शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
१४६ शिल्परत्ने [उत्तरभागः
सौरी चतुरक्षरी —
भास्वद्रबौघमौलिस्फुरदमृतरुचो रञ्जयच्चारुरेखां
सद्यःसन्तप्तकार्तस्वरकमलजपाभासुराभिः प्रभाभिः ।
विश्वाकाशावकाशं ज्वलयदशिशिरं धेर्तृ पाशाङ्कुशेष्टा-
भीतीनां भें२ङ्गितुङ्गस्तनमवतु जगन्मातुरार्कं वपुर्वः ॥ ७३ ॥
अन्नपूर्णा —
दुग्धाब्धौ रूप्यवाप्रावृतकनकमयै३र्द्वीपवर्ये सुराढ्ये
कल्पद्रूद्यानकेऽधो मणिमयलसिते वित्तपस्याग्रभागे ।
आसीने भूश्रियौ वाञ्छितवसुनिचयं मन्त्रिणे संसृजन्त्यौ
मन्त्री सञ्चिन्तयानो जपतु दिनमुखे सम्पदे४ऽभ्यस्य मन्त्रम्
॥ ७४ ॥
अथवा —
रुद्रताण्डवविलोकनलोलां
भद्रैव५कत्रनयनां भवकान्ताम् ।
अन्नदाननिरतां जननीं तां
चिन्तयेदुषसि चित्रदुकूलाम् ॥ ७५ ॥
अथ६ सप्त मातरः —
दण्डं कमण्डलुं बिभ्रत्यक्षसूत्रमथाङ्कुशम् ।
सुवर्णवर्णां ब्रह्माणीं कृष्णाजिनधरां भजेत् ॥ ७६ ॥
शूलं परश्वधं क्षुद्रदुन्दुभिं नृकरोटिकाम् ।
बिभ्रतीमभ्रशुभ्राभां स्मरेन्माहेश्वरीमपि ॥ ७७ ॥
१. 'धातृपा', २. 'भागि तु' क. पाठः. ३. 'यी' क. ख.
ग. पाठः. ४. 'द', ५. 'क्त्व' घ. पाठः. ६. 'थ मा' क. ख. ग. पाठः.
शक्तौ श्रीचक्रप्रस्तारः ] चतुर्विंशोऽध्यायः । १४७
अङ्कुशं पाशखट्वाङ्गं + + + दधतीं भुजैः ।
ध्यायेत् सिन्दूरसङ्काशां कौमारीं शक्तिमालिकाम् ॥ ७८ ॥
चक्रशङ्खपताकाख्यशृङ्खलां च चतुर्भुजाम् ।
कलायश्यामलां ध्यायेद् वैष्णवीं पीतवाससम् ॥ ७९ ॥
मुसलासिलसद्धण्टाहलोद्यत्करपङ्कजाम् ।
-
-
-
-
- संयुक्तां वाराहीं नीरदप्रभाम् ॥ ८० ॥
अङ्कुशं तोमरं वज्रं चक्रं च दधतीं शु³भाम् ।
इन्द्रोपलाभामिन्द्राणीं स्मरेदुज्ज्वलभूषणाम् ॥ ८१ ॥
शूलासिन्तृशिरोराजत्कपालविलसद्भुजाम् ।
मुण्डस्रङ्मण्डितां चण्डीं चामुण्डामपि चिन्तयेत् ॥ ८२ ॥
मृगटङ्कवराभीतिकरो वीरस्त्रिलोचनः ।
नागोपवीताभरणः श्वेतचर्माम्बरो भवेत् ॥ ८३ ॥
गजास्यमेकदन्तं च त्रिनेत्रं नागभूषणम् ।
कनकाभं करासक्तपाशाङ्कुशवरं तथा ॥ ८४ ॥
भक्ष्यं च बिभ्रतं देवं ह्रस्वपादकरद्वयम् ।
शुण्डाग्रग्रस्तचषकं महाकायं विचिन्तयेत् ॥ ८५ ॥
अथ प्रसङ्गाच्छ्रीचक्रप्रस्तारो लिख्यते ।
चक्रार्थमच्छमसृणां चतुरश्रक्लृप्ता-
मुर्वीं षडुत्तरनवत्यभिधाङ्गुलाढ्याम् ।
कृत्वाथ सूत्रयुगलं प्रतिपादयेत् त-
न्मध्येऽथ पूर्वपरदक्षिणसौम्यगाग्रम् ॥ ८६ ॥
१. 'अपाशांश्च द' क. ख. ग. पाठः. २. 'कपालाख्य', ३.
