समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
३८६ समराङ्गणसूत्रधारे
अन्धारिका तु भागौ द्वौ बाह्यभित्तिस्तु भागिकी ।
त्रि(भि)र्भागैर्विनिष्क्रान्तं तेषु कार्याश्चतुष्किकाः ॥
द्विगुणं कथिते(तं) चोर्ध्वमानं घण्टाण्डकान्वितम् ।
प्रमाणेन विधातव्यो दश भागास्तुलोदयः ॥
त्रिपदो वेदिकाबन्धो जङ्घा स्यात् + षडंशकः ।
मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥
पदत्रयेण (सादूर्ध्वं शृङ्गं कलश चाण्डकम् ?) ।
शिखरा विंशतिः कार्याः सम्भित्ताः (संभिन्नाः) सर्वमण्डपैः ॥
शृङ्गादधो विधातव्या(व्यं) मल्लच्छाद्यं मनोहरम् ।
एवं सर्वचतुष्केषु मल्लच्छाद्यानि कारयेत् ॥
छाद्यकैः पञ्चभिः कार्यों मध्ये प्रासादनायकः ।
घटिकानां समुच्छ्रायः सपादं पदमिष्यते ॥
घण्टायाः सार्धभागेन ग्रीवायाश्च पदादि(धि)का ।
कर्त्तव्यामलसारी तु (पादोनांशायखण्डिकाम् ?) ॥
द्विपदः कलशः कार्यों बीजस्वरसमन्वितः ।
पञ्चघण्टावृतं कृत्वा विमाना(नं) पञ्चचामरम् ॥
(अतीतविस्त्वयान् सर्वान् लोकः प्राप्नोति सम्भव ?) ।
पञ्चचामरः ॥
नन्दिघोषमथ ब्रूमो विपक्षभयनाशनम् ॥
य एनं भक्तितः कुर्यात् स भवेदजरामरः ।
चतुरश्रे समे क्षेत्रे चतुर्भागविभाजिते ॥
भद्रं द्विभागविस्तारं कुर्याद् भागविनिर्गमम् ।
भित्तिरत्र न कर्तव्या दिशि कस्यामपि ध्रुवम् ॥
कुर्वीत राजसेनं तु वेदिचन्द्रावलोकनम् ।
दिक्षु क्रमोऽयं सर्वासु त्यक्त्वा मार्गचतुष्टयम् ॥
१ 'स्यादूर्ध्वं शृङ्गं सकलशाण्डकम्' इति स्यात् ।
मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३८७
विस्तारसदृशोच्छाया कर्तव्या पूर्वभूमिका ।
वक्ष्यमाणैर्विभागैश्च विप्रभज्यासणाः + + (?) ॥
भागेन राजसेनं स्याद् वेदिर्भागद्वयेन च ।
भागेन चन्द्रालोकः स्यादर्धेनासनपट्टकः ॥
स्तम्भोच्छ्रायस्त्रिभिर्भागैस्ततो भागेन शीर्षकम् ।
पट्टोच्छ्रायो भागमेकं स्याच्चतुर्विंशतिर्धराः ॥
नानासङ्गैः पल्लवैश्च चारुकर्मकराननैः ।
द्वितीया भूमिका कार्या स्तम्भैः षोडशभिर्युता ॥
एवं भूमौ द्वितीयायामपि कर्म विधीयते ।
स्तम्भैश्चतुर्भिः संयुक्ता तृतीयायां चतुर्धि(ष्कि)का ॥
नन्दिघोषः कृतो येन (मूर्यं तेजो ?) स जायते ।
कर्मक्षया तुतुं (त् तनुं) त्यक्त्वा प्राप्नोति परमं पदम् ॥
नन्दिघोषः ॥
प्रासादमभिधास्यामो मनूत्कीर्णं महाद्यु(द्भु)तम् ।
विमृश्य बुद्ध्या निपुणं निर्मितं प्राक् स्वयम्भुवा ॥
क्षेत्रे षड्भागविस्तारे गर्भे(र्भं) भागचतुष्टये ।
कुर्वीत वृत्तं मध्ये च नवभिर्वृत्तिमालिका( ? ) ॥
अष्टौ ( च ) रथिकाः कार्याः क्षेत्रे दिक्षु विदिक्षु वा ।
ऊर्ध्वमानमथ ब्रूमो द्विगुणं द्विपदान्वितम् ॥
(छाद्ययावद्विधातव्या तत्सार्धार्ङ्गकपञ्चकम् ?) ।
भागानष्टार्धसहितान् कुर्यादूर्ध्वं तुलोदयात् ॥
सार्धभागेन कर्तव्यो वेदीबन्धश्च शोभनः ।
भागद्वयं ततः सार्धं कार्या जङ्घासमुच्छ्रितिः ॥
भागार्ध हीरकं कुर्यान्मनोज्ञं कर्ति(र्णि)कान्वितम् ।
मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥
१ 'सूर्यतेजाः' इति स्यात् ।
३८८ समराङ्गणसूत्रधारे।
शृङ्गोच्छ्रायस्ततः कार्यः सार्धभागद्वयोन्मितः ।
मध्येन सर्वशृङ्गाणां मस्तके वृत्तमालिखेत् ॥
षड्भागविस्तृतं तस्य + षड्भागसमुच्छ्रितम् ।
यावन्मात्राचरेत्(वरे) प्रोक्ता तावत् कार्या च मञ्जरी ॥
त्रिभौमं पञ्चभौमं च विचित्रं कारये(दि)मम् ।
ग्रीवा स्याद् भागपादेन विस्ताराद् द्विपदायता ॥
पादहीनं पदं कुर्यादण्डकं मनुसंभवे(त् ?) ।
चन्द्रिका भागपादेन पादोनं कुशलः(कलशः) पदम् ॥
प्रासादं मनसाप्येवं १मनुकीर्तः(र्ण) करोति यः ।
स गंध्या (गत्वा) भवनं शम्भोर्गाणपत्यमवाप्नुयात् ॥
मानकीर्णः( ? ) ॥
अथ सुप्रभनामानं प्रासादमभिदध्महे ।
