सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । ५१३
(द्वौ ?) बालपंजरकस्यैतौ मध्ये प्रतिरथस्य च ।
प्रतीरथः पञ्जरो वा (बा)लपञ्जरकस्तथा ॥ ५१ ॥
शालापल्लविकां यावदेतानि तु पृथक् पृथक् ।
भागार्धनिर्गमानि स्युर्भागा येऽष्टादशोदिताः ॥ ५२ ॥
विभजयेत् तान् दशभिर्विभागैर्वास्तुतत्त्ववित् ।
गर्भो भित्तिः समुच्छ्रायो वेदिकाजङ्घयोरपि ॥ ५३ ॥
आद्यभूम्युच्छ्रितिस्तद्वदुच्छ्रायः शिखरस्य च ।
प्रासादेऽस्मिन्निदं सर्वं पूर्व(वत्) कथितं बुधैः ॥ ५४ ॥
तत् पञ्चत्रिंशता भागैः पादोनैः शिखरं भवेत् ।
द्वितीया भूमिका कार्या ततः पञ्चपदोच्छ्रिता ॥ ५५ ॥
पदपादविहीनास्तु शेषाः स्युः (सप्त ?) भूमयः ।
पादोनभागद्वितयं वेदिकायाः समुच्छ्रितिः ॥ ५६ ॥
स्कन्धस्य विस्तृती रेखा घण्टाथ कलशस्तथा ।
शालायां शूरसेनाश्च स्तम्भकूटादिकल्पना ॥ ५७ ॥
शुकनासोच्छ्रितिर्भूमिप्रवेशश्चेह पूर्ववत् ।
य इमं कारयेद् भक्त्या प्रासादं नवमालिकम् ॥ ५८ ॥
तुष्यन्ति देवतास्तस्य भवन्ति च समृद्धयः ।
नवमालिकः ॥
इदानीमभिधीयन्ते प्रासादा वृक्षजातयः ॥ ५९ ॥
वल्लभाः सर्वदेवानां भूमिजाः पुरभूषणम् ।
आश्रयः श्रेयसामेको यशसामपि राशयः ॥ ६० ॥
भुक्तिमुक्तिप्रदातारः (समागते कृता ?) नृणाम् ।
तत्राद्यः कुमुदो नाम कमलः कमलोद्भवः ॥ ६१ ॥
(कि)रणः शतशृङ्गश्च निरवद्यस्तथापरः ।
सर्वाङ्गसुन्दरश्चेति प्रासादा वृत्त(क्ष)जातयः ॥ ६२ ॥
न विस्तरान् संक्षेपालक्ष्मैषामथ कीर्त्यते ।
तत्राद्यः कुमुदो नाम सर्वानन्दकृदुच्यते ॥ ६३ ॥
१ द. पि । २ द. ॰पल्लिकां । ३ द. य । ४ द. र्वा । ५ द. ती । ६ द. त्त ।

५१६ समराङ्गणसूत्रधारे
चतुरश्रीकृते क्षेत्रे विस्तारायामतः समे ।
विभक्ते दशभिर्भागैर्भवेद् गर्भस्त्रिषट्पदः ॥ ६४ ॥
तत्र॑ शेषेण कुर्वीतं ++++ चतुष्टयम् ।

  • ततः कर्णसूत्रेण तत्र वृत्तं समालिखेत् ॥ ६५ ॥
    दिग्विद्दिक्ष्वष्ट कर्णाः स्युः सलिलान्त(रभूषिताः) ।
    समन्त(२?)भूमिपर्यन्तं दशभिः स्यादयं पदैः ॥ ६६ ॥
    वेदीबन्धो विधातव्यः सार्धों³शस्य पदद्वयम् ।
    ⁴++++++ सार्धचतुर्भिर्विभजेत् पदैः ॥ ६७ ॥
    कुम्भकं द्वि ⁵+++++++++++।
    (भागा)र्धेनान्तरं पत्रं कपोताली च भागिका ॥ ६८ ॥
    वेदीबन्धोऽयमित्युक्तो जङ्घोत्सेध ++++।
    (⁷स्यादर्ध) पञ्चमैर्भागैः सोच्छालै⁸स्तलकुम्भकः ॥ ६९ ॥
    आद्यभूमौ भवेत् कूटं भागत्रितयलक्षितम् ९।
    प्रासां¹⁰दे पञ्चदशभिर्विभजेत समुच्छ्रयम् ॥ ७० ॥
    द्वितीया भूमिका तत्र कार्या पञ्चांशकोच्छ्रितां¹¹ः ।
    अर्धेनोच्छालकस्तम्भैः कूटोच्छायास्तै¹²थोर्ध्वतः ॥ ७१ ॥
    पादोनैः पञ्चभिर्भूमिं तृतीयां परिकल्पयेत् ।
    चतुर्थी रचयेद् भागैर्भूमिकामर्धपञ्चमैः ॥ ७२ ॥
    द्वितीय॑¹³भूमिकावत् स्यात् कूटस्तम्भादिकल्पना ।
    वेदिका(दी)भागोच्छ्रिता कार्या षट्पदां स्कन्धविस्तृतिः ॥ ७३ ॥
    षड्गुणेन च सूत्रेण वेणुकोशं समालिखेत् ।
    प्रासादपञ्चमांशेन कार्या घण्टासमुच्छ्रितिः ॥ ७४ ॥
    घण्टोत्सेधं ततस्तस्य त्रिभिर्भागैर्विभाजयेत् ।
    कण्ठग्रीवाण्डकान्यस्य भागे¹⁴न न(नैकेन) कारयेत् ॥ ७५ ॥
    १ द. तः । २ द. तस्य भित्ति । ३ द. र्ध । ४ द. वेदीबंधमिमं सार्ध । ५ द. पदं कुर्या-
    द्भागेन च मसूरक । ६ द. तस्वस्तु कथ्यते । ७ द. स्यात्सार्ध । ८ द. 'स्त' स्थाने त । ९ द. इतः परं
    प्रासादवृत्त मध्यं यत्तद्ब्रूद्देशभिः पदैः । अंशांसमीन भूम्यर्थे स्कंधा तद्वयथदोच्छ्रयः । इत्यधिकं पाठः ।
    १० द. सप्रादाः । ११ द. ताः । १२ द. स्तथार्थतः । १३ द. या । १४ द. भाग भागेन ।

भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । ५१७
षड्भागभक्तघण्टायाः समन्ताद् भागविच्युतेः ।
भागैश्चतुर्भिः कर्तव्ये घण्टे¹ कण्ठस्य विस्तरम्² ॥ ७६ ॥
घण्टोत्सेधार्धतः कुर्याद् घण्टार्धे पद्मशीर्षकम् ।
घण्टोत्सेधसमा कुम्भे बीजपूरैर्वितो(समु)च्छ्रितिः³ ॥ ७७ ॥
( चतुरश्रांजितोच्छ्रायो विस्तारः ⁴कलशः स्मृताः ?) ।
य इमं कारयेत् प्रीत्या ⁵प्रासादं कुमुदाभिधम् ॥ ७८ ॥
स मोदते जगद्भर्तुः शिवस्य भवने शुभे ।
कुमुदप्रासादः ॥
अथातः सम्प्रवक्ष्यामः प्रासादं कमलाभिधम् ॥ ७९ ॥
चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ।
ततः कर्णार्धसूत्रेण वृत्तं ⁶तत्र समालिखेत् ॥ ८० ॥
विस्तीर्णं पञ्चभिर्भागैः कुर्याद् (भद्र) चतुष्टयम् ।
( ⁷सुरेन्द्रसमर्त्तायस ? )कुवेराशाखनुक्रमात् ॥ ८१ ॥
भवेत् पल्लविका(या)स्तु विस्तारो भागपादिकः ।
भागेन (कां⁹?) कार्या (भद्रा)णां निर्गमा वृत्तबाह्यतः¹⁰ ॥ ८२ ॥
शालायाः प्रतिभद्रं स्यात् कर्णिकार्धेन निर्गता(तम्) ।
पादोनभागत्रितयात् कार्या वि(वृ¹¹)त्तस्य विस्तृतिः ॥ ८३ ॥
द्विभागविस्तरायामौ¹² ( ¹³रंशुकं द्वयमतोध्यगौ ? ) ।
परिवर्त नया कार्यों द्वौ कोणौ सोदकान्तरौ ॥ ८४ ॥
पूर्वप्रासादवद् गर्भो विधेयो भित्तयोऽपि च ।
वेदीबन्धादिकुम्भान्तं सर्वमेतस्य पूर्ववत् ॥ ८५ ॥
द्वितीयभूमिपर्यन्तमूर्ध्वं प्रथमभूमितः ।
शूरसेनं विधातव्यं शालासु वि(श्लि)ष्टमुत्तमम् ॥ ८६ ॥
कूटस्तम्भादिकन्यासाः¹⁴ कोणप्रतिरथादिषु ।
( शाला स्याग्नोंगरास्तले¹⁵ ? ) पञ्चांशा द्वयंशकोपरि ॥ ८७ ॥
१ द. ण्टो । २ द. रः । ३ द. पूजविनो । ४ द. कलशो स्मृतः । ५ द. कीर्त्या । ६ द. च ।
७ मुद्रित पुस्तके 'सुरेन्द्रयमतोषेश' इति स्यात् । ८ द. तोयेश । ९ द. सु । १० द. कर्णिका ।
११ द. द्वृ । १२ द. मो । १३ मु. पु. रथकद्वयमध्यगौ इति स्यात् । १४ द. सः । १५ द. न्ना ।

५१८ समराङ्गणसूत्रधारे
शिखरस्य त्रिभागोना शुकाग्रायाः समुच्छ्रितिः ।
यं¹ एनं कमलं नाम प्रासादं कारयेन्नृपः ॥ ८८ ॥
त्रैलोक्ये² कमलाधीशविजये( यी ) स भवेन्नृपः ।
कमलप्रासादः ॥
अथातः कथ्यते सम्यक् प्रासादः कमलोद्भवः ॥ ८९ ॥
सदा लक्ष्मीपतिर्यत्र देवो विश्राम्यति स्वयम् ।
चतुरश्रीकृते क्षेत्रे चतुर्दशभि( रंशितै³ ) ॥ ९० ॥
⁴++++++स्तारो भद्रं पञ्चपदं भवेत् ।
वि( द्वि )भागायामविस्तारौ( राः ) कार्याः प्रतिरथास्तथा ॥ ९१ ॥
कोण⁵ ++++++++++++++।
कार्या( र्यः ) पल्लविकायाश्च नि( र्गमो ) वृत्तमध्यतः ॥ ९२ ॥
शालाविभक्तिश्चैतस्य कर्त ६++++++।
⁷++++++++ न्तरेषु स्याज्जलान्तरम् ॥ ९३ ॥
द्व्यङ्गुलं ( त्र्यङ्गुलं ) वापि तद् विधेयं विपश्चिता ।
भागा ⁸+++++++++++ ल्पयेत् ॥ ९४ ॥
प्रासादस्यास्य⁹ +++ भाजयेद् दशभिः पदैः ।
गर्भश्च पूर्ववत् कार्यः¹⁰ पूर्ववद् भित्तयोऽपि च ॥ ९५ ॥
प्राग्वत् खुरवरण्डी स्याज्जङ्घाकूटाद्यभूमिका( ः ) ।
शिखरस्योच्छ्रितिः प्राग्वत् तां सार्धैकानु( न्न )विंशतिम् ॥ ९६ ॥
भागान् कुर्यात् ततः कार्या भूर्द्वितीयांशपञ्चकर्मै¹¹ ।
कार्यास्तिस्रो भुवः शेषाः पादपादपरिच्युताः¹² ॥ ९७ ॥
भागं वेदी भूप्रवेशः कार्यों रेखावशादितैः¹³।
पूर्ववच्चार्थ( र्थ ) विस्तारः स्याद् घण्टाकलशादि वा ॥ ९८ ॥
१ द. य एवं तं क ं । २ द. क्य । ३ द. क । ४ द. द्विपदः कर्ण त्रि ं । ५ द. कोणसून्ना-
परानृत्तेरष्टौ वृत्तस्य मध्यतः । ६ द. व्या पूर्ववच्छुभाः । ७ द. कोणशाला प्रतिरथा ं । मु. पु. ‘शालाकोण-
प्रतिरथा ’ इति पूरणीयं भाति । ८ द. श्रतुर्दशैते ये पूर्वं क्षेत्रं प्रक ं । ९ द. ˚स्यास्य व्यर्थं ता भजेद् ं ।
१० द. र्या । ११ द. कात् । १२ द. ते । १३ द. ह ।

भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । ५१९
कूटस्तम्भादिकं प्राग्वच्छुक्कनासोच्छ्रयोऽपि च ।
य इमं कारयेत्¹ कान्तं प्रासादं कमलोद्भवम् ॥ ९९ ॥
स समस्तं²जगन्नाथः प्रतिजन्म प्रजायते ।
कमलोद्भवप्रासादः ॥
लक्षणं किरणस्याथ ब्रूमः सम्यक् क्रमागतम् ॥ १०० ॥
चतुरश्रीकृते क्षेत्रे भक्ते ++++++ ।
++ पञ्चदशांशा ये तान् भजेद् दशभिः पुनः ॥ १०१ ॥
गर्भोऽत्र पूर्ववत् कार्यः पूर्ववद् भित्तयोऽपि च ।
प्राग्वत् खुरवरण्डी स्याज्जङ्घाकूटोच्छ्रितिस्तथा ॥ १०२ ॥
पूर्ववच्छिखरोत्सेधस्तं भजेत् पादहीनया ।
चतुरुत्तरविंशत्या भागानां तत्र भूमिका ॥ १०३ ॥
द्वितीया पञ्चभिर्भागैश्चतस्रस्त्वपराः पुनः ।
पादोनपद³हीनाः स्युः क्रमशश्चास्य भूमिकाः ॥ १०४ ॥
वेदिका चास्य कर्तव्या सपादांशसमुच्छ्रिता ।
शुकनासोच्छ्रितिः शालास्तम्भकूटविभक्तयः ॥ १०५ ॥
रेखा⁴ स्तम्भस्य विस्तारो घण्टाकुम्भादि पूर्ववत् ।
कूटा द्राविड(काः) कार्याः प्रतिभूम्यथ (भौमज?) ॥ १०६ ॥
हरो हिरण्यगर्भश्च हरिर्दिनकरस्तथा ।
एषामेव विधेयोऽसौ नान्येषां तु कदाचन ॥ १०७ ॥
अमुं यः कारयेद् राजा प्रासादं किरणा⁶भिधम् ।
स दुःसहप्रतापः स्यात् सहस्रकरवद् भुवि ॥ १०८ ॥
किरणप्रासादः ॥
कथ्यते⁷ शतशृङ्गोऽथ प्रासादः (शुभलक्षणः) ।
वल्लभः सर्वदेवानां (शिं)वस्य (तु) विशेषनः ॥ १०९ ॥
१ द. क्षात्रं । २ द. स्तं । ३ द. पा । ४ द. स्कंधस्य । ५ द. श्च द्राविडा । ६ द. ॰णादिवं ।
७ द. प्रतौ कथ्यते......(शुभलक्षणः) । इत्ययं पाठः नास्ति । ८ द. धा ।