'भुजाम्' घ. पाठः. ४. 'सृ' ख. ग. पाठः
- संयुक्तां वाराहीं नीरदप्रभाम् ॥ ८० ॥
-
-
-
१४८ शिल्परत्ने [उत्तरभागः
अर्धेन वृत्तमथ मध्यभवं विदध्या-
दृष्टोर्ध्ववेददशकाङ्गुलसङ्ख्यकेन ।
चक्रार्थमन्तरमलं पुनराद्यसूत्रे
पूर्वादितो +++ लाञ्छनमत्र कुर्यात् ॥ ८७ ॥
तत्रापि षट्षड्विशिखाभिलोक-
वेदाभिष्टषड्रसकाङ्कुलान्ते ।
अङ्केषु तेष्वन्तकवित्तपाख्य-
देशाग्रगं सूत्रमिदं करोतु ॥ ८८ ॥
एतेषु सूत्रेष्वपि चोभयाग्र-
भागेऽङ्कयेत् तत्र समुक्तरीत्या ।
विहाय रामाङ्गुलमादिमान्त-
स्थयोस्तथा द्व्यष्टगयोश्चतुष्कम् ॥ ८९ ॥
वेदाङ्कषष्ठाङ्कगसूत्रकान्ते
द्यष्टाङ्गुलां¹ पञ्चमगाग्रयोस्तु ।
एकोनविंशाङ्गुलमन्यसूत्रे
वृत्तं गते (तदनु ?) तैश्च परैस्त्रिकोणैम्² ॥ ९० ॥
आवृत्तगे लिखतु पश्चिमपूर्वगाग्रे
रेखे तृतीयमुनिजाग्रसमुद्भवे द्वे ।
षष्ठाङ्कगाग्रयुगलं विलिखेत् पुनस्ते-
ऽथाष्टङ्कजाग्रजनिते च यैथा³ त्रिकोणम् ॥ ९१ ॥
तत्र द्वितीयाङ्कगताग्रजे द्वे
सूत्रे लिखेद्न्तिमचिह्नगाग्रे ।
१. 'द', २. 'ण:', ३. 'त' ब. पाठः.
शक्तौ श्रीचक्रप्रस्तारः ] चतुर्विंशोऽध्यायः । १४९
अष्टाङ्ककाग्रे प्रलिखेच्चतुर्थ-
चिह्नस्थसूत्राग्रसमुद्भवे द्वे ॥ ९२ ॥
एवं लिखेत पञ्चमसूत्रगे द्वे
सूत्रे पुनः पञ्चमलाञ्छनान्तम् ।
तथान्तिमाङ्कस्थसिराग्रजे द्वे
सूत्रे तृतीयान्तमथादिमान्तम् ॥ ९३ ॥
अष्टाङ्कसूत्राग्रसमुद्भवे द्वे
तल्लिखेत् षष्ठगसूत्रसंस्थे ।
सूत्रे द्वितीयान्तमितीरितः स्यात्
त्र्यश्रक्रियायाः क्रम आदिशास्त्रे ॥ ९४ ॥
वृत्तस्य बाह्येऽष्टदलं तथैव
ह्यष्टच्छदं तस्य बहिः पुनश्च ।
अष्टाङ्गुलैरेव पृथग् बहिष्ठै-
र्वृत्तानि स¹द्वारचतुर्भुजानि ॥ ९५ ॥
बिन्दुत्रिकोणवसुकोणदशारयुग्म-
मन्वश्रनागदलषोडशपत्रकाणि ।
वृत्तत्रयं च धरणीस²दनत्रयं च
श्रीचक्रमेतदुदितं परदेवतायाः ॥ ९६ ॥
इति शिल्पिरत्ने उत्तरभागे ध्याने शाक्तेयप्रकरणं नाम
चतुर्विंशोऽध्यायः ॥
१. 'बहार' ख. पाठः. २. 'तदनुत्र' ख. ग. पाठः.
