समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
५१० समराङ्गणसूत्रधारे
षट्पदा स्यात् तृतीयात्रे¹ ++ भागोच्छ्रिताः पराः ।
कैर्ण² ++++ स्तिस्रो घण्टा चाष्टपदोच्छ्रिता ॥ ११६ ॥
कूटैरलङ्कृता कार्या शुकाद्यादि च पूर्ववत् ।
सै⁴ +++ पि चैतेषां प्रासादार्धेन कारयेत् ॥ ११७ ॥
घण्टां तु संहतां श्लक्ष्णां बन्धनैरुपशोभिताम् ।
यादृशी कर्म⁵ ++ ने कूटेष््वेषां विधीयते ॥ ११८ ॥
भद्रेषु तादृशी कार्या कृत्स्नप्रासादसिद्धये ।
य इमं कारयेद् राजा प्रासादं पृथिवीजयम् ॥
भुनक्ति निखिलां पृथ्वीं स सप्ताम्भोधिमालिनीम् ॥ ११९ ॥
इतीरिता द्वादश( स्यगर्तै ? )
प्रासादमुख्याः शुभलक्ष्मयुक्ताः ।
वावाटसंज्ञांस्तदमून् विदित्वा
( लभेत् पूज्यस्यैर्यंते नृ ? )पेभ्यः ॥ १२० ॥
इति महाराजाधिराजपरमेश्वरश्रीमद्भोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
¹¹( वटोक ?)प्रासादो नाम चतुःषष्टितमोऽध्यायः ॥
अथ भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः ।
भूमिजानां विमानानां ब्रूमो लक्ष्म क्रमागतम् ।
चतुरश्रीकृतानां च वृत्तानां (¹²वृंत पूर्वशः ?) ॥ १ ॥
केषाञ्चिन्निर्गमस्तत्र जायते भागसंश्रया ।
केषाञ्चित् पुनरेष स्याद् वृत्तमध्यमधिष्ठितः ॥ २ ॥
चतुरश्रीकृते क्षेत्रे दशभागवि¹³भाजिते ।
चतुर्भूमियुतस्याथ लक्ष्म ¹⁴त्संशस्य ( च्छन्दस्य ) कथ्यते ॥ ३ ॥
१ द. भागं । २ द. ष्टि । ३ द. कर्तव्या भूमिका । ४ द. सर्वेषामपि । ५ द. कर्मरचना ।
६ द. ज । ७ द. नां । ८ द. ज्ञा । ९ मु. 'लभेत् पूजां स्थपतिर्नृ' इति स्यात् । १० द. प ।
११ द. वटोकप्रासादोऽध्यायो नाम चतुःषष्टितमः ॥ छ ॥ १२ द. च वृत्तपूर्वशः । मु. पाठस्तु 'अनुपूर्वशः'
इति स्यात् । १३ द. रा । १४ द. त्र्यंशस्य ।
भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । ५११
चत्वारश्चतुरश्राः स्युर्निषधो मलयाचलः ।
माल्यवान् नवमाली च निषधस्तेषु कथ्यते ॥ ४ ॥
(कोणां शंभोतरो द्व्यंशं १भार्दशंभोर्धभागिकः ?) ।
विस्तारायामतः प्रोक्तो भद्रं पञ्चांशविस्तृतम् ॥ ५ ॥
कार्या(ः) पादोनभागेन भद्रस्यैतस्य निर्गमौ३ः ।
कार्या पल्लम्बि(वि)का तस्य पादभागेन विस्तृता ॥ ६ ॥
भागेन कर्णिका कार्या विस्तृत्या निर्गमेण च ।
प्रतिभद्रं च ४भागार्धनिर्गतं तत्र कल्पयेत् ॥ ७ ॥
पादोनभागद्वितयं प्रतिभद्रस्य विस्तृतिः ।
षड्भिर्भागैर्भवेद् गर्भो भित्तिरस्य द्विभागिका ॥ ८ ॥
तलच्छन्दस्य लक्ष्मोक्तमूर्ध्वमानमथोच्यते ।
विस्तृतेर्द्विगुणं तच्च चतुर्भा६गौधिकं भवेत् ॥ ५९ ॥
वेदीबन्धो भवेदस्य सार्धभागद्वयोच्छ्रितः ।
त्तत्तु भागद्वयं सार्धं विभजेदर्धपञ्चमैः ॥ १० ॥
भागद्वयेन कुम्भः स्यात् कलशो भागिकः स्मृतः ।
भागार्धेनान्तरं पत्रं कपोतली तु ७भागिकी ॥ ११ ॥
(८उ)क्तोऽयं वेदिकाबन्धो भागैरित्यर्धपञ्चमैः ।
अर्धपञ्चमभागैः९ स्याज्जङ्घोच्छालकसंयुता ॥ १२ ॥
त्रिभिं ++++++ भूत्सेधः सवरण्डिकः ।
द्वितीयास्य भवेद् भूमिरर्धपञ्चमभागिका ॥ १३ ॥
कुम्भः सोच्छालकां१० +++++ यापि तावता ।
तृतीया स्या(द्) भूर्विधेया(११स्यासादा ?) चतुरङ्गिका ॥ १४ ॥
चतुर्थी चतुरो (भागाश्चः समु१२ +++++) ।
(१३कु)म्भः सोच्छालकः कूटस्योच्छ्रायोऽपि च पूर्ववत् ॥ १५ ॥
१ द. णः । २ द. शार्थं । ३ द. मः । ४ द. त्रि । ५ द. गो । ६ द. प्रो । ७ द. गः ।
८ द. तां । ९ द. रसैर्भवेद्यद्य । १० द. ऽकोर्द्धेन कूटोच्छ्रायोऽपि तावता । ११ द. स्य सा पादा ।
१२ द. च्छ्रायतो भवेत् । १३ द. स्तं ।
५१२ समराङ्गणसूत्रधारे
वेदी स्यात् सांशका सार्धपञ्चांशा स्कन्धविस्तृतिः ।
(१+++++खेत्सार्धं ?) चतुर्गुणितविस्तरात् ॥ १६ ॥
तले या कथिता शाला भागपञ्चकविस्तृता ।
स्कन्धस्थानं ++++ भागद्वितयविस्तृता(:) ॥ १७॥
रेखावशेन कर्तव्याः ३ प्रवेशाँश्च क्रमात्तु(माद् भु)वाम् ।
मूलतः स्कन्धपर्यन्तं घण्टायाः पु+++ ५ याः ॥ १८ ॥
भवेत् प्रासादविस्तारः (६पञ्चमणेव ?) सुन्दरः ।
(वैदंकोऽर्धेतरं ?) यत् स्याच्छालायास्तत्प्रमाणतः ॥ १९ ॥
८++ ये विस्तरः प्रोक्तस्तं + षड्भिर्विभाजयेत् ।
भागेनैकेन कण्ठस्य प्रवेशः परितो भवेत् ॥ २० ॥
कण्ठवृत्तं चतुर्भागविस्तृतं परिकल्पयेत् ।
घण्टोत्सेधं त्रिभिर्भागैर्विभजेत् तत्र भागिकां(त्) ॥ २१ ॥