चतुरश्रीकृते क्षेत्रे विंशत्यैकोन(१यान्तिभे ?)।
कर्णाद्वि(२र्ध)सूत्रेण ततो वृत्तमत्र प्रकल्पयेत् ॥ ११०॥
कर्णा द्विभागिकाः कार्याः शाला स्यात् पञ्चभागिका।
शालोपपल्लविका चास्य (निर्गता) वृत्तमध्यतः ॥ १११ ॥
द्वौ द्वौ प्रतिरथौ कार्यौ द्विभागायामविस्तृतौ।
परं३ वर्तनतो वृत्तमध्यतोँ(तः) कोणशालयोः ॥ ११२॥
शालाकोणप्रतिरथान्तरेषु स्याज्जलान्तरम्।
एकोनविंशतिं५ भागांस्तान् भजेद् दशभिः पुनः ॥ ११३॥
गर्भः प्राग्वत् तथा भित्तिः प्राग्वत् खुरवरण्डिका।
जङ्घोत्सेधो(ऽथ) भूत्सेधः६ पूर्ववच्छिखरोच्छ्रितिः ॥ ११४ ॥
(अथाभिर्भूते ?)मेरारभ्य पट्ट्यन्तं शिखरोच्छ्रितिः(तिम्) ।
भागानामष्टविंशत्या(?) विभजेत् पादहीनया ॥ ११५ ॥
द्वितीयभूमिका तस्य कार्या पञ्चपदोच्छ्रिता।
रेखास्तु पञ्च कर्तव्याः पदपादोच्छ्रिता भुवः ॥ ११६॥
सार्धभागोच्छ्रिता वेदी प्रविधेयास्य तद्विदो।
(शैलास्यैस्तम्भक्तैर्यदिविभक्तयदि विभक्तिः?) शुकनासिका ११७
(रेखाद्यं चकं१४र्मस्य ?) प्राग्वत् स्यात् सर्वमप्यदः।
शतशृङ्गममं कुर्याद् यः प्रासादं मनोरमम् ॥ ११८॥
तस्यैकविंशतिकुला ++++++++।
कर्ता कारयिता चेति द्वावेतौ जगतां प्रभोः ॥ ११९ ॥
त्रिपुरद्वेषिणः स्यातां नियतं गणनायकौ ।
\hfill शतशृङ्गप्रासादः ॥
१६++++++ यामो निरवद्यस्य लक्षणम् ॥ १२० ॥
१ मु. 'याशिते' इति स्यात्। द. प्रतौ तु 'यान्तिके' इत्येव पाठः । २ द. ल । ३ द. रि ।
४ द. तौ । ५ द. तिः । ६ द. धो । ७ द. स्त । मुद्रित पुस्तके 'अथादिभू' इति स्यात् । ८ द. द्यन्तं ।
९ द. ष्ट्रि । १० द. धा । ११ मुद्रित पुस्तके 'शालास्य स्तम्भ कूटादिभक्तयः' इति पाठः ।
१२ द. श्व । १३ द. कूट। । १४ द. कुं । १५ द. 'तिः कुर्या लात्मसर्वैर्मुखं । १६ द. इदानीमभिधा-
स्यामो नि' । मुद्रित पाठभेदस्तु 'प्रासादस्याथ वक्ष्यामो' इति स्यात् ।

भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । ५२१
स स्याज्ज्येष्ठोऽथ मध्यश्च कनीयानिति च त्रिधा ।
चत्वारिंशत्करो ज्येष्ठोऽपि (मध्यः) त्रिंशत्करो भवेत् ॥ १२१ ॥
विंशत्या च करैरेष कनीयान् समुदाहृतः ।
चतुरश्रीकृते क्षेत्रे विंशत्या भाजिते पदैः ॥ १२२ ॥
ततः कर्णद्विसूत्रेण( ? ) वृत्तमत्र प्रकल्पयेत् ।
कार्या तैः पञ्चभिः शालाँपल्लवी वृत्त( म )ध्यतः ॥ १२३ ॥
शालाविभक्तिः प्राग्वत् स्याच्छालयोरेतयोः पुनः ।
कोणे कोणे च षट्कर्णा + भागायामविस्तृताः ॥ १२४ ॥
परिवर्तनया कार्या वृत्तान्तः सोदकान्तराः ।
( ५ता तागा त्रिभागै ? )र्विभजेद् दशभिस्ततः ॥ १२५ ॥
विमुच्य भूमिकाभागाञ्छेष्ं गर्भगृहादि यत् ।
तत् पूर्ववद् विधातव्यं तद्वच्च शिखरोच्छ्रितिः ॥ १२६ ॥
तामेकत्रिंशता भागैः सार्धैश्च विभजेत् पुनः ।
द्वितीयभूमिका कार्या पदैः पञ्चभिरुच्छ्रिता ॥ १२७ ॥
पदपादेन हीनाः स्युः शेषा ( ७षड्भास ? ) भूमिकर्काः ।
वेदी ( पंश्चयं ? ) कार्या पादोनमिह शिल्पिना ॥ १२८ ॥
स्तम्भकूटादि शालानां विन्यासः शूरसेनकाः ।
शुकनासोच्छ्रितिर्घण्टा कलशादि चं पूर्ववत् ॥ १२९ ॥
य इमं निरवद्याख्यं प्रासादं कारयेत् सुधीः ।
स प्राप्नोति परं स्थानं ब्रह्मादीनां सुदुर्लभम् ॥ १३० ॥
निरवद्यप्रासादः ॥
सर्वाङ्गसुन्दरं ब्रूमः प्रासादमथ सुन्दरम् ।
भुक्तिमुक्तिप्रदातारं ( वरवालय ? ) मण्डनंम् ॥ १३१ ॥
१ द. कर्णार्थं०; मुद्रित पुस्तकेऽपि 'कर्णार्थसूत्रेण' इति पाठ्यं भाति । २ द. कार्य । ३ द. ल ।
४ द. रेते । ५ द. तान् भागान् बिशति भागै र्वि० । ६ द. ०कान् । ७ मुद्रित पुस्तके 'षट् चास्य'
इति स्यात् । ८ द. कः । ९ द. पदद्वयं । मुद्रित पुस्तके 'पदत्रयम्' इति स्यात् । १० द. व. ।
११ द. ल ।
वा. ६६

चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते ।
कर्णा द्विभागविस्ताराः शाला स्यात् पञ्चभागिका ॥ १३२ ॥
वृत्तान्तः पल्लवी कार्या शेषाः शालासु¹ पूर्ववत् ।
त्रयस्त्रयः प्रतिरथा मध्ये स्युः² कर्णशालयोः ॥ १३३ ॥
परिवृत्यैं( त्या ) वृत्तमध्ये द्विभागायामविस्तृताः ।
शालाकर्णप्रतिरथप्रान्तेषु स्याद्बलान्तरे( रम् ) ॥ १३४ ॥
⁵त्रिचतुर्विंशतिर्भागा विभाज्यौः शिल्पिभिः पुनः ।
विधेयं गर्भभित्त्यादि प्राग्वत् स्याच्च वरण्डिका ॥ १३५ ॥
जङ्घादिभूमिकोच्छ्रायः प्राग्वद्धू(द्वा ) शिखरोच्छ्रितिः ।
(तं) पञ्चत्रिंशता⁶ भागैर्विभजेच्छिखरोच्छ्रयम् ॥ १३६ ॥
द्वितीया भूमिका चास्य कार्या पञ्चपदोच्छ्रिता ।
पदपादविहीनाः स्युः शेषाः सप्तास्य भूमिकाः ॥ १३७ ॥
द्विभागो वेदिकोच्छ्रायो भूमिकानां प्रवेशनम् ।
रेखावशेन कर्तव्यं शेषमेतस्य यत् पुनः ॥ १३८ ॥
तत् पूर्ववद् विधातव्यं स्तम्भकूटादि तद्विदा ।
सर्वाङ्गसुन्दरं योऽत्र प्रासादं कारयेदमुम् ॥ १३९ ॥
स स्वर्गसुन्दरीभोगानाप्नोति विपुलान् दिवि⁷ ।
सर्वाङ्गसुन्दरः प्रासादः ॥
अथाष्टशालान् वक्ष्यामो + + + भूमिजातिषु ॥ १४० ॥
तेष्वाद्यः स्वस्तिकोऽन्यश्च वज्रस्वस्तिकसंज्ञितः ।
तृतीयो हर्म्यतलकश्चतुर्थ उदयाचलः ॥ १४१ ॥
गन्धमादनसंज्ञश्च पञ्चमः परिकीर्तितः ।
अथामिधीयते तेषु + + + ⁸स्वलक्षणः ॥ १४२ ॥
चतुरश्रीकृते क्षेत्रे विस्तारायामतः⁹ समे ।
कर्णार्धसूत्रपातेन वृत्तमस्य समं लिखेत् ॥ १४३ ॥


पादटिप्पण्यः (Footnotes):

१ द. स्तु । २ द. स्यात् कं° । ३ द. त्या । ४ द. ते । ५ द. ज्य । ६ द. त । ७ द. धिः ।
८ द. मुद्रित पुस्तके ‘स्वस्तिकः शुभलक्षणः' इति स्यात्; द. स्वस्तिकास्य लक्षणः । ९ द. °तो समे ।

भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । १२३
वर्तुलं भाजयेत् क्षेत्रं षड्गुणैरष्टभिः पदैः ।
अष्टौ शाला विधातव्या विस्तारेण चतुष्पदाः ॥ १४४॥
पल्लवी वृत्तसूत्रेण १++++++++।
+++ कर्णिका ज्ञेया मानमूर्ध्वमथोच्यते ॥ १४५॥
वेदिबन्धो विधातव्यो भागद्वितयमुच्छ्रितः ।
तं भजेत् पञ्चभिर्भागैः +++ तत्र कुम्भकः ॥ १४६ ॥
पादयुक्तेन भागेन कर्तव्यस्तु मसूरकः ।
अर्धांशेनोत्त(नान्त)रं पत्रं कपोताली ततो भवेत् ॥ १४७॥
सपादेनास्य भागेन जङ्घां(ङ्गा) भागचतुष्टयात् ।
तलकुम्भोच्छालकाभ्यां संयुक्ता शुभलक्षणा ॥ १४८ ॥
भागद्वितै२यमाया भूः कर्तव्या सवरण्डिका ।
व्यासं दशपदं कृत्वा तैर्द्वादशभिरुच्छ्रितिः ॥ १४९ ॥
स्कन्धश्च षट्पदस्तत्र विधातव्यो विजानता ।
षड्गुणेनैव सूत्रेण वेणुकोशं समालिखेत् ॥ १५० ॥
द्वादशांशो य उत्सेधो भागानां सम +++।
५तं कृत्वा पञ्चभिर्भागैस्ते द्वि(स्तैर्द्वि)तीया भवेन्मही ॥ १५१ ॥
पदपादोच्छ्रिताः कार्यास्ततस्तिस्रोऽपरा भुवः ।
(गर्भा गर्भं ?) विधातव्यं भूमिकानां प्रवेशकम् ॥ १५२ ॥
वेदिका च ततः कार्या सार्धभागसमुच्छ्रिता ।
पादोनद्विपदा घण्टा विभजेत् तां त्रिभिः पदैः ॥ १५३ ॥
पदं८ स्यात् कण्ठकोत्सेधो ग्रीवा भागसमुच्छ्रिता ।
अण्डकं भागिकं तस्यां कर्तव्यं सुमनोरमम् ॥ १५४॥
कर्परं सार्धभागेन कुर्यात् सामलसारकम् ।
(१०सीस्तन चाभागायाः ?) सार्धभागचतुष्टयात् ॥ १५५ ॥
१ मुद्रित पुस्तके 'बाह्यतो भद्रकर्णिके' इत्ययं पूरणीयांशः प्रकरणान्तरादुपलभ्यते । २ द. त ।
३ द. ती । ४ द. ते । ५ द. ष्टि । ६ द. द्व । ७ द. दैः । ८ द. स्याः । ९ द. रि । १० द. सीम्न-
स्तुनवा ।

५२४ समराङ्गणसूत्रधारे

घण्टा॑या विस्तरः कार्यस्तं भजेत् षड्भिरंशकैः ।
चतुर्भिः कन्दविस्तारात्² ++++++++ ॥ १५६ ॥
सार्धभागः समुत्सेधः कलशस्य तदर्धतः ।
शिखरस्य त्रिभागेन शुकनासा³ विधीयते ॥ १५७ ॥
विस्तौरा(दू)⁴ गर्भमानेन हीनौ⁵ वाष्टांशतो भवेत् ।
(विस्ताराथ सपादेन ?) शूरसेनस्तदूर्ध्वतः ॥ १५८ ॥
द्वितीयभूमिकातुल्य आद्यभूमेः स ऊर्ध्वतः ।
शालाविस्ता॑रतुल्यास्तु शूरसेनास्त्रयो मताः ॥ १५९ ॥
शाला नागरिकाश्चाष्टौ ग्राहग्रासविराजिताः ।
य इमं कारयेद् धन्यः प्रासादं स्वस्तिकं शुभम् ॥ १६० ॥
तस्यानुजन्म(शार्तानां ?) खस्तिश्रीभोजनं भवेत् ।
स्वस्तिकप्रासादः ॥
अतः परं प्रवक्ष्यामो वज्रस्वस्तिकसंज्ञितम् ॥ १६१ ॥
प्रासादं लक्षणोपेतं शक्रादिसु॑रवल्लभम् ।
पूर्वोक्तलक्षणोपेते स्वस्तिके(दैवमध्यदे¹¹ ?) ॥ १६२ ॥
भद्रे शृङ्गं प्रदातव्यं तीक्ष्णाग्रं सुमनोरमम् ।
पुरस्तान्मण्डपं कुर्यात् सर्वलक्षणसंयुतम् ॥ १६३ ॥
इत्येष कथितः सम्यग् वज्रस्वस्तिकसंज्ञितैः¹² ।
य इमं कारयेद् धन्यः प्रासादं¹³ सर्वकामदम् ॥ १६४ ॥
स स्याद् भोग्यः सुरस्त्रीणामैन्द्रं च पदमश्नुते ।
वज्रस्वस्तिकप्रासादः ॥
अथ हर्म्यतलं ब्रूमः प्रासादं मण्डनं भुवः ॥ १६५ ॥
चतुरश्रीकृते क्षेत्रे विस्तारायामतः समे¹⁴ ।
कर्णार्धसूत्रपातेन तस्मिन् वृत्तं समालिखेत् ॥ १६६ ॥


