष्टं तदभावा-
देव, द्वैतापत्तिर्हि तथा स्यादिति। ११ तस्यः-मध्यमायाः। १२ पश्यन्ती।
१३ तद्बाधामाह-निमित्तेति। १४ तस्याः-कार्यत्वेन पूर्वप्रक्रान्तायाः।
१५ यत्कार्यसिद्धौ बहूपकारकमसंबद्धं च, तन्निमित्ताख्यं कारणं यथा
पटोत्पत्तौ वेमादि।

विजातीयम्१, नापि समवायिकारणं सजातीयतयाविभागेन वा स्थितं,
निमित्तमात्रत्वे द्वैतापत्तिः२, समवायित्वे३ तु क्षीरस्येव दध्युपादान-
कारणत्वे सति उपादानोपादेययोरेकप्रवाहरूपत्वेनाभिन्नयोगक्षेमता४
प्राप्ता, कालभेदेऽप्यन्यथात्वातथात्वं५ न स्यात् । पटं प्रति तन्तूनामिव
वा समवायित्वे पश्यन्तीमध्यमयोस्तन्तुपटवदभिन्नात्मता६ भेदेना-
प्रथनात् ॥ ३६ ॥
ततश्च दोषमभिधाय द्वये७ पश्यन्तीतवमप्यनुपपन्नमित्याह--
तथाप्यविद्यया८ योगः पश्यन्त्यात्मानमेव चेत् ।
अन्धमूकं जगद्बाह्ये सर्वमेव भविष्यति९ ॥ ४० ॥
इन्द्रियादेर्मनोवृत्तेः१० सर्वस्या एव लोपिता ।
पश्यन्त्या मध्यमाया सहैकयोगक्षेमत्वेन ऐक्येन वा मध्यमाया
इवाविद्यायोगदोषः शुद्धताहानेः । अथ शुद्धैव पश्यन्ती यतो न भेदेनार्थान्
पश्यति अपि त्वात्मरूपान् ततो नाविद्यायोगदोषस्तस्या इति । एवं सति
मध्यमाया अपि तदभेदात्, तथात्वे बाह्ये भिन्नेऽर्थजाते अन्धमज्ञम्
अश्रवणाच्च उच्चाराद्यव्युत्पत्तेः मूकमपि सर्वमेव जगत् भविष्यति११
१ कार्येणासदृशम् । २ कार्यकारणयोः पृथक्स्थितत्वात् । ३
यत्कार्योत्पत्तौ नित्यमेव संबद्धं तत् समवायिकारणं-यथा घटोत्पत्तौ
मृत्तिका, दध्न वा क्षीरम् । ४ स्वरूपेण स्थितियोगः, अर्थवत्तया स्थितिः
क्षेमः । ५ द्वन्द्दान्ते श्रूयमाणः शब्दः प्रत्येकमभिसंबध्यत इति शासनेनान्य-
थात्वं तथात्वं न स्यात्, क्षीराद्दध्नो नान्यथात्वं, नापि तथात्वमित्यर्थः ।
तथा पश्यन्त्या मध्यमाया नान्यथात्वं, नापि तथात्वमित्यर्थः । ६ तन्तु-
पटयोरुभयोरऽपि कार्योत्पत्तावपि न स्वरूपान्यथाभावोऽत्र । पूर्वत्र तु
कार्योत्पत्तौ स्वरूपान्यथाभावः परिणामभावेनास्त्येवेत्यनयोर्विशेषः । ७
द्वये-पूर्वोक्ते पक्षद्वयेऽपि । ८ तथापीति, समवायित्व इत्यर्थः । तथा च
पश्यन्त्याः शुद्धताहानिः । यदि च पश्यन्त्याः शुद्धत्वमेव, तर्हि तेनापि
प्रकारेण दोषमाह । ९ भवन्मताश्रयणे । १० प्रत्यक्षबाधामस्यार्थस्याह-
इन्द्रियादेरिति । ११ तदेवं पश्यन्तीमध्यमोभयमुख्यगौणभावेन संबन्धो योज्यः,
यदि चैक्ये पश्यन्तीमाहात्म्यमेव पोस्फुरीति, तर्ह्यविद्याकालुष्ये भेदप्रथाया-
मपि सर्वत्र तज्ज्योतिर्भावात् कथं व्यवहारोपपत्तिः । अथाविद्यामाहात्म्यान्न
पश्यन्ती स्वरूपमहो रूपा वरीवर्ति, किंतु मध्यमा, तत्पश्यन्त्याः स्वरूप-
प्रच्युतेर्न तथात्वमित्युभयथापि दोषाभ्युच्चयः ।

४८ | शिवदृष्टिः | [ आ०-२

विजातीयम्¹, नापि समवायिकारणं सजातीयतयाविभागेन वा स्थितं,
निमित्तमात्रत्वे द्वैतापत्तिः², समवायित्वे³ तु क्षीरस्येव दध्युपादान-
कारणत्वे सति उपादानोपादेयोरेकप्रवाहरूपत्वेनाभिन्नयोगक्षेमता४
प्राप्ता, कालभेदेऽप्यन्यथातथात्वं⁵ न स्यात् । पटं प्रति तन्तूनामिव
वा समवायित्वे पश्यन्तीमध्यमयोस्तन्तुपटवदभिन्नात्मता⁶ भेदेना-
प्रथनात् ॥ ३६ ॥
ततश्च दोषमभिधाय द्वये⁷ पश्यन्तीत्वमप्यनुपपन्नमित्याह--
तथाप्यविद्यया⁸ योगः पश्यन्त्यात्मानमेव चेत् ।
अन्धमूकं जगद्बाह्ये सर्वमेव भविष्यति⁹ ॥ ४० ॥
इन्द्रियादेर्मनोवृत्तेः¹⁰ सर्वस्या एव लोपिता ।
पश्यन्त्या मध्यमया सहैकयोगक्षेमत्वेन ऐक्येन वा मध्यमाया
इवाविद्यायोगदोषः शुद्धताहानिः । अथ शुद्धैव पश्यन्ती यतो न भेदेनार्थान्
पश्यति अपि त्वात्मरूपान् ततो नाविद्यायोगदोषस्तस्या इति । एवं सति
मध्यमाया अपि तदभेदात्, तथात्वे बाह्ये भिन्नेऽर्थजाते अन्धमज्ञम्
