सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 453, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 453

३९० समराङ्गणसूत्रधारे
प्रत्यङ्गस्थानकं कुर्यात् ( सप्रसं वृत्त ? )भागिकम् ।
शालास्त्रिभिः पदैः कार्याः शुभ्रूपाश्चतुर्दिशम् ॥
शालायाः पार्श्वयोः कार्यो वारिमार्गः पदार्धकः ।
परस्परं तु निष्कासो भागं भागं विधीयते ॥
ऊर्ध्वमानं विधातव्यं विस्ताराद् द्विगुणो ( णं ) बुधैः ।
गर्भच्छाद्यं पदान्यष्टौ भागा द्वादश मञ्जरी ॥
वास्तुविस्तारपादेन वेदीबन्धो विधीयते ।
चतुष्पदोर्ध्वतो जङ्घा भागार्धं ग्रासपट्टिका ॥
मेखलान्तरपत्रे च विधातव्ये पदोच्छ्रिते ।
कोणा द्रविडकूटस्य वृत्तस्तम्भा वराटका( ? ) ॥
मध्याङ्गतोरणानां स्युद्विशतित्रिशततुरो( ? ) भवेत् ।
षट्पदः स्कन्धविस्तारो ग्रीवा भवति भागिकी ॥
शिरः सार्धं पदं ज्ञेयं भागमेकं च चन्द्रिका ।
कलशोंऽशद्वयोच्छ्रायः कार्यः पल्लवभूषितः ॥
यः करोति सुरानन्दं वरदास्तस्य मातरः ।
सुरास्तस्य ह्यनिस्तार्यमपमृत्युं हरन्ति च ॥
सुरानन्दः ॥
अथ हर्षं प्रवक्ष्यामि सर्वलोकप्रहर्षणम् ।
नित्यं वसति यत्र श्रीः स्थानं यद् विश्वकर्मणः ॥
चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः ।
प्रतिकोणं विधातव्याः ( 'कर्णभागौ ? ) स्त्रिभिस्त्रिभिः ॥
द्विपदं कर्णभद्रं च भागेनैकेन निर्गतम् ।
वारिमार्ग( र्गं ) पदं कुर्यात् प्रवेश्य( शा )यामतः समम् ॥
त्रिभागमस्य प्रत्यङ्गं पदद्वितयनिर्गमम् ।
वेदिचन्द्रावलोकाभ्यां प्रत्यङ्गे कर्म कल्पयेत् ॥
१ 'कर्णा भागे' इति स्यात् ।