घण्टोत्सेधार्द्धतः कार्यं पद्मं(द्म)शीर्षं विपश्चिता ।
उत्सेधात् कलशो द्व्यंशः सार्धभागेन विस्तृतः ॥ २२ ॥
शिखरात् त्र्यंशहीना स्यात् सर्वत्र (११द्युताशिका ?) ।
इति त्र्यंशश्चतुर्भूमिः प्रासादो निषैधो मतः ॥ २३ ॥
सर्वासामेव कर्तव्यो देवतानां विभूषयेत्(तये) ।
निषधप्रासादः ॥
मलयाद्रेरिदानीं तु लक्षणं सम्प्रचक्ष्महे ॥ २४ ॥
चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते ।
कर्णा द्विभागिकाः कार्याः समं सलिलवर्त्मभिः ॥ २५ ॥
शाला स्यात् पञ्चभिर्भागैः सार्धांशस्तु प्रतीरथः ।
स शालाकर्णयोर्मध्ये कर्तव्यः सोदकान्तरः ॥ २६ ॥
प्रतीरैथस्य +++ श्चौर्घभागं विनिर्गमः ।
भवेत् (पथविकान्यः स विभागोऽन्य + ?) पूर्ववत् ॥ २७॥
१ द. वेणुका संलि० । २ द. स्थानेषु सा कार्या । ३ द. व्यः । ४ द. श । ५ द. ०नरुच्छ्रयः ।
६ द. पंचमं णेव सुन्दरः । ७ द. दि । ८ द. घण्टयोर्विस्तरः प्रोक्तस्तं ष । ९ द. कं । १० द. ०र्ध ।
११ द. शुनाशिका । मुद्रित पुस्तके 'शुकनासिका' इति स्यात् । १२ द. षे । १३ द. ति । १४ द. पश्चा० ।
भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । ५१३
ते च(?) द्वादशभागा ये दशभिस्तान् विभाजयेत् ।
गर्भभित्तिं तथोत्सेधं जङ्घायाः प्रथमक्षितेः १॥ २८ ॥
वेदीबन्धस्य चोत्सेधं पूर्वमानेन कारयेत् ।
मध्यं पल्लविकान्तं तु शालयोर्दशभिर्भजेत् ॥ २९ ॥
क्षितेरारभ्य पूर्वस्याः स्कन्धं यावत् समुच्छ्रिता(तिः) ।
कार्या द्वादशभिर्भागैरनन्तरनिरूपितैः ॥ ३० ॥
सार्धैकोनविंशत्या भाजयेद् भूय एव ताम् ।
द्वितीयभूमिकोत्सेधस्तैर्भवत्यथ भागिकौ३(?) ॥ ३१ ॥
त्रिस्रोऽन्याः पदपादेन हीनाः कार्या यथाक्रमम् ।
भागेन वेदिकोत्सेधः शाला कार्या च नागरः (?) ॥ ३२ ॥
ऊर्ध्वमाद्यं(च)क्षितेः कार्या मालायाः४ शूरसेनकाः ।
कोणप्रतिरथा ये तु पञ्चभागसमुच्छ्रिताः ॥ ३३ ॥
स्तम्भोच्छालकमध्येन तेषु कूटोच्छ्रिता(ति)स्तथा ।
अर्धेन प्रविधातव्या भूष्वन्यास्वप्ययं विधिः ॥ ३४ ॥
स्कन्धविस्ताररेखा भूप्रवेश(शो) घण्टया सह ।
कलशः शुकनासस्य चोच्छ्रितिः पूर्ववद् भवेत् ॥ ३५ ॥
मलयाद्रिरयं प्रोक्तः प्रासादः शुभलक्षणः ।
य एनं कारयेत् तस्य तुष्यन्ति सकलाः सुराः ॥ ३६ ॥
वर्षकोटिसहस्राणि स्वर्गलोके महीयते ।
मलयाद्रिप्रासादः ॥
अथ माल्यवतो लक्ष्म यथावदभिधीयते ॥ ३७ ॥
भजेदर्धयुतैः पञ्चदशभिश्चतुर६++।
कर्णौ द्विभागिकाः कार्याः शाला पञ्चांशविस्तृता ॥ ३८ ॥
कर्णाभ्यर्णैऽशयुगलं पादोनाः(नं) स्युः प्रतीरथाः ।
शालायाः पार्श्वयोः कार्यों पण्डा(ञ्ज)रौ सार्धभागिकौ ॥ ३९ ॥
१ द. ते । २ द. पूर्वस्यात्स्कंधया च । ३ द. कः । ४ द. यां । ५ द. ति । ६ द. स्रकं ।
वा. ६५
५१४ समराङ्गणसूत्रधारे
पृथक्पञ्जरशालाया¹ ++++ र्धभागिका ।
शालायाः पल्लवी या च (स्या) निर्गमश्चार्धभागिका(कः) ॥ ४० ॥
सार्धपञ्चदशोक्ता ये भागास्ता² +++++ ।
गर्भोऽथ भित्तिविस्तारस्तथा खुरवरण्डिका ॥ ४१ ॥
³जङ्घाधः क्षितिराचा च रेखोच्छ्रायश्च पूर्ववत् ।
⁴++++++ भाव्यं पादहीनाष्टयुक्तया ॥ ४२ ॥
पञ्चभागसमुत्सेधा द्वितीया भूमिका भवेत् ।
⁵पादपादविही(नाःस्युस्तिस्रोऽन्याभू)मयः (क्रमात्) ॥ ४३ ॥
सार्धांशो वेदिकोच्छ्रायः कर्तव्यो वास्तुवेदिभिः ।
स्कन्धस्य विस्तुती⁶ रेखा घण्टा च कलश(स्तथा) ॥ ४४ ॥
(⁷++ यांस्तरासमाश्च ?) स्तम्भकूटादिकल्पना ।
शुकनासोच्छ्रति(श्चेति इति एतानि ?) पूर्ववत् ॥ ४५ ॥
⁸इत्येवं माल्य(वान् नाम) प्रासादः परिकीर्तितः ।
य एनं कारयेत् तस्य जा⁹यन्ते सर्वसिद्धयः ॥ ४६ ॥
शिवलोके निवासोऽस्य भवेत् कं¹⁰ल्पायुरप्ययम् ।
माल्यवान्¹¹ ॥
नवमालिकसंज्ञै¹²स्य लक्षणं कथ्यतेऽधुना ॥ ४७ ॥
चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः ।
कर्णा द्विभागिकाः कार्याः समं सलिलवर्त्मभिः ॥ ४८ ॥
शाला स्यात् पञ्चभिर्भागैः पार्श्वयोर्बालपञ्जरौ ।
सपादभागिकौ तौ च कार्यौ (स)सलिलान्तरौ ॥ ४९ ॥
कर्णाभ्यर्णे प्रतिरथौ (पौ¹³दौ नालद्वयोन्मिनौ ?) ।
तौ सोदकान्तरौ कार्यौ पै¹⁴ञ्जरौ सार्धभागि¹⁵कौ । ५० ॥
१ द. ˚नां निर्गमाश्चार्धभागिकाः । २ द. ˚स्तां दशभिर्भजेत् । ३ द. जंघोन्सेधः क्षित्तिश्चाया रे° ।
