सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 585, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 585

५२४ समराङ्गणसूत्रधारे

घण्टा॑या विस्तरः कार्यस्तं भजेत् षड्भिरंशकैः ।
चतुर्भिः कन्दविस्तारात्² ++++++++ ॥ १५६ ॥
सार्धभागः समुत्सेधः कलशस्य तदर्धतः ।
शिखरस्य त्रिभागेन शुकनासा³ विधीयते ॥ १५७ ॥
विस्तौरा(दू)⁴ गर्भमानेन हीनौ⁵ वाष्टांशतो भवेत् ।
(विस्ताराथ सपादेन ?) शूरसेनस्तदूर्ध्वतः ॥ १५८ ॥
द्वितीयभूमिकातुल्य आद्यभूमेः स ऊर्ध्वतः ।
शालाविस्ता॑रतुल्यास्तु शूरसेनास्त्रयो मताः ॥ १५९ ॥
शाला नागरिकाश्चाष्टौ ग्राहग्रासविराजिताः ।
य इमं कारयेद् धन्यः प्रासादं स्वस्तिकं शुभम् ॥ १६० ॥
तस्यानुजन्म(शार्तानां ?) खस्तिश्रीभोजनं भवेत् ।
स्वस्तिकप्रासादः ॥
अतः परं प्रवक्ष्यामो वज्रस्वस्तिकसंज्ञितम् ॥ १६१ ॥
प्रासादं लक्षणोपेतं शक्रादिसु॑रवल्लभम् ।
पूर्वोक्तलक्षणोपेते स्वस्तिके(दैवमध्यदे¹¹ ?) ॥ १६२ ॥
भद्रे शृङ्गं प्रदातव्यं तीक्ष्णाग्रं सुमनोरमम् ।
पुरस्तान्मण्डपं कुर्यात् सर्वलक्षणसंयुतम् ॥ १६३ ॥
इत्येष कथितः सम्यग् वज्रस्वस्तिकसंज्ञितैः¹² ।
य इमं कारयेद् धन्यः प्रासादं¹³ सर्वकामदम् ॥ १६४ ॥
स स्याद् भोग्यः सुरस्त्रीणामैन्द्रं च पदमश्नुते ।
वज्रस्वस्तिकप्रासादः ॥
अथ हर्म्यतलं ब्रूमः प्रासादं मण्डनं भुवः ॥ १६५ ॥
चतुरश्रीकृते क्षेत्रे विस्तारायामतः समे¹⁴ ।
कर्णार्धसूत्रपातेन तस्मिन् वृत्तं समालिखेत् ॥ १६६ ॥


१ द. 'ष्ट । २ द. रोग्रीवा पंचाशविस्तरात् । ३ द. शो । ४ द. विस्तरा । ५ द. नो ।
६ द. स्त । ७ द. युद्धं । ८ द. 'ता' स्थाने 'ला' पञ्चते । ९ द. भोंजनं श्ववेत् । १० द. पुरवल्लभां ।
११ द. दे । १२ द. तं । १३ द. दः । १४ द. मं ।