१ द. 'ष्ट । २ द. रोग्रीवा पंचाशविस्तरात् । ३ द. शो । ४ द. विस्तरा । ५ द. नो ।
६ द. स्त । ७ द. युद्धं । ८ द. 'ता' स्थाने 'ला' पञ्चते । ९ द. भोंजनं श्ववेत् । १० द. पुरवल्लभां ।
११ द. दे । १२ द. तं । १३ द. दः । १४ द. मं ।

भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । ५२५
तद् वृत्तं विभजेत् क्षेत्रं चतुःषष्ट्या पदैस्ततः ।
कर्त्तव्या विस्तरेणास्मिन्नष्टौ शालाश्चतुष्पदाः ॥ १६७ ॥
पल्लवी वृत्तसूत्रेण बाह्यतो भद्रकर्णिके ।
कर्णौ द्वौ द्वौ विधातव्यौ शालाद्वितयमध्यतः ॥ १६८ ॥
वि(द्वि)भागायामविस्तारौ सलिलान्तरभूषितौ ।
परिवर्तनतोऽन्योन्यं कोणान् कुर्वीत षोडश ॥ १६९ ॥
अष्टास्वपि च दिक्ष्वेवं(माना कर्मभिरन्विता ?)।
गर्भो भित्तिश्च वेदी च जङ्घाप्रथमभूमिकाः ॥ १७० ॥
कर्त्तव्याः पूर्वमानेन स्वस्तिकोक्तेन तद्विदा ।
द्वादशांशो य उत्सेधो विंशत्या तत्र भाजितः ॥ १७१ ॥
सोऽ(त्रा)ष्टाविंशतिविधः कर्तव्य सू(स्त)त्र भूमिका ।
द्वितीया पञ्चभिर्भागैः पदपादोञ्झिताः पृथक् ॥ १७२ ॥
अन्याः स्युर्भूमयः पञ्च वेदी (व्यंघ्रिः ?) द्विभागिकाः (परा ?) ।
चतस्रो मञ्जरीः कुर्यान्नागरैः कर्मभिर्युताः ॥ १७३ ॥
चतस्रः पुनरन्याश्च युक्ता द्राविडकर्मभिः ।
घण्टा स्कन्धस्य विस्तारो वेदिकाकलशोच्छ्रयौ ॥ १७४ ॥
शूरसेनः शुकाद्या च स्तम्भिकाकूट(वि?)भक्तयः ।
रेखा(श्च) पूर्ववत् कार्याः प्रासादस्यास्य जानता ॥ १७५ ॥
प्रासादस्यास्य कर्त्ता यस्तथा कारयिता च यः ।
(प्राप्नुतामिव लोकं ?) तौ नित्यानन्दसुखोदयम् ॥ १७६ ॥
हर्म्यतलकप्रासादः ॥
अथातः सम्प्रवक्ष्यामि प्रासादमुदयाचलम् ।
चतुरश्रीकृते क्षेत्रे भुजाकर्णसमे शुभे ॥ १७७ ॥
ततः कर्णार्धसूत्रेण तस्मिन् वृत्तं समालिखेत् ।
वर्तुलं कारयेत् क्षेत्रमशीतिपद भाजितम् ॥ १७८ ॥
१ द. तः । २ द. यो । ३ द. कर्त्तव्यास्तथा । ४ द. सः । ५ द. मुद्रित पुस्तके 'प्राप्नुतः
शिवलोकं इति स्यात् । ६ द. त । ७ द. मः । ८ द. ते ।

१२६ समराङ्गणसूत्रधारे
शालाश्चाष्टौ विधातव्याः पूर्वदिक्षु चतुष्पदाः ।
पल्लवी वृत्तसूत्रेण बाह्यतो भद्रकर्णिके ॥ १७९ ॥
कुर्याच्छालाद्वयस्यान्तः कोणानां च त्रयं त्रयम् ।
द्विभागायामविस्तारसलिलान्तरभूषितैः ॥ १८० ॥
एवं कोणा विधातव्या विंशतिश्चतुरोत्तरा³ ।
परिवर्तनमन्योन्यमेषां कुर्याद् यथाक्रमम् ॥ १८१ ॥
एतत्सा(त्स)प्रमाणेन गर्भं भित्तिं च वेदिकाम् ।
जङ्घां च भूमिशिखरं पूर्ववत् परिकल्पयेत् ॥ १८२ ॥
अष्टौ च मञ्जरीः कुर्याद् युक्ता नागरकर्मणा ।
रुद्रेश्वरसमायुक्ता नीरधारोपशोभिताः ॥ १८३ ॥
( घण्टाकूटाश्च रेखा च स्तम्भिकाः⁴ शूरसेनकः⁵ ।
शुका(घ्रा)स्कन्धविस्तारकलशेन समन्वितं⁶ ? ) ॥ १८४ ॥
स्वस्तिकोक्तविधानेन विदध्यादुदयाचलम् ।
द्वादशांशो य उत्सेधो विंशत्या तत्र भाजितः ॥ १८५ ॥
स्यात् पञ्चत्रिंशता भाज्यो +⁷++ तत्र भूमिका ।
पञ्चभागोच्छ्रिता कार्या ततोऽन्याः सप्त भूमयः ॥ १८६ ॥
( पदपादोच्छ्रिता भागद्वयो यो तु वेदिका ।
++++++++⁹° सर्वलक्षणसंयुता ? ) ॥ १८७ ॥
प्रासादं यस्त्विमं सम्यग् भक्तिमान् कारयेन्नरः ।
शाश्वतं पदमाप्नोति स दुष्प्रापं सुरैरपि ॥ १८८ ॥
उदयाचलप्रासादः ॥
इदानीं प्रक्रमायातः कथ्यते गन्धमादनः ।
स्वलक्षणप्रमाणाढ्यक्षितिस्मिन्नुदयाचले (?) ॥ १८९ ॥
कुर्वीत मञ्जरीरष्टौ युक्ता द्रा¹¹विडकर्मभिः ।
कूटाश्च मणिकाः कार्या नानाकर्मभिरन्विताः ॥ १९० ॥
१ द. चा.। २ द. तं । ३ द. राः । ४ द. ताः । ५ द. कं । ६ द. तं । ७ द. ले । ८ द.
द्वितीया । ९ द. ˚ष्टितां भागे द्वयोच्छ्राया तु वेदिका । १० द. ......र्यः सर्वलक्षण संयुतः ॥ ११ द. द्र ।

भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । १२७
स्थानेषु शूरशेना + पुरोरेखात्रयं भवेत् ।
शुकनासां च घण्टां च स्कन्धं शिखरमेव च ॥ १९१ ॥
कूटा + स्तम्भिका कुम्भं पूर्ववत् परिकल्पयेत् ।
य इमं कारयेद् धन्यः प्रासादं मण्डनं भुवः ॥ १९२ ॥
विद्याधराधिपः श्रीमान् स भवेन्नात्र संशयः ।
भुङ्क्ते च विविधान् भोगान् सुरस्त्रीभिश्च सेव्यते ॥ १९३ ॥
गन्धमादनप्रासादः ॥
उदयस्य विभेदेन रेखा याः पञ्चविंशतिः ।
लतिनागरभौमानां ताः कथ्यन्ते यथागमम् ॥ १९४ ॥
लतिनां (स्याद्द्वारंगंतो ?) नागराणां तु कूटकः ।
भूमिजानां विधातव्या२ (माथायाः ?) पुरतो भुवः ॥ १९५ ॥
शिखरं व्यासकर्णाभ्यां तुल्यं स्यादधमोत्तमम् ।
भाजनीयं३चतुर्युक्तविंशत्यादनन्तरम् (?) ॥ १९६ ॥
++++++ भौगरेखास्तावत्य ईरिताः ।
संख्यां सा( ?) शोभना भद्रा सुरूपा सुमनोरमा ॥ १९७ ॥
शुभा चैव तथा शान्ता कावेरी च सरस्वती ।
लोका च करवीरा च कुमुदा पद्मिनी तथा ॥ १९८ ॥
कर्नका विकटा दैवरम्या च रमणी तथा ।
वसुन्धरा तथा हंसी विशाखा नन्दिनीति च ॥ १९९ ॥
जया च विजया चैव सुमुखा च प्रयानता ।
इत्येताः कीर्तिता रेखाः १०++ या पञ्चविंशतिः ॥ २०० ॥
रेखा एताः ११ (?) ॥
एताः शुभफलाः सर्वाः कर्तुः कारयितुस्तथा ।
चतुरश्रचतुष्कमेवमुक्तं वृत्ताः सप्त च भूमिजा इमे १२(?) ॥ २०१ ॥
इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
भूमिजैप्रासादाध्यायो नाम पञ्चषष्टितमो १४ऽध्यायः ॥
१ द. गं । २ द. व्यं । ३ द. यं । ४ द. त्या भाजिनंतरं । ५ द. ना । ६ द. सख्या । ७ द. स्व ।
८ द. नी । ९ द. दै । १० द. संख्य । ११ द. प्रतौ नास्ति । १२ द. मी । १३ द. जाः । १४ द. मः ।

अथ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः ।
इदानीं मण्डपानष्टौ ब्रूमः प्रासादसंस्थितान् ।
प्रासादं कल्पयेत् पूर्वं भागशुद्धं सुलक्षणम् ॥ १ ॥
संवृतो वा भवेदेष व्यतिरिक्तोऽथवा क्वचित् ।
( चतुरश्रो विभागैश्च १घटंतेः य समंवृतः ? ) ॥ २ ॥
( पैशुभागैर्विघटते ? ) व्यतिरिक्तः स कीर्तितः ।
गर्भो गर्भसमः शस्तः ( सोन्यर्थेतोषमावहेत् ? ) ॥ ३ ॥
एवं निवेशयेदग्रे मण्डपान्थेव ४सङ्गतः (?) ।
भजेच्छतपदाख्येन ज्येष्ठमध्यकनीयसः ॥ ४ ॥
मण्डपांस्तेषु भद्रः स्यान्नन्दनाख्यस्तथापरः ।
महेन्द्रो वर्धमानश्च स्वस्तिकः सर्वभद्रकः ॥ ५ ॥
महापद्मोऽष्टमश्चैषां गृहराजः प्रकीर्तितः ।
एते यथार्थनामानो६ लक्ष्मैतेषां प्रचक्ष्महे ॥ ६ ॥
प्रासादद्विगुणायामः पादोनद्विगुणायतः (?) ।
कार्यों यस्तथा व्यर्थमग्रतः(?) सुरमन्दिरात् ॥ ७ ॥
प्रासादोच्छ्रायतुल्यं वा कार्या मण्डपविस्तृतिः ।
शुकनासान्विताः कार्यास्ते चालिन्दसमन्विताः ॥ ८ ॥
अलिन्दः सर्वतोभागनिर्गता र्तावविस्तृताः (?) ।
कदाचित् सार्धभागेन निष्क्रान्ता भागविस्तृतौ ॥ ९ ॥
१२+ + भिर्भाजयेद् भागैर्भद्रं प्राज्ञः समन्ततः ।
शृङ्गाणि स्युर्द्विभागानि सहितान्युदकान्तरैः ॥ १० ॥
भागं प्रमा १३+ + + रादामूलतलमस्तकम् ।
शृङ्गेषु रथिका कार्या भागपादेन निर्गता ॥ ११ ॥
१ द. घंटतैः । २ द. यः सु । ३ द. थादोष । ४ द. सप्त न । ५ द. मा । ६ द. भू ।
७ द. व्यर्थमयत: । ८ द. र्यं । ९ द. स्ते वा । १० द. भा । ११ द. ताः । १२ द. दश ।
१३ द. ण विस्तारा । १४ द. काः । १५ द. र्याः । १६ द. ताः ।

मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः । १२९
भागेनैकेन निष्क्रान्तं विस्तृतं (चतुश्वतान्१ ?) ।
मध्यभद्रं विधातव्यमाशासु चतसृष्वपि ॥ १२ ॥
पीठं प्रासादपीठस्य नात्र² कुर्वीत मण्डपे ।
(तलपट्टे भवेच्छोकनाशोयाक्षितिरङ्गिका ?) ॥ १३ ॥
तलपट्टमधस्तस्या मण्डपस्य निवेशयेत् ।
कर्तव्यमेवमग्रेऽग्रे निम्नं निम्नतरं ततः ॥ १४ ॥
अथवा तत्समं दद्यात् स्थपतिः शास्त्रवित्तमः ।
चतुर्भागायतद्वारं षड्द्वारुक(दारुक)समन्वितम् ॥ १५ ॥
अग्रभद्रं विधातव्यं चतुस्तम्भविभूषितम् ।
पृष्ठतश्च भवेदेवं संसृतिश्चैत्रमण्डपे⁴ ॥ १६ ॥
संसृतेः शुकनासो स्याद् भूमिर्ताः³( ?) पृष्ठभद्रकम् ।
शेषं तथैव कर्तव्यं विधानं मण्डपस्य तु ॥ १७ ॥
स भित्तिभिः परिक्षिप्तः कर्तव्यः पार्श्वयोर्द्वयोः ।
भागेन कल्पयेद् भित्तिं गवाक्षैरुपशोभिताम्⁵ ॥ १८ ॥
वातायनाश्च कर्तव्याः सह चन्द्रावलोकनैः ।
प्रासादद्वारवद् द्वारविस्तारो मण्डपे भवेत् ॥ १९ ॥
सपादः सत्रिभागो वा सार्धः (सौम्याथवा ?) भवेत् ।
ऊर्ध्वद्वारविधे(धिः) कार्यों मूलद्वारानतिक्रमात् ॥ २० ॥
जालव्यालकपोताली मत्तवारणकैर्युताः⁶ ।
भ्रमनिर्मापितैः स्तम्भैः कर्तव्याश्च गवाक्षकाः⁷ ॥ २१ ॥
वातायनं तदर्धेन पादोनं द्वा(चा)वलोकनम् ।
क्षणमध्ये प्रकुर्वीत चतुष्कीं¹⁰ विधिवच्छुभाम्¹¹ ॥ २२ ॥
क्षोभायौं बाह्यतो रेखा क्षात्या द्रुमं¹² च विवर्जयेत् (?) ।
दारुकर्मविधे(धि)र्मध्ये यथा स्यात् कथ्यते तथा ॥ २३ ॥
१ द. श्व । २ द. निम्नं । ३ द. र्भा । ४ द. ॰तश्चेत्र मंडपः । ५ द. शः । ६ द. ते ।
७ द. तम् । ८ द. ता । ९ द. का । १० द. र्थीं । ११ द. भा । १२ द. र्ना ।
वा. ६७

