सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)
Sarvarthasiddhi of Acharya Pujyapada on Tattvartha Sutra with Commentary
आचार्य उमास्वामी / पूज्यपाद (टीकाकार: पं. फूलचन्द्र सिद्धान्तशास्त्री) द्वारा
पृष्ठ 424, कुल 558 में से
संदर्भ में पढ़ें३१२ सर्वार्थसिद्धौ [ ९।३ § ७९० –
सम्यग्गमनं समितिः । इष्टे ¹ स्थाने धत्ते इति धर्मः । शरीरादीनां स्वभावानुचिन्तनमनुप्रेक्षा ।
क्षुदादिवेदनोत्पत्तौ कर्मनिर्जरार्थं सहन परिषहः । परिषहस्य जयः परिषहजयः । चारित्रशब्द
आदिसूत्रे व्याख्यातार्थः । एतेषां गुप्त्यादीनां संवरणक्रियायाः साधकतमत्वात् करणनिर्देशः ।
संवरोऽधिकृतोऽपि 'स' इति तच्छब्देन परामृश्यते गुप्त्यादिभिः साक्षात्संबन्धनार्थः ² । किं प्रयोजनम् ।
अवधारणार्थम् ³ । स एष संवरो गुप्त्यादिभिरेव नान्येनोपायेनेति । तेन तीर्थाभिषेकदीक्षाशीर्षोप- ⁴
हारदेवताराधनादयो निवर्तिता भवन्ति; रागद्वेषमोहोपात्तस्य कर्मणोऽन्यथा निवृत्त्यभावात् ।
§ ७९०. संवरनिर्जरा हेतुविशेषप्रतिपादनार्थमाह—
तपसा निर्जरा च ॥३॥
§ ७९१. तपो धर्मेऽन्तर्भूतमपि पृथगुच्यते उभयसाधनत्वख्यापनार्थं संवरं प्रति प्राधान्यप्रति-
पादनार्थं च । ननु च तपोऽभ्युदयाङ्गमिष्टं देवेन्द्रादिस्थानप्राप्तिहेतुत्वाभ्युपगमात् ⁵, तत् कथं
निर्जराङ्गं स्यादिति । नैष दोषः; एकस्यानेककार्यदर्शनादग्निवत् । यथाग्निरेकोऽपि ⁶ विक्लेदन-
भस्माङ्गारादिप्रयोजन उपलभ्यते तथा तपोऽभ्युदयकर्मक्षयहेतुरित्यत्र को विरोधः ।
है