अश्रवणाच्च उच्चाराद्यव्युत्पत्तेः मूकम्पि सर्वमेव जगत् भविष्यति¹¹


१ कार्येणासदृशम् । २ कार्यकारणयोः पृथक्स्थितत्वात् । ३
यत्कार्योत्पत्तौ नित्यमेव संबद्धं तत् समवायिकारणं-यथा घटोत्पत्तौ
मृत्तिका, दध्नि वा क्षीरम् । ४ स्वरूपेण स्थितियोगः, अर्थवत्तया स्थितिः
क्षेमः । ५ द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकमभिसंबध्यत इति शासनेनान्य-
थात्वं तथात्वं न स्यात्, क्षीराद्दध्नो नान्यथात्वं, नापि तथात्वमित्यर्थः ।
तथा पश्यन्त्या मध्यमाया नान्यथात्वं, नापि तथात्वमित्यर्थः । ६ तन्तु-
पटयोरुभयोरऽपि कार्योत्पत्तावपि न स्वरूपान्यथाभावोऽत्र । पूर्वत्र तु
कार्योत्पत्तौ स्वरूपान्यथाभावः परिणामभावेनास्त्येवेत्यनयोर्विशेषः । ७
द्वये-पूर्वोक्ते पक्षद्वयेऽपि । ८ तथापीति, समवायित्व इत्यर्थः । तथा च
पश्यन्त्याः शुद्धताहानिः । यदि च पश्यन्त्याः शुद्धत्वमेव, तर्हि तेनापि
प्रकारेण दोषमाह । ९ भवन्मताश्रयणे । १० प्रत्यक्षबाधामस्यार्थस्याह-
इन्द्रियादेरिति । ११ तदेवं पश्यन्तीमध्यमोभयमुख्यगौणभावेन संबन्धो योज्यः,
यदि चैक्ये पश्यन्तीमाहात्म्यमेव पोस्फुरीति, तर्ह्यविद्याकालुष्ये भेदप्रथाया-
मपि सर्वत्र तज्ज्योतिर्भावात् कथं व्यवहारोपपत्तिः । अथाविद्यामाहात्म्यान्न
पश्यन्ती स्वरूपमहो रूपा वरीवर्ति, किंतु मध्यमा, तत्पश्यन्त्याः स्वरूप-
प्रच्युतेर्न तथात्वमित्युभयथापि दोषाभ्युच्चयः ।

२. तृतीय-चतुर्थ आह्निक: शक्ति-विमर्श, शब्द-ब्रह्म एवं व्याकरण-दर्शन मत निराकरण

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ४६
यदि तन्मतमाश्रयिष्यति, न तु¹ इदानीमेवमस्तीति प्रत्यक्षविरुद्धता-
मस्योपगम्याह--चक्षुरादि² इन्द्रियमादिः प्रवर्त्तको यस्यास्तस्या मनोवृत्तेः
सर्वस्याश्चक्षुरादिसहिताया³ भिन्नार्थविषयाया विलोपिता अनुपयोगिता च
प्रत्यक्षविरुद्धापि भविष्यति ॥ ४० ॥
पुनरन्यत्पर्यालोचयन्नाह⁴--
पश्यन्ती किं शरीरेऽन्तर्बहिः सर्वत्र वा स्थिता ॥ ४१ ॥
अन्तरव्यापिता तस्या बाह्ये किं मध्यमादिना⁵ ।
पश्यन्ती किं शरीरेऽन्तरहन्ताभूमौ, किंवा बहिरपीति सर्वत्र
स्थिता । पूर्वस्मिन्कल्पे⁶ परिमितत्वं, द्वितीयस्मिन् मध्यमायां कक्ष्या-
यामिदन्तावेद्यमध्यमपि व्याप्त्यवस्थानात्⁷ किं मध्यमावैखरीरूप-
वाक्प्रभेदेन ॥ ४१ ॥
प्रसरेन्नादबिन्द्वादिसापेक्षा चेदनीश्वरी⁸ ॥ ४२ ॥
पश्यन्ती अनुवर्तमाना प्राणापानरूपबिन्दुनादसापेक्षा चेत्
सर्गसंहारयोः प्रसरेत्, तर्हि तथापि न व्यापिका नाप्यद्वया स्यात् ।
एतदनीश्वरत्वम् ॥ ४२ ॥
प्रतिदेहं पृथक्किं सा सर्वत्रैक्येन वा स्थिता ।
१ प्रत्यक्षावभासे अन्धमूकबधिरम् । २ चक्षुरादिना दृष्टमेव हि
मनसा संकल्पगोचरीकरोति । ३ 'कादीनि व्यञ्जनानि' इतिवत् तद्गुण-
संविज्ञानबहुव्रीह्याश्रयेण चक्षुषोऽपि ग्रहणम् । ४ इत्थमविद्यावादकथन-
निरासपूर्वं मध्यमायास्तत्कार्यत्वं निवार्य, इदानीं पश्यन्तीमेव--
'अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ।
स्वरूपज्योतिरेवान्तःसूक्ष्मा वागनपायिनी ॥'
इति लक्षणे यदेतत्स्वरूपज्योतिरेवान्त इति भागद्वयं, तत्र दोषोद्भावनाया-
वतारयति पुनरन्यदित्यादिना । ५ तस्यापि तत्स्वरूपत्वेनाप्रच्युतेः । ६
कल्पे-प्रकारे । ७ अन्यत्राप्यनुसरणं व्याप्तिरिति । ८ ननु सत्यमेवैतन्मध्य-
मादिष्वपि पश्यन्तीव्याप्तिरस्तीति, संजल्पादिसापेक्षत्वात्पश्यन्त्या अपि परं
मध्यमादिव्यपदेशः, अत एवास्याः सापेक्षत्वाद्धेतोर्मध्यमेति निर्देशः न तु
स्वरूपेण, पश्यन्त्यां तु स्वरूपेण स्फुटमस्त्येवेति शंकापूर्वं निरस्यति अनी-
श्वरीत्यादिना ।
४

५० शिवदृष्टिः [ आ०-२
नानात्वं तत्पृथक्त्वेन तदैक्यात्समशब्दता १ ।। ४३ ।।
शरीरैः प्रविभागश्चेत्तान्यसत्यानि ते स्थितिः २ ।