१३० समराङ्गणसूत्रधारे
समैः क्षणैः समैः स्तम्भैः समैश्चालिन्दकैर्युतः ।
समैः कर्णैश्च १+++ समद्रव्यविधानवान् ॥ २४ ॥
षड्दारुकैस्तिरश्चीनैः कार्याः कैश्चिन्मुखायतैः ।
तुला २समतला यद्वा प्रोत्क्षिप्ता३ मध्यदेशगा ॥ २५ ॥
तुलाषड्दारुकाधीनांस्त(ना त)दधीनानि तानि वा ।
केचिन्मन्थानसंस्थाना(लीगतिर्युनाप ? ) ॥ २६ ॥
अथवा मध्यतः कार्या + स्तम्भालिन्दवेष्टिताः ।
महाधरयुता कार्या चतुष्क(प्क्युं )भयतः समा ॥ २७ ॥
गजतालुलुमाकर्म द्रव्यैः स्यादुत्तरोत्तरैः ।
एते नानाविधाः कार्या द्रव्यैरविकलैस्तथा ॥ २८ ॥
या काचिद् रोचते प्राज्ञस्तामेकां कारयेत् क्रियाम् ।
(ल ?)क्षणान्तराणयलङ्कुर्याद्दिलीतोरणकैस्तथा ॥ २९ ॥
वज्रबन्धसमायुक्ता घण्टिकापल्लवैर्युताः ।
६हारपद्मदलाकीर्णाः शालभञ्जीविरोजिताः ॥ ३० ॥
स्तम्भकाश्च विधातव्याः पश्चाभरणभूषिताः ।
कण्ठकैरतिचित्रैश्च रथकैस्तोरणैः सह ॥ ३१ ॥
विधानैर्विविधाकारै रूपकर्मोपशोभितैः ।
एवंविधा विधातव्या ९सीमातुल्यातु(स्तु)लोदयाः ॥ ३२ ॥
प्राग्ग्रीवकेष्वलिन्देषु मध्ये१० भागे च पार्श्वयोः ।
न तलानि विधीयन्ते यथाकामं क्रिया भवेत् ॥ ३३ ॥
सीमाद्वारे यथा वायोः प्रवेशं नैव पीडयेत् ।
(तथाद्वंद्विका ? ) कार्या पट्टस्योपर्यवस्थिता ॥ ३४ ॥
वेदिव्यालकपोताली मत्तवारणतुलोदयैः (?) ।
षड्दारुकं ++ भद्रे तत्र कुर्वीत बुद्धिमान् ॥ ३५ ॥
१ द. कर्त्तव्यं । २ द. लाः । ३ द. ता । ४ द. नास्त । ५ द. प्यु । ६ द. भार । ७ द. ला ।
८ द. ता । ९ द. व्याः । १० द. ध्य । ११ द. ˚याद्˚ । १२ द. या ।

मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः । ५३१
बाह्यतो मण्डपेऽप्येवं मानतः कर्मतोऽपि च ।
कपोतालीवरण्डीभिस्तथाचान्तरपत्रकैः ॥ ३६ ॥
कर्णप्रासादकैश्चित्रैः कर्म स्याद् भद्रमण्डपे ।
उच्छ्रायस्य¹ (विवेचीयादशस्त्वन्यतमो ?) बुधैः ॥ ३७ ॥
शि(ख)रस्य त्रिभागेन पादोनेकेन वा भवेत् ।
उच्छ्रायो (मण्डपस्यामः शुक्केनाससमुच्छ्रिते ?) ॥ ३८ ॥
हम्यं वा तत्र कुर्वीत चारुकर्णोपशोभितम् ।
भद्रमण्डपलक्षणम् ॥
चतुरश्रीकृते क्षेत्रे नन्दनं प्रविभाजयेत् ॥ ३९ ॥
भद्रं षड्भागमायामाश्रतुर्भागं तथा (³पव ?) ।
भागभागं निष्क्रान्ते (?) स्तम्भैः प्राग्ग्रीवकल्पितैः ॥ ४० ॥
पञ्चभागायता ज्ञेया⁴ कर्णे भद्रान्तरस्थिता ।
भित्तिः स्याद् भागविस्तारा सलिलान्तरसंयुता ॥ ४१ ॥
एवं चतुर्दिशं कार्यों नन्दनो मण्डपः सदा ।
नन्दनः ॥
महेन्द्रस्य तलच्छन्दः कर्णौ लाङ्गलसंयुतौ⁵ ॥ ४२ ॥
चतुर्भागायनो दिक्षु दारुकर्मविभूषितः ।
द्विभागिकानि शृङ्गाणि⁶ क्षोभयेदुदकान्तरैः ॥ ४३ ॥
चतुर्भागायतं भाग ++ मेकं तु निस्सृतम् ।
एकतश्च मुखं दद्याद् दारुकर्म(परिच्युतम् ?) ॥ ४४ ॥
महेन्द्रः ॥
नन्दनश्चेद् बहिर्भद्रैर्जलमागैर्विवर्जितः ।
भागद्वितयविस्तारो भागमेकं विनिर्गतौ( ?) ॥ ४५ ॥
१ द. °स्यविदेर्दाया दश° । २ द. ष्क । ३ द. परै । ४ द. ऋज्वी ? । ५ द. तैः । ६ द. नि ।
७ द. भू ? ।

