सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)
Sarvarthasiddhi of Acharya Pujyapada on Tattvartha Sutra with Commentary
आचार्य उमास्वामी / पूज्यपाद (टीकाकार: पं. फूलचन्द्र सिद्धान्तशास्त्री) द्वारा
पृष्ठ 298, कुल 558 में से
संदर्भ में पढ़ें१८६ सर्वार्थसिद्धौ [ ४।२२ § ४८४ -
सानत्कुमारमाहेन्द्रयोः षडरत्निप्रमाणम् । ब्रह्मलोकब्रह्मोत्तरलान्तवकापिष्ठेषु पञ्चारत्निप्रमाणम् ।
शुक्रमहाशुक्रशतारसहस्रारेषु चतुररत्निप्रमाणम् । आनतप्राणतयोरर्द्धचतुर्थारत्निप्रमाणम् । आरणा-
च्युतयोस्त्र्यरत्निप्रमाणम् । अधोग्रैवेयकेषु अर्द्धतृतीयारत्निप्रमाणम् । मध्यग्रैवेयकेष्वरत्निद्वयप्रमा-
णम् । उपरिग्रैवेयकेषु अनुदिशविमानकेषु च अध्यर्द्धारत्नि१प्रमाणम् । अनुत्तरेष्वरत्निप्रमाणम् ।
५ परिग्रहश्च विमानपरिच्छदादिरूपयु'परि हीनः । अभिमानश्चोपर्यु'परि तनुकषायत्वाद्धीनः ।
§ ४८४. पुरस्तात्त्रिषु निकायेषु देवानां लेश्याविधिरुक्तः । इदानीं वैमानिकेषु लेश्याविधि-
प्रतिपत्त्यर्थमाह—
पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥२२॥
§ ४८५. पीता च पद्मा च शुक्ला च२ ताः पीतपद्मशुक्लाः ।