सामग्री पर जाएँ
सर्वकोश
सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)

सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)

Sarvarthasiddhi of Acharya Pujyapada on Tattvartha Sutra with Commentary

आचार्य उमास्वामी / पूज्यपाद (टीकाकार: पं. फूलचन्द्र सिद्धान्तशास्त्री) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 453, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 453
  • ९।२९ § ८७६ ] नवमोऽध्यायः ३४१
    निरोध इति । किं तर्हि । कर्मसाधनः, 'निरुध्यत इति निरोधः' । चिन्ता चासौ निरोधश्च चिन्ता-
    निरोध इति । एतदुक्तं भवति — ज्ञानमेवापरिस्पन्दाग्निशिखावदवभासमानं ध्यानमिति ।
    § ८७३. तद्भेदप्रदर्शनार्थमाह—
    आर्त्तरौद्रधर्म्यशुक्लानि ॥२८॥
    § ८७४. ऋतं दुःखम्, अर्दनमर्तिर्वा, तत्र भवमार्तम् । रुद्रः क्रूराशयस्तस्य कर्म तत्र भवं वा ५
    रौद्रम् । धर्मो व्याख्यातः । धर्मादनपेतं धर्म्यम् । शुचिगुणयोगाच्छुक्लम् । तदेतच्चतुर्विधं ध्यानं
    द्वैविध्यमश्नुते । कुतः । प्रशस्ताप्रशस्तभेदात् । अप्रशस्तमपुण्यास्रवकारणत्वात् । कर्मनिर्दहनसाम-
    र्थ्यात्प्रशस्तम् ।
    § ८७५. किं पुनस्तदिति चेदुच्यते—
    परे मोक्षहेतू ॥२९॥ १०