सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)
Sarvarthasiddhi of Acharya Pujyapada on Tattvartha Sutra with Commentary
आचार्य उमास्वामी / पूज्यपाद (टीकाकार: पं. फूलचन्द्र सिद्धान्तशास्त्री) द्वारा
पृष्ठ 362, कुल 558 में से
संदर्भ में पढ़ें२५० सर्वार्थसिद्धौ [ ६।१५ § ६३७ -
स्तोकक्रोधानुत्सुकत्वस्वदारसंतोषादिः पुंवेदनोयस्य । प्रचुरकषायगुह्येन्द्रियव्यपरोपणपराङ्गनावस्क¹-
न्दादिर्नपुंसकवेदनीयस्य ।
§ ६३७. निर्दिष्टो मोहनीयस्यास्रवभेदः । इदानीं तदनन्तरनिर्दिष्टस्यायुष² आस्रवहेतौ वक्तव्ये
आद्यस्य नियतकालपरिपाकस्यायुषः कारणप्रदर्शनार्थमिदमुच्यते—
बह्वारम्भपरिग्रहत्वं नारकस्यायुषः ॥ १५ ॥
§ ६३८. आरम्भः प्राणिपीडाहेतुर्व्यापारः । ममेदंबुद्धिलक्षणः परिग्रहः । आरम्भाश्च परि-
ग्रहाश्च आरम्भपरिग्रहाः । बहव आरम्भपरिग्रहा यस्य स बह्वारम्भपरिग्रहः । तस्य भावो
बह्वारम्भपरिग्रहत्वम् । हिंसादिक्रूरकर्माजस्रप्रवर्तनपरस्वहरणविषयातिगृद्धिकृष्णलेश्याभिजातरौद्र-
ध्यानमरणकालतादिलक्षणो नारकस्यायुष आस्रवो भवति