४ द. विंशत्या शिखरं । ५ द. पदपादविहीनं स्युरपराः पंचभूमयः । ६ द. ता । ७ द. शालायां सूरसेनस्थ स्त° । मुद्रित पुस्तके तु ‘शालायां शूरसेनाश्च’ इति स्यात् । ८ द. इत्येष माल्यवन्नाम ।
९ द. ज । १० द. ल्पाश्रुतत्रयं । ११ द. माल्यवंतः । १२ द. ख्य । १३ मु. पु. ‘पादोनांशद्वयो-न्मितौ’ इति स्यात् । १४ द. पि । १५ द. गौ द्वौ ।
भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । ५१३
(द्वौ ?) बालपंजरकस्यैतौ मध्ये प्रतिरथस्य च ।
प्रतीरथः पञ्जरो वा (बा)लपञ्जरकस्तथा ॥ ५१ ॥
शालापल्लविकां यावदेतानि तु पृथक् पृथक् ।
भागार्धनिर्गमानि स्युर्भागा येऽष्टादशोदिताः ॥ ५२ ॥
विभजयेत् तान् दशभिर्विभागैर्वास्तुतत्त्ववित् ।
गर्भो भित्तिः समुच्छ्रायो वेदिकाजङ्घयोरपि ॥ ५३ ॥
आद्यभूम्युच्छ्रितिस्तद्वदुच्छ्रायः शिखरस्य च ।
प्रासादेऽस्मिन्निदं सर्वं पूर्व(वत्) कथितं बुधैः ॥ ५४ ॥
तत् पञ्चत्रिंशता भागैः पादोनैः शिखरं भवेत् ।
द्वितीया भूमिका कार्या ततः पञ्चपदोच्छ्रिता ॥ ५५ ॥
पदपादविहीनास्तु शेषाः स्युः (सप्त ?) भूमयः ।
पादोनभागद्वितयं वेदिकायाः समुच्छ्रितिः ॥ ५६ ॥
स्कन्धस्य विस्तृती रेखा घण्टाथ कलशस्तथा ।
शालायां शूरसेनाश्च स्तम्भकूटादिकल्पना ॥ ५७ ॥
शुकनासोच्छ्रितिर्भूमिप्रवेशश्चेह पूर्ववत् ।
य इमं कारयेद् भक्त्या प्रासादं नवमालिकम् ॥ ५८ ॥
तुष्यन्ति देवतास्तस्य भवन्ति च समृद्धयः ।
नवमालिकः ॥
इदानीमभिधीयन्ते प्रासादा वृक्षजातयः ॥ ५९ ॥
वल्लभाः सर्वदेवानां भूमिजाः पुरभूषणम् ।
आश्रयः श्रेयसामेको यशसामपि राशयः ॥ ६० ॥
भुक्तिमुक्तिप्रदातारः (समागते कृता ?) नृणाम् ।
तत्राद्यः कुमुदो नाम कमलः कमलोद्भवः ॥ ६१ ॥
(कि)रणः शतशृङ्गश्च निरवद्यस्तथापरः ।
सर्वाङ्गसुन्दरश्चेति प्रासादा वृत्त(क्ष)जातयः ॥ ६२ ॥
न विस्तरान् संक्षेपालक्ष्मैषामथ कीर्त्यते ।
तत्राद्यः कुमुदो नाम सर्वानन्दकृदुच्यते ॥ ६३ ॥
१ द. पि । २ द. ॰पल्लिकां । ३ द. य । ४ द. र्वा । ५ द. ती । ६ द. त्त ।
५१६ समराङ्गणसूत्रधारे
चतुरश्रीकृते क्षेत्रे विस्तारायामतः समे ।
विभक्ते दशभिर्भागैर्भवेद् गर्भस्त्रिषट्पदः ॥ ६४ ॥
तत्र॑ शेषेण कुर्वीतं ++++ चतुष्टयम् ।
- ततः कर्णसूत्रेण तत्र वृत्तं समालिखेत् ॥ ६५ ॥
दिग्विद्दिक्ष्वष्ट कर्णाः स्युः सलिलान्त(रभूषिताः) ।
समन्त(२?)भूमिपर्यन्तं दशभिः स्यादयं पदैः ॥ ६६ ॥
वेदीबन्धो विधातव्यः सार्धों³शस्य पदद्वयम् ।
⁴++++++ सार्धचतुर्भिर्विभजेत् पदैः ॥ ६७ ॥
कुम्भकं द्वि ⁵+++++++++++।
(भागा)र्धेनान्तरं पत्रं कपोताली च भागिका ॥ ६८ ॥
वेदीबन्धोऽयमित्युक्तो जङ्घोत्सेध ++++।
(⁷स्यादर्ध) पञ्चमैर्भागैः सोच्छालै⁸स्तलकुम्भकः ॥ ६९ ॥
आद्यभूमौ भवेत् कूटं भागत्रितयलक्षितम् ९।
प्रासां¹⁰दे पञ्चदशभिर्विभजेत समुच्छ्रयम् ॥ ७० ॥
द्वितीया भूमिका तत्र कार्या पञ्चांशकोच्छ्रितां¹¹ः ।
अर्धेनोच्छालकस्तम्भैः कूटोच्छायास्तै¹²थोर्ध्वतः ॥ ७१ ॥
पादोनैः पञ्चभिर्भूमिं तृतीयां परिकल्पयेत् ।
चतुर्थी रचयेद् भागैर्भूमिकामर्धपञ्चमैः ॥ ७२ ॥
द्वितीय॑¹³भूमिकावत् स्यात् कूटस्तम्भादिकल्पना ।
वेदिका(दी)भागोच्छ्रिता कार्या षट्पदां स्कन्धविस्तृतिः ॥ ७३ ॥
षड्गुणेन च सूत्रेण वेणुकोशं समालिखेत् ।
प्रासादपञ्चमांशेन कार्या घण्टासमुच्छ्रितिः ॥ ७४ ॥
घण्टोत्सेधं ततस्तस्य त्रिभिर्भागैर्विभाजयेत् ।
कण्ठग्रीवाण्डकान्यस्य भागे¹⁴न न(नैकेन) कारयेत् ॥ ७५ ॥
१ द. तः । २ द. तस्य भित्ति । ३ द. र्ध । ४ द. वेदीबंधमिमं सार्ध । ५ द. पदं कुर्या-
द्भागेन च मसूरक । ६ द. तस्वस्तु कथ्यते । ७ द. स्यात्सार्ध । ८ द. 'स्त' स्थाने त । ९ द. इतः परं
प्रासादवृत्त मध्यं यत्तद्ब्रूद्देशभिः पदैः । अंशांसमीन भूम्यर्थे स्कंधा तद्वयथदोच्छ्रयः । इत्यधिकं पाठः ।
१० द. सप्रादाः । ११ द. ताः । १२ द. स्तथार्थतः । १३ द. या । १४ द. भाग भागेन ।
भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । ५१७
षड्भागभक्तघण्टायाः समन्ताद् भागविच्युतेः ।
भागैश्चतुर्भिः कर्तव्ये घण्टे¹ कण्ठस्य विस्तरम्² ॥ ७६ ॥
घण्टोत्सेधार्धतः कुर्याद् घण्टार्धे पद्मशीर्षकम् ।
घण्टोत्सेधसमा कुम्भे बीजपूरैर्वितो(समु)च्छ्रितिः³ ॥ ७७ ॥
