शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 175, कुल 280 में से
संदर्भ में पढ़ें१५६ शिल्परत्ने [उत्तरभागः
अथवा,
विमलकमलसंस्थः सुप्रसन्नाननेन्दु-
र्वरदकुमुदहस्तश्चारुहारादिभूषः ।
स्फटिकरजतवर्णो वाञ्छितप्राप्तये वो
भवतु भवदभीष्टेद्योतिताङ्गैः (शशाङ्कः) ॥ ३५ ॥
अथ ब्रह्मा —
आषाढदण्डस्फटिकाक्षमालासुवर्णकुण्डीसरसीरुहाणि ।
।बिभ्राणमारक्तजटाकलापं चतुर्मुखं पीतरुचं नमामि ॥३६॥
अथ शेषः —
अनन्तश्चतुर्भुजः सौम्यः सर्वाभरणभूषितः ।
जपापुष्पनिभाकारः करण्डमकुटान्वितः ॥ ३७ ॥
सितवस्त्रधरः शान्तस्त्रिनेत्रः पद्मसंस्थितः ।
अभयं वरदं टङ्कं शूलं चैव धृतः करैः ॥ ३८ ॥
अथ महागणपतिः —
मन्दाराद्यैः कल्पकवृक्षविशेषैर्विशिष्टतरफलदैः ।
शिशिरितचतुराशान्तर्बालातपचन्द्रिकाकुले च तले ॥३९॥
ऐक्षवजलनिधिलहरीकणजालकवाहिना च गन्धवहेन ।
संसेविते च सुरतरुसुमनःश्रितमधुपपक्षचलनपरेण ॥४०॥
रत्नमये मणिवज्रप्रवालफलपुष्पपल्लवस्य सतः ।
महतोऽधस्तादृतुभिर्युगपत्संसेवितस्य कल्पतरोः ॥ ४१ ॥
सिंहमुखपादपीठगलिपिमयपद्मे त्रिषट्ककोणोल्लसिते ।
आसीनस्त्वेकरदो बृहदुदरो दशभुजोऽरुणो गजवदनः
[॥ ४२ ॥
१. 'वि', २. 'ष्टप्राप्तये वो' घ. पाठः. ३. 'ङ्कः । आ',
४. 'स्थि' क. ख. ग. पाठः,