१५० शिल्परत्ने [उत्तरभागः
अथ पञ्चविंशोऽध्यायः ।
अथेन्द्राद्यन्यदैवतध्यानम् । पूर्वमिन्द्रः ।
उपवने मरुतामथ नन्दने
व्र(त)तिगेहलसल्ललनागणे ।
कनकभासितभूतितलेऽञ्चिते
विबुधशालिशतैरखिलार्थदैः ॥ १ ॥
कलितहेमलतानिकरोज्ज्वलैः
कलनिनादविहङ्गमनोरमैः ।
कनकपङ्कजसौरभवाहिना
सुरसरिन्मरुता च मनोरमे ॥ २ ॥
सुरुचिरं मणिमण्डपमुज्ज्वलं
विबुधपादपपञ्चकमध्यगम् ।
मणिमयं च तदन्तरभूतले
द्विरद्वैरिमहासनमद्भुतम् ॥ ३ ॥
उपरिसंस्थितमुज्ज्वलभूषणं
तरुणभास्करकोटिसमप्रभम् ।
महितरत्नकिरीटमनोहरं
मणिमयूखविराजितकुण्डलम् ॥ ४
मसृणकुङ्कुमपङ्कपरिस्फुर-
त्तिलकशोभिललाटतटान्तरम् ।
कमललोचनमुन्नतनासिकं
मुकुरगण्डतलं मधुरस्मितम् ॥ ५ ॥
१. 'देवताध्या' घ. पाठः ।
अधरकान्तिपराजितविद्रुमं
विगलिताङ्कशशाङ्कनिभाननम् ।
विमलकम्बुविराजितकन्धरं
विविधहारलताञ्चितवक्षसम् ॥ ६ ॥
कनकतालगतं वसुसञ्चयं
निजकरैर्दधतं निजसेविनाम् ।
महितरत्नमरीचिचयोल्लस-
ज्जठरबन्धमनोरममध्यमम् ॥ ७ ॥
विविधरत्नलसन्मणिमेखला-
कलितसूक्ष्मदुकूलविराजितम् ।
अमरसिन्धुरबन्धुरनासिका-
सदृशपीनवरोरुमनोहरम् ॥ ८ ॥
प्रपदनिर्जितकच्छपमङ्गुली-
नखमयूखजितेन्दुकराङ्कुरम् ।
मुनिसुरासुरसिद्धमहोरगा-
द्यखिललोकनताङ्घ्रिसरोरुहम् ॥ ९ ॥
त्रिभुवनैकपरायणमिष्टदं
त्रिदशनाथमनारतमाश्रये ॥
अपिच —
मन्दाकिनीतटरुहत्रिदशद्रुमाधो
वृन्दारकैः परिवृतं गजराजसंस्थम् ।
१५२ शिल्परत्ने [उत्तरभागः
दोर्भ्यां सुवर्णचषकस्थमकै१प्यजात-
मादाय साधकवराय समर्पयन्तम् ॥ १० ॥
अथवा —
धवलनलिनमध्ये सन्निषण्णं सिताङ्गं
सुरमुनिपितृसिद्धैः सेवितं सुप्रसन्नम् ।
दशशतभुजदण्डोल्लासिपीयूषकुम्भै३-
रमृतजलमजस्रं स्रावयन्तं निर्जोङ्गे ॥ ११ ॥
सुरपरिवृढमेवं चिन्तयित्वा सहस्रं
जपतु नियमयुक्तो मन्त्रै५(सुर्व्वर्यनयो ?)यः ।
स तु दुरितवियुक्तो विश्वसंवादयुक्तो
गदगणरहितं वै विन्दते दीर्घमायुः ॥ १२ ॥
अपिच, ऐन्द्री गायत्री —
पारिजाततरुमूलबद्धमणिकुट्टिमोपरिस्मास्थितं
पाणिपङ्कजयुगात्तरत्नकलशाभिषिक्तनिजविग्रहम् ।
पाटलाङ्गमरुणाभवस्त्रममलेन्दुसुन्दरमुखश्रियं
पाकशासनमहर्निशं नमत धर्मकामधन मोक्षदम् ॥ १३ ॥
अथवा —
अरुणाम्बुज + + + मध्यगतं
सृणिपाशशक्तिशौत१०कोटिकरम् ।
१. 'क' ख., 'कुर्व्वजा' क. ग. पाठः. २. 'ग', ३. 'न्ती',
४. 'जांशे ॥' घ. पाठः. ५. 'न्त्रबर्य' ख. ग. पाठः. ६. 'युः । ऐ',
७. 'घ', ८. 'दं जपे ॥ अ' क. ख. ग. पाठः. ९. 'ग', १०.
'ष्टीरम्' घ. पाठः.
प्रविचिन्त्य मन्त्रमेमुमेव जपन्
वशयेत् क्षणेन सुरपौरजनम् ॥ १४ ॥
तद्विष्टप् —
मातङ्गारातिपीठे स्थितमतिरुचिरे नन्दने कल्पवृक्षै-
र्मन्दारार्यैर्मनोज्ञैर्विबुधमुनिनतं तप्तकार्तस्वराभम् ।
हस्तोद्यत्स्वर्णकुम्भप्रकरपरिगलद्रत्नधाराप्रवाहान्
वर्षन्तं वाञ्छितार्थप्रदममरपतिं सुप्रसन्नं नमामि ॥ १५ ॥
अँथाग्निः —
त्रिनयनमुरुतंसं बद्धमौलिं सुशुक्ला-
म्बरमरुणमनेकाकल्पमम्भोजसंस्थम् ।
अभिमतवरशक्तिस्वस्तिकाभीतिहस्तं
नमत कनकमालालङ्कृतं तं कृशानुम् ॥ १६ ॥
संवादाग्निः —
धवलनलिनराजच्चन्द्रमध्ये निषण् १ णं
कराविलसितपाशं साङ्कुशं साभयं च ।
(स)वरदममलेन्दुक्षीरगात्रं त्रिनेत्रं
प्रणमत सुरवक्रं मङ्क्षु संवादयन्तम् ॥ १७ ॥
समर्द्धिः —
हैमाश्र्वत्थसुरद्रुमोदरभुवो निर्यान्तमश्राकृतिं
वर्षन्तं धनधान्यरत्ननिचयं रन्ध्रैः स्वकैः सन्ततम् ।
ज्वालापल्लवितस्वरोमविवरं भक्तार्तिसम्भेदनं
वन्दे सर्वसुखार्थमोक्षफलदं दिव्याकृतिं पावकम् ॥ १८ ॥
. १. 'नु' ख. पाठः. २. 'अग्निः' घ. पाठः.