( चतुरश्रांजितोच्छ्रायो विस्तारः ⁴कलशः स्मृताः ?) ।
य इमं कारयेत् प्रीत्या ⁵प्रासादं कुमुदाभिधम् ॥ ७८ ॥
स मोदते जगद्भर्तुः शिवस्य भवने शुभे ।
कुमुदप्रासादः ॥
अथातः सम्प्रवक्ष्यामः प्रासादं कमलाभिधम् ॥ ७९ ॥
चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ।
ततः कर्णार्धसूत्रेण वृत्तं ⁶तत्र समालिखेत् ॥ ८० ॥
विस्तीर्णं पञ्चभिर्भागैः कुर्याद् (भद्र) चतुष्टयम् ।
( ⁷सुरेन्द्रसमर्त्तायस ? )कुवेराशाखनुक्रमात् ॥ ८१ ॥
भवेत् पल्लविका(या)स्तु विस्तारो भागपादिकः ।
भागेन (कां⁹?) कार्या (भद्रा)णां निर्गमा वृत्तबाह्यतः¹⁰ ॥ ८२ ॥
शालायाः प्रतिभद्रं स्यात् कर्णिकार्धेन निर्गता(तम्) ।
पादोनभागत्रितयात् कार्या वि(वृ¹¹)त्तस्य विस्तृतिः ॥ ८३ ॥
द्विभागविस्तरायामौ¹² ( ¹³रंशुकं द्वयमतोध्यगौ ? ) ।
परिवर्त नया कार्यों द्वौ कोणौ सोदकान्तरौ ॥ ८४ ॥
पूर्वप्रासादवद् गर्भो विधेयो भित्तयोऽपि च ।
वेदीबन्धादिकुम्भान्तं सर्वमेतस्य पूर्ववत् ॥ ८५ ॥
द्वितीयभूमिपर्यन्तमूर्ध्वं प्रथमभूमितः ।
शूरसेनं विधातव्यं शालासु वि(श्लि)ष्टमुत्तमम् ॥ ८६ ॥
कूटस्तम्भादिकन्यासाः¹⁴ कोणप्रतिरथादिषु ।
( शाला स्याग्नोंगरास्तले¹⁵ ? ) पञ्चांशा द्वयंशकोपरि ॥ ८७ ॥
१ द. ण्टो । २ द. रः । ३ द. पूजविनो । ४ द. कलशो स्मृतः । ५ द. कीर्त्या । ६ द. च ।
७ मुद्रित पुस्तके 'सुरेन्द्रयमतोषेश' इति स्यात् । ८ द. तोयेश । ९ द. सु । १० द. कर्णिका ।
११ द. द्वृ । १२ द. मो । १३ मु. पु. रथकद्वयमध्यगौ इति स्यात् । १४ द. सः । १५ द. न्ना ।
५१८ समराङ्गणसूत्रधारे
शिखरस्य त्रिभागोना शुकाग्रायाः समुच्छ्रितिः ।
यं¹ एनं कमलं नाम प्रासादं कारयेन्नृपः ॥ ८८ ॥
त्रैलोक्ये² कमलाधीशविजये( यी ) स भवेन्नृपः ।
कमलप्रासादः ॥
अथातः कथ्यते सम्यक् प्रासादः कमलोद्भवः ॥ ८९ ॥
सदा लक्ष्मीपतिर्यत्र देवो विश्राम्यति स्वयम् ।
चतुरश्रीकृते क्षेत्रे चतुर्दशभि( रंशितै³ ) ॥ ९० ॥
⁴++++++स्तारो भद्रं पञ्चपदं भवेत् ।
वि( द्वि )भागायामविस्तारौ( राः ) कार्याः प्रतिरथास्तथा ॥ ९१ ॥
कोण⁵ ++++++++++++++।
कार्या( र्यः ) पल्लविकायाश्च नि( र्गमो ) वृत्तमध्यतः ॥ ९२ ॥
शालाविभक्तिश्चैतस्य कर्त ६++++++।
⁷++++++++ न्तरेषु स्याज्जलान्तरम् ॥ ९३ ॥
द्व्यङ्गुलं ( त्र्यङ्गुलं ) वापि तद् विधेयं विपश्चिता ।
भागा ⁸+++++++++++ ल्पयेत् ॥ ९४ ॥
प्रासादस्यास्य⁹ +++ भाजयेद् दशभिः पदैः ।
गर्भश्च पूर्ववत् कार्यः¹⁰ पूर्ववद् भित्तयोऽपि च ॥ ९५ ॥
प्राग्वत् खुरवरण्डी स्याज्जङ्घाकूटाद्यभूमिका( ः ) ।
शिखरस्योच्छ्रितिः प्राग्वत् तां सार्धैकानु( न्न )विंशतिम् ॥ ९६ ॥
भागान् कुर्यात् ततः कार्या भूर्द्वितीयांशपञ्चकर्मै¹¹ ।
कार्यास्तिस्रो भुवः शेषाः पादपादपरिच्युताः¹² ॥ ९७ ॥
भागं वेदी भूप्रवेशः कार्यों रेखावशादितैः¹³।
पूर्ववच्चार्थ( र्थ ) विस्तारः स्याद् घण्टाकलशादि वा ॥ ९८ ॥
१ द. य एवं तं क ं । २ द. क्य । ३ द. क । ४ द. द्विपदः कर्ण त्रि ं । ५ द. कोणसून्ना-
परानृत्तेरष्टौ वृत्तस्य मध्यतः । ६ द. व्या पूर्ववच्छुभाः । ७ द. कोणशाला प्रतिरथा ं । मु. पु. ‘शालाकोण-
प्रतिरथा ’ इति पूरणीयं भाति । ८ द. श्रतुर्दशैते ये पूर्वं क्षेत्रं प्रक ं । ९ द. ˚स्यास्य व्यर्थं ता भजेद् ं ।
१० द. र्या । ११ द. कात् । १२ द. ते । १३ द. ह ।
भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । ५१९
कूटस्तम्भादिकं प्राग्वच्छुक्कनासोच्छ्रयोऽपि च ।
य इमं कारयेत्¹ कान्तं प्रासादं कमलोद्भवम् ॥ ९९ ॥
स समस्तं²जगन्नाथः प्रतिजन्म प्रजायते ।
कमलोद्भवप्रासादः ॥
लक्षणं किरणस्याथ ब्रूमः सम्यक् क्रमागतम् ॥ १०० ॥
चतुरश्रीकृते क्षेत्रे भक्ते ++++++ ।
++ पञ्चदशांशा ये तान् भजेद् दशभिः पुनः ॥ १०१ ॥
गर्भोऽत्र पूर्ववत् कार्यः पूर्ववद् भित्तयोऽपि च ।
प्राग्वत् खुरवरण्डी स्याज्जङ्घाकूटोच्छ्रितिस्तथा ॥ १०२ ॥
पूर्ववच्छिखरोत्सेधस्तं भजेत् पादहीनया ।
चतुरुत्तरविंशत्या भागानां तत्र भूमिका ॥ १०३ ॥
द्वितीया पञ्चभिर्भागैश्चतस्रस्त्वपराः पुनः ।
पादोनपद³हीनाः स्युः क्रमशश्चास्य भूमिकाः ॥ १०४ ॥
वेदिका चास्य कर्तव्या सपादांशसमुच्छ्रिता ।
शुकनासोच्छ्रितिः शालास्तम्भकूटविभक्तयः ॥ १०५ ॥
