समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३६१
ऊर्ध्वप्रमाणं द्विगुणं कर्तव्यं द्विकलाधिकम् ।
भागैरेकोनविंशत्या मध्ये कार्यस्तलोदयः ॥ १२२ ॥
एभ्यो मध्याद् विधातव्या³ वेदीबन्धाः⁴ सुशोभनाः⁵ ।
द्विपदः कुम्भकः सार्धं⁶ पदं तु कलशो भवेत् ॥ १२३ ॥
मेखलान्तरपत्रे तु⁷ कार्ये सार्धपदोन्नते ।
नवभागोन्नता जङ्घा द्विपदा रूपपट्टिका ॥ १२४ ॥
मेखलान्तरपत्रे तु विदधीत पदद्वयम् ।
मध्यं स्यात् षोडशपदं ⁸(मानायाः ?)खुरके(को)ऽस्य च ॥ १२५ ॥
राजसेनां तथा वेदी तद्वदासनापट्टकम् ।
पदैः पञ्चभिरेतानि विदध्यादूर्ध्वमानतः ॥ १२६ ॥
चन्द्रावलोकनं कुर्याद् द्विपदं भागमानतः ।
उपर्वासनपट्टस्य स्तम्भः स्यात् सप्तभागिकः ॥ १२७ ॥
भरणं स्तम्भशीर्षं च द्विपदं चोर्ध्वमानतः ।
द्विपदः पट्टपिण्डः स्यात् त्रिपदश्छाद्यविस्तरः । १२८ ॥
ऊर्ध्वमन्तरपत्रस्य साम्प्रतं परिकीर्त्यते ।
चतुष्पदैः कर्णशृङ्गमायामोच्छ्रायतः ⁹++ (?) ॥ १२९ ॥
ग्रीवाण्डकं च भागेन चन्द्रिकार्धपदेन च ।
कलशश्चार्ध¹³भागेन कर्तव्योऽत्र न संशयः ॥ १३० ॥
अस्योर्ध्वतः प्रकर्तव्या द्वितीया कर्णमञ्जरी ।
त्रिपदायामविस्तारा ग्रीवाण्डकलशा(:)¹⁴पदम् ॥ १३१ ॥
भद्रकर्णाश्रिते द्व्यंशो¹⁵ विस्तौ¹⁶रस्तिलके स्मृतः ।
उच्छ्रयस्त्रिपदस्तस्य द्वितीयेः¹⁷ स्यात् तदूर्ध्वतः ॥ १३२ ॥
सार्धद्विपद उच्छ्रायो विस्तारो द्विपदः स्मृतः ।
सप्तभागोन्नतं तद्वद् विस्तारादष्टभागिकम् ॥ १३३ ॥
१ द. °केन। २ द. °स्तु°। ३ द. व्यो। ४ द. न्थः। ५ नः। ६. र्धं। ७ द. षु।
८ द. मालाया खुरकस्य च। ९ द. नं। १० द. °यत्तस्य। ११ द. दं। १२ द. °तः समम्। १३ द.
त्र। १४ द. °स्पदं। १५ द. शं°। १६ द. स्त°। १७ द. द्वितीयस्य तत्संशयः।
वा, ४६
३६२ समराङ्गणसूत्रधारे
सिंहकर्णौ(र्णं ) प्रकुर्वीत सुसूत्रमानपूर्वकम्( ? ) ।
उरोमञ्जरिका कार्या द्वितीया तिलकोर्ध्वतः ॥ १३४ ॥
अर्धभागायतां मूले नवभागमितोच्छ्रया( : ? ) ।
तस्यास्तु स्कन्धविस्तारो भागैः स्यादर्धपञ्चमैः ॥ १३५ ॥
ग्रीवार्धभागमुत्सेधाद् भागेनामू( म )लसारकम् ।
चन्द्रिका चार्थभागेन कलशो भागमुच्छ्रितः ॥ १३६ ॥
द्वितीया कर्णशृङ्गस्य स्यादूर्ध्वं मूलमञ्जरी ।
भागा( ग )द्वादशविस्तारा कलयोऽभ्यधिकोर्ध्वतः ॥ १३७ ॥
स्कन्धः सप्तपदश( दः ) प्रोक्तो ग्रीवा भागसमुच्छ्रिता ।
अण्डस्य द्व्यंश उत्सेधो विस्तारः सप्तभागिकः ॥ १३८ ॥
चन्द्रिकैकेन भागेन कलशस्तु द्विभागिकः ।
तला(लता)नागरिका कार्यानान्यन्तक्त(नान्यत् क)र्मात्र योजयेत् ॥
३जैस्मिन् ( ? ) विजयमिच्छन्ति भोगान् सुविपुलानपि ।
सर्वपापप्रणाशं च कार्यों४ वा रिपुकेसरी ॥ १४० ॥
रिपुकेसरी ॥
इदानीं प्रेष( पुष्प )कं नाम प्रासादमभिदध्महे ।
निर्मितं( तो ) धनदस्यार्थे ( यः )५ पूर्वं विश्वकर्मणा ॥ १४१ ॥
चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ।
६विभज्यस्त्रिपदाकीर्णं ( ? ) चत्वारोऽपि विदिग्( ग्ग )ताः ॥ १४२ ॥
७कर्णमकर्णगर्भाच्च( ? ) सूत्रं तेन समानि च ।
८रक्तानि दत्त्वा सूत्राणि तदग्रद्वितयः( ? ) स्मृताः ॥ १४३ ॥
सूत्रेण चतुरः कर्णान् दिक्स्थानुत्पात( द )येत् ततः ।
चत्वारोऽन्ये९ पुनः कर्णाः संसिद्धाः सर्वमे( ए )व हि ॥ १४४ ॥
१ द. अष्टभागायते मूले । २ द. शा । ३ द. य । ४ द. कार्यस्तैरि° । ५ द. यत् । ६ द.