सा च पश्यन्ती प्रतिदेहं पृथग्भूता वा स्यात् सर्वदेहेष्वेकैव वा।
पृथक्त्वे बह्व्यः पश्यन्त्यः स्युः, ततश्च नाद्वैतम्, ऐक्ये सति सर्वदेहि-
नामेकपश्यन्तीयोगादेकत्रापि वक्तरि तत्पूर्वकप्रयत्नप्रेरितप्राणाभिहत-
स्थानोत्थितः शब्दविशेषो यः, स एव सर्वेष्वपि तूष्णीमासीनेष्वपि उच्च-
रितः स्यात्, अन्यथा क्वचित्तादृशकार्याकरणात् तस्य स्वभावभेदापत्ते-
रैक्यं न स्यात् । अथैकत्वेऽपि शरीरोपाश्रयः प्रविभागः स्फटिकस्येवेति ३ ।
तन्न, तान्यसत्यानि इति तव दर्शने ४ व्यवस्था । न चासत्यमकिंचिद्रूपं
क्वचिदुपयोगि भवतीत यावत् ।। ४३ ।।
अविभागेत्यादिकेन ५ लक्षणेन सुलक्षिता ।। ४४ ।।
पश्यन्ती यदि वर्ण्येत लक्षणं तद्विलक्षणम् ।
पश्यन्ती च--
'अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ।।'
इत्यादिना लक्षणेन सुष्ठु अव्याप्त्यतिव्याप्तिपरिहारेण ६ लक्षिता यदि
उच्येत, तल्लक्षणमेतद्विलक्षणमतिशोभनमित्युपहासः ७, यतो विलक्षणं लक्ष-
णस्य यल्लक्षणं तद्विग्मात् ।।
तदाह--
अविभागा कथं सा स्याद्यतः पश्यन्त्यसौ स्मृता । ४५ ।।


१ सत्यमेवैतदैक्यमेव परमार्थतः, समशब्दताभावश्च शरीरभेदेनेति
भावः । २ स्थितिः--शास्त्रनियमः । ३ यथा स्फटिकरत्नं स्वरूपत
एकमपि तत्तद्रागोपरागेण भेदेनावभासते, तथा पश्यन्त्यपीत्यर्थः--
४ 'विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ।'
इतिनयेन । ५ ननु क एवमाह पृथक्त्वे बह्व्य इति, ऐक्ये वा समशब्दता
यतोऽविभागैव पश्यन्ती, तथा च किमिदं पृथक्त्वं नाम, ऐक्यं नाम वेति, न
कोऽपि दोषकण इति पूर्वपक्षप्रत्यवस्थानात्पूर्वमाचष्टे अविभागेत्यादि ।
६ लक्ष्ये लक्षणैकदेशपतनमव्याप्तिः, अलक्ष्ये लक्षणपतनमतिव्याप्तिः । ७
विलक्षणं विशिष्ठलक्षणमुपहासेन, तथा परमार्थतो विरुद्धलक्षणं तथा
विलक्षणं लज्जावहमिति च ।।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता
यत एव पश्यन्ती असौ विभक्तदृश्यार्थोन्मुखी स्मृता, ततः कथम-
विभागा स्यात् यतो लक्ष्यलक्षणपदयोरन्योन्यविरहः ॥ ४५ ॥
तथाहि—
यानि¹ पश्यति किं स्वाक्यरूपदिक्कालभागशः ।
अतथा यदि पश्यन्ती मिथ्या पश्यन्त्युदाहृता ॥ ४६ ॥
यथारूपेण² पश्यन्ती निर्विभागा कथं भवेत् ।
स्वकेन³ स्वकेन रूपदिक्कालभागेन किं दृश्यवस्तूनि पश्यति यानि
द्रष्टुं प्रवृत्तेत्यध्याहारः । युक्तं⁴ ह्येतत्, यदि पुनरतथा विपर्ययेण⁵
पश्यन्ती भवति, तन्मिथ्या⁶ अज्ञानरूपा पश्यन्ती अथवा मिथ्या पश्यन्त्यु-
दाहृता पश्यन्तीत्यर्थः । अविभक्ता तु तदा⁷ स्यात् भिन्नदृश्यवस्तव⁸-
भावात् । पश्यन्तीत्वानुरोधात्तु यथास्थितरूपेण स्वरूपानतिक्रमेण वा
पश्यन्ती विभक्तदृश्यवस्तुयुक्ता निर्विभागा कथं भवेदित्युक्तम् । स्वकमेव
स्वाक्यम्९ ॥
१ यदुक्तं लक्ष्यलक्षणपदयोर्विरहः, लक्ष्यपदं पश्यन्ती, लक्षण-
पदमविभागेत्यादि लक्षणं हि लक्ष्यसिद्धये प्रयुज्यते तद्विरहात्प्रत्युत
विरोधावहं, तदाह यानि पश्यतीति । पश्यन्ती सकर्मकत्वाद्धि
किंचित्कर्माक्षिपेत्येव । तच्च कर्मरूपं दृश्यं यदि तद्दृश्यवस्तुस्वरूपतद्देश-
तत्कालभागमवलम्बते, तर्हि तस्य दृश्यस्य सम्यग्ज्ञानरूपत्वाद्भवदभ्युपगता
पश्यन्ती युक्तैवः परंतु तत्र लक्षणविगमः तत्तद्दृश्यदेशकालस्वरूपत्वेन
सविभागत्वान्निर्विभागा कथं संभसतीत्यर्थः । लक्षणव्यवस्थार्थं पुनराह
अतथेति, न स्वकस्वरूपदेशकालसहितानि वस्तूनि पश्यति येन निर्विभागता-
पवादः, किंतु तत्तद्देशकालरहितमेवेति चेत्तर्हि लक्षणाविगमेऽपि लक्ष्यस्यैवा-
संभवादलं तेन । तथाहि स्वरूपदेशकालरहितं हि मिथ्याज्ञानं, तदुपादा-
नात्सापि मिथ्येत्यर्थः । २ पश्यन्तीति निर्देशात् । ३ तत्तद्दृश्यस्य । ४