रेखा⁴ स्तम्भस्य विस्तारो घण्टाकुम्भादि पूर्ववत् ।
कूटा द्राविड(काः) कार्याः प्रतिभूम्यथ (भौमज?) ॥ १०६ ॥
हरो हिरण्यगर्भश्च हरिर्दिनकरस्तथा ।
एषामेव विधेयोऽसौ नान्येषां तु कदाचन ॥ १०७ ॥
अमुं यः कारयेद् राजा प्रासादं किरणा⁶भिधम् ।
स दुःसहप्रतापः स्यात् सहस्रकरवद् भुवि ॥ १०८ ॥
किरणप्रासादः ॥
कथ्यते⁷ शतशृङ्गोऽथ प्रासादः (शुभलक्षणः) ।
वल्लभः सर्वदेवानां (शिं)वस्य (तु) विशेषनः ॥ १०९ ॥
१ द. क्षात्रं । २ द. स्तं । ३ द. पा । ४ द. स्कंधस्य । ५ द. श्च द्राविडा । ६ द. ॰णादिवं ।
७ द. प्रतौ कथ्यते......(शुभलक्षणः) । इत्ययं पाठः नास्ति । ८ द. धा ।
चतुरश्रीकृते क्षेत्रे विंशत्यैकोन(१यान्तिभे ?)।
कर्णाद्वि(२र्ध)सूत्रेण ततो वृत्तमत्र प्रकल्पयेत् ॥ ११०॥
कर्णा द्विभागिकाः कार्याः शाला स्यात् पञ्चभागिका।
शालोपपल्लविका चास्य (निर्गता) वृत्तमध्यतः ॥ १११ ॥
द्वौ द्वौ प्रतिरथौ कार्यौ द्विभागायामविस्तृतौ।
परं३ वर्तनतो वृत्तमध्यतोँ(तः) कोणशालयोः ॥ ११२॥
शालाकोणप्रतिरथान्तरेषु स्याज्जलान्तरम्।
एकोनविंशतिं५ भागांस्तान् भजेद् दशभिः पुनः ॥ ११३॥
गर्भः प्राग्वत् तथा भित्तिः प्राग्वत् खुरवरण्डिका।
जङ्घोत्सेधो(ऽथ) भूत्सेधः६ पूर्ववच्छिखरोच्छ्रितिः ॥ ११४ ॥
(अथाभिर्भूते ?)मेरारभ्य पट्ट्यन्तं शिखरोच्छ्रितिः(तिम्) ।
भागानामष्टविंशत्या(?) विभजेत् पादहीनया ॥ ११५ ॥
द्वितीयभूमिका तस्य कार्या पञ्चपदोच्छ्रिता।
रेखास्तु पञ्च कर्तव्याः पदपादोच्छ्रिता भुवः ॥ ११६॥
सार्धभागोच्छ्रिता वेदी प्रविधेयास्य तद्विदो।
(शैलास्यैस्तम्भक्तैर्यदिविभक्तयदि विभक्तिः?) शुकनासिका ११७
(रेखाद्यं चकं१४र्मस्य ?) प्राग्वत् स्यात् सर्वमप्यदः।
शतशृङ्गममं कुर्याद् यः प्रासादं मनोरमम् ॥ ११८॥
तस्यैकविंशतिकुला ++++++++।
कर्ता कारयिता चेति द्वावेतौ जगतां प्रभोः ॥ ११९ ॥
त्रिपुरद्वेषिणः स्यातां नियतं गणनायकौ ।
\hfill शतशृङ्गप्रासादः ॥
१६++++++ यामो निरवद्यस्य लक्षणम् ॥ १२० ॥
१ मु. 'याशिते' इति स्यात्। द. प्रतौ तु 'यान्तिके' इत्येव पाठः । २ द. ल । ३ द. रि ।
४ द. तौ । ५ द. तिः । ६ द. धो । ७ द. स्त । मुद्रित पुस्तके 'अथादिभू' इति स्यात् । ८ द. द्यन्तं ।
९ द. ष्ट्रि । १० द. धा । ११ मुद्रित पुस्तके 'शालास्य स्तम्भ कूटादिभक्तयः' इति पाठः ।
१२ द. श्व । १३ द. कूट। । १४ द. कुं । १५ द. 'तिः कुर्या लात्मसर्वैर्मुखं । १६ द. इदानीमभिधा-
स्यामो नि' । मुद्रित पाठभेदस्तु 'प्रासादस्याथ वक्ष्यामो' इति स्यात् ।
भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । ५२१
स स्याज्ज्येष्ठोऽथ मध्यश्च कनीयानिति च त्रिधा ।
चत्वारिंशत्करो ज्येष्ठोऽपि (मध्यः) त्रिंशत्करो भवेत् ॥ १२१ ॥
विंशत्या च करैरेष कनीयान् समुदाहृतः ।
चतुरश्रीकृते क्षेत्रे विंशत्या भाजिते पदैः ॥ १२२ ॥
ततः कर्णद्विसूत्रेण( ? ) वृत्तमत्र प्रकल्पयेत् ।
कार्या तैः पञ्चभिः शालाँपल्लवी वृत्त( म )ध्यतः ॥ १२३ ॥
शालाविभक्तिः प्राग्वत् स्याच्छालयोरेतयोः पुनः ।
कोणे कोणे च षट्कर्णा + भागायामविस्तृताः ॥ १२४ ॥
परिवर्तनया कार्या वृत्तान्तः सोदकान्तराः ।
( ५ता तागा त्रिभागै ? )र्विभजेद् दशभिस्ततः ॥ १२५ ॥
विमुच्य भूमिकाभागाञ्छेष्ं गर्भगृहादि यत् ।
तत् पूर्ववद् विधातव्यं तद्वच्च शिखरोच्छ्रितिः ॥ १२६ ॥
तामेकत्रिंशता भागैः सार्धैश्च विभजेत् पुनः ।
द्वितीयभूमिका कार्या पदैः पञ्चभिरुच्छ्रिता ॥ १२७ ॥
पदपादेन हीनाः स्युः शेषा ( ७षड्भास ? ) भूमिकर्काः ।
वेदी ( पंश्चयं ? ) कार्या पादोनमिह शिल्पिना ॥ १२८ ॥
स्तम्भकूटादि शालानां विन्यासः शूरसेनकाः ।
शुकनासोच्छ्रितिर्घण्टा कलशादि चं पूर्ववत् ॥ १२९ ॥
य इमं निरवद्याख्यं प्रासादं कारयेत् सुधीः ।
स प्राप्नोति परं स्थानं ब्रह्मादीनां सुदुर्लभम् ॥ १३० ॥
निरवद्यप्रासादः ॥
सर्वाङ्गसुन्दरं ब्रूमः प्रासादमथ सुन्दरम् ।
भुक्तिमुक्तिप्रदातारं ( वरवालय ? ) मण्डनंम् ॥ १३१ ॥
१ द. कर्णार्थं०; मुद्रित पुस्तकेऽपि 'कर्णार्थसूत्रेण' इति पाठ्यं भाति । २ द. कार्य । ३ द. ल ।
४ द. रेते । ५ द. तान् भागान् बिशति भागै र्वि० । ६ द. ०कान् । ७ मुद्रित पुस्तके 'षट् चास्य'