विभाज्यो( ज्यं )स्त्रिपदाः कर्णाश्चत्वारोपि विदिग्गताः । ७ द. कर्णगं कर्णगंधाय सूत्रं । ८ द. भ ।
९ द. °यस्तशः । १० द. न्याः । ११ द. पूर्वमेव हि ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३६३
एवमष्टदला(न्) कर्णान् वृत्तानेवं(व) प्रकल्पयेत् ।
भागप्रवेशविस्तारं कर्णान्ते च जलान्तरम् ॥ १४५ ॥
शाला स्यात् षट्पदानायामा त्रिपदोऽस्याश्च निर्गमः ।
द्विपदा बाह्यभित्तिः स्यात् षट्पदा कन्दविस्तृतिः ॥ १४६ ॥
कन्दगर्भस्थितं तन्त्रं भ्रामयेत् कर्णकंवत(?) ।
उत्पद्यते ततो वृत्तं समसूत्रं सुशोभनम् ॥ १४७ ॥
कुर्वीत तस्य मध्ये तु कन्दं षोडशपत्रकम् ।
भित्तिकन्दान्तराले यच्छेषं + स्याद्भ्रमन्तिका(?) ॥ १४८ ॥
पुष्पकस्य तलन्यासः पद्मपुष्पाकृतिर्भवेत् ।
इदानीमूर्ध्वमस्यैव कथ्यते मानपूर्वकम् ॥ १४९ ॥
(एकोनत्रिंशदन्यूर्ध्व सा स्युः पदान् पूर्व ?) यथाक्रमम् ।
अतो बहिर्विधातव्यः पीठबन्धैः पदत्रयम् ॥ १५० ॥
(जयो ?) कुम्भः सपादांशः पादोनः स्यान्मसूरकः ।
अर्धेनान्तरपत्रं स्यात् कपोताली च तत्समा ॥ १५१ ॥
माला विद्याधरी कार्या पुष्पहस्तैरलङ्कृता ।
पदद्वादशकोत्सेधः (सगुरैः ?) स्यात् तुलोदयः ॥ १५२ ॥
अस्य मध्ये विधातव्यो वेदीबन्धस्त्रिभागिकः ।
पदार्धं खुरकं कुर्याद् भागेनैकेन कुम्भकम् ॥ १५३ ॥
मसूरकं पदार्धेन मेखला पदमानतः ।
षड्भागमुच्छ्रिता जङ्घा पुष्पके परिकीर्तिता ॥ १५४ ॥
व(म)रालग्रास(ह)मकरैः पुष्पविद्याधरैरपि ।
सूक्ष्मकर्णसमा कर्णा (?) चास्य जङ्घा विधीयते ॥ १५५ ॥
१ द. तत्पदां । २ द. 'पत्रं भ्रामयेद् कर्णकन्दतः' इति स्यात् । इति मुद्रित पुस्तकस्य पाठः;
द. सूत्रं भ्रमयेत्कंदकर्णवत् । ३ द. ष्पं सा स्याद्भ्रमंतिका । ४ द. वेन् । ५ द. त्रिशदस्य स्युः पदान्यूर्ध्वं
यं । ६ द. धपं । ७ द. जङ्घाकण्ठः सपादांशपादानस्यान्यं । ८ द. ०माः । ९ द. रैः । १० द. ताः :
११ द. सुखिरः स्यात्तु । १२ द. र्थे । १३ द. ताः । १४ द. सूक्ष्मान् कर्ण चास्य जंघा । मुद्रित
पुस्तके तु 'सूक्ष्मकर्णसमाकीर्णा' इति स्यात् ।
३६४ समराङ्गणसूत्रधारे
भागनैकेन भरणं भागनैकेन पट्टिका ।
मेखलान्तरपत्रं च भागनैकेन चोच्छ्रितम् ॥ १५६ ॥
ऊर्ध्वतस्तलपट्टस्य पट्टस्योर्ध्वस्य मस्तकम् ।
भागैकादशका तावद् विधेया कर्णचर्चिता(?) ॥ १५७ ॥