सम्यग्ज्ञानस्यैव युक्तात्वात् । ५ न स्वकेन रूपदेशकालेन । ६ प्रथमे नियमे
मिथ्येति पृथक्पदन्, द्वितीये समुदायेन । तत्र द्वितीयस्य पश्यन्तीशब्दस्याध्या-
हारः कर्तव्यः । ७ तदेति तत्तद्दृश्यानामस्वीयरूपादिग्रहणकाल इत्यर्थः ।
८ पश्यन्ती हि ज्योतिरूपत्वान्न मिथ्याज्ञानप्रत्यवमर्शात्मिकेति । ९ स्वाक्य-
मित्यत्र स्वार्थे ष्यञ्प्रत्ययः ।

५२ शिवदृष्टिः [ आ०-२
भविष्यन्तं¹ वर्तमानं कथं पश्यन्त्यनागतम् ॥ ४७ ॥
अन्यदिग्देशगेनान्यदिग्देशे सत्यदर्शनम् ।
योग्यदेशस्थवर्तमानार्थानुभवितृत्वेन तावत् सर्वप्रमातॄणां स्वा-
त्मन्यनुभवः । तत्र भविष्यन्तमर्थं तदनागतमप्राप्तमेव कथं वर्तमानं
वर्तमानत्वे पश्यन्ती स्यात् सम्यग्रूपेत्यर्थः । तथा अन्ययोग्यदेशस्थितेऽ-
न्ययोग्यदेशस्थेन सत्यदर्शनं सम्यग्दर्शनरूपा पश्यन्तीत्यर्थः³ । तथान्य-
दिग्देशकालगतेन ज्ञानेनान्यदिक्कालगते सति विद्यमानेऽर्थे न दर्शनम् ।
ततश्च कथं वर्तमानं योग्यदेशस्थमेव पश्यन्ती भविष्यन्तमनागतमसंप्राप्त-
मन्यदेशस्थितं च पश्यन्ती स्यात् । सर्वदर्शिनी चेष्यते सा, देशकालावत्र⁴
परस्परोपलक्षणे ॥
अथ⁵ साधारणं ज्ञानं तादृक्किंचन⁶ पश्यति ॥ ४८ ॥
तथापि⁷ तद्विभेदेन भेदता तदभेदतः ।
न किंचन गृहीतं स्यात्तथान्या संहृतक्रमा ॥ ४९ ॥
१ इदानीं यत्पूर्वमुक्तं—
'वर्तमानसमारूढा क्रिया पश्यन्त्युदाहृता ॥ '
इति, तत् समर्थयति । तथा यदुक्तं स्वस्वरूपादिग्रहणे कथं निर्विभागेति यतो
भविष्यन्तमेवार्थं वर्तमानत्वेन गृह्णाति, ततश्च दृश्यस्य स्वरूपाद्युत्तीर्णत्वेनैव
भासनात्तल्लग्नत्वाच्च न सविभागत्वं नापि मिथ्याज्ञानवत्त्वमिति दोषद्वय-
रहितं पश्यन्तीस्वरूपं सेत्स्यति, अलमनेन मिथ्यामिथ्यात्वकथनेनेति यदुच्यते
तदपि निर्दलयति भविष्यन्तमित्यादिना २ अप्राप्तस्य वर्तमानत्वे दर्शनं
भ्रान्तिरित्यर्थः । ३ नेति पदमत्रापि योज्यम् । ४ तेन भविष्यन्तं वर्तमान-
मित्यत्र कालनिर्देशोऽपि तथैव देशोऽपि बोध्यः । अन्यदिग्देशग इत्यत्र देशनिर्देशे
च कालनिर्देशोऽपित्यर्थः । ५ अत्राह विशेषज्ञानं हीदं यदत्र भविष्यदादि-
कालव्यपदेशः, पश्यन्ती तु सामान्यरूपा, न तत्र भविष्यदादिव्यपदेशोऽपि
संभवतीत्यकालकलितत्वान्न सत्यदर्शनमज्ञातपराशयस्योन्मत्तभाषणमित्या-
शङ्क्याह अथ साधारणमिति । ६ अत्र यत्तच्छब्दयोरध्याहारः, यदीदृशं ज्ञानं
तदेव पश्यतीति । ७ नीलपीतादिविशेषरहितं नियमरहितं सर्वव्यापकं ज्ञान-
मित्यस्मिन्नपि पक्षे दोषोद्भावनं करोति तथापीत्यादिना । एतद्धि सत्यमेव
साधारणं ज्ञानमस्तीति, तथापि दृश्यमत्र विशिष्टमेवेत्याह तथापीति ।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ५३
देशकालभिन्नार्थग्राहीणि भिन्नान्येव ज्ञानानि सा पश्यन्ती, तेषु¹
साधारणमेकं तादृक्सर्वतज्ज्ञानप्रपञ्चनव्यापारक्षमं किंचनानियतं² परि-
दृश्यमाननीलपीतादिनियतज्ञानोत्तरमस्ति, तत्पश्यति सर्वं पश्यन्तीत्यर्थः ।
तथापि³ असाधारणनीलादिनियतज्ञानानां भेदात् तस्यापि भेदता
भिद्यमानता स्यात्, न तु सामान्यता तेभ्यस्तस्याभेदात्⁴ । तथा⁵ च
सति न किंचनानागतादि गृहीतं स्यात्, अनागतार्थज्ञानाविभिन्ना पश्यन्ती
तदानीमेव तं ग्रहीष्यतीति । अथवा⁶ नीलपीतादिज्ञानवत् भेदता अस्याः
पश्यन्त्याः, तस्या अपि नीलादिकभविष्यद्वर्तमानार्थशबलीकृतत्वात् ।
अथ तस्या न भविष्यदादिशबलता, अपि तु बोधमात्ररूपत्वेनाविभेद
एव, ततस्तदभेदतो न किंचन नीलादि तथा गृहीतं, ततः कथं⁷
पश्यन्ती स्यादिति । अथान्या लक्षणान्तरभेदिता तैः⁸ पश्यन्ती
संहृतक्रमेति ॥ ४६ ॥
संहृतः क्रम इत्यस्यां संहर्ता¹⁰ जायते परः ।
यया क्रमः संहृतो वा किमात्मन्यपरत्र¹¹ वा ॥ ५० ॥
१ भिन्नज्ञानेषु । २ विशिष्टत्वाभावाद्यपदेशानर्हम् । ३ तथापीति, भव-
