सामग्री पर जाएँ
सर्वकोश
सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)

सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)

Sarvarthasiddhi of Acharya Pujyapada on Tattvartha Sutra with Commentary

आचार्य उमास्वामी / पूज्यपाद (टीकाकार: पं. फूलचन्द्र सिद्धान्तशास्त्री) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 523, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 523

[Page header]
परिशिष्ट २ ४११

[स्तम्भ १]
यन्त्यामनेन भाण्डेन महान् लाभ इति तदतिक्रम्य
गच्छति ।
§. ७१९
२७९. ४ तदेवोभयं—प्रहासाशिष्टवागुभयं दुष्ट-
कायकर्मप्रयुक्तं भण्डिमाप्रदर्शककार्यव्यापारविशिष्टं ।
परत्र उपहसनीय प्राप्यन्तरे ।
§. ७२१
२८०. ४ क्षुद्भ्यर्दितत्वात्—बुभुक्षापीडितत्वात् ।
§. ७२२
२८०. ८ द्रवो वृष्यो वाभिषवः—द्रवो रात्रिचतुः-
प्रहरैः क्लिन्न ओदनादिः । वृष्यं इन्द्रियबलवर्धनं
माषविकारादि । दुष्पक्वस्य प्रासुकत्वात्तत्सेवने को
दोषः । इति चेदुच्यते दुष्पक्वोऽक्लिन्नस्तत्सेवने
चोदरपीडादिप्रादुर्भावादग्न्यादिप्रज्वालने महान्संयम
इति तत्परिहारः श्रेयान् ।
§. ७२३
२८०. १३ परव्यपदेशः कथमतीचारः । इति
चेदुच्यते, लोभावेशादतिथिवेलायामपि द्रव्योपायं
परित्यक्तुमशक्नुवताऽन्यदातृहस्तेन दाप्यते इति ।
§. ७२८
२८२. १ विधिः प्रतिग्रहादिक्रमः ।
^१पडिगहमुच्चट्ठाणं पादोदगमच्चणं च पणमं च ।
मणवय णकायसुद्धा एसणसुद्धाए णवविहं पुण्णं ॥
—[ वसु० श्रा० २२४ ]
इति सप्तमोऽध्यायः ।
§. ७३२
२८४. ७ षट्कायः षड्जीवनिकायः । चत्वारो
मनोयोगाः सत्यासत्योभयानुभयविकल्पात् । तथा

[स्तम्भ २]
वाग्योगाश्च । एवं काययोगा औदारिकौदारिकमिश्र-
वैक्रियकवैक्रियकमिश्रकार्मणभेदात् पञ्च । शुद्धचष्टकं
शुद्धया उपलक्षितमष्टकं शुद्धयष्टकम् । किं पुनरष्टक-
मिति चेत् । मनोवाक्काय-भैक्ष्यांपथशयनासनविनय-
प्रतिष्ठापनलक्षणम् ।
§. ७३४
२८५. ६ जठराग्न्याशयात् जठराग्निवशात् । अहस्तः
अबाहुः । मिथ्यादर्शनाद्यावेशात् मिथ्यादर्शनाद्याग्रहात्
आर्दीकृतस्य सकषायीकृतस्य । अविभागेन एका-
कारेण ।
§. ७३६
२८७. ११ अपरिणद उपशान्तकषायः । उच्छिण्णः
क्षीणकषायादिः । अथवा अपरिणदो—नित्यैकान्त-
वादी । उच्छिण्ण-क्षणिकैकान्तवादी ।
§. ७४९
२९२. ५ सरूकर्मापेक्षया—कर्मसत्तामात्रापेक्षया ।
निरुत्सुकः पराङ्मुखः । शुभपरिणामनिरुद्धस्वरसं—
शुभपरिणामनिराकृतफलदानसामर्थ्यं । सामिशुद्धस्व-
रसं ईषत्प्रक्षालितसामर्थ्यम् ।
§. ७५५.
२९५. ११ शरीरनिर्वृत्तिः—शरीरनिष्पत्तिः । अंगो-
पांगः तत्राष्टावङ्गानि ।
उक्तं च—
णलया बाहू या तहा णियंवपुट्ठी उरो य सीसं च ।
अट्ठेवदु अंगांइ सेसे^२ उवंगा दु देहस्स ॥
कर्णनासिकानयनोत्तराधरोष्ठाङ्गुल्यादीन्युपाङ्गानि ।
न्यग्रोधो वटवृक्षः । स्वातिः वल्मीकः । हुण्डसंस्थान-
मविच्छिन्नानवयवसंस्थानम् । असृक्पाटिका चिंचा ।
§ ७५५
२९७. ४ स्वयंकृतोद्वन्धन—उद्वेगाद् गले पाशं
बद्ध्वा मरणार्थं वृक्षादावलम्बनम् । मरुत्पतनं—
प्राणापातनिरोधनं गिरि पतनं च ।

[पाद-टिप्पणी]
१. वसु० श्रा०, २२४ । २. देहे सेसा उवंगाई ।-कर्म० गो०, गा० २८ ।