सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 67, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 67

५० शिवदृष्टिः [ आ०-२
नानात्वं तत्पृथक्त्वेन तदैक्यात्समशब्दता १ ।। ४३ ।।
शरीरैः प्रविभागश्चेत्तान्यसत्यानि ते स्थितिः २ ।
सा च पश्यन्ती प्रतिदेहं पृथग्भूता वा स्यात् सर्वदेहेष्वेकैव वा।
पृथक्त्वे बह्व्यः पश्यन्त्यः स्युः, ततश्च नाद्वैतम्, ऐक्ये सति सर्वदेहि-
नामेकपश्यन्तीयोगादेकत्रापि वक्तरि तत्पूर्वकप्रयत्नप्रेरितप्राणाभिहत-
स्थानोत्थितः शब्दविशेषो यः, स एव सर्वेष्वपि तूष्णीमासीनेष्वपि उच्च-
रितः स्यात्, अन्यथा क्वचित्तादृशकार्याकरणात् तस्य स्वभावभेदापत्ते-
रैक्यं न स्यात् । अथैकत्वेऽपि शरीरोपाश्रयः प्रविभागः स्फटिकस्येवेति ३ ।
तन्न, तान्यसत्यानि इति तव दर्शने ४ व्यवस्था । न चासत्यमकिंचिद्रूपं
क्वचिदुपयोगि भवतीत यावत् ।। ४३ ।।
अविभागेत्यादिकेन ५ लक्षणेन सुलक्षिता ।। ४४ ।।
पश्यन्ती यदि वर्ण्येत लक्षणं तद्विलक्षणम् ।
पश्यन्ती च--
'अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ।।'
इत्यादिना लक्षणेन सुष्ठु अव्याप्त्यतिव्याप्तिपरिहारेण ६ लक्षिता यदि
उच्येत, तल्लक्षणमेतद्विलक्षणमतिशोभनमित्युपहासः ७, यतो विलक्षणं लक्ष-
णस्य यल्लक्षणं तद्विग्मात् ।।
तदाह--
अविभागा कथं सा स्याद्यतः पश्यन्त्यसौ स्मृता । ४५ ।।


१ सत्यमेवैतदैक्यमेव परमार्थतः, समशब्दताभावश्च शरीरभेदेनेति
भावः । २ स्थितिः--शास्त्रनियमः । ३ यथा स्फटिकरत्नं स्वरूपत
एकमपि तत्तद्रागोपरागेण भेदेनावभासते, तथा पश्यन्त्यपीत्यर्थः--
४ 'विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ।'
इतिनयेन । ५ ननु क एवमाह पृथक्त्वे बह्व्य इति, ऐक्ये वा समशब्दता
यतोऽविभागैव पश्यन्ती, तथा च किमिदं पृथक्त्वं नाम, ऐक्यं नाम वेति, न
कोऽपि दोषकण इति पूर्वपक्षप्रत्यवस्थानात्पूर्वमाचष्टे अविभागेत्यादि ।
६ लक्ष्ये लक्षणैकदेशपतनमव्याप्तिः, अलक्ष्ये लक्षणपतनमतिव्याप्तिः । ७
विलक्षणं विशिष्ठलक्षणमुपहासेन, तथा परमार्थतो विरुद्धलक्षणं तथा
विलक्षणं लज्जावहमिति च ।।