यं कृत्वा प्रभयान्येषां प्रभा हन्ति रविर्यथा ॥
चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते ।
कुर्याच्चतुष्पदं गर्भं विस्तारो यामतः समः ॥
प्रासादार्थं भवेत् कन्दः कन्दभद्रं पदद्वयम् ।
भ्रमन्ती द्विपदा दिक्षु चतसृष्वपि शोभना ॥
पदिका बाह्यभित्तिस्तु द्विपदा कर्णविस्तृतिः ।
चतुष्पदं मध्यभद्रं विनिष्क्रान्तं त्रिभिः पदैः ॥
(२अस्यैर्वात) पुनः कार्या द्विपदा तु चतुष्किका ।
(३सोलायाः ? ) पार्श्वतः कुर्यादतिभद्रद्वयं बुधः ॥
तयोः पादेन निष्कासं पार्श्वयोरुभयोरपि ।
पार्श्वभद्रस्य कर्णस्य चान्तरं पदिके नयेत् ॥
जालैर्विचित्रितं कुर्यान्मध्ये ज्योतिर्यथा भवेत् ।
एवं दिक्षु समस्तासु कुर्वीतैनमनुक्रमात् ॥
१ 'मनूत्कीर्ण' इति पूर्वं व्यपदिष्टः । २ 'अस्यैवान्तः' इति स्यात् । ३ 'शालायाः'
इति स्यात् ।
मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३८९
प्रासादभागविधिना पुरः कुर्वीत मण्डपम् ।
चतसृष्वपि मञ्जर्यो दिक्षु कार्या यथाक्रमम् ॥
लीयमूलसजङ्घात्रा स्वसार्धा च यथादिमम् (?) ।
उच्छ्रायो मूलविस्ताराद् द्विगुणो द्विकलाधिकः ॥
तुलोदयो दशपदो मञ्जरी षोडशांशिका ।
वेदीबन्धसमुत्सेधः सार्धभागद्वयोन्मितः ॥
पञ्चभागोच्छ्रिता जङ्घा हीरं भागसमुन्नतम् ।
सार्धभागेन कर्तव्ये मेखलान्तरपत्रके ॥
कर्णशृङ्गसमुत्सेधः कलशान्तस्त्रिभागिकः ।
दिङ्मञ्जरी तु कर्तव्या विस्तारेण चतुष्पदा ॥
उदयेन विधातव्या पञ्चभागा प्रमाणतः ।
ग्रीवा पदस्य पादेन कलशोऽर्धपदं भवेत् ॥
विस्तारो मूलमञ्जर्याः कर्तव्यो दशभागिकः ।
++भागत्रयोत्सेधो ग्रीवा पादे(दो)नभागिका ॥
अण्डकं सार्धभागेन द्विपदा कलशोच्छ्रितिः ।
(देशांशषट्कतो मूलास्कन्धोरेषोऽन्तको ?) भवेत् ॥
विस्तारो मूलमञ्जर्याः कर्तव्यो दशभागिकः ।
नवाण्डकोऽयं कर्तव्यः प्रासादः शुभलक्षणः ॥
यः प्रासादमिमं कुर्यात् सुप्रभं भक्तिमान् नरः ।
दिव्यते(१जारवहस्यास्य ?) देहान्ते मुक्तिमाप्नुयात् ॥
२शुभलक्षणः ॥
सुरानन्दमथ ब्रूमः प्रासादमतिसुन्दरम् ।
चतुरश्रं समं क्षेत्रे(त्रं) दशधा प्रविभाजयेत् ॥
षड्भागो गर्भविस्तारो द्वौ भागौ भित्तिविस्तृतिः ।
३कर्तव्या सार्धभागेन(?) भागार्धेन जलाशयः ॥
१ ‘जोवहः स स्याद्’ इति पाठ्यं स्यात् । २ उपक्रमोपसंहारयोः सुप्रभ इत्यस्य नाम दृश्यते ।
३ अत्र क्रियांश्चिच्छ्लोकांशो गलित इव भाति ।
३९० समराङ्गणसूत्रधारे
प्रत्यङ्गस्थानकं कुर्यात् ( सप्रसं वृत्त ? )भागिकम् ।
शालास्त्रिभिः पदैः कार्याः शुभ्रूपाश्चतुर्दिशम् ॥
शालायाः पार्श्वयोः कार्यो वारिमार्गः पदार्धकः ।
परस्परं तु निष्कासो भागं भागं विधीयते ॥
ऊर्ध्वमानं विधातव्यं विस्ताराद् द्विगुणो ( णं ) बुधैः ।
गर्भच्छाद्यं पदान्यष्टौ भागा द्वादश मञ्जरी ॥
वास्तुविस्तारपादेन वेदीबन्धो विधीयते ।
चतुष्पदोर्ध्वतो जङ्घा भागार्धं ग्रासपट्टिका ॥
मेखलान्तरपत्रे च विधातव्ये पदोच्छ्रिते ।
कोणा द्रविडकूटस्य वृत्तस्तम्भा वराटका( ? ) ॥
मध्याङ्गतोरणानां स्युद्विशतित्रिशततुरो( ? ) भवेत् ।
षट्पदः स्कन्धविस्तारो ग्रीवा भवति भागिकी ॥
शिरः सार्धं पदं ज्ञेयं भागमेकं च चन्द्रिका ।
कलशोंऽशद्वयोच्छ्रायः कार्यः पल्लवभूषितः ॥
यः करोति सुरानन्दं वरदास्तस्य मातरः ।
सुरास्तस्य ह्यनिस्तार्यमपमृत्युं हरन्ति च ॥
सुरानन्दः ॥
अथ हर्षं प्रवक्ष्यामि सर्वलोकप्रहर्षणम् ।
नित्यं वसति यत्र श्रीः स्थानं यद् विश्वकर्मणः ॥
चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः ।
प्रतिकोणं विधातव्याः ( 'कर्णभागौ ? ) स्त्रिभिस्त्रिभिः ॥
द्विपदं कर्णभद्रं च भागेनैकेन निर्गतम् ।
वारिमार्ग( र्गं ) पदं कुर्यात् प्रवेश्य( शा )यामतः समम् ॥