त्वेतत्साधारणमेव किंचन सर्वं सहं व्यापकं च अत्र पश्यन्तीस्वरूपनिरूपणमेव
सर्वथा संपाद्यं, तच्च कर्मसापेक्षत्वादवश्यं स्वसिद्धये कर्म दृश्यरूपमाक्षिपति,
तस्यां हि विशेषरूपत्वेनैव दर्शनसंभवात्तेषामित्यर्थः । ४ तेभ्यो विशेषेभ्यः,
तस्य सामान्यस्य । ५ तदभेदत इत्यर्थभागं विवृणोति तथातेति । अयं
भावः--विशिष्टज्ञानोदये यदि सा साधारणी तर्हि तदभेदतो विशिष्ट-
ज्ञानोदयेऽप्यतीतानागतादिविशेषाभावात्, ततश्च नानागतावेक्षणमिति
किमत्र दृश्यं नामेति ।
६ 'तथापि तद्भेदेन'
इत्यादि
'नकिंचन गृहीतं स्यात्'
इत्यन्तं द्वितीयार्थेन संगमयति अथवेत्यादिना । ७ कर्माभावादित्यर्थः । ८
शब्दब्रह्मवादिभिः । ९ ननु च पश्यन्ती संहृतक्रमेति ह्यास्याः क्रमसंहार एव
निर्विभागत्वे हेतुः, ततश्च केयं कल्पना नीलादिविशिष्टनियतासाधारणज्ञानानां
भेदात् तस्या अपि भेदतेति तन्निर्दलयितुमाह । १० त्रितयाधीनं हि संहरणं
कर्तृकरणाधिकरणेष्विति तदेव क्रमेणामाह संहर्तेति । केनेत्यपेक्षयावश्यं
परेण भाव्यम् । ११ कस्मिन्नित्यपेक्षायाम् ।

५४ शिवदृष्टिः [ आ०-२
आत्मनः सक्रमत्वं स्यादन्यत्रापरसंगमः ।
किं पूर्वं सक्रमाभूत्सा रूपद्वित्वं प्रसज्यते ॥ ५१ ॥
संहृतः क्रमोऽस्यामिति । एवमितिशब्दो भिन्नक्रमो योज्यः१। एवं
यदि सप्तम्यर्थे पश्यन्त्यात्मनि बहुव्रीहिस्तदा संहर्तान्योऽर्थोऽपेक्षणीयोऽत्रेति
व्याहतम्२ । अथवा तृतीयार्थे३ यया क्रमः संहृतः पश्यन्त्या सा तथा ।
एवं चाधिकरणापेक्षायां किमात्मनि संहृतोऽथापरत्रेति विकल्पः । तथा-
त्मनि क्रमस्य संहरणे योजने सति तस्य सक्रमत्वं स्यात् । अथान्यत्र, तद्-
द्वितीयवस्तुसंबन्धः ततश्च द्वैतापत्तिः । अथात्मन्येव पूर्वं सक्रमया भूतया
पश्चात् क्रमः संहृतो निवारितो नत्वन्यत्र द्वैतापत्तेः, तथापि तस्याः सक्रमा-
क्रमरूपद्वित्वप्रसङ्गः ॥ ५१ ॥
‘अविभागा कथं सा स्याद्यतः पश्यन्त्यसौ स्मृता ।’
इत्यत्र पश्यन्तीत्वादेव दर्शनक्रियाकरणापेक्षया निर्विभागत्वं दूषितं
समर्थ्यमानं परेणाशङ्कते४—
अथात्मना सा स्वात्मानं पश्यन्ती निर्विभागशः ।
भागे करणरूपत्वात्पारतन्त्र्यं जडात्मता ॥ ५२ ॥
आत्मनेवात्मानमेव च पश्यन्ती सा स्थिता निर्विभागशः विशिष्टा-
दत्यन्तपृथग्भूताद्भागान्निष्क्रान्ता कर्मकरणादिशक्तिमात्रेण स्थितेत्यर्थः ।
तत्रापि भागे द्वितीये कारकवशक्त्यात्मनि करणादिरूपत्वात् तस्या एव
पारतन्त्र्यं जडता च प्राप्नोति स्वातन्त्र्यादेव चिद्रूपस्येति । एतदीश्वर-
प्रत्यभिज्ञायां परीक्ष्यम् ॥ ५२ ॥
पर आह—
आत्मानमात्मना हन्ति देवदत्तो यथा तथा ।
भविष्यत्यत्र तत्रास्य स्वांगैरेव विभागिता ॥ ५३ ॥
हस्तादेः करणत्वं हि मस्तकादेश्च कर्मता ।
कर्ता मनःस्वावयवी नामूर्ताया इदं पुनः ॥ ५४ ॥
१ अस्यामित्यनन्तरं योज्यः । २ स्ववचनविरोधो व्याघातः । ३
तृतीयार्थे बहुव्रीह्याश्रयणे । ४ निर्विभागत्वमविभागेत्यादिना दूषितं
‘पश्यन्तीत्वमेव तत् यत्स्वयमेव कर्मकरणादिरूपत्वम्' इति परेण समर्थ्य-
मानमाशङ्कते ।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता। ५५
देवदत्तात्मनि यथा कर्मादिभेदस्तथात्र स्यात्, —इत्येतन्न, देवदत्तस्य
मूर्तत्वेन वितताकारस्य स्वाङ्गैरैव बहुभिरुपगृहीतात्मशब्दाभिधायकै-
विभागः। तथाहि हस्तस्यान्यस्य वावयवस्य शस्त्रादियुजः करणता, मस्त-
कस्य हृदयादेर्वा हन्यमानस्य कर्मता, कर्ता मनोयुक्तः स्व आत्मा स एव
हस्तादिसंबद्धोऽवयवीत्युक्तो यत एव तावत्यात्मभावः। पश्यन्त्याः पुन-
श्चिन्मात्ररूपत्वेनामूर्तया वैतत्याभावात्रावयवापेक्षोऽयं व्यवहारः, ततस्तस्या
एव भागे करणादित्वेन जडतापत्तिरेव ॥ ५४ ॥
पश्यन्त्यदृष्टमात्मानं१ दृष्टं वा दृष्टता२ कथम् ।
