शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 70, कुल 188 में से
संदर्भ में पढ़ेंआ०-२ ] उत्पलदेवकृतवृत्त्योपेता ५३
देशकालभिन्नार्थग्राहीणि भिन्नान्येव ज्ञानानि सा पश्यन्ती, तेषु¹
साधारणमेकं तादृक्सर्वतज्ज्ञानप्रपञ्चनव्यापारक्षमं किंचनानियतं² परि-
दृश्यमाननीलपीतादिनियतज्ञानोत्तरमस्ति, तत्पश्यति सर्वं पश्यन्तीत्यर्थः ।
तथापि³ असाधारणनीलादिनियतज्ञानानां भेदात् तस्यापि भेदता
भिद्यमानता स्यात्, न तु सामान्यता तेभ्यस्तस्याभेदात्⁴ । तथा⁵ च
सति न किंचनानागतादि गृहीतं स्यात्, अनागतार्थज्ञानाविभिन्ना पश्यन्ती
तदानीमेव तं ग्रहीष्यतीति । अथवा⁶ नीलपीतादिज्ञानवत् भेदता अस्याः
पश्यन्त्याः, तस्या अपि नीलादिकभविष्यद्वर्तमानार्थशबलीकृतत्वात् ।
अथ तस्या न भविष्यदादिशबलता, अपि तु बोधमात्ररूपत्वेनाविभेद
एव, ततस्तदभेदतो न किंचन नीलादि तथा गृहीतं, ततः कथं⁷
पश्यन्ती स्यादिति । अथान्या लक्षणान्तरभेदिता तैः⁸ पश्यन्ती
संहृतक्रमेति ॥ ४६ ॥
संहृतः क्रम इत्यस्यां संहर्ता¹⁰ जायते परः ।
यया क्रमः संहृतो वा किमात्मन्यपरत्र¹¹ वा ॥ ५० ॥
१ भिन्नज्ञानेषु । २ विशिष्टत्वाभावाद्यपदेशानर्हम् । ३ तथापीति, भव-
त्वेतत्साधारणमेव किंचन सर्वं सहं व्यापकं च अत्र पश्यन्तीस्वरूपनिरूपणमेव
सर्वथा संपाद्यं, तच्च कर्मसापेक्षत्वादवश्यं स्वसिद्धये कर्म दृश्यरूपमाक्षिपति,
तस्यां हि विशेषरूपत्वेनैव दर्शनसंभवात्तेषामित्यर्थः । ४ तेभ्यो विशेषेभ्यः,
तस्य सामान्यस्य । ५ तदभेदत इत्यर्थभागं विवृणोति तथातेति । अयं
भावः--विशिष्टज्ञानोदये यदि सा साधारणी तर्हि तदभेदतो विशिष्ट-
ज्ञानोदयेऽप्यतीतानागतादिविशेषाभावात्, ततश्च नानागतावेक्षणमिति
किमत्र दृश्यं नामेति ।
६ 'तथापि तद्भेदेन'
इत्यादि
'नकिंचन गृहीतं स्यात्'
इत्यन्तं द्वितीयार्थेन संगमयति अथवेत्यादिना । ७ कर्माभावादित्यर्थः । ८
शब्दब्रह्मवादिभिः । ९ ननु च पश्यन्ती संहृतक्रमेति ह्यास्याः क्रमसंहार एव
निर्विभागत्वे हेतुः, ततश्च केयं कल्पना नीलादिविशिष्टनियतासाधारणज्ञानानां
भेदात् तस्या अपि भेदतेति तन्निर्दलयितुमाह । १० त्रितयाधीनं हि संहरणं
कर्तृकरणाधिकरणेष्विति तदेव क्रमेणामाह संहर्तेति । केनेत्यपेक्षयावश्यं
परेण भाव्यम् । ११ कस्मिन्नित्यपेक्षायाम् ।