समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 456, कुल 726 में से
संदर्भ में पढ़ेंमेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३९३
अण्डकैः सप्तदशभिः प्रासादो दुर्धरो भवेत् ।
दुर्धरं यः करोतीह भागा (भर्गा) च्छक्तिं समा (आ)प्नुयात् ॥
कालेन शिवसायुज्यं ('निगधिश्च प्रपद्यते ?) ।
दुर्धरः ॥
इदानीं दुर्जयं ब्रूमः प्रासादं शत्रुमर्दकम् ॥
यं कृत्वा (दुर्जयं लोके ?) भवेत् क्रीडति च क्षितौ ।
चतुरश्रीकृते क्षेत्रे पञ्चभागविभाजिते ॥
गर्भं नवपदं कुर्याद् भित्तिः षोडशभागिकी ।
भागेन कर्णरथिका भागाभ्यां मध्यमे रथः ॥
भागेन निर्गमं (स्त)स्य वि(धि)रेष चतुर्दिशम् ।
भद्रकर्णान्तरे कुर्याद् वारिमार्गं पदाधिकम् ॥
ऊर्ध्वमानं विधातव्यं (त्वमस्मि ?) दशभागिकम् ।
वेदिबन्धः सपादांशौ जङ्घांसौ पादसंयुतौ ॥
मेखलान्तरपत्रे तु पदार्धेन प्रकल्पयेत् ।
शिखरः (शिखिरैः ?) सार्धं भागषट्कोच्छ्रितो भवेत् ॥
त्रिपदः स्कन्धविस्तारो रेखा पद्मदलाकृतिः ।
भूमयः पञ्च कर्तव्या न्यूनमाना यथाक्रमम् ॥
प्रथमा सार्धभागान्या पदपादोनेत्ता क्रमात् ।
स्कन्ध(:)पादोन्भागेन स्याद् ग्रीवार्ध(र्धं) पदेन च ॥
अण्डकं त्वेकभागेन कर्परं चार्धभागिकम् ।
भागोत्सेधस्तु कलशः समवृत्तः सुशोभनः ॥
दुर्जयः क्रियते यत्र पुरे वा नगरेऽथवा ।
न भवेत् तत्र दुर्भिक्षं न च व्याधिकृतं भयम् ॥
दुर्जयः ॥
ब्रूमस्त्रिकूटं ब्रह्मार्थैः सेवितं त्रिदशैस्त्रिभिः ।
फलं क्रतुसहस्रस्य येन मोक्षं च विन्दति ॥
१ 'निधने च प्रपद्यते' इति स्यात् । २ 'दुर्जयो लोको' इति स्यात् ।
वा. ५०