पश्यन्त्या दर्शनं दृष्टे३ न च वा ह्युपपद्यते ॥ ५५ ॥
आत्मानं च पश्यन्ती किमदृष्टपूर्वं पश्यति अथ दृष्टम् ? तद्द्वयमपि
न युक्तं यतः पश्यन्त्याः प्रकाशरूपाया अदृष्टत्वमप्रकाशता४ नैव, दृष्टे५
चात्मनि न पुनः दर्शनक्रियाप्रवृत्तिर्युक्ता६। न७ च पश्यन्त्या आत्मा प्रति-
क्षणमन्यो येन प्रतिक्षणमेव दर्शनक्रियाया उपयोगेन वर्तमानता स्यात्,
नापि८ तस्या आत्मनो दिक्कालावच्छेदः ॥ ५५ ॥
पश्यन्तं९ सा किमात्मानं पश्यन्ती जडमेव वा ।
जडे जडत्वमेवास्याः पश्यतो ह्यनवस्थता ॥ ५६ ॥
१ तदेवं ‘अथात्मना सा स्वात्मानम्’ इत्यत्रात्मनेति भागे पारतन्त्र्या-
ज्जडतामुपपाद्य आत्मानमिति कर्मभागं विकल्पति। आत्मानमिति निजमेव
स्वरूपं कर्मरूपशक्तिमात्रेण स्थितं पश्यन्ती कर्तृरूपशक्तिस्थिता पश्यति येन
दर्शनक्रियार्थोऽस्याः घटते। अत्र पश्यन्त्या इति देहलीदीपन्यायेनोभयत्रापि
योज्यम्। तत्र पश्यन्त्या दर्शनं दृष्टता तत्कर्मिकेत्यर्थः, द्वितीये पुनः पश्यन्त्या
दर्शनं पश्यन्तीकर्तृकमित्यर्थः। २ निजरूपस्यैव कर्मशक्तिरूपत्वाद्दृष्टता दर्शन-
क्रियाराहित्यमप्रकाशत्वं कथमित्यर्थः। ३ प्रकाशिते। ‘च वा’ शब्दावत्रानुक्त-
समुच्चयार्थौ। ४ अदृष्ट एव हि दर्शनं युक्तं, अदृष्टत्वं च पश्यन्त्या अयुक्तं
पश्यन्तीत्वात्। ५ अथ दृष्टतैव पश्यन्त्युपरोधादित्याशङ्क्याह दृष्ट इति।
६ अनवस्था हि तथा स्यात्। ७ च शब्दसूचितमनुक्तसमुच्चयार्थत्वं चाह
तच्च यदुक्तं ‘वर्तमानसमारूढा’ इति तं वर्तमानभागमपि विकल्पयति न
चेति। ८ वाशब्दसमुच्चितमाह—नापीति। ९ पूर्वश्लोके दृष्टता दर्शन-
क्रियायोग्यता, सा च स्वयमचैतन्येऽपि संभवति, इह पुनश्चैतन्यमेवोपौद्-

५६ शिवदृष्टिः [ आ०-२
सा चात्मानं प्रकाशरूपत्वात् पश्यन्त्यात्मकत्वाच्च किं पश्यन्तं
पश्यति उताप्रकाशरूपं जडम् ? जडे तस्मिन् सापि जडा स्यात् अथात्मापि
अस्याः प्रकाशात्मत्वात् पश्यति, न च भिन्नं पश्यति अपित्वात्मानमेव,
ततस्तस्यापि पूर्वविकल्प१योगादनवस्था२, अवस्थानस्य दर्शनविश्रान्तेर-
भावात् ॥ ५६ ॥
किञ्चित्पश्यति३ वा सूक्ष्मं४ तदस्मद्दर्शनान्वयः५ ।
कर्मत्वे पारतन्त्र्यं स्यात्तस्या एव निजात्मनि ॥ ५७ ॥
यदि वा भवद्भिर्नान्यनीलपीतादि स्थूलं विभक्तस्वरूपं दृश्यं
पश्यति अपि तु दृश्यभुवमनापन्नं द्रष्टारमेव किंचिदविकल्प्यं सूक्ष्ममपृथ-
ग्रूपं पश्यति, न च६ पश्यति दृश्यार्थमयदृष्टृरूपैव सती प्रकाशते पश्यन्ती
इति कथ्यते । ततोऽस्मदीयदर्शनानुगमः७ स्यात् पश्यन्त्यर्थः८ क्रियाकर्तृ-
कर्मकालविभागात्मा त्यक्तो भवेत् । वास्तवे तु कर्मत्वेऽभ्युपगम्यमाने
तदीयसूक्ष्मद्रष्टृरूपात्माधिकरणे सति तस्मिन्नेवैकात्मनि द्रष्टृत्वात् स्वतन्त्रे
दृश्यतया पारतन्त्र्यं स्याद्विरुद्धम् ॥ ५७ ॥
स्फोट९ एव हि पश्यन्ती तदन्या वा द्वयं भवेत् ।
तदन्यत्वे तदैक्ये वा तदङ्गुल्यग्ररूपया ॥ ५८ ॥
बलनार्थं शङ्क्यमानत्वेन दर्शयति पश्यन्तं सेति, तदेतदाह प्रकाशरूप-
त्वात्पश्यन्त्यात्मत्वाच्चेति । १ दृष्टे दर्शनमिति न्यायेन । २ सा च मूलक्षति-
कारिणीत्युक्तमेव । ३ ननु चात्मानं पश्यन्तं सूक्ष्मं विकल्पकलङ्काकलुषितं
पश्यति यतः तत्किमिति ह्यनवस्था, दर्शनं चानुज्झितद्रष्टृभावस्यैव तत्क्रिया-
त्मकं ततोऽपि न किंचनानुपपन्नं नामेति किं दोषाविर्भाविनेत्यतः आह
किंचिदिति । किंचिदिति इदन्ताव्यपदेशानर्हत्वात्स्वरूपत्वादेवानियतम् ।
४ सर्वग्राह्यग्राहकताविभागरहितम् । ५ अन्वयः, अभ्युपगमः । ६ ननु च
यतः पश्यन्तीत्युच्यते तत एव सकर्मकत्वादस्य स्फुटं पूर्ववदेव दृश्यत्वमापन्नं
तत्किमिति तत्र न दोष इत्यत आह न चेत्यादि । ७ ततश्चैवं सति न
कश्चिद्विरोध इत्यर्थः । ८ न चैतद्भवतामिष्टमित्याह पश्यन्तीति । ९