भागेन राजसेनं स्याद् १द्विभागो वेदिकोच्छ्रिताः(?) ।
भवेदासनपट्टश्च ३भागार्धेन समुन्नतः ॥ १५८ ॥
चन्द्रावलोकनं कुर्याद् भागिकं त्र्यंशलम्बितम् ।
आसनस्योर्ध्वतः कुर्यात् स्तम्भं पञ्चपदं शुभम् ॥ १५९ ॥
हीरग्रहणं शीर्ष द्वयं सार्धैकभागतः ।
गुला(र्गल)पट्टश्च भागेन मल्लकौचं द्विभागिकम् ॥ १६० ॥
भागेन लम्बितं तत् स्यात् सुसृष्टं सुमनोरमम् ।
एतस्योपरिभागेन कर्तव्या छेद(छाद्य)पट्टिका ॥ १६१ ॥
पादेनैकन चास्योर्ध्वं कपोताल्यन्तरच्छदे ।
भागषट्केन विस्तीर्णे पञ्चभागसमुन्नतं(ते) ॥ १६२ ॥
शूरसेनं प्रकुर्वीत मध्यवर्तालितोरणम् ।
वरालग्रासमकरैर्वराहगजसुण्डकैः(?) ॥ १६३ ॥
एवमादिभिराकीर्णमलिन्दस्योपरिस्थितम् ।
कोणं कुर्यात् पुष्पकूटं पुष्पकर्मनिरन्तरम् ॥ १६४ ॥
चतस्रो भूमयोऽस्य स्युताश्च न्यूनाः पुरः पुरः ।
प्रथमा भूमिका + + + + स्यात् परा परा ॥ १६५ ॥
आद्यस्य कोणकूटस्य विस्तारैस्त्रिपदः स्मृतः ।
परेषां पुनरेषं स्यात् क्रमादोनोऽङ्घ्रिणाङ्घ्रिणा ॥ १६६ ॥
१ द. मुद्रित पुस्तकस्य पाठः— द्विभागाद् वेदिकोच्छ्रिता ' इति स्यात् । २ द. ता । ३ द.
स्य । ४ द. समुच्छ्रितः। ५ द. स्तंभः पंचपदस्य च । ६ द. तुला। ७ द. छा । ८ द. नं ।
९ द. त्रि । १० द. पा । ११ द. ०ल्या० । १२ द. न्यूनपुरः सराः । १३ द. प्रथमा भूमिकोच्छ्राया-
त्यादोनं पदपञ्चकम् । भागार्द्धेन विहीना स्यात् भूमिका स्यात् परापराः ॥ पाठः । १४ द. स्त ।
१५ द. ०दूनां हिणां हिणा ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३६५
बाह्यात् परस्परं क्षेपमंशोनांशेन योजयेत् ।
मध्ये लतास्य कर्तव्या १भागषट्केन विस्तृता ॥ १६७ ॥
स्कन्धे द्विपदविस्तारं विदध्यान्मध्यमञ्जरीम् ।
षड्गुणं सूत्रमादाय लँ२तारेखां समालिखेत् ॥ १६८ ॥
आलेखं३ च ततः कुर्यात् सुशुँद्धं४ भागसुन्दरम् ।
भागेन वेदिकोत्सेधः षड्भागः स्कन्धविस्तरै(र)ः ॥ १६९ ॥
भागेनैकेन च ग्रीवा द्वाभ्यां५ सामलसारकम् ।
विशालपद्मसदृशं विधेयं पद्मशीर्षकम् ॥ १७० ॥
चन्द्रिका पद्मपत्राभा द्वयमेतत् पदोच्छ्रितम् ।
त्र्यं७शः स्यात् (कलशोर्मूत्या जनकैरवकुङ्ग्मलः ?) ॥ १७१ ॥
एवंविधं विधत्ते यः पुष्पकं सुमनोरमम् ।
तुष्येत् तस्य धनाधीशः शुभैर्याति८ व्रजेच्च सः(?) ॥ १७२ ॥
पुष्पकः ॥
ब्रूमो विजयभद्रस्य सुभद्रस्य च लक्षणम् ।