V
१५४ शिल्परत्ने [उत्तरभागः
तद्भेदः —
(अथवा) शक्तिस्वस्तिकदर्भाक्षस्रक्(स्रुव)स्रुगभयवरान् ।
दधदमिताकल्पो वोवसु(र)वतात् कनकम१लिकालसितः
[॥ १९ ॥
रक्षोहाग्निः —
त्रिशूलं परशुं चैव कपालं डमरुं तथा ।
बिभ्राणमुग्रवपुषं त्रिनेत्रं चन्द्रशेखरम् ॥ २० ॥
दंष्ट्राकरालनिनदद्भ्रुकुटीकुटिलाननम् ।
बडबामुखाभिसदृशं दहन्तं भुवनत्रयम् ॥ २१ ॥
भूतप्रेतपिशाचादीन् भक्षयन्तं महाबलम् ।
ध्यात्वाजस्रं जपेन्नित्यं रक्षोहाग्निं समाहितः ॥ २२ ॥
अथ यमः —
द्विभुजः कृष्णवर्णस्तु खड्गखेटकसंयुतः ।
करालदंष्ट्रवदनो रक्तमाल्यानुलेपनः ॥ २३ ॥
रक्तवस्त्रधरश्चोग्रः किरीटमकुटान्वितः ।
दीप्ताभिसदृशाक्षश्च महामहिषवाहनः ॥ २४ ॥
यमस्तु तस्य पार्श्वस्थौ ++++++++ ।
चित्रगुप्तः कलिश्चैव द्वारपार्श्वे तु संस्थितौ ॥ २५ ॥
२कृष्णश्यामानिभौ तौ च रक्तवस्त्रधृतावभौ ।
पीठपार्श्वगतौ मृत्युसहितावु ++++ ॥ २६ ॥
नीललोहितसङ्काशौ द्वौ चामरधृतस्त्रियौ ।
- पुरतः संस्थितौ विप्रौ धर्माधर्मसमाह्वयौ ॥ २७ ॥
१. 'दाः' क. ख. ग. पाठः. २. 'श्यामकृष्णनि' घ. पाठः.
सोमः ] पञ्चविंशोऽध्यायः । १५५
यमः सिंहासनारूढो महिषारोहितस्तु वा ।
अथ निर्ऋतिः —
निर्ऋतिस्तु महावीरो द्विभुजो रक्षसां पतिः ॥ २८ ॥
खड्गं दक्षिणहस्ते तु वामहस्ते तु खेटकम् ।
प्रीतिहस्तधरो रौद्रः करालवदनान्वितः ॥ २९ ॥
सर्वाभरणसंयुक्तो नानापुष्पैरलङ्कृतः ।
अथ वरुणः —
वरुणः शुक्लवर्णस्तु द्विभुजः पाशहस्तकः ॥ ३० ॥
सर्वाभरणसंयुक्तः करण्डमकुटान्वितः ।
पीतवस्त्रधरः शान्तो महाबलसमन्वितः ॥ ३१ ॥
यज्ञसूत्रसमायुक्तो मकरस्थासनासनः ।
अथ वायुः —
कुञ्चितभ्रूयुतो वायुः शबलाम्बरभूषितः ॥ ३२ ॥
नानाभरणसंयुक्तः केशाढ्यः सुविकीर्णकः ।
सिंहासनोपरिष्टात् तु शीघ्रयात्रोत्सुकः स्थितः ॥ ३३ ॥
अथ *धनदः —
अथ सोमः —
प्रालेयामलमात्मदीधितिसुधासङ्क्रान्तलोकत्रयं
मुक्ताजालविराजिरूप्यविलसद्वेषान्तरालङ्कृतम् ।
भास्वत्कैरवचारुबाहुममलक्षौमावदातं परं
वन्दे सोममरा(ज ? ल)नीलविलसत्केशं मनोनन्दनम्
[॥ ३४ ॥
————————————————————————————————
१. 'तः । अथ' ख. ग. पाठः. २. 'तः । सो' घ. पाठः.
