समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 592, कुल 726 में से
संदर्भ में पढ़ेंमण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः । ५३१
बाह्यतो मण्डपेऽप्येवं मानतः कर्मतोऽपि च ।
कपोतालीवरण्डीभिस्तथाचान्तरपत्रकैः ॥ ३६ ॥
कर्णप्रासादकैश्चित्रैः कर्म स्याद् भद्रमण्डपे ।
उच्छ्रायस्य¹ (विवेचीयादशस्त्वन्यतमो ?) बुधैः ॥ ३७ ॥
शि(ख)रस्य त्रिभागेन पादोनेकेन वा भवेत् ।
उच्छ्रायो (मण्डपस्यामः शुक्केनाससमुच्छ्रिते ?) ॥ ३८ ॥
हम्यं वा तत्र कुर्वीत चारुकर्णोपशोभितम् ।
भद्रमण्डपलक्षणम् ॥
चतुरश्रीकृते क्षेत्रे नन्दनं प्रविभाजयेत् ॥ ३९ ॥
भद्रं षड्भागमायामाश्रतुर्भागं तथा (³पव ?) ।
भागभागं निष्क्रान्ते (?) स्तम्भैः प्राग्ग्रीवकल्पितैः ॥ ४० ॥
पञ्चभागायता ज्ञेया⁴ कर्णे भद्रान्तरस्थिता ।
भित्तिः स्याद् भागविस्तारा सलिलान्तरसंयुता ॥ ४१ ॥
एवं चतुर्दिशं कार्यों नन्दनो मण्डपः सदा ।
नन्दनः ॥
महेन्द्रस्य तलच्छन्दः कर्णौ लाङ्गलसंयुतौ⁵ ॥ ४२ ॥
चतुर्भागायनो दिक्षु दारुकर्मविभूषितः ।
द्विभागिकानि शृङ्गाणि⁶ क्षोभयेदुदकान्तरैः ॥ ४३ ॥
चतुर्भागायतं भाग ++ मेकं तु निस्सृतम् ।
एकतश्च मुखं दद्याद् दारुकर्म(परिच्युतम् ?) ॥ ४४ ॥
महेन्द्रः ॥
नन्दनश्चेद् बहिर्भद्रैर्जलमागैर्विवर्जितः ।
भागद्वितयविस्तारो भागमेकं विनिर्गतौ( ?) ॥ ४५ ॥
१ द. °स्यविदेर्दाया दश° । २ द. ष्क । ३ द. परै । ४ द. ऋज्वी ? । ५ द. तैः । ६ द. नि ।
७ द. भू ? ।