सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)
Sarvarthasiddhi of Acharya Pujyapada on Tattvartha Sutra with Commentary
आचार्य उमास्वामी / पूज्यपाद (टीकाकार: पं. फूलचन्द्र सिद्धान्तशास्त्री) द्वारा
पृष्ठ 528, कुल 558 में से
संदर्भ में पढ़ें४१६ सर्वार्थसिद्धि
आज्ञा········॥३६॥
§ ८९०
३४४. ९ हेतुदृष्टान्तोपरमे हेतुदृष्टान्ताभावे । गहन-
पदार्थश्रद्धानात् — अशेषविशेषतोऽस्मदादिबुद्ध्यगोचर-
पदार्थसंघातश्रद्धानात् । विमुखाः पराङ्मुखाः ।
एकाश्रये········॥४१॥
§ ९००
३४८. १३ प्राप्तश्रुतज्ञाननिष्ठेन प्राप्तश्रुतज्ञानपर्यव-
सानेन ।
बीचारो········॥४४॥
§ ९०६
३४९. १५ द्रव्यपरमाणुं — द्रव्यस्य सूक्ष्मत्वम् । भाव-
परमाणुं — पर्यायस्य सूक्ष्मत्वम् । अपर्याप्तबालोत्साह-
वत् — असमर्थबालोत्साहवत् । समूलतूलं — तत्कारण-
भूतसूक्ष्मलोभेन सह । निरुपलेपः — अकलङ्कः ।
गभस्तिः — किरणः । मेघपञ्जरवि(नि) रोधः — मेघ-
पटलप्रच्छादनम् । घर्मरश्मिः — आदित्यः । आत्मन
उपयोगातिशयस्य — व्यापारविशेषस्य । विशिष्टकरण-
स्य — विशिष्टानि दण्डकपाटादीनि करणानि यत्र ।
सामायिकसहायस्य — सामायिकं यथाख्यातचारित्रं
सहायं यस्य ।
पुलाक········॥४६॥
§ ९१०
३५३. ६ अविशुद्धपुलाकसादृश्यात् — अविशुद्ध-
तण्डुलसादृश्यात् । अविविक्तपरिवारः — असंयतपरि-
वारः । परिपूर्णोभयाः — परिपूर्णमूलोत्तरगुणाः । दण्ड-
राजिवत् — दण्डरेखावत् । उद्विद्यमानः — उत्पद्यमानः ।
संयम········॥४७॥
§ ९१२
३५४. ३ अनुयोगैः — प्रश्नैः ।
§ ९१३
३५४. ७ अभिन्नक्षरदशपूर्वधराः — परिपूर्णदशपूर्व-
धराः अक्षरेणापि भिन्नानि न्यूनानि न भवन्तीति ।
§ ९१३
३५४. ९ अष्टौ प्रवचनमातरः — पञ्चसमितित्रिगुप्ति-
प्रतिपादकागमः ।
§ ९१४
३५४. १० पञ्चानां मूलगुणानां रात्रिभोजनवर्जनस्य
च पराभियोगात् — परोपरोधात् । श्रावकानुपकारो-
ऽनेनेति मत्वा । अन्यतममेकं प्रतिसेवमानो — विराध-
यन् । रात्रिभोजनवर्जनस्य कथं विराधनेति चेत्
छात्रादिकं रात्री भोजयन् विराधको भवति ।
§ ९१४
३५४. १२ शरीरसंस्कारो — अभ्यङ्गमर्दनादिः ।
§ ९१७
३५५. १ बकुशप्रतिसेवनाकुशील्योः षडपि । कृष्ण-
लेश्यादित्रयं कथं तयोरिति चेदुच्यते तयोरुपकरणा-
सक्तिसंभवादार्तध्यानं कादाचित्कं संभवति । आर्त-
ध्यानेन च कृष्णलेश्यादित्रयं संभवतीति । कषाय-
कुशीलस्य चतस्र उत्तराः कपोतलेश्या ततोऽप्युक्त-
न्यायेन बोद्धव्या तस्यापि संज्वलनमात्रान्तरङ्गकषाय-
सद्भावेन परिग्रहासक्तिमात्रसद्भावात् ।
§ ९१९
३५५. ७ कषायनिमित्तानि — कषायास्तारतम्यभावेन
भिद्यन्ते इति कषायनिमित्तानीत्युच्यन्ते । तत्र तेषु
असंख्यातमानावच्छिन्नसंयमस्थानेषु मध्ये सर्वजघ-
न्यानि लब्धिस्थानानि — संयमस्थानानि ।
इति नवमोऽध्यायः ।
मोहक्षयात्········॥१॥
§ ९२१
३५६. १२ अथाप्रवृत्तकरणपूर्वचारित्रम् । यदि वा
अथाप्रवृत्तकरणं — अथाप्रवृत्तकरणमुच्यते परिणामविशेष
इत्यर्थः । कीदृशास्ते तच्छब्दवाच्या इति चेत् उच्यते—
एकस्मिन्नेकस्मिन् समये एकैकजीवस्यासंख्येयलोक-