- अस्य ध्यानश्लोको मातृकासु न दृश्यते ।
१५६ शिल्परत्ने [उत्तरभागः
अथवा,
विमलकमलसंस्थः सुप्रसन्नाननेन्दु-
र्वरदकुमुदहस्तश्चारुहारादिभूषः ।
स्फटिकरजतवर्णो वाञ्छितप्राप्तये वो
भवतु भवदभीष्टेद्योतिताङ्गैः (शशाङ्कः) ॥ ३५ ॥
अथ ब्रह्मा —
आषाढदण्डस्फटिकाक्षमालासुवर्णकुण्डीसरसीरुहाणि ।
।बिभ्राणमारक्तजटाकलापं चतुर्मुखं पीतरुचं नमामि ॥३६॥
अथ शेषः —
अनन्तश्चतुर्भुजः सौम्यः सर्वाभरणभूषितः ।
जपापुष्पनिभाकारः करण्डमकुटान्वितः ॥ ३७ ॥
सितवस्त्रधरः शान्तस्त्रिनेत्रः पद्मसंस्थितः ।
अभयं वरदं टङ्कं शूलं चैव धृतः करैः ॥ ३८ ॥
अथ महागणपतिः —
मन्दाराद्यैः कल्पकवृक्षविशेषैर्विशिष्टतरफलदैः ।
शिशिरितचतुराशान्तर्बालातपचन्द्रिकाकुले च तले ॥३९॥
ऐक्षवजलनिधिलहरीकणजालकवाहिना च गन्धवहेन ।
संसेविते च सुरतरुसुमनःश्रितमधुपपक्षचलनपरेण ॥४०॥
रत्नमये मणिवज्रप्रवालफलपुष्पपल्लवस्य सतः ।
महतोऽधस्तादृतुभिर्युगपत्संसेवितस्य कल्पतरोः ॥ ४१ ॥
सिंहमुखपादपीठगलिपिमयपद्मे त्रिषट्ककोणोल्लसिते ।
आसीनस्त्वेकरदो बृहदुदरो दशभुजोऽरुणो गजवदनः
[॥ ४२ ॥
१. 'वि', २. 'ष्टप्राप्तये वो' घ. पाठः. ३. 'ङ्कः । आ',
४. 'स्थि' क. ख. ग. पाठः,
महागणपतिः ] पञ्चविंशोऽध्यायः । १५७
बीजापुरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल-
व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ।
ध्येयो वल्लभया च पद्मकरयाश्लिष्टो ज्वलद्भूषया
विश्वोत्पत्तिविनाशसंस्थितिकरो विघ्नो विशिष्टार्थदः ॥४३॥
करपुष्करधृतकलशस्रुतमणिमुक्ताप्रवालवर्षेण ।
अविरतधारां विकिरन् परितः साधकसमग्रसम्पत्त्यै ॥ ४४ ॥
मदजललोलुपमधुकरमालां निजकर्णतालता१डनया ।
निर्वासयन् मुहुर्मुहुरमरैरसुरैश्च सेवितो युगपत् ॥ ४५ ॥
अग्रेऽथ बिल्वमभितश्च रमारमेशौ
तद्दक्षिणे वटजुषौ गिरिजावृषाङ्कौ ।
पृष्ठेऽथ पिप्पलजुषौ रतिपुष्पबाणौ
सव्ये प्रियङ्गुमभितश्च महीवराहौ ॥ ४६ ॥
ध्येयौ च पद्मयुगचक्रदरैः पुरोक्तौ
पाशाङ्कुशाख्यपरशुत्रिशिखैरथान्यौ ।
युग्मोत्पलेक्षुमयचापशरैस्तृतीया-
वन्त्यौ शुकाह्वकलमाग्रगदारथाङ्गैः ॥ ४७ ॥
ध्येयाः षट्कोणाश्रिषु परितः पाशाङ्कुशाभयेष्टकराः ।
सप्रमदा गणपतयो रक्ताकाराः प्रभिन्नमदविवशाः ॥
अग्राश्रावामोदः प्रमोदसुमुखौ (च) तमभितोऽश्रियुगे ।
पृष्ठे च दुर्मुखाख्यस्त्वमुमभितो विघ्नविघ्नकरौ ॥ ४९ ॥
सव्यापसव्यभागे तस्य ध्येयौ च शङ्ख(पुष्प ? पद्म)निधी ।
माक्षिकमाणिक्याभै वर्षन्तौ धारया धनानि सदा ॥ ५० ॥
१. 'र्तु' घ. पाठः.