१३२ समराङ्गणसूत्रधारे
प्राग्ग्रीवपार्श्वयोर्दद्यादुच्छ्रायोर्ध्वपदस्थितौ(?)।
('वोधयेनौ वा?) कुर्वीत वर्धमानस्तथा भवेत् ॥ ४६ ॥
वर्धमानः ॥
पक्षद्वये नन्दनस्य भद्रे भिच्योभिवेष्टयेत् ।
गवाक्षकैरलङ्कुर्यान्न कुर्यादुदकान्तरम् ॥ ४७ ॥
स्वस्तिकोऽयं समाख्यातः सर्वलक्षणलक्षितः ।
स्वस्तिकः ॥
अथाभिधीयते सम्यक् सर्वतोभद्रलक्षणम् ॥ ४८ ॥
कर्णे कर्णे (लाङ्गले चेत्सार्ध ?) भागद्वयायतम् ।
कार्या परस्परं तेषु दारुक(र्म)विकल्पना ॥ ४९ ॥
भागेनैकेन निर्यातं भागषट्केन चायताम् ।
षड्दारुकद्वयं भद्रं कारयेद् (बाह्यवैस्थितम् ?) ॥ ५० ॥
सर्वतोभद्रः ॥
चतुरश्रीकृते क्षेत्रे + प्राग्भागैर्विभाजयेत् ।
त्यक्त्वा(तेस मध्ये ?) कर्णेष्वादध्याल्लाङ्गुलानि च ॥ ५१ ॥
चतुर्भागान्तरस्थानि षड्दारुकयुतानि च ।
कर्तव्यं भागनिष्क्रान्तं दिक्षु भद्रचतुष्टयम् ॥ ५२ ॥
चतुष्पदस्तदायामात् सर्वतोऽलिन्दको बहिः ।
प्रतिभद्रराणि कुर्वीत चतुर्भागायतानि च ॥ ५३ ॥
निर्गतानि(रभागेन ?) दिक्षु स्तम्भान्वितानि च ।
इत्येतैर्लक्षणैर्युक्तो महापद्मः प्रकीर्तितः ॥ ५४ ॥
महापद्मः ॥
चतुरश्रीकृते क्षेत्रे चतुष्कोणविभूषिते ।
अलिन्दावेष्टितं कुर्यात् प्राग्ग्रीवं मुखसंश्रितम् ॥ ५५ ॥
१ द. वातायनौ वा । २ द. क्षा । ३ द. वत् । ४ द. न्ते । ५ द. था । ६ द. म्भो ।

मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः । ५३३
गवाक्षकाश्च कर्तव्यास्तथा चन्द्रावलोकनाः ।
वातायनास्तथोद्द्योताः समन्ताद् रूपशोभिताः ॥ ५६ ॥
गृहराजक्रिया ह्येवं¹ सर्वशोभासमन्विता ।
एवं लक्षणसंयुक्तं (²मत्तुगोमपि ?) मन्दिरम् ॥ ५७ ॥
गृहराजः ॥
(³द्वैदूरा ?) शुकनासस्य शुकनासस्य मूलतः ।
कनीयसं मण्डपानां कर्तुरिच्छावशाद् भवेत् ॥ ५८ ॥
पार्श्वयोरुभयोस्तुल्यं विदध्यात् तिर्यगायतम् ।
(⁴व्यापिचक्षु रँ⁵घनव्यापि वा ++++++ ॥ ५९ ॥
प्रासादमसमं(?) स्थानं विदध्यान्मण्डपं बहिः ।
(यथापूर्वं ?) द्वारविस्तारविस्तीर्णास्तेषु कार्या र्ग⁶वाक्षकाः ॥ ६० ॥
समा सपादपादोना सार्धा चोच्छ्रितिरायता ।
अष्टाङ्गुलं(ब्रूमोपेता ?) दशांशे द्वारविस्तृते ॥ ६१ ॥
विस्तारो मण्डपंस्तम्भ⁸द्वारोच्छ्रायसमोच्छ्रितिः ।
गर्भव्यासो मण्डपस्य साष्टांशः सांश एव च ॥ ६२ ॥
सार्धो वा मण्डपस्यायं गर्भे ++++++ ॥ ६३ ॥
++++++++++++++
+++++++++ कार्यति⁹ शक्त्या ।
यौ¹⁰ देवसंयति स सद्मनि देवताना-
मास्तेऽप्सरोगणै¹¹र्वृतः शरदां¹² शतानि ॥ ६४ ॥
इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
¹³मण्डपाध्यायो नाम ¹⁴षट्षष्टितमः ॥


पाद-टिप्पण्यः (Footnotes):
१ द. षा । २ द. मत्तूणामपि; परन्तु मुद्रित प्रतौ 'मातृणामपि' इत्येवं पाठः स्यात् ।
३ द. वृद्धिरा शुकनासार्धं । ४ द. वा । ५ द. रङ्घमथापि । ६ द. कं गवा° । ७ द. लं । ८ द. पंस्तंभे ।
९ द. स्वशक्त्या । १० द. यो देवसद्मनि सद्मानि दें । ११ द. णे । १२ द. दा । १३ द. अष्टम° ।
१४ द. स्ते प्परोम ।

५३४ समराङ्गणसूत्रधारे
अथ सप्तविंशतिमण्डपलक्षणं नाम सप्तषष्टितमोऽध्यायः ।
इदानीमभिधीयन्ते मण्डपाः सप्तविंशतिः ।
प्रासादाद् द्विगुणं कुर्यात् कनिष्ठं तत्र मण्डपम् ॥ १ ॥
पादोन्द्विगुणं मध्यं प्रासादे तु कनीयसि ।
तस्मिन्नेव कनीयांसं विदध्यात् सार्धमानतः ॥ २ ॥
पादोन्द्विगुणः सार्धः सपादश्चेति मध्यमे ।
सार्धः सपादस्तुल्यश्चेत्युत्तमायाः स्युरुत्तमे ॥ ३ ॥
सपादद्विगुणाः सार्धद्विगुणाः सान्तरोद्भवाः ।
क्षुद्रप्रासादकेषु स्युर्मण्डपा बहवोऽपरे ॥ ४ ॥
क्षेत्रालाभे पुनरिमान् सर्वान् सर्वेषु योजयेत् ।
दैर्ध्यादैर्घ्येण गृह्णीयाद् विस्तृती +++ तथा ॥ ५ ॥
प्रमाणं मण्डपे(कार्ये ?) वलभ्यां गरुडेऽपि च ।
चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ॥ ६ ॥
भागैश्चतुर्भिर्भद्रं स्याद् द्वौ भागौ प्रतिभद्रकम् ।
अग्रतः पृष्ठतो वापि निर्गमो भागिको भवेत् ॥ ७ ॥
भद्राणां निर्गमो भागं सार्धभागमथापि वा ।
प्रासादस्य त्रिभागेन चतुर्भागेन वा भवेत् ॥ ८ ॥
अर्धेनाथ षडंशेन पञ्चांशेनाथ निर्गतिः ।
प्रासादानां समा कार्या पादोना वा प्रमाणतः ॥ ९ ॥
कार्या त्रिभागहीना वा मण्डपास्तु समैः क्षणैः ।
स्वविस्तारसमं भद्रे मुखे चैषा⁴ प्रकीर्तिता⁵ ॥ १० ॥
कर्णा द्विभागिका ज्ञेयास्तेषां कोणचतुष्टये ।
वामदक्षिणभागाभ्यां सह भद्रं षडंशकम् ॥ ११ ॥
प्रतिभद्रे नचैतस्मिन् विदध्यादग्रपृष्ठयोः ।
चतुःषष्टिधरोऽयं स्यात् पुष्पको नाम मण्डपः ॥ १२ ॥
पुष्पकः ॥
१ द. द्रः । २ द. विस्तृत्याद्विस्तृतिः तथा । ३ द. या । ४ द. षां । ५ द. ताः ।
६ द. पुष्यकः ।