त्रिभागमस्य प्रत्यङ्गं पदद्वितयनिर्गमम् ।
वेदिचन्द्रावलोकाभ्यां प्रत्यङ्गे कर्म कल्पयेत् ॥
१ 'कर्णा भागे' इति स्यात् ।
मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३९१
चतुष्पदं मध्यभागं द्विपदं चास्य भद्रकम् ।
विनिर्गतं च भागेन विदधीत विचक्षणः ॥
वलभ्यश्च द्विभागाः स्युः खा(स्वा)नुरूपाश्चतुर्दिशम् ।
गर्भो भागैश्चतुर्भिस्तु वलभीनां विधीयते ॥
द्विपदा बाह्यतो भित्तिर्द्विपदा च भ्रमन्तिका ।
स्कन्धः स्याद् दशभिर्भागैर्गर्भः षट्त्रिंशता पदैः ॥
ऊर्ध्वप्रमाणमेतस्य स्याच्चत्वारिंशता पदैः ।
भागैः षोडशभिश्चास्य विदध्याच्छादनं शुभम् ॥
वेदीबन्धः पञ्चपदो जङ्घा चाष्टपदा भवेत् ।
शाला( लां) चान्तरपत्रं च कुर्याद् भागत्रयाद् बुधः ॥
ऊर्ध्वमन्तरपत्रं स्याद् विधातव्यं यथाक्रमम् ।
वलभीसंवृतिः प्राज्ञैरुच्छायात् पञ्चभागिकी ॥
सा( स )शृङ्गैः सिंहकर्णैश्च कार्यों(र्या) भागसमुच्छ्रितिः ।
वर्धमानेन कर्तव्या त्रिपदा कर्णमञ्जरी ॥
ऊर्ध्वं पदेभ्यस्त्रिभ्यः स्याद् भागेन कलशाण्डकम् ।
विस्तारात् षोडशपदा कर्तव्या मूलमञ्जरी ॥
ऊर्ध्व( र्ध्वं )विंशतिभागस्य स्कन्धो नवपदायतः ।
ग्रीवा सार्धपदं कार्या ततो द्विपदमण्डकम् ॥
चन्द्रिकैकेन भागेन कलशस्त्रिपदात् ततः ।
हर्षणः क्रियते यत्र स देशः सुखमेधते ॥
क्षेमं गोब्राह्मणानां स्यात् पूर्णकामश्च पार्थिवः ।
हर्षणः ॥
इदानीं दुर्धरं ब्रूमः प्रासादं शुभलक्षणम् ॥
चतुरश्रे समे क्षेत्रे चतुर्विंशतिभाजिते ।
कर्णाः (षडापदाः कार्या प्रतिरथं च ?) द्वयं भवेत् ॥
कर्तव्याष्टपदा शाला निर्गमोऽस्य चतुष्पदः ।
पदद्वयं विनिष्क्रान्ता सर्वतः कर्णशोभिता ॥
३९२ समराङ्गणसूत्रधारे
द्विपदा बाह्यभित्तिः स्याच्चतुर्भागान्धकारिका ।
द्विपदा कन्दभित्तिस्तु गर्भश्चाष्टपदायतः ॥
षट्पदा कन्दशाला च कन्दकर्णाः पदत्रयम् ।
ऊर्ध्वप्रमाणं विस्ताराद् द्विगुणं द्विपदाधिकम् ॥
(विंशत्यम ?) तुलोच्छायाः शिखरं त्रिंशता पदैः ।
कुम्भः सार्धद्विभागश्च कलशो भागमुच्छ्रिति(त)ः ॥
भागार्धेनान्तरं पत्रं भागेनैकेन मेखला ।
दशभागोच्छ्रिता जङ्घा हीरकं भागिकं भवेत् ॥
भागैश्चतुर्भिः कर्तव्यं मेखलाद्वितयं ततः ।
अधस्तादूर्ध्वपट्टस्य तलपट्टस्य चोपरि ॥
भवेत् षोडशभिर्भागैरनयोरन्तरं द्वयोः ।
द्विपदो वेदिकाबन्धो वेदी कार्या चतुष्पदा ॥
आसनं चैव भागेन स्तम्भः पञ्चपदैर्भवेत् ।
भागेनैकेन भरणं शीर्षकं भागमुन्नतम् ॥
पट्टो भागद्वयोत्सेधश्छाद्यं च त्रिपदायतम् ,
मूलभरणानि( ? ) चत्वारि कोणभद्राणि (कं भवेत् ?) ॥
कर्णशृङ्गाणि दश च द्वयम(थ ?) स्तिंमश्चतुर्दिशम् ।
(ग्रीवां + भगसन्तानां ?) शृङ्गाणां त्रिपदोच्छ्रितिः ॥
षट्पदाः कर्णमञ्जर्यः सप्तभागसमुच्छ्रिताः ।
ग्रीवार्धभागिकी भागः स्यादुच्छ्रायोऽण्डकस्य (तत् ?) ॥
पदत्रयोन्नता कार्या सिंहकर्णश्चतुष्पदा (?) ।
मध्ये भद्रे तदुत्सेधो विस्तारादर्धभागिकः ॥
विस्तारो मूलमञ्जर्याः पदैः षोडशभिर्भवेत् ।
अष्टादशभिरुच्छ्रायो ग्रीवा सार्धपदोच्छ्रिता ॥
अण्डकं द्विपदं कार्यं चन्द्रिका पदमुच्छ्रिता ।
कलशं त्रिपदं विद्यात् सर्वलक्षणसंयुतम् ॥
मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३९३
अण्डकैः सप्तदशभिः प्रासादो दुर्धरो भवेत् ।
दुर्धरं यः करोतीह भागा (भर्गा) च्छक्तिं समा (आ)प्नुयात् ॥
कालेन शिवसायुज्यं ('निगधिश्च प्रपद्यते ?) ।
दुर्धरः ॥
इदानीं दुर्जयं ब्रूमः प्रासादं शत्रुमर्दकम् ॥
यं कृत्वा (दुर्जयं लोके ?) भवेत् क्रीडति च क्षितौ ।
चतुरश्रीकृते क्षेत्रे पञ्चभागविभाजिते ॥
गर्भं नवपदं कुर्याद् भित्तिः षोडशभागिकी ।
भागेन कर्णरथिका भागाभ्यां मध्यमे रथः ॥
भागेन निर्गमं (स्त)स्य वि(धि)रेष चतुर्दिशम् ।