१५८ शिल्परत्ने [उत्तरभागः
सिद्धिसमृद्धी चान्ये कान्तिमर्दनावती मदद्रवया ।
¹द्राविणिवसुधाराख्ये मधुमत्यपि विघ्ननिधियुगप्रमदाः
[॥ ५१ ॥
अथ बीजगणपतिः —
रक्तो रक्ताङ्गरागांशुककुसुमयुतस्तुन्दिलश्चन्द्रमौलि-
र्नेत्रैर्युक्तस्त्रिभिर्वामनकरचरणो बीजपूरात्तनासः ।
हस्ताग्राक्लृप्तपाशाङ्कुशरदवरदो नागवक्त्रोऽहिभूषो
देवः पद्मासनो वो भवतु नतसुरो भूतये विघ्नराजः
[॥ ५२ ॥
अथवा,
धृतपाशाङ्कुशकल्प(क)लतिकास्वरदश्च बीजपूरयुतः ।
शशिशकलकलितमौलिस्त्रिलोचनोऽ²रुणतनुश्च गज-
[वदनः ॥ ५३ ॥
भासुरभूषणदीप्तो बृहदुदरः पद्मविष्टरो ललितः ।
(ध्येयोऽनायतदोःपत्सरसिरुहः) संपदे सदा मनुजैः ॥ ५४ ॥
अपिच,
*रक्ताक्षमालां परशुं च दन्तं
भक्ष्यं च दोर्भिः परितो दधानम् ।
हेमावदातं त्रिदृशं गजास्यं
लम्बोदरं तं शिरसा नमामि ॥ ५५ ॥
अपिच,
*नमामि पाशाङ्कुशदन्तभक्ष्यसंलक्षितं त्र्यक्षमुदारकुक्षिम।
नागाननं नागकृतोत्तरीयमुत्तप्तहेमप्रभमेकदन्तम् ॥ ५६ ॥
१. 'व', २. 'ह' घ. पाठः.
- इमौ श्लोकौ घ-मातृकायां व्युत्क्रमेण दृश्येते ।
सुब्रह्मण्यः ] पञ्चविंशोऽध्यायः । १५९
अथवा ,
विघ्नेशं सपरश्वधाक्षवटिकादन्तोल्लसल्लड्डुकै-
र्दोर्भिः पाशसृणीस्वदन्तवरदाढ्यैर्वा चतुर्भिर्युतम् ।
शुण्डाग्राहितबीजपूरमुरुकुक्षिं त्रीक्षणं संस्मरेत्
सिन्दूराभमिभास्यमिन्दुशकलाद्याकल्पमब्जासनम् ॥ ५७॥
अथ हेरम्बः —
सिंहोपरिस्थितं देवं पञ्चवक्त्रं गजाननम् ।
दशबाहुं त्रिनेत्रं च जाम्बूनदसमप्रभम् ॥ ५८ ॥
प्रसादाभयदातारं पात्रं पूरितमोदकम् ।
स्वदन्तं सव्यहस्तेन बिभ्रतं चापि सुव्रते ! ॥ ५९ ॥
करकं चाक्षसूत्रं च परशुं मुद्गरं तथा ।
पाशाङ्कुशकरां शक्तिं देवं लम्बोदरं शुभम् ॥ ६० ॥
पीवरं चैकदन्तं चै तुम्बुरूणां गणान्वितम् ।
अथ बालगणपतिः —
बालः प्रसूतमात्रोऽयमम्बिकाङ्के निवेशितः ॥ ६१ ॥
अतिरक्तो गजमुखो द्विरदो रत्नभूषितः ।
चषकं पुष्करे बिभ्रत् सृगिपाशौ करद्वये ॥ ६२ ॥
द्वाभ्यां कल्पलतां दोर्भ्यां डोलयन् रत्नवर्षिणीम् ।
एवं ध्यात्वा जपेन्मन्त्रं बालाख्यं गणनायकम् ॥ ६३ ॥
अथ सुब्रह्मण्यः —
सिन्दूरारुणविग्रहं सुरगणानन्दप्रदं सुन्दरं
देवं दिव्यविनोदधाममरुणाकल्पप्रकारोज्ज्वलम् ।
१. 'र्वः' क. ख. ग. पाठः. २. 'स्कन्दः — सि' घ. पाठः.