स्फोटात्मैव शब्दोऽर्थप्रतिपादकः । तथा चोक्तम्—

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ५७
वाक्यगत्यात्र सत्यत्वं लभ्यते न विशेषतः ।
'एको नित्यः क्रमविरहितः कल्पितासत्यभागो
वाक्यस्फोटो जनयति मतिं तादृशि स्वाभिधेये ।
वर्णास्त्वेते प्रकृतिलघवः कल्पनेकप्रतिष्ठा—
स्तस्मिन्नर्थे विदधति धियं नेत्यलं तत्कथाभिः ॥'
तथा हीत्याहुः कुतो वर्णानामर्थप्रत्यायकत्वम् । ते हि वर्णा गकारा-
दयोऽर्थं प्रतिपादयन्तः समस्ता वा व्यस्ताः । न तावत् व्यस्ताः, एकैकवर्णा-
कर्णने सति चार्थप्रतीतेरनुत्पादात् । सामस्त्यं पुनर्वर्णानां न संभवत्येव ।
तद्धि सत्त्या स्यात्, सा चायुक्ता । तथा हि, वर्णप्रयोक्तॄणां प्रयत्नस्थानकरण-
क्रमापरित्यागादवश्यंभावी क्रमः । क्रमे च सति ह्येकैकवर्णकारणिकार्थ-
प्रतीतिः प्राप्नोति, सा च न दृश्यते इति व्यस्तसमस्तविकल्पानुपपत्तेर्न वर्णा
वाचकाः । वर्णविषया अपि बुद्धयस्तथैव कल्प्याः, ता अपि युगपन्न संभवन्ति ।
क्रमे च सत्येकैकवर्णबुद्धेरर्थसंप्रत्ययः प्रसज्यत इति तस्मान्न वर्णा वाचकाः ।
यदि च स्युस्तद्विपरीतक्रमप्रयुक्ता अपि तमर्थमवगमयेयुः । अस्ति चेयं शब्दा-
दुच्चारितात्तदर्थावगतिः । न चेयमकारणिकैव भवितुमर्हति, तदस्याः
कारणं स्फोट इति सर्वार्थप्रतीतिलक्षणकार्यवशात्कल्प्यमानं तत्कारणं
स्फोट इत्युच्यते । स च निरवयवो नित्य एको निष्क्रमक इति । तस्माद्वर्णाभि-
व्यक्तः स्फोटोऽर्थे प्रतिपत्तिमादधाति । भ्राम्यति जनो वर्णैरियमर्थप्रतीति-
रुत्पादितेति । न च वाच्यं स्फोटव्यक्तावपि ते व्यस्तसमस्तविकल्पाः सन्तीति,
न स्फोटव्यक्तौ विकल्पाः । तथा हि एके तावदाचक्षते, प्रथमवर्णश्रवणवेलायां
स्फोटोऽभिव्यक्तः । न च द्वितीयादिवर्णवैकल्यं तदनुगतेरेवातिशयकारणात्,
यथा रत्नपरीक्षायां प्रथमदर्शनं रत्नममलं प्रकाशमानमपि पुनः पुनः
परीक्षायां निरवद्यं रत्नतत्त्वं चकास्ति । एवं प्रथमवर्णश्रुत्या व्यक्तेऽपि
स्फोटे स्फुटतरप्रतीतयै वर्णान्तराणि प्रयोक्ष्यन्ते इति । अपरे त्वाहुः ध्वनय
एव स्फोटस्य व्यंजकाः तैश्च मरुद्भिरनवयव एष स्फोटोऽभिव्यज्यमानस्ता-
ल्वादिस्थानकरणसंयोगोपाधिवशोपप्लवमाननानाकारगकारादिभागयोगीव
प्रतिभासते । मरुतां चञ्चलत्वादुच्चारितप्रध्वंसिनस्ते काल्पनिक भागा
भासन्ते । दृष्टं हि नादात्मको हि शब्दो वीणावेणुमृदङ्गपटहादिव्यंजकभेदेन
नानात्वमुपगच्छति । तस्माद्वाक्ये पदानामसत्त्वात्तदर्थे च पदार्थानां निर-
वयवी वाक्यवाक्यार्थौ इति । बाधकं चात्रावयवकल्पनायां यथा वाक्यस्या-
वयवाः पदानि पदानामवयवा वर्णा एवं वर्णानामप्यवयवैर्भवितव्यं, तदवय-

५८ शिवदृष्टिः [ आ०-२
आप्तानाप्तविचारो वा सर्वथैव निवर्तते ॥ ५९ ॥
भवद्भिः स्फोटः पश्यन्ती च नित्यत्वेनाभ्युपगतौ, ततः स्फोट एव वा
पश्यन्ती स्यात् शब्दमात्रभेदात्, ततो वान्द्या, तत्र द्वैतं स्यात् । अन्यत्वपक्षे
ऐक्ये वाभ्युपगते तत्पश्यन्त्याः संबन्धि सत्यार्थदर्शित्वं लभ्येत । 'अंगुल्यग्रे
हस्तियूथशतमास्ते' इत्यनयाः वाक्यस्फोटप्रतीत्यात्र लोके न तु पश्यन्ती-
संज्ञसत्यदर्शनरूपत्वेन सर्वस्य स्फोटस्य सत्याभिमतद्वाक्यात् विशिष्यमाणता
लभ्यते । अन्यत्वपक्षे तु स्फोटस्य सत्यस्यापि असत्यार्थत्वं न दोषः१,
पश्यन्त्यात्मनस्तु शुद्धसंविद्रूपस्य मिथ्यात्वं दोष एव पश्यन्त्यैक्येन स्फोट-
सत्यार्थत्वात् । आप्तप्रणीतानाप्तप्रणीतत्वविचारो२ वा सर्वथा तदा निवर्तते
सर्वेषामविशेषेण सम्यरूपत्वात्, पूर्वोक्तपश्यन्तीबहुत्ववन्नित्यस्फोटबहुत्वं
ततश्चाद्वयहानिरित्येतदप्यत्र सूचितम् ॥ ५६ ॥
स्फोटस्य सत्यरूपैर्हि पदार्थैर्व्यङ्ग्यता कथम् ।
पश्यन्त्याः सत्यरूपाया असत्यैर्व्यङ्ग्यता न च ॥ ६० ॥