भद्रकर्णान्तरे कुर्याद् वारिमार्गं पदाधिकम् ॥
ऊर्ध्वमानं विधातव्यं (त्वमस्मि ?) दशभागिकम् ।
वेदिबन्धः सपादांशौ जङ्घांसौ पादसंयुतौ ॥
मेखलान्तरपत्रे तु पदार्धेन प्रकल्पयेत् ।
शिखरः (शिखिरैः ?) सार्धं भागषट्कोच्छ्रितो भवेत् ॥
त्रिपदः स्कन्धविस्तारो रेखा पद्मदलाकृतिः ।
भूमयः पञ्च कर्तव्या न्यूनमाना यथाक्रमम् ॥
प्रथमा सार्धभागान्या पदपादोनेत्ता क्रमात् ।
स्कन्ध(:)पादोन्भागेन स्याद् ग्रीवार्ध(र्धं) पदेन च ॥
अण्डकं त्वेकभागेन कर्परं चार्धभागिकम् ।
भागोत्सेधस्तु कलशः समवृत्तः सुशोभनः ॥
दुर्जयः क्रियते यत्र पुरे वा नगरेऽथवा ।
न भवेत् तत्र दुर्भिक्षं न च व्याधिकृतं भयम् ॥
दुर्जयः ॥
ब्रूमस्त्रिकूटं ब्रह्मार्थैः सेवितं त्रिदशैस्त्रिभिः ।
फलं क्रतुसहस्रस्य येन मोक्षं च विन्दति ॥
१ 'निधने च प्रपद्यते' इति स्यात् । २ 'दुर्जयो लोको' इति स्यात् ।
वा. ५०
३९४ समराङ्गणसूत्रधारे
(संसाध्यतुल्यत्रिभजं ?) क्षेत्रमिष्टप्रमाणतः ।
ततोऽस्य बाहुमेकैकं चतुर्भिर्विभजेत् पदैः ॥
द्विभागं मध्यमं भद्रं भागिकीं कर्णपक्षि(द्वि)काम् ।
अर्धेन गर्भमर्धेन कुर्याद् भित्त्रित्रयं बुधः ॥
विस्तारं पञ्चधा भक्ता(क्त्वा) कुर्याद् द्विगुणमुच्छ्रय(यम्) ।
वेदिबन्धो विधातव्यः सपादं भागमुच्छ्रितः ॥
जङ्घा सपादौ भागौ द्वौ कार्या तस्य समुच्छ्रितिः ।
मेखलान्तरपत्रे च भागस्यार्धेन कारयेत् ॥
मञ्जरी भागषट्केन पञ्चभागविभाजिता ।
आसमन्तात् (स्तम्भस्कन्धः ?) कार्यः पूर्वोक्तवर्त्मना ॥
पादभागेन तु ग्रीवामर्धभागेन चाण्डकम् ।
चन्द्रिका भागपादेन कलशं भागमुच्छ्रितम् ॥
त्रिकूटं कारयेद् यस्तु ब्रह्मेशानहरिप्रियम् ।
सिद्धा(द्धो)भूत्वा पुरीं तेषां यात्यसौ नात्र संशयः ॥
त्रिकूटः ॥
इदानीमभिधास्यामः प्रासादं नवशेखरम् ।
चतुरश्रं भजेत् क्षेत्रं विंशत्येकोनया पदैः ।
कर्णाश्चतुष्पदाः कार्यास्तेषां भद्रं द्विभागिकम् ।
विनिर्गतं पदार्धेन जलमार्गस्त+++॥
++भागयता कार्या सा भवेहि (?) विवङ्गैः ।
शाला(कर्गपदाद्धूतु ?) प्रत्यङ्गं भागमानतः ॥
त्रिपदो रथकः कार्यो मञ्जरीणां चतुष्टयम् ।
चतुष्पदा भवेद् भित्तिर्गर्भश्चैकादशांशकः ॥
चत्वारिंशत्पदादूर्ध्वं यावत् स्कन्धं समस्तकम् ।
तुलोदयः षोडशभिर्मञ्जरी चाष्टकैस्त्रिभिः ॥
१. 'संसाध्य तुल्यत्रिभुजम्' इति पाठ्यं भाति ।
मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३५५
चतुष्पदो वेदिबन्धो जङ्घा साष्टपदा भवेत् ।
भागेन भरणे त्र्यंशं मेखलान्तरपत्रकम् ॥
उच्छ्रायतः पञ्चपदा कर्तव्या कर्णमञ्जरी ।
ग्रीवार्धभागेन भवेदण्डकं चैव भागिकम् ॥
भागेन चन्द्रिकामूर्ध्वं भागेन कलशं तथा ।
सपादमुदयं (शाला मञ्जर्या विस्तृते ?) विदुः ॥
ग्रीवा पादेन भागेन सपा(१दासमना ?)ण्डकम् ।
भागाद्धि चन्द्रिका भागद्वयेन कलशोदयः ॥
विस्तारो मूलमञ्जर्याः कार्यः पञ्चदशांशकः ।
तथा सप्तदशोच्छ्रायः स्कन्धायामो नवांशकः ॥
ग्रीवा चास्यार्धभागेन सार्धद्विपदमण्डकम् ।
वण्डिका सार्धभागेन त्रिपदः कलशोदयः ॥
एवं यः कारयत्येनं प्रासादं नवशेखरम् ।
नवभिः सहितां खण्डैः स भुनक्ति वसुन्धराम् ॥
नवशेखरः ॥
पुण्डरीकमथ ब्रूमो यशसो वर्धनं परम् ।
यस्मिन् कृते स्थिरा कीर्तिर्भवेद् यावद् वसुन्धरा ॥
चतुरश्रं समं क्षेत्रं विभजेत् पञ्चभिः पदैः ।
त्रिपदं कल्पयेद् गर्भं तस्य भित्तिं च भागिकाम् ॥
त्रिपदं तस्य भद्रं स्यात् सार्धभागविनिर्गमम् ।
भद्रेषु वर्तुलं दिक्षु रथिकानां चतुष्टयम् ॥
भागेनैकेन रथिका मूलच्छन्दोऽयमीरितः ।
ऊर्ध्वमानं भवेद् यस्य द्विगुणो दशभागिकम् (?) ॥
भागेनोच्छालकं विद्याद् भागार्धेन तु मेखला ।
वेदिबन्धं न कुर्वीत जङ्घा सार्धद्विभागिका ॥
१ 'दाशमथ' इति स्यात् ।
३९६ समराङ्गणसूत्रधारे
मेखला चार्थभागेन भवेत् सान्तरपत्रका ।
पदानि पञ्च सार्धानि मञ्जर्याः स्यात् समुच्छ्रितिः ॥
त्रिपदः स्कन्धविस्तारो ग्रीवा वा (पदसादिकाः ? ) ।
अण्डकं स्यात् पदार्धेन भागपादेन चन्द्रिका ॥
भागोच्छ्रायस्तु कलशः कर्तव्यः शुभलक्षणः ।
मध्येन मूलमञ्जर्यास्त्रिपदा भद्रमञ्जरी ॥
सार्धा + त्रिपदोच्छ्राया ग्रीवा भागसमुच्छ्रिता ।
अण्डकं च त्रिभागेन कलशो भागमुच्छ्रितः ॥
पञ्चाण्डः पुण्डरीकोऽयं कर्तव्यः शुभवर्धनः ।
पुण्डरीकः ॥
सुनाभ(स)मथ ब्रूमो वन्दितो (तं) देवदानवैः ॥
वल्लभं लोकपालानां पुण्यमुत्कृष्टलक्षणम् ।
विभजेत् सप्तदशभिः समक्षेत्रं चतुर्भुजम् ॥
पञ्चभागायताः कोणा गर्भः कार्यस्त्रिभिः पदैः ।
उभयोः कोणयोर्मध्ये सप्तभागिकमन्तरम् ॥
व्यक्षेपात्(?) कर्णयोर्मध्ये प्रा(प्रो)ञ्छयेत् पदमन्तरम् ।
भागप्रवेशं भागार्धे(र्ध)विस्तारा(र)मुदकान्तरम् ॥
द्विपदा बाह्यभित्तिः स्यात् त्रिपदाथ भ्रमन्तिका ।
पञ्चभागायतो मध्ये भवेत् प्रासादनायकः ॥
त्रिपदस्तस्य गर्भस्तु भित्तिर्भागं विधीयते ।
त्रिपदं कर्णभद्रं च भागेनैकेन निर्गतम् ॥
पदप्रमाणकोणांस्तु चत्वा(तु)रोप(वि)निवेशयेत् ।
यथा कन्दस्तथा कोणो विभागैः स विधीयते ॥
पञ्च गर्भास्तु कर्तव्याः सममानप्रकल्पिताः ।
द्विगुणं चोर्ध्वमानं स्याद् ग्रीवाण्डकविवर्जितम् ॥
त्रिभिः पदैर्वेदिबन्धो जङ्घा सप्तपदा भवेत् ।
पदत्रयेण कर्तव्यं मेखलाद्वितयं बुधैः ॥
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३९७
ऊर्ध्वतो बाह्यच्छन्दस्या (स्य) कर्तव्या कर्णमञ्जरी ।
षट्पदाः कर्णमञ्जर्यो द्विपदं कलशाण्डकम् ॥
(१द्वादशा सप्तविस्तारा ?) कर्तव्या मूलमञ्जरी ।
त्रयोदशपदोच्छाया ग्रीवास्या भागमुच्छ्रिता ॥
अण्डकं द्विपदोत्सेधं भागोत्सेधा तु चन्द्रिका ।
कलशस्त्रिपदोत्सेधो वर्तुलः शुभलक्षणः ॥
यावत् क्षितिर्यावदब्धिर्यावच्छशिदिवाकरौ ।
कर्तास्य तावद् दिव्यास्ते यावत् सुरगुरुः सुराः ॥
सुनाभाः ॥
माहेन्द्रमथ वक्ष्यामः प्रासादं भूषणं क्षितेः ।
सेवितं यक्षगन्धर्वैः फणीन्द्रैश्च महाप्रभैः ॥
माहेन्द्रं पञ्चदशभिर्भागैः प्राज्ञो विभाजयेत् ।
नवभागायतं गर्भं कुर्याद् भित्तिं त्रिभागिकीम् ॥
विस्तारेणास्य विख्याता तज्ज्ञैः शाला पदत्रयम् ।
शालायाः पार्श्वयोः कार्यों रथौ सार्धपदौ बुधैः ॥
रथशालान्तरेणैव कर्तव्यमुदकान्तरम् ।
(रथस्याग्रतः पश्चारि गृहकार्यं पदार्धकम् ?) ॥
प्रत्यङ्गानि पदं सार्धं + + + + जलान्तरम् ।
द्विपदं कर्णमानं च कार्यं कोणचतुष्टयं (ये) ॥
भागेनान्योन्यमेतेषां विधातव्यो विनिर्गमः ।
ऊर्ध्वमानं तु कर्तव्यं द्विगुणं सीमविस्तृतेः ॥
तुलोदयो दशांशः स्याद् विंशत्यंशा च मञ्जरी ।
वेदिबन्धं प्रकुर्वीत सार्धभागद्वयं बुधः ॥
जङ्घयोस्तु समुच्छ्रायमर्धपञ्चमभागिकम् ।
भागेन भरणं कुर्याल्लाञ्छितं पत्रभङ्गिभिः ॥
१ ‘द्वादशांशसविस्तारा’ इति स्यात् ।
३९८ समराङ्गणसूत्रधारे
तदूर्ध्वं मेखला कार्या भागद्वितयमुच्छ्रिता ।
ऊर्ध्वतो मञ्जरी कार्या क्रमेणैव मनोहरा ॥
नवभागायतं (रुद्धो ?)ग्रीवा भागसमुन्नता ।
अण्डकं द्विपदोत्सेधं चन्द्रिका भागमुच्छ्रिता ॥
द्विपदं कलशं कुर्याद् विस्तारोत्सेधनः समाः ।
लताः सप्त विधातव्या (रेषा ब्रूम कुलाकृति ?) ॥
मध्ये लतायाः कर्णस्य वेल्कः षड्।वच्रः क्रमः ।
प्रत्यङ्गे तिलका कूटाः पञ्चालार्धा द्विपक्षकः (ः) ॥
कोणे वराटका(?) कूटाः कार्या माहेन्द्रमन्दिरे ।
कृत्वा महेन्द्रं राजा स्याद् माहेन्द्रस्य(?) वसेद् दिवि ॥
महेन्द्रः ॥
अथो ब्रूमो वराटाख्यं प्रासादं शुभलक्षणम् ।
दयितं किन्नरेन्द्राणां नागानां चातिवल्लभम् ॥
चतुरश्रं समं क्षेत्रं विभजेद् दशभिः पदैः ।
कु(र्या)त् षड्भिः पदैर्गर्भं भित्तिं भागद्वयेन च ॥
द्विपदं कर्णविस्तारं कुर्यात् कोणचतुष्टयम् (ये) ।
उदकान्तरविस्तारमर्धभागप्रवेशकम् ॥
पञ्चभागायतं भद्रमन्तरं वारिमार्गयोः ।
विस्तारार्धेन कर्तव्यस्तस्य भद्रस्य निर्गमः ॥
कुर्यान्मध्येऽष्टभिर्भागैः सपादैर्वृत (त्त) मुत्तमम् ।
सहितो वारिमार्गेण तलच्छन्दोऽयमीरितः ॥
ऊर्ध्वप्रमाणमेतस्य विस्ताराद् द्विगुणं भवेत् ।
तुलोच्छ्रायोऽष्टभिर्भागैः पदानि द्वादशोर्ध्वतः ॥
पदत्रितयमुत्सेधात् कर्तव्यं भद्रपीठकम् ।
विस्ताराधार्थमुत्सेधं वेदिबन्धस्य कारयेत् ॥
चतुर्भागोच्छ्रितां जङ्घां हीरकं चार्धभागिकम् ।
मेखलान्तरपत्रं च कुर्याद् भागमुच्छ्रितम् ॥
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३८९
त्रिपदं शृङ्गमुत्सेधाद् ग्रीवा च कलशाण्डकम् ।
ष (त) दूर्ध्वं पञ्चविस्तारा स्यादुरोमञ्जरी शुभा ॥
ग्रीवा कार्या पदार्धेन भागेनैकेन चाण्डकम् ।
कलशोऽशोच्छ्रितोऽष्टांशविस्तारा मूलमञ्जरी ॥
तस्याः कार्यः समुत्सेधः प्रमाणान्नवभागिका(क)ः ।
स्कन्धः पञ्चपदो ग्रीवा पादहीनं पदं भवेत् ॥
सपादं पदमञ्जर्या (?) पदस्यार्धेन चन्द्रिका ।
कलशो द्विपदोच्छ्रायः प्रासादे स्याद् वराटके ॥
वराटं कारयेद् यस्तु प्रासादं भक्तिमान् नरः ।
स याति यानैर्विविधैः स्वर्गं प्राप्नोति चाक्षयम् ॥
वराटः ॥
सुमुखस्याधुना लक्ष्म प्रका (क्र)मागतमुच्यते ।
भागैरेकोनविंशत्या चतुरश्रे विभाजिते ॥
तत्रैकादशभिर्गर्भश्चतुर्भिर्भित्तिरंशकैः ।
कोणो द्विभागिकस्तत्र भागपादो जलान्तरम् ॥
भागार्धेन प्रवेशोऽस्य चतुरंशकविस्तृतम् ।
भद्रमेवं विनिर्दिष्टमर्धभागेन निर्गतम् ॥
पादोनभागद्वितयादन्तरे कर्णभद्रयोः ।
त्रयः प्रतिरथाः कार्याः सहिताः सलिलान्तरैः ॥
अर्धभागोऽर्धभागश्च मिथस्तेषां विनिर्गमः ।
ऊर्ध्वमानं भवेदस्य द्विगुणं द्विकलाधिकम् ॥
अंशकैः पञ्चम(भि)श्चैव विधेयोऽस्य तुलोदयः ।
विभागैः पञ्चविंशत्या तदूर्ध्वं मञ्जरी भवेत् ॥
वेदीबन्धो विधेयोऽस्य सार्धभागचतुष्टयात् ।
जङ्घाशैरष्टभिः सार्ध (धैः) वरण्डी तु द्विभागिका ॥
लताभिर्नवभिर्युक्ता प्राग्वत् कार्यास्य मञ्जरी ।
स्यादेकादशभिर्भागैरेतत्स्कन्धस्य विस्तृतिः ॥
४०० समराङ्गणसूत्रधारे
चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् ।
कोणासन्नप्रतिरथो द्राविडोऽस्य विधीयते ॥
भूमिका नव कर्तव्याः शेषं कार्यं महेन्द्रवत् ।
पादोनभागद्वितया ग्रीवास्य च विधीयते ॥
सार्धभागद्वयमितं विदध्यादण्डकं शुभम् ।
चण्डिका सार्धभागेन कलशश्चाण्डकैस्त्रिभिः ॥
इत्येष कथितः सम्यक् प्रासादः सुमुखाभिधः ।
य एनं कारयेद् भक्त्या स कामानश्नुतेऽखिलान् ॥
भुक्त्वेह विपुलान् भोगान् पदमभ्येति शाश्वतम् ।
सुमुखप्रासादः ॥
'चतुर्मुखा(?)श्रीधरादीनां ये प्रोक्तास्तान् प्रचक्ष्महे ॥
लक्षणैरधुना सम्यग् देवानामनिवर्तनात्(?)।
यत् स्याद् विजयभद्रस्य रूपं तस्मिंस्तथास्थिते ॥
विजयो नाम कर्तव्यः प्रासादो देवताप्रियः ।
कर्णे केसरि+++सर्वतोभद्रकः पुनः ॥
निवेशनीयो रथकैः सर्वलक्षणसंयुतः ।
तस्योपरि विधातव्या मञ्जरी चारुरूपिणी ॥
विस्तारादुदयात् तस्याः कुर्वीतैककलाधिकम् ।
स्कन्धस्तु षट्पदः कार्यो ग्रीवा भागसमुच्छ्रिता ॥
अण्डकं सार्धभागेन चन्द्रिकापि च तत्समा ।
तस्या एव हि मध्ये तु कुर्यादामलसारकम् ॥
सार्धभागद्वयोत्सेधं कलशं च तदूर्ध्वतः ।
द्राविडैश्च वराटैश्च प्रकुर्वीतास्य मञ्जरीम् ॥
+++++प्रपन्ना नापि जन्मनि जन्मनि(?)।
नन्दः ॥
महाघोषाभिधानोऽथ प्रासादः कथ्यतेऽपरः ॥
१ 'श्वांशकैस्त्रिभिः' इति तु युक्तः पाठः । २ इह ग्रन्थपात इव लक्ष्यते ।
मेर्वादिद्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ४०१
नन्दिघोषस्य संस्थाने रूपे चास्य व्यवस्थितः ।
अस्य कर्तृ (र्णे) षु सर्वेषु भद्राणि विनिवेशयेत् ॥
भद्रे चतुष्किका कार्या द्विपदायामनिर्गमा ।
भागिकी भित्तिरन्तश्च शेषं गर्भग्रहं स्मृतम् ॥
शृङ्गाणि कर्णे कुर्वीतेत्येषा प्रथमभूमिका ।
द्वितीया तु पुनः कार्या भित्तिविन्यासवर्जिता ॥
चतुर्दिशं विधातव्यं वेदीचन्द्रावलोकनम् ।
विदधीत चतुःस्तम्भां तृतीयामपि भूमिकाम् ॥
छाद्यकैरूर्ध्वेने तस्या कार्या संवरणा बुधैः (?) ।
कारयेन्नन्दिघोषं यः प्रासादमिममृत्तमम् ॥
विभूतिर्वाञ्छिता तस्य कुलेऽपि न विनश्यति ।
महाघोषः ।
प्रासादो मिश्रकेष्वेव वृद्धिरागो(मो) विधीयते ॥
(स्रीनिस्सय ?) संस्थानं यत् तदस्यापि कीर्तितम् ।
गर्भकन्दं परित्यज्य स्तम्भैः षोडशभिर्वृतम् ॥
अस्य मध्यं विधातव्यं शेषं च श्रीनिवासवत् ।
उरोघण्टाभिरष्टाभिरश्वशालाभिरेव च ॥
अस्य भद्राणि कुर्वीत सर्वालङ्कारवन्ति च ।
वसुन्धरस्य ये भेदास्तैः सर्वैरन्वितः शुभः ॥
कलशैरेकविंशत्या वृद्धिरामः प्रशस्यते ।
प्रासादस्यास्य कर्ता च यावच्चन्द्रार्कतारकम् ॥
तावदिन्द्र इव स्वर्गे क्रीडत्यप्सरसां गणैः ।
वृद्धिरामः ॥
वृद्धिरामस्य संस्थाने प्रासादः स्याद् वसुन्धरः ॥
१. 'छाद्यकैरूर्ध्वतस्तस्याः कार्यं संवरणं बुधैः' इति पाठनीयं स्यात् । २. 'श्रीनिवासस्य' इति स्यात् ।
वा. ५१
४०२ समराङ्गणसूत्रधारे
बाह्यभित्तीः परित्यज्य गर्भभित्तिर्विधीयते ।
वेदिकाकालरूपाद्यो(?) भद्रतोरणभूषितः ॥
एतद्द्वेदसमायुक्तः प्रासादः स्याद् वसुन्धरः ।
भक्त्या यः कारयेदेनं सोऽधितिष्ठत्यसंशयम् ॥
दुष्प्रापमपि देवानां महादेवस्य मन्दिरम् ।
वसुन्धरः ॥
प्रासादं मुद्गनामानमिदानीमभिदध्महे ॥
चतुरश्रीकृते क्षेत्रे षड्भिर्भागैर्विभाजिते ।
कुर्वीत भागिकीं भित्तिं गर्भं चैवास्य वर्तुलम् ॥
भद्रं चतुष्पदं वृत्तं निर्गमेण पदद्वयम् ।
स्वस्तिकञ्च(स्य) समाकाराश्चत्वारो रथिकाः स्मृताः ॥
कर्णांश्च सर्वे कर्तव्या अश्रिभिः षड्भिरावृताः ।
जङ्घा वेदी च पीठं च (तंन्न कीर्ति?)निभानि च ॥
विस्तृतान्येकभागेन द्विभागोत्सेधवन्ति च ।
कर्णकूटानि कुर्वीत सपत्रा(त्र)मकराणि च ॥
भद्रं चतुष्पदायामं पञ्चभागसमुच्छ्रितम् ।
ग्रीवाण्डकं सकलशं कुर्यात् सार्धपदद्वयम् ॥
विस्तारं मूलमञ्जर्याः षट्पदं ++मालिखेत् ।
उच्छ्रयं दशभिर्भागैर्ग्रीवाकलशसंयुतम् ॥
मञ्जरीमत्र कुर्वीत (मंन्नकीर्त्तिं?) यथा कृता ।
प्रासादं ++++ यो भक्तितः कारयेदिमम् ॥
गायन्ति तस्य किन्नर्यो दिवि चन्द्रामलं यशः ।
मुद्गप्रासादः ॥
इदानीं म+++++हच्छालं सु(रा)लयम् ॥
कमलोद्भवसंस्थाने कुर्वीतेमं यथास्थितम् ।
दिक्सूत्रे कर्णसूत्रेण रथ++++++त् ॥
१ 'मानकीर्ण' इति स्यात् । २ 'मामकीर्णं' इति स्यात् ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४०३
कर्णान्ते भद्रमध्ये च कारयेदुदकान्तरम् ।
पदपादेन विस्तीर्णं प्रक्षेपेण पदार्धकम् ॥
कर्णाध+++तव्या षड्भिरङ्गुलिङ्गवृत्ताः(?) ।
पीठं वेदी च जङ्घा च मेखलान्तरपत्रकम् ॥
कमलोद्भववत् कार्यं बहुधा क++षितम् ।
कर्तव्यशिखरं (?) कुर्यात् ++++++++ ॥
१इलिकामकरग्रासैर्वरालैः सासुरैश्चिता ।
कथिता पुष्पके याहग् (२ज)घा(ङ्गा)३ताहगिहेष्यते ॥
ऊर्ध्वपीठप्रमाणस्य तथावच्छोदकस्य च ।
यन्मध्यं तत्र कुर्वीत षड्दारुकनिवेशनम् ॥
रुष्टिकातोरणश्चारुसालभञ्जाविराजितम्(?) ।
वेदिकांराजसेनाढ्यं४ (५शभूतेद्भवलोकनम् ?) ॥
सस्तम्भशीर्षभरणं पट्टराङ्गोपशोभितम् ।
६मल्लं(मल्ल)च्छाद्यं विधातव्यं सिंहकर्णविभूषितम् ॥
सिंहरूपैः समाँक्रान्तं विचित्रैश्च वरालकैः ।
त्र्यंशोच्छ्रितं कर्णकूटं कुर्याद्दिग्वे(द्विप)दविस्तृतम् ॥
ग्रीवाण्डकसमेतं च (वै)रण्ड्यां (का ?)कलशान्वितम् ।
कर्णाः पृथक् पृथक् चेह स्युः षट्पञ्चाशदण्डकाः ॥
उरोमञ्जरिकाभिस्ते तिसृभिः स्युर्विभूषिताः ।
कर्णान्ते मूलरेखा च विस्तारात् सप्तभागिका ॥
सार्धभागाष्टकं चास्या विधातव्या समुच्छ्रितिः ।
उरोमञ्जरिका कार्या चतस्रोऽनुदिशं तथा ॥
प्रथमा स्यादुरोरेखा द्वादशाण्डकभूषिता ।
चतुर्दशाण्डका चान्या तृतीया षोडशांश(शाण्ड)का ॥
१ द. ई । २ द. जंघा तां । ३ द. स्था । ४ द. ॰दे॰ । ५ द. ब्यशस्तंतद्भवलोकनं ।
६ द. मल्लच्छा॰ । ७ द. समक्रांत वि॰ । ८ द. स्थितं । ९ द. द्विपदवि॰ । १० द. च रॅज्यको
कलसान्विता ।
४०४ समराङ्गणसूत्रधारे
अष्टादशाण्डकोपेता चतुर्थी परिकीर्तिता¹ ।
षट्त्रिंशाताण्डकैर्युक्ता मूलरेखा विधीयते ॥
ग्रीवा पदं स्यात् पादोनं सपादं पदमण्डकम् ।
लवलीफलतुल्यं तच्चन्द्रिका च पदोच्छ्रिता ॥
द्विपदं कलशं विद्यात् समवृत्तं मनोरमम् ।
अर्धोतु ⁴दू विधातव्यं बुजं तस्य चोपरि(?) ॥
विचित्रभूमिके (सप्तदशँम्मिल्लिरुयराक्षर्णण्यपि ?) ।
स्तम्भैर्विविधविन्यासैर्बहुभङ्गविनिर्मितैः ॥
भूषितैः कर्मभिश्चित्रैः सर्वत्र शुभलक्षणैः ।
चन्द्रशालादिसंयुक्तैस्तोरणैश्चारुचामरैः ॥
तथाक्षंतमुखग्रासैर्घनरूपतया स्थितैः ।
व्यालैर्व्यालोलजिह्वैश्च मकरग्राससंयुतैः ॥
मदान्धालिकुलाकीर्णगजवक्त्रविभूषितैः ।
विद्याधरवधूवृन्दैः क्रीडारम्भविभूषितैः ॥
सुराणां सुन्दरीभिश्च वीणाहस्तैश्च किन्नरैः ।
सिद्धगन्धर्वयक्षाणां वृन्दैश्च परितः स्थितैः ॥
अप्सरोभिश्च दिव्याभिर्विमानावलिभिस्तथा ।
चारुचामीकरान्दोला क्रीडासक्तैश्च (‘निःसराम् ? )⁸॥
नागकन्याकदम्बैश्च सर्वतः समलङ्कृतम् ।
एवंविधाभिः सर्वत्र भूमिकाभिर्निरन्तरं ॥
अलङ्कृतो विधातव्यो मेरुः प्रासादनायकः ।
मध्य(म)द्विगुणैर्ज्येष्ठः क(र्तव्यो)मेरुरण्डकैः ॥
कनीयान् मध्यमार्धेनेत्यण्डकस्थितिरीरिता॑ ।
उत्तमेषूत्तमं न्यस्येन्मध्यमेषु च मध्यमम् ॥
१ द. ताः । २ द. शां । ३ द. क । ४ द. द्ध । ५ द. शा । ६ द. रा । ७ द. कृत ।
८ मुद्रित पुस्तके ‘निर्भरम्’ इति स्यात् । परन्तु द. पुस्तके ‘निःसराम्’ एव पाठः अस्ति ।
९ द. रां । १० द. ताः ।
मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ४०३
(अध)मेष्वधमं लिङ्गमेवमन्येषु धामसु ।
मेरोस्तु त्रिविधस्यापि लिङ्गमुत्तममृद्धिदम् ॥
अन्यथाविहितं१ +++++दोषकृत् ।
मेरुं मेरुरूपमं२ दिव्यं यः कारयति पार्थिवः ॥
सं३ प्राप्नोति परां भुक्तिं++++सदाशिवाम् ।
मेरुं प्रदक्षिणीकृत्य काञ्चनं यत्फलर्द्धिभाक् ॥
शैलेष्टकादारुमये कृतेऽस्मिंस्तत्फलर्द्धिभाक् ।
मेरुः ॥
(लक्षणं) मन्दरस्याथ प्रासादस्याभिधीयते ॥
सिद्धिप्रदस्य पुण्य(स्य)स्तुतँस्य त्रिदशैरपि ।
चतुरश्रीकृतेक्षेत्रे ४++ भागविभाजिते ॥
गर्भः कार्यश्चतुर्भागो भित्तिरेकांशविस्तृता ।
अन्धारिकैकभागेन बाह्यभित्तिस्तु भागिकी ॥
कोणेषु रथिकाः कार्याः पदद्वितयसंमिताः ।
चत्वारो मण्डपाः कार्याः षट्त्रिंशत्पदसंमिताः ॥
चतुर्दशमलिन्दाश्च विधातव्याश्चतुष्पदाः ।
भागेन निर्गतास्ते च सर्वतः शुभलक्षणाः ॥
अस्योर्ध्वमानं कर्तव्यं विस्तराद् द्विगुणं बुधैः ।
कर्णावेधश्च(?) विस्तारसीमा सर्वत्र गृह्यते ॥
प्रासादे मूलमानं यत् तच्च सम्यक् प्रकल्पयेत् ।
द्विपदं पीठमुत्सेधात् कार्यं प्राङ्मुनतो(मूलतो) बहिः ॥
तत् पद्मैरङ्कितं कार्यं सिंहैरपि च मन्दिरे ।
पदार्धं खुरकः कार्यः प्रासादसमवर्जितः(?) ॥
सार्धं पदद्वयं कार्यो वेदीबन्धः सुशोभनः ।
चतुर्भागोन्नता जङ्घा भागार्थं रूपपट्टिका ॥
१ द. 'तं तत्र भवेद्दाग (मा) । २ द. मे । ३ द. स प्राप्नोति पराः भुक्ति मुक्तिं सदाशिवीं परां । ४ द. व । ५ द. दश । ६ द. ॰ह्तं । ७ द. स्रानतो बहिः । ८ द. मुखतः । ९ द. र्ध ।