१६० शिल्परत्ने [उत्तरभागः
नानाविभ्रमभूषणव्यतिकरं स्मेरप्रभासुन्दरं
वन्दे शक्त्यभयौ दधानमुदिताभीष्टप्रभावं गुहम् ॥ ६४ ॥
सिन्दूरारुणकान्तिमिन्दुवदनं केयूरहारादिभि-
र्दिव्यैराभरणैर्विभूषिततनुं स्व(र्णस्य ? र्णादि) सौख्यप्रदम् ।
अम्भोजाभयशक्तिकुक्कुट(व ? ध)रं रक्ताङ्गरागांशुकं
सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ ६५ ॥
अथवा,
स्फुरन्मुकुटपत्रकुण्डलविभूषितं चम्पक-
स्रजाकलितकन्धरं करयुगेन शक्तिं पविम् ।
दधानमथवा कटीकलितवामहस्तेष्टदं
गुरुं घुसृणभासुरं स्मरतु पीतवासोवसम् ॥ ६६ ॥
अथ नागयक्षी —
गात्रं यस्याः सुनेत्रं जलधरकबरीभारमाकल्पजालैः
[
मिश्रमूर्तिः ] पञ्चविंशोऽध्यायः । १६१
अथवा,
पार्श्वस्थापत्यदारं वटविटपितलन्यस्तसिंहासनस्थं
श्यामं कालाम्बराभं श्रितकरयुगलं + + चिन्तामणिं च ।
-
- निस्त्रिंशबाणासनविशिखयुतं रक्तमाल्यानुलेपं
वन्दे शास्तारमीड्यं घनकुटिलबृहत्कुन्तलोदग्रमौलिम्
[॥ ६९ ॥
अपिच —
अंसासक्तसुवर्णकर्णिकमुरोविस्तीर्णहारोज्ज्वलं
शृङ्गारोचितवेषविभ्रमसुखं श्यामांशुकं श्यामलम् ।
रक्तालेपनमाल्यदामदयितं नीलोल्लसत्कुन्तलं
वन्दे बाणशरासनोद्यतकरं वीरेशमाद्यं सदा ॥ ७० ॥
अथ प्रभा —
रक्ताकल्पोज्ज्वलां रक्तां सुरूपां कान्तयौवनाम् ।
धृतवीणां प्रभां वन्दे देवीं रक्तान्तलोचनाम् ॥ ७१ ॥
अथ सत्यकः —
तमालश्यामलं भद्रं पिङ्गलाकल्पसुन्दरम् ।
अधिज्यकार्मुकं वन्दे सत्यमव्यक्तयौवनम् ॥ ७२ ॥
अथ मिश्रमूर्तयः² ।
तत्र पूर्वमनुष्टुप्त्रयम् —
हेमाम्भोजे निषण्णं स्रवदमृतघटौ चक्रशङ्खौ कराब्जे-
ष्पक्षस्रक्कुण्डिकाख्ये शिरसि शशिकलां धारयन्तं सुभूषम् ।
१. 'कराल' ख. पाठः. २. 'र्तिः । त' क. ख. ग. पाठः,
w
- निस्त्रिंशबाणासनविशिखयुतं रक्तमाल्यानुलेपं
हेमाभं पीतवस्त्रं रविशशिदहनत्रीक्षणं चित्स्वरूपं
सर्वज्ञं सर्वगं^१ तं हरिहरविधिजं विश्वरूपं नमामि ॥ ७३ ॥
अथ शक्तिगणपतिः —
द्वाभ्यां विभ्राजमानं द्रुतकनकमहाशृङ्खलाभ्यां कराभ्यां
बीजापूरादिशुम्भद्दशभुजललितं पञ्चबीजस्वरूपम् ।
सन्ध्यासिन्दूरवर्णं स्तनभरनमितं तुन्दिलं सन्नितम्बं
कण्ठादूर्ध्वं करीन्द्रं युवतिमयमधो (तं ?) नौमि देवं
[गणेशम् ॥ ७४ ॥
अथ लक्ष्मीनारायणः —
चक्रं विद्यादरैर्^२घटगदादर्पणान् पद्मयुग्मं
दोर्भिर्बिभ्रत् सुरुचिरतरं मेघविद्युन्निभाभम् ।
गाढोत्कण्ठाविवशमनिशं पुण्डरीकाक्षलक्ष्म्यो-
रेकीभूतं वपुरवतु वः पीतकौशेयकान्तम् ॥ ७५ ॥
अथार्धनारीश्वरः —
पाशाङ्कुशौ जपपटीमभयं च बिभ्रद्
बालेन्दुचूड़मरुणाम्बुजगं त्रिनेत्रम् ।
बन्धूककाञ्चननिभोभयपार्श्वमव्या-
दर्धाम्बिकेशमनिशं रुचिरं वपुर्वः ॥ ७६ ॥
अपिच,
सिन्दू^३रकाञ्चनसंमोभयपार्श्वमर्ध-
नारीश्वरं गिरिसुताहरभूषचिह्नम् ।
——————————————————————————————
१. 'गन्धं ह', २. 'घ' क. ग. पाठः. ३. 'नुं' ख.
घ. पाठः
सौरमष्टाक्षरम् ।] पञ्चविंशोऽध्यायः । १६३
पाशाभयाक्षवलयेष्टदहस्तमेवं
स्मृत्वा न्यसेत् सकलवाञ्छितवस्तुसिद्धयै ॥ ७७ ॥
अपिच,
अरुणकनकवर्णं पद्मसंस्थं च गौरी-
हरनियमितचिह्नं सौम्यतानूनपातम् ।
भवतु भवदभीष्टप्राप्तये पाशटङ्का-
भयवरदविचित्रं रूपमर्धाम्बिकेशम् ॥ ७८ ॥
अथ शङ्करनारायणः —
ध्येयो जटामकुटचन्द्रकलार्धमूर्धा
त्रीक्षस्तरक्ष्वजिनपीतदुकूलवासाः ।
ईशाच्युतस्त्रिशिखचक्रकपालशङ्खान्
बिभ्रत् सितासितवपुर्युचितात्मभूषः ॥ ७९ ॥
अथ सूर्यः—
रक्तासिताम्भोजधरं कराभ्या-
मादीप्तभामण्डलमध्यसंस्थम् ।
सूर्यं पिशङ्गांशुकगन्धमाल्य-
मादीप्तदिव्याभरणं नमामि ॥ ८० ॥
अथ सौरमष्टाक्षरम् —
अरुणसरोरुहसंस्थ-
स्त्रिदृगरुणोऽरुणसरोजयुगलधरः ।
कलिताभयवरदकरो
द्युतिबिम्बोऽमितभूषणस्त्विनोऽवतु वः॥ ८१ ॥
१. 'त्र्य' घ. पाठः.
