सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)
Sarvarthasiddhi of Acharya Pujyapada on Tattvartha Sutra with Commentary
आचार्य उमास्वामी / पूज्यपाद (टीकाकार: पं. फूलचन्द्र सिद्धान्तशास्त्री) द्वारा
पृष्ठ 390, कुल 558 में से
संदर्भ में पढ़ें§ ७१५. क्षेत्रं सस्याधिकरणम् । वास्तु आगारम् । हिरण्यं रूप्यादिव्यवहारतन्त्रम् । सुवर्णं
प्रतीतम् । धनं गवादि । धान्यं व्रीह्यादि । दासीदासं भृत्यस्त्रीपुंसवर्गः । कुप्यं क्षौमकार्पासकौशे-
यचन्दनादि । क्षेत्रं च वास्तु च क्षेत्रवास्तु, हिरण्यं च सुवर्णं च हिरण्यसुवर्णम्, धनं च धान्यं च
धनधान्यम्, दासी च दासश्च दासीदासम् । क्षेत्रवास्तु च हिरण्यसुवर्णं च धनधान्यं च दासीदासं
च कुप्यं च क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यानि । एतावानेव परिग्रहो मम नान्य इति
परिच्छिन्नाणुप्रमाणात्क्षेत्रवास्त्वादिविषयादतिरेका अतिलोभवशात्प्रमाणातिक्रमा इति प्रत्याख्या-
यन्ते । त एते परिग्रहपरिमाणव्रतस्यातिचाराः ।
§ ७१६. उक्ता व्रतानामतिचाराः शीलानामतिचारा वक्ष्यन्ते । तद्यथा—
ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि ॥ ३० ॥
§ ७१७. परिमितस्य दिगवधेरतिलङ्घनमतिक्रमः । स समासतस्त्रिविधः—ऊर्ध्वातिक्रमः
अधोऽतिक्रमस्तिर्यग्गतिक्रमश्चेति । तत्र पर्वताद्यारोहणादूर्ध्वातिक्रमः । कूपावतरणादेरधोऽतिक्रमः ।
बिलप्रवेशादेस्तिर्यग्गतिक्रमः । परिगृहीताया दिशो लोभावेषादाधिक्याभिसन्धिः क्षेत्रवृद्धिः । स
एषोऽतिक्रमः प्रमादान्मोहाद् ³व्यासङ्गाद्वा भवतीत्यवसेयः । अननुस्मरणं स्म