इति स्यात् । ८ द. कः । ९ द. पदद्वयं । मुद्रित पुस्तके 'पदत्रयम्' इति स्यात् । १० द. व. ।
११ द. ल ।
वा. ६६
चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते ।
कर्णा द्विभागविस्ताराः शाला स्यात् पञ्चभागिका ॥ १३२ ॥
वृत्तान्तः पल्लवी कार्या शेषाः शालासु¹ पूर्ववत् ।
त्रयस्त्रयः प्रतिरथा मध्ये स्युः² कर्णशालयोः ॥ १३३ ॥
परिवृत्यैं( त्या ) वृत्तमध्ये द्विभागायामविस्तृताः ।
शालाकर्णप्रतिरथप्रान्तेषु स्याद्बलान्तरे( रम् ) ॥ १३४ ॥
⁵त्रिचतुर्विंशतिर्भागा विभाज्यौः शिल्पिभिः पुनः ।
विधेयं गर्भभित्त्यादि प्राग्वत् स्याच्च वरण्डिका ॥ १३५ ॥
जङ्घादिभूमिकोच्छ्रायः प्राग्वद्धू(द्वा ) शिखरोच्छ्रितिः ।
(तं) पञ्चत्रिंशता⁶ भागैर्विभजेच्छिखरोच्छ्रयम् ॥ १३६ ॥
द्वितीया भूमिका चास्य कार्या पञ्चपदोच्छ्रिता ।
पदपादविहीनाः स्युः शेषाः सप्तास्य भूमिकाः ॥ १३७ ॥
द्विभागो वेदिकोच्छ्रायो भूमिकानां प्रवेशनम् ।
रेखावशेन कर्तव्यं शेषमेतस्य यत् पुनः ॥ १३८ ॥
तत् पूर्ववद् विधातव्यं स्तम्भकूटादि तद्विदा ।
सर्वाङ्गसुन्दरं योऽत्र प्रासादं कारयेदमुम् ॥ १३९ ॥
स स्वर्गसुन्दरीभोगानाप्नोति विपुलान् दिवि⁷ ।
सर्वाङ्गसुन्दरः प्रासादः ॥
अथाष्टशालान् वक्ष्यामो + + + भूमिजातिषु ॥ १४० ॥
तेष्वाद्यः स्वस्तिकोऽन्यश्च वज्रस्वस्तिकसंज्ञितः ।
तृतीयो हर्म्यतलकश्चतुर्थ उदयाचलः ॥ १४१ ॥
गन्धमादनसंज्ञश्च पञ्चमः परिकीर्तितः ।
अथामिधीयते तेषु + + + ⁸स्वलक्षणः ॥ १४२ ॥
चतुरश्रीकृते क्षेत्रे विस्तारायामतः⁹ समे ।
कर्णार्धसूत्रपातेन वृत्तमस्य समं लिखेत् ॥ १४३ ॥
पादटिप्पण्यः (Footnotes):
१ द. स्तु । २ द. स्यात् कं° । ३ द. त्या । ४ द. ते । ५ द. ज्य । ६ द. त । ७ द. धिः ।
८ द. मुद्रित पुस्तके ‘स्वस्तिकः शुभलक्षणः' इति स्यात्; द. स्वस्तिकास्य लक्षणः । ९ द. °तो समे ।
भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । १२३
वर्तुलं भाजयेत् क्षेत्रं षड्गुणैरष्टभिः पदैः ।
अष्टौ शाला विधातव्या विस्तारेण चतुष्पदाः ॥ १४४॥
पल्लवी वृत्तसूत्रेण १++++++++।
+++ कर्णिका ज्ञेया मानमूर्ध्वमथोच्यते ॥ १४५॥
वेदिबन्धो विधातव्यो भागद्वितयमुच्छ्रितः ।
तं भजेत् पञ्चभिर्भागैः +++ तत्र कुम्भकः ॥ १४६ ॥
पादयुक्तेन भागेन कर्तव्यस्तु मसूरकः ।
अर्धांशेनोत्त(नान्त)रं पत्रं कपोताली ततो भवेत् ॥ १४७॥
सपादेनास्य भागेन जङ्घां(ङ्गा) भागचतुष्टयात् ।
तलकुम्भोच्छालकाभ्यां संयुक्ता शुभलक्षणा ॥ १४८ ॥
भागद्वितै२यमाया भूः कर्तव्या सवरण्डिका ।
व्यासं दशपदं कृत्वा तैर्द्वादशभिरुच्छ्रितिः ॥ १४९ ॥
स्कन्धश्च षट्पदस्तत्र विधातव्यो विजानता ।
षड्गुणेनैव सूत्रेण वेणुकोशं समालिखेत् ॥ १५० ॥
द्वादशांशो य उत्सेधो भागानां सम +++।
५तं कृत्वा पञ्चभिर्भागैस्ते द्वि(स्तैर्द्वि)तीया भवेन्मही ॥ १५१ ॥
पदपादोच्छ्रिताः कार्यास्ततस्तिस्रोऽपरा भुवः ।
(गर्भा गर्भं ?) विधातव्यं भूमिकानां प्रवेशकम् ॥ १५२ ॥
वेदिका च ततः कार्या सार्धभागसमुच्छ्रिता ।
पादोनद्विपदा घण्टा विभजेत् तां त्रिभिः पदैः ॥ १५३ ॥
पदं८ स्यात् कण्ठकोत्सेधो ग्रीवा भागसमुच्छ्रिता ।
अण्डकं भागिकं तस्यां कर्तव्यं सुमनोरमम् ॥ १५४॥
कर्परं सार्धभागेन कुर्यात् सामलसारकम् ।
(१०सीस्तन चाभागायाः ?) सार्धभागचतुष्टयात् ॥ १५५ ॥
१ मुद्रित पुस्तके 'बाह्यतो भद्रकर्णिके' इत्ययं पूरणीयांशः प्रकरणान्तरादुपलभ्यते । २ द. त ।
३ द. ती । ४ द. ते । ५ द. ष्टि । ६ द. द्व । ७ द. दैः । ८ द. स्याः । ९ द. रि । १० द. सीम्न-
स्तुनवा ।
५२४ समराङ्गणसूत्रधारे
घण्टा॑या विस्तरः कार्यस्तं भजेत् षड्भिरंशकैः ।
चतुर्भिः कन्दविस्तारात्² ++++++++ ॥ १५६ ॥
सार्धभागः समुत्सेधः कलशस्य तदर्धतः ।
शिखरस्य त्रिभागेन शुकनासा³ विधीयते ॥ १५७ ॥
विस्तौरा(दू)⁴ गर्भमानेन हीनौ⁵ वाष्टांशतो भवेत् ।
(विस्ताराथ सपादेन ?) शूरसेनस्तदूर्ध्वतः ॥ १५८ ॥
द्वितीयभूमिकातुल्य आद्यभूमेः स ऊर्ध्वतः ।
शालाविस्ता॑रतुल्यास्तु शूरसेनास्त्रयो मताः ॥ १५९ ॥
शाला नागरिकाश्चाष्टौ ग्राहग्रासविराजिताः ।
य इमं कारयेद् धन्यः प्रासादं स्वस्तिकं शुभम् ॥ १६० ॥
तस्यानुजन्म(शार्तानां ?) खस्तिश्रीभोजनं भवेत् ।
स्वस्तिकप्रासादः ॥