ताहग्व्यञ्जनसापेक्षा सा न किंचन जायते ।
स्फोटस्य च कूटस्थनित्यस्य सत्यस्य पदवर्णध्वनिभिरुपप्लुतैरकिं-
चित्स्वरूपैरशक्तैरत्यन्तविजातीयैः कथं व्यंग्यता सत्यप्रकाशनसामर्थ्यं तेषां
वानामप्यवयावान्तरैरित्यानन्त्यात् का व्यवस्था स्यात् । वर्णान्प्राप्य तु
यद्यवयवकल्पनातो विरन्तव्यं तद्वाक्य एव निरम्यताम् । एवं पानकादि-
वत्पदार्थेभ्योऽन्य एव वाक्यार्थरूपः स्फोट इति । यथा हि पानकं फाणितनारि-
केलमरिचादिभ्योऽर्थान्तरमेव यथा च सिन्दूरलाक्षाहरितालादिभ्योऽर्थान्तर-
मेव चित्रमिति सिद्धमेतत् । तत्र तयोः स्फोटशब्दब्रह्मणोरुभयोर्भेदे द्वैतापत्तिः ।
अभेदमेवमाहुः, यथा पदे वर्णा न सन्ति, वाक्येषु, पदानि न सन्ति तथा
महावाक्येष्ववान्तरवाक्यान्यपि न स्युः, ततोऽपि महावाक्यान्यपि प्रकरणा-
पेक्षया न स्युः, ततोऽपि प्रकरणान्यपि शास्त्रापेक्षया न स्युः, ततश्चैकमेवेदं
शास्त्रतत्त्वमविभागमद्वयमापतति । इत्याक्षिप्ते तथाहूः । सत्यमेतत्, शब्द-
ब्रह्मैवेदमद्वयमनाद्यविद्यावासनोपप्लवमानभेदमर्थभेदेन विवर्तते । न तु वाच-
काद्भिभवतं वाच्यमपि नाम किञ्चनास्ति । तस्मात्काल्पनिक एवायं वाच्य-
वाचकविभाग इति स्फोटवादः । तदनुपपत्तिं दर्शयति तदैक्येति वेति ।
१ अविद्योपगमात् । २ आप्तप्रणीतत्वेन हि शब्दस्य प्रामाण्यं स्फोटस्य च
नित्यत्वेनाप्तप्रणीतत्वम् । अतश्चानित्यत्वं वर्णात्मनः शब्दस्य, नासावर्थ-

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ५६
सत्यतापत्तेः । पश्यन्त्यात्मत्वेऽपि च स्फोटस्यासत्यव्यञ्जकता तथैव न
युक्ता, असत्येनाविद्यात्मनाव्यज्यमानालोकेन रूपमिव स्वयं प्रकाशनशक्त्या
न किंचिदेवाविद्यैव सा स्यात् तावत्प्रपञ्चरूपैव अविद्येति कृत्वा १ ॥
पश्यन्ती २ वा प्रमाणेन केनासौ प्रतिपाद्यते ३ ॥ ६१ ॥
प्रत्यक्षस्यागोचरत्वादत्नुमानं प्रदूषितम् ।
भवद्भिरेव नाप्तस्याननुभूतार्थवक्तृता ४ ॥ ६२ ॥
प्रमाणेन वा केन पश्यन्ती भवद्भिर्व्यवस्थाप्यते । प्रत्यक्षं तावदत्र ५
चक्षुरादिमनोगोचरातिक्रमान्नास्ति । अवस्थेत्यादिना भवद्भिरेव तस्य
दूषणाच्चानुमानं न सम्यगवबोधकम् । आप्तस्यापि नाननुभूतार्थवक्तृता,
तदपि ६ न प्रमाणम् ॥
अथ ७ स्वानुभवेनैव पश्यन्तीं पश्य युक्तितः ।
एवं तर्ह्यपरस्यासौ पश्यन्ती कर्मतां गता ॥ ६३ ॥
यो हि पश्यति पश्यन्तीं स देवः परमो मतः ।
अथ भवन्तो ८ मामाहुः-स्वगतेनानुभवेन प्रमाणेन पश्यन्तीं युक्तितो
योगात्समाधेरवधानात् पश्येति । एवं तर्हि अपरस्य स्वानुभवसंज्ञकस्य
प्रमाणस्य पश्यन्ती कर्मत्वं प्राप्ता, ततश्च सा परमार्थत्वेनोपगता ९ न तथा
स्यात् । यस्मात् स १० एव तदानीं पराकाष्ठाप्राप्तो देवत्वेन सर्वोत्कर्षेण
भवतां मतः स्यात् यस्तामपि ११ सर्वदर्शिनीं पश्यति, ततश्च दर्शनत्यागः ॥
प्रतीतिहेतुरतो न प्रमाणम् । यश्चार्थप्रतीतिहेतुः स्फोटात्मा शब्दस्तस्य
नानित्यत्वं, न चाप्तप्रणीतत्वमिति सर्वथा व्यवस्थाप्तानाप्तभाषणे नश्येदेव
स्फोटाभ्युपगमे । १ इत्यनेन विचारेण । २ प्रमाणव्यवस्थापितं हि वस्त्वस्तु,
स्वरूपलक्षणाभ्यां मास्तु, तेनैव प्रमाणेन तस्य दृढं व्यवस्थापितत्वादिति
प्रमाणमेव तावद्विकल्पयति पश्यन्ती वेत्यादिना । ३ दृढीक्रियते ।
४ अनुभूतमेवार्थमाप्तोपि वक्तीत्यर्थः । ५ अत्र पश्यन्तीविवेके । ६ तदाप्त-
वचनमपि । ७ ननु चानुभवाख्यसुदृढप्रमाणरक्षिते वस्तुन्यलमन्थेन प्रत्यक्षा-
दिना प्रमाणेन बाह्यार्थनिष्ठेनान्तःस्वरूपेऽनभिज्ञातवार्तालेशेनापि इति
समर्थयति अथ स्वानुभवेत्यादि । ८ पूर्वपक्षवादिनो मामुत्तरपक्षवादिनम् ।
९ उपगता अंगीकृता तथा परमार्थभूता । १० स एव स्वानुभवः । ११ सर्वो-
त्कर्षतामेवास्य दर्शयति यस्तामिति ।