वल्लभः षण्मुखस्यायं बहुपुण्यविधायकः ॥ १७३ ॥
चतुरश्रीकृते क्षेत्रे साष्टविंशतिभाजिते ।
कुर्यादष्टपदं कर्ण( र्णं )भद्रं वास्य चतुष्पदम् ॥ १७४ ॥
पँ१०देनैकेन निर्यातं११ सर्वकोणेष्वयं विधिः ।
उदकान्तरकं कार्यं पदै१२क्लृप्तं पदायतम् ॥ १७५ ॥
दशभागायतं भद्रं कार्यं त्रिपदनिर्गतम् ।
दिक्षुँ१३(येव?) विधेयः स्यान्मुखतो मुखमण्डपः ॥ १७६ ॥
त्रिपदा बाह्यतो भित्तिस्त्रिपदा चान्धकारिकौ१४ ।
मध्ये प्रासादमानं तु कर्तव्यं षोडशांशकम् ॥ १७७ ॥
१ द. भागमेकेन वि० । २ द. ल(त)त्वरेखां समाचरेत् । ३ द. ख्य । ४ द. संयुद्धं सा० ।
५ द. ०भ्यामा० । ६ द. ०ताः । ७ द. अंशः स्यात्कलशो मूर्त्या ञ्जि० । ८ द. ०लं । ९ द. ०नैवं० ।
१० द. पा । ११ द. तः । १२ द. पदक्षुद्रं पदायुतम् । १३ द. दिक्षु विधिरेषः स्यात् । १४ द. काः ।
३६६ समराङ्गणसूत्रधारे
कर्णा चतुष्पदा( ? )कन्दे भद्राण्येषां पदद्वयम् ।
निष्क्रान्तानि पदेन स्युः कन्दकर्णाश्रितानि हि ॥ १७८ ॥
षट्पदं मध्यमङ्गं स्याद् द्विपदश्चास्य निर्गमः ।
कर्णशालान्तरं यत् स्यात् (साँ गन्धमार्गे ? ) विधीयते ॥ १७९ ॥
द्विपदा कन्दभित्तिः स्याद् गर्भो द्वादशभागिकः ।
ऊर्ध्वमानमिह प्रोक्तं द्विगुणं द्विकलाधिकम् ॥ १८० ॥
चतुर्विंशतिभागान्ते तुलोच्छ्रायस्य मध्यतः ।
ऊर्ध्वमानं तु यत् प्रोक्तं ग्रीवाण्डाद्यं ततो बहिः ॥ १८१ ॥
कार्यं(तुलोदयं स्यांच ? ) वेदीबन्धोऽशसप्तकम् ।
त्रिभागं कुम्भकः सूत्रं( ? ) सार्धभागो मसूरकः ॥ १८२ ॥
भागेनान्तरपत्रं स्यात् सार्धभागेन मेखला ।
जङ्घा द्वादशभिर्भागैर्दूर्ध्वां वा गलपट्टिका( : ? ) ॥ १८३ ॥
अन्धारिका च भागार्थं सार्धभागा वरण्डिका ।
भागेनान्तरपत्रं स्याद् रूपकर्मसमाकुलम् ॥ १८४ ॥
ऊर्ध्वाधःपट्टयोर्मध्ये( ध्य )भागो भागैकविंशतिः ।
अतो मध्याद् विधातव्यं द्विपदं राजसेनकम् ॥ १८५ ॥
वेदी चतुष्पदा प्रोक्ता भागेनासनपट्टकः ।
पदद्वयेन सार्धेन कार्यं चन्द्रावलोकनम् ॥ १८६ ॥
नवभागोच्छ्रितः स्तम्भः पत्रकर्मंसमाकुलः ।
भागेनैकेन भरणं शीर्षकं च द्विभागिकम् ॥ १८७ ॥
उच्छांलकमुभौ भागौ हीरग्रहणमासिकम् ( ? ) ।
द्व्यंशा पट्टोच्छ्रितिर्भागचतुष्का बाह्यविस्तृतिः ॥ १८८ ॥
१ द. 'कर्णाश्चतुष्पदाः' इति स्यान् । इति मुद्रित पुस्तके; द. पुस्तकेऽपि ˚श्च˚ । २ द. यात् ।
३ द. सांबुमार्