सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)
Sarvarthasiddhi of Acharya Pujyapada on Tattvartha Sutra with Commentary
आचार्य उमास्वामी / पूज्यपाद (टीकाकार: पं. फूलचन्द्र सिद्धान्तशास्त्री) द्वारा
पृष्ठ 330, कुल 558 में से
संदर्भ में पढ़ेंसामान्यलक्षणमुक्तम्¹ 'अजीवकायाः' इति । विशेषलक्षणं नोक्तम् । तत्किमित्यत्रोच्यते—
स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥२३॥
§ ५७०. स्पृश्यते स्पर्शनमात्रं वा स्पर्शः । सोऽष्टविधः; मृदुकठिनगुरुलघुशीतोष्णस्निग्धरूक्ष-
भेदात् । रस्यते रसनमात्रं वा रसः । स पञ्चविधः; तिक्ताम्लकठुकमधुरकषायभेदात् । गन्ध्यते
गन्धनमात्रं वा गन्धः । स द्वेधा; सुरभिरसुरभिरिति । वर्ण्यते वर्णनमात्रं वा वर्णः । स पञ्चविधः;
कृष्णनीलपीतशुक्लोहितभेदात् । त एते मूलभेदाः प्रत्येकं संख्येयासंख्येयानन्तभेदाश्च भवन्ति ।
स्पर्शाश्च रसाश्च गन्धश्च वर्णाश्च स्पर्शरसगन्धवर्णास्त एतेषां सन्तीति स्पर्शरसगन्धवर्णवन्त इति ।
नित्ययोगे ³मतुन्निर्देशः । यथा क्षीरिणो न्यग्रोधा इति । ननु च रूपिणः पुद्गला इत्यत्र पुद्गलानां
रूपवत्त्वमुक्तं तदविनाभाविनश्च रसादयस्तत्रैव परिगृहीता इति व्याख्यातं तस्मात्तेनैव पुद्गलानां
रूपादिमत्त्वसिद्धेः सूत्रमिदमनर्थकमिति । नैष दोषः; 'नित्यावस्थितान्यरूपणि' इत्यत्र धर्मादीनां
[L11