अतः परं प्रवक्ष्यामो वज्रस्वस्तिकसंज्ञितम् ॥ १६१ ॥
प्रासादं लक्षणोपेतं शक्रादिसु॑रवल्लभम् ।
पूर्वोक्तलक्षणोपेते स्वस्तिके(दैवमध्यदे¹¹ ?) ॥ १६२ ॥
भद्रे शृङ्गं प्रदातव्यं तीक्ष्णाग्रं सुमनोरमम् ।
पुरस्तान्मण्डपं कुर्यात् सर्वलक्षणसंयुतम् ॥ १६३ ॥
इत्येष कथितः सम्यग् वज्रस्वस्तिकसंज्ञितैः¹² ।
य इमं कारयेद् धन्यः प्रासादं¹³ सर्वकामदम् ॥ १६४ ॥
स स्याद् भोग्यः सुरस्त्रीणामैन्द्रं च पदमश्नुते ।
वज्रस्वस्तिकप्रासादः ॥
अथ हर्म्यतलं ब्रूमः प्रासादं मण्डनं भुवः ॥ १६५ ॥
चतुरश्रीकृते क्षेत्रे विस्तारायामतः समे¹⁴ ।
कर्णार्धसूत्रपातेन तस्मिन् वृत्तं समालिखेत् ॥ १६६ ॥
१ द. 'ष्ट । २ द. रोग्रीवा पंचाशविस्तरात् । ३ द. शो । ४ द. विस्तरा । ५ द. नो ।
६ द. स्त । ७ द. युद्धं । ८ द. 'ता' स्थाने 'ला' पञ्चते । ९ द. भोंजनं श्ववेत् । १० द. पुरवल्लभां ।
११ द. दे । १२ द. तं । १३ द. दः । १४ द. मं ।
भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । ५२५
तद् वृत्तं विभजेत् क्षेत्रं चतुःषष्ट्या पदैस्ततः ।
कर्त्तव्या विस्तरेणास्मिन्नष्टौ शालाश्चतुष्पदाः ॥ १६७ ॥
पल्लवी वृत्तसूत्रेण बाह्यतो भद्रकर्णिके ।
कर्णौ द्वौ द्वौ विधातव्यौ शालाद्वितयमध्यतः ॥ १६८ ॥
वि(द्वि)भागायामविस्तारौ सलिलान्तरभूषितौ ।
परिवर्तनतोऽन्योन्यं कोणान् कुर्वीत षोडश ॥ १६९ ॥
अष्टास्वपि च दिक्ष्वेवं(माना कर्मभिरन्विता ?)।
गर्भो भित्तिश्च वेदी च जङ्घाप्रथमभूमिकाः ॥ १७० ॥
कर्त्तव्याः पूर्वमानेन स्वस्तिकोक्तेन तद्विदा ।
द्वादशांशो य उत्सेधो विंशत्या तत्र भाजितः ॥ १७१ ॥
सोऽ(त्रा)ष्टाविंशतिविधः कर्तव्य सू(स्त)त्र भूमिका ।
द्वितीया पञ्चभिर्भागैः पदपादोञ्झिताः पृथक् ॥ १७२ ॥
अन्याः स्युर्भूमयः पञ्च वेदी (व्यंघ्रिः ?) द्विभागिकाः (परा ?) ।
चतस्रो मञ्जरीः कुर्यान्नागरैः कर्मभिर्युताः ॥ १७३ ॥
चतस्रः पुनरन्याश्च युक्ता द्राविडकर्मभिः ।
घण्टा स्कन्धस्य विस्तारो वेदिकाकलशोच्छ्रयौ ॥ १७४ ॥
शूरसेनः शुकाद्या च स्तम्भिकाकूट(वि?)भक्तयः ।
रेखा(श्च) पूर्ववत् कार्याः प्रासादस्यास्य जानता ॥ १७५ ॥
प्रासादस्यास्य कर्त्ता यस्तथा कारयिता च यः ।
(प्राप्नुतामिव लोकं ?) तौ नित्यानन्दसुखोदयम् ॥ १७६ ॥
हर्म्यतलकप्रासादः ॥
अथातः सम्प्रवक्ष्यामि प्रासादमुदयाचलम् ।
चतुरश्रीकृते क्षेत्रे भुजाकर्णसमे शुभे ॥ १७७ ॥
ततः कर्णार्धसूत्रेण तस्मिन् वृत्तं समालिखेत् ।
वर्तुलं कारयेत् क्षेत्रमशीतिपद भाजितम् ॥ १७८ ॥
१ द. तः । २ द. यो । ३ द. कर्त्तव्यास्तथा । ४ द. सः । ५ द. मुद्रित पुस्तके 'प्राप्नुतः
शिवलोकं इति स्यात् । ६ द. त । ७ द. मः । ८ द. ते ।
१२६ समराङ्गणसूत्रधारे
शालाश्चाष्टौ विधातव्याः पूर्वदिक्षु चतुष्पदाः ।
पल्लवी वृत्तसूत्रेण बाह्यतो भद्रकर्णिके ॥ १७९ ॥
कुर्याच्छालाद्वयस्यान्तः कोणानां च त्रयं त्रयम् ।
द्विभागायामविस्तारसलिलान्तरभूषितैः ॥ १८० ॥
एवं कोणा विधातव्या विंशतिश्चतुरोत्तरा³ ।
परिवर्तनमन्योन्यमेषां कुर्याद् यथाक्रमम् ॥ १८१ ॥
एतत्सा(त्स)प्रमाणेन गर्भं भित्तिं च वेदिकाम् ।
जङ्घां च भूमिशिखरं पूर्ववत् परिकल्पयेत् ॥ १८२ ॥
अष्टौ च मञ्जरीः कुर्याद् युक्ता नागरकर्मणा ।
रुद्रेश्वरसमायुक्ता नीरधारोपशोभिताः ॥ १८३ ॥
( घण्टाकूटाश्च रेखा च स्तम्भिकाः⁴ शूरसेनकः⁵ ।
शुका(घ्रा)स्कन्धविस्तारकलशेन समन्वितं⁶ ? ) ॥ १८४ ॥
स्वस्तिकोक्तविधानेन विदध्यादुदयाचलम् ।
द्वादशांशो य उत्सेधो विंशत्या तत्र भाजितः ॥ १८५ ॥
स्यात् पञ्चत्रिंशता भाज्यो +⁷++ तत्र भूमिका ।
पञ्चभागोच्छ्रिता कार्या ततोऽन्याः सप्त भूमयः ॥ १८६ ॥
( पदपादोच्छ्रिता भागद्वयो यो तु वेदिका ।
++++++++⁹° सर्वलक्षणसंयुता ? ) ॥ १८७ ॥
प्रासादं यस्त्विमं सम्यग् भक्तिमान् कारयेन्नरः ।
शाश्वतं पदमाप्नोति स दुष्प्रापं सुरैरपि ॥ १८८ ॥
उदयाचलप्रासादः ॥
इदानीं प्रक्रमायातः कथ्यते गन्धमादनः ।
स्वलक्षणप्रमाणाढ्यक्षितिस्मिन्नुदयाचले (?) ॥ १८९ ॥
कुर्वीत मञ्जरीरष्टौ युक्ता द्रा¹¹विडकर्मभिः ।
कूटाश्च मणिकाः कार्या नानाकर्मभिरन्विताः ॥ १९० ॥
१ द. चा.। २ द. तं । ३ द. राः । ४ द. ताः । ५ द. कं । ६ द. तं । ७ द. ले । ८ द.
