शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 63, कुल 188 में से
संदर्भ में पढ़ेंआ०-२ ] उत्पलदेवकृतवृत्त्योपेता ४७
बुद्ध्या सम्बन्धोऽन्तःकरणे प्राणापानपथे तस्या एवावस्थानात्, न तु
पश्यन्त्याः१ ॥ ३७ ॥
इतदपि२ नेत्याह—
तत्रापि मध्यमा कस्य कार्यं पश्यन्त्यवस्थया।
सा जन्या३ हेतुना केन शबलां जनयेदसौ ॥ ३८ ॥
तत्रापि मध्यमाया बुद्धिपदे वेद्यवेदकद्वैतावभासिनि स्थिताया अविद्या-
योग इत्यभ्युपगमे मध्यमा४ वाक् कदाचिद्भावात् कार्यभावात्--
'वाच एव च पूर्वस्याः सा कार्या स्यात्...।'
इति न्यायेन अन्यकारणाभावात्५ पश्यन्त्यवस्थयैव६ सा जन्या प्राप्ता७।
एवं च सति केन हेतुना तां मध्यमां शबलां भिन्नग्राह्याच्छुरितामसौ८
शुद्धस्वभावा९ सती जनयेत् ॥ ३८ ॥
न कथञ्चित्तज्जननं१० युक्तमित्याह--
नहि तस्या११ निमित्तं वा कारणं समवायि१२ वा।
निमित्तत्वे१३ पृथक्त्वं स्यात्समवाये तदात्मता ॥ ३९ ॥
असावित्यनुवर्तते। असौ पश्यन्ती तस्या१४ निमित्तमात्रं१५ कारणं
१ नत्विति तदुत्तीर्णस्वरूपायाः। २ इत्थं पश्यन्त्यसमर्थनया संकु-
चितेन प्रतिवादिना मध्यमाकृत एवायमविद्यावाद इति गृहीतं, तदसहमान
आह एतदपि नेति। ३ व्यतिरिक्तकारणाभावात्। ४ अत्रेत्थं व्याप्तिः-
मध्यमा वाक् कादाचित्कावभासमयीत्यात् कार्यैव। यत्किंचित्कादाचित्का-
वभासमयं नास्ति, तत्कार्यमपि नास्ति। अस्ति चेयं कादाचित्कावभासा-
भावा पश्यन्ती, न ततः कार्यरूपेति। मध्यमा पुनः कादाचित्कावभासा,
ततश्च कार्यरूपेत्यर्थः। ५ भवद्भिरपि द्वैतवादाभ्युपगमानभिमतत्वात्।
६ नत्वविद्यया। ७ भवदनभिमतावपि बलादेवायाता। ८ कृतोपरागाम्।
९ शुद्धस्वभाववत्त्वमेवात्राभेदे हेतुः। १० इत्थं तत्कार्यता न कथंचन
मध्यमाया युक्ता, तत्कार्यत्वे कारणसदृशं कार्यमिति नीत्या विलक्षण-
स्वभावतानुपपत्तिः, तदकार्यत्वे कारणान्तरं कथनीयं, न च तदिष्टं तदभावा-
देव, द्वैतापत्तिर्हि तथा स्यादिति। ११ तस्यः-मध्यमायाः। १२ पश्यन्ती।
१३ तद्बाधामाह-निमित्तेति। १४ तस्याः-कार्यत्वेन पूर्वप्रक्रान्तायाः।
१५ यत्कार्यसिद्धौ बहूपकारकमसंबद्धं च, तन्निमित्ताख्यं कारणं यथा
पटोत्पत्तौ वेमादि।