सामग्री पर जाएँ
सर्वकोश
सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)

सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)

Sarvarthasiddhi of Acharya Pujyapada on Tattvartha Sutra with Commentary

आचार्य उमास्वामी / पूज्यपाद (टीकाकार: पं. फूलचन्द्र सिद्धान्तशास्त्री) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 212, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 212

१०० सर्वार्थसिद्धौ [ १।३३ § २४५ -
§ २४५. ऋजुं प्रगुणं सूत्रयति १ तन्त्रयतीति ऋजुसूत्रः । २पूर्वापरांस्त्रिकालविषयानतिशय्य
वर्तमानकालविषयानादत्ते३ अतीतानागतयोर्विनष्टानुत्पन्नत्वेन व्यवहाराभावात् । तच्च वर्तमानं
समयमात्रम् । तद्विषयपर्यायमात्रग्राह्यमृजुसूत्रः । ननु संव्यवहारलोपप्रसङ्ग इति चेद्४ । न; अस्य
नयस्य विषयमात्रप्रदर्शनं क्रियते । सर्वनयसमूहसाध्यो हि लोकसंव्यवहारः ।
§ २४६. लिङ्गसंख्यासाधनादिव्यभिचारनिवृत्तिपरः शब्दनयः । तत्र लिङ्गव्यभिचारः-
पुष्यस्तारका नक्षत्रमिति । संख्याव्यभिचारः - जलमापः, वर्षा ऋतुः, आम्रा वनम्५, वरणा नगर-
मिति । साधनव्यभिचारः६- सेना७ पर्वतमधिवसति । पुरुषव्यभिचारः - एहि८ मन्ये रथेन यास्यसि,
न हि यास्यसि, यातस्ते पितेति । कालव्यभिचारः - विश्वदृश्वाऽस्य पुत्रो जनिता । ९