द्वितीया । ९ द. ˚ष्टितां भागे द्वयोच्छ्राया तु वेदिका । १० द. ......र्यः सर्वलक्षण संयुतः ॥ ११ द. द्र ।
भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । १२७
स्थानेषु शूरशेना + पुरोरेखात्रयं भवेत् ।
शुकनासां च घण्टां च स्कन्धं शिखरमेव च ॥ १९१ ॥
कूटा + स्तम्भिका कुम्भं पूर्ववत् परिकल्पयेत् ।
य इमं कारयेद् धन्यः प्रासादं मण्डनं भुवः ॥ १९२ ॥
विद्याधराधिपः श्रीमान् स भवेन्नात्र संशयः ।
भुङ्क्ते च विविधान् भोगान् सुरस्त्रीभिश्च सेव्यते ॥ १९३ ॥
गन्धमादनप्रासादः ॥
उदयस्य विभेदेन रेखा याः पञ्चविंशतिः ।
लतिनागरभौमानां ताः कथ्यन्ते यथागमम् ॥ १९४ ॥
लतिनां (स्याद्द्वारंगंतो ?) नागराणां तु कूटकः ।
भूमिजानां विधातव्या२ (माथायाः ?) पुरतो भुवः ॥ १९५ ॥
शिखरं व्यासकर्णाभ्यां तुल्यं स्यादधमोत्तमम् ।
भाजनीयं३चतुर्युक्तविंशत्यादनन्तरम् (?) ॥ १९६ ॥
++++++ भौगरेखास्तावत्य ईरिताः ।
संख्यां सा( ?) शोभना भद्रा सुरूपा सुमनोरमा ॥ १९७ ॥
शुभा चैव तथा शान्ता कावेरी च सरस्वती ।
लोका च करवीरा च कुमुदा पद्मिनी तथा ॥ १९८ ॥
कर्नका विकटा दैवरम्या च रमणी तथा ।
वसुन्धरा तथा हंसी विशाखा नन्दिनीति च ॥ १९९ ॥
जया च विजया चैव सुमुखा च प्रयानता ।
इत्येताः कीर्तिता रेखाः १०++ या पञ्चविंशतिः ॥ २०० ॥
रेखा एताः ११ (?) ॥
एताः शुभफलाः सर्वाः कर्तुः कारयितुस्तथा ।
चतुरश्रचतुष्कमेवमुक्तं वृत्ताः सप्त च भूमिजा इमे १२(?) ॥ २०१ ॥
इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
भूमिजैप्रासादाध्यायो नाम पञ्चषष्टितमो १४ऽध्यायः ॥
१ द. गं । २ द. व्यं । ३ द. यं । ४ द. त्या भाजिनंतरं । ५ द. ना । ६ द. सख्या । ७ द. स्व ।
८ द. नी । ९ द. दै । १० द. संख्य । ११ द. प्रतौ नास्ति । १२ द. मी । १३ द. जाः । १४ द. मः ।
अथ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः ।
इदानीं मण्डपानष्टौ ब्रूमः प्रासादसंस्थितान् ।
प्रासादं कल्पयेत् पूर्वं भागशुद्धं सुलक्षणम् ॥ १ ॥
संवृतो वा भवेदेष व्यतिरिक्तोऽथवा क्वचित् ।
( चतुरश्रो विभागैश्च १घटंतेः य समंवृतः ? ) ॥ २ ॥
( पैशुभागैर्विघटते ? ) व्यतिरिक्तः स कीर्तितः ।
गर्भो गर्भसमः शस्तः ( सोन्यर्थेतोषमावहेत् ? ) ॥ ३ ॥
एवं निवेशयेदग्रे मण्डपान्थेव ४सङ्गतः (?) ।
भजेच्छतपदाख्येन ज्येष्ठमध्यकनीयसः ॥ ४ ॥
मण्डपांस्तेषु भद्रः स्यान्नन्दनाख्यस्तथापरः ।
महेन्द्रो वर्धमानश्च स्वस्तिकः सर्वभद्रकः ॥ ५ ॥
महापद्मोऽष्टमश्चैषां गृहराजः प्रकीर्तितः ।
एते यथार्थनामानो६ लक्ष्मैतेषां प्रचक्ष्महे ॥ ६ ॥
प्रासादद्विगुणायामः पादोनद्विगुणायतः (?) ।
कार्यों यस्तथा व्यर्थमग्रतः(?) सुरमन्दिरात् ॥ ७ ॥
प्रासादोच्छ्रायतुल्यं वा कार्या मण्डपविस्तृतिः ।
शुकनासान्विताः कार्यास्ते चालिन्दसमन्विताः ॥ ८ ॥
अलिन्दः सर्वतोभागनिर्गता र्तावविस्तृताः (?) ।
कदाचित् सार्धभागेन निष्क्रान्ता भागविस्तृतौ ॥ ९ ॥
१२+ + भिर्भाजयेद् भागैर्भद्रं प्राज्ञः समन्ततः ।
शृङ्गाणि स्युर्द्विभागानि सहितान्युदकान्तरैः ॥ १० ॥
भागं प्रमा १३+ + + रादामूलतलमस्तकम् ।
शृङ्गेषु रथिका कार्या भागपादेन निर्गता ॥ ११ ॥
१ द. घंटतैः । २ द. यः सु । ३ द. थादोष । ४ द. सप्त न । ५ द. मा । ६ द. भू ।
७ द. व्यर्थमयत: । ८ द. र्यं । ९ द. स्ते वा । १० द. भा । ११ द. ताः । १२ द. दश ।
१३ द. ण विस्तारा । १४ द. काः । १५ द. र्याः । १६ द. ताः ।
मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः । १२९
भागेनैकेन निष्क्रान्तं विस्तृतं (चतुश्वतान्१ ?) ।
मध्यभद्रं विधातव्यमाशासु चतसृष्वपि ॥ १२ ॥
पीठं प्रासादपीठस्य नात्र² कुर्वीत मण्डपे ।
(तलपट्टे भवेच्छोकनाशोयाक्षितिरङ्गिका ?) ॥ १३ ॥
तलपट्टमधस्तस्या मण्डपस्य निवेशयेत् ।
कर्तव्यमेवमग्रेऽग्रे निम्नं निम्नतरं ततः ॥ १४ ॥
अथवा तत्समं दद्यात् स्थपतिः शास्त्रवित्तमः ।
चतुर्भागायतद्वारं षड्द्वारुक(दारुक)समन्वितम् ॥ १५ ॥
अग्रभद्रं विधातव्यं चतुस्तम्भविभूषितम् ।
पृष्ठतश्च भवेदेवं संसृतिश्चैत्रमण्डपे⁴ ॥ १६ ॥
संसृतेः शुकनासो स्याद् भूमिर्ताः³( ?) पृष्ठभद्रकम् ।
शेषं तथैव कर्तव्यं विधानं मण्डपस्य तु ॥ १७ ॥
स भित्तिभिः परिक्षिप्तः कर्तव्यः पार्श्वयोर्द्वयोः ।
भागेन कल्पयेद् भित्तिं गवाक्षैरुपशोभिताम्⁵ ॥ १८ ॥
वातायनाश्च कर्तव्याः सह चन्द्रावलोकनैः ।
प्रासादद्वारवद् द्वारविस्तारो मण्डपे भवेत् ॥ १९ ॥
सपादः सत्रिभागो वा सार्धः (सौम्याथवा ?) भवेत् ।
ऊर्ध्वद्वारविधे(धिः) कार्यों मूलद्वारानतिक्रमात् ॥ २० ॥
जालव्यालकपोताली मत्तवारणकैर्युताः⁶ ।
भ्रमनिर्मापितैः स्तम्भैः कर्तव्याश्च गवाक्षकाः⁷ ॥ २१ ॥
वातायनं तदर्धेन पादोनं द्वा(चा)वलोकनम् ।
क्षणमध्ये प्रकुर्वीत चतुष्कीं¹⁰ विधिवच्छुभाम्¹¹ ॥ २२ ॥
क्षोभायौं बाह्यतो रेखा क्षात्या द्रुमं¹² च विवर्जयेत् (?) ।
दारुकर्मविधे(धि)र्मध्ये यथा स्यात् कथ्यते तथा ॥ २३ ॥
१ द. श्व । २ द. निम्नं । ३ द. र्भा । ४ द. ॰तश्चेत्र मंडपः । ५ द. शः । ६ द. ते ।
७ द. तम् । ८ द. ता । ९ द. का । १० द. र्थीं । ११ द. भा । १२ द. र्ना ।
वा. ६७