१६४ शिल्परत्ने [उत्तरभागः
अथ कामः —
अरुणमरुणवासोमाल्यदामाङ्गरागं
स्वकरकलितपाशं साङ्कुशास्रेक्षुचापम् ।
मणिमयमकुटाद्यैर्दीप्तमाकल्पजालै-
ररुणनलिनसंस्थं चिन्तयेदङ्गयोनिम् ॥ ८२ ॥
अपिच,
रक्ताम्भोरुहसंस्थितं करतले कोदण्डमिक्षूद्भवं
पुष्पास्त्रं वरदाभयौ च दधतं रक्ताङ्गरागादिकम् ।
वामाङ्कस्थितयोपगूढमनिशं रत्या च दत्तेक्षणं
तद्वक्राम्बुरुहे मनोहरतनुं वन्दे सदा मन्मथम् ॥ ८३ ॥
अथ वीरभद्रः —
गोक्षीराभं दधानं परशुडमरुकौ खड्गखेटौ कपालं
शूलं चाभीतिदाने त्रिनयनलसितं व्याघ्रचर्माम्बराढ्यम् ।
वेतालारूढमुग्रं कपिशतरजटाबद्धशीतांशुखण्डं
१ध्यायेद् भोगीन्द्रभूषं निजगणसहितं सन्ततं वीरभद्रम्
[॥ ८४ ॥
अथवा,
सितपङ्कजमध्यसंस्थमेनं सुसितं व्याघ्रनखादिबालचिह्नैः ।
उपलक्षितबालभावमाशापरिधानं कमनीयगात्रयष्टिम् ॥ ८५ ॥
अथ हनुमान् —
पिङ्गाक्षं पिङ्गकेशं शशरुधिरनिकाशास्यदोःपादपद्मं
प्रोद्यन्मार्ताण्डकोटिप्रतिम२तनुगलद्रश्मिभिर्दुर्निरीक्ष्यम् ।
१. 'भजेत्' । अ', २. 'मितत' घ. पाठः.
गरुडः ] पञ्चविंशोऽध्यायः । १६५
राकाचन्द्रांशुजालप्रसृमरनखदंष्ट्रांशुसन्दोहनश्यद्-
ध्वान्ताशाचक्रवालं कपिवरमनिशं वायुपुत्रं नमामि
[॥ ८६ ॥
अथवा,
वामे जानुनि वामबाहुमपरं ज्ञानाख्यमुद्रायुतं
हृद्देशे कलयन् वृतो मुनिगणैर्नासाग्रदत्तेक्षणः ।
आसीनः कदलीवने मणिमये बालार्ककोटिप्रभो
ध्यायन् ब्रह्म परं करोतु मनसः शुद्धिं हनूमान् मम
[॥ ८७ ॥
अथवा,
क्रोधोद्विग्नविघूर्णितारुणतरप्रौद्धान्तनेत्रद्वय-
प्रोद्यद्वह्निशिखास्फुलिङ्गनिकरप्लुष्टाहिचोरादिकम् ।
घोरं मेरुसमानदेहमरुणश्रोत्रास्यपादस्थलं
वन्दे मारुतिमाञ्जनेयमनिशं दंष्ट्राकरालाननम् ॥ ८८ ॥
अथ गरुडः —
आजानूत्तप्तहेमप्रभमथ + हिमप्रख्यमानाभि साक्षा-
दा कण्ठोत् कुङ्कुमाभं भ्रमरकुलसमश्यामलं मूर्ध्नि शान्तम्।
व्याप्तब्रह्माण्डगर्भं द्विभुजमभयदं पिङ्गनेत्रोग्रतारं
तार्क्ष्यं नीलाग्रनासाद्युतिविविधमहापक्षलक्ष्यं नमामि
[॥ ८९ ॥
अपिच,
पायाद् देवो गरुत्मानमृतघटगदाशङ्खचक्रासिना(गा)न्
बिभ्राणः कृष्णपादो निजकरकमलैरष्टभिः स्वर्णवर्णः ।
१. 'यद्वा' घ. पाठः. २. 'र्णा' क. ख. ग. पाठः.