सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 449, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 449

३८६ समराङ्गणसूत्रधारे
अन्धारिका तु भागौ द्वौ बाह्यभित्तिस्तु भागिकी ।
त्रि(भि)र्भागैर्विनिष्क्रान्तं तेषु कार्याश्चतुष्किकाः ॥
द्विगुणं कथिते(तं) चोर्ध्वमानं घण्टाण्डकान्वितम् ।
प्रमाणेन विधातव्यो दश भागास्तुलोदयः ॥
त्रिपदो वेदिकाबन्धो जङ्घा स्यात् + षडंशकः ।
मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥
पदत्रयेण (सादूर्ध्वं शृङ्गं कलश चाण्डकम् ?) ।
शिखरा विंशतिः कार्याः सम्भित्ताः (संभिन्नाः) सर्वमण्डपैः ॥
शृङ्गादधो विधातव्या(व्यं) मल्लच्छाद्यं मनोहरम् ।
एवं सर्वचतुष्केषु मल्लच्छाद्यानि कारयेत् ॥
छाद्यकैः पञ्चभिः कार्यों मध्ये प्रासादनायकः ।
घटिकानां समुच्छ्रायः सपादं पदमिष्यते ॥
घण्टायाः सार्धभागेन ग्रीवायाश्च पदादि(धि)का ।
कर्त्तव्यामलसारी तु (पादोनांशायखण्डिकाम् ?) ॥
द्विपदः कलशः कार्यों बीजस्वरसमन्वितः ।
पञ्चघण्टावृतं कृत्वा विमाना(नं) पञ्चचामरम् ॥
(अतीतविस्त्वयान् सर्वान् लोकः प्राप्नोति सम्भव ?) ।
पञ्चचामरः ॥
नन्दिघोषमथ ब्रूमो विपक्षभयनाशनम् ॥
य एनं भक्तितः कुर्यात् स भवेदजरामरः ।
चतुरश्रे समे क्षेत्रे चतुर्भागविभाजिते ॥
भद्रं द्विभागविस्तारं कुर्याद् भागविनिर्गमम् ।
भित्तिरत्र न कर्तव्या दिशि कस्यामपि ध्रुवम् ॥
कुर्वीत राजसेनं तु वेदिचन्द्रावलोकनम् ।
दिक्षु क्रमोऽयं सर्वासु त्यक्त्वा मार्गचतुष्टयम् ॥
१ 'स्यादूर्ध्वं शृङ्गं सकलशाण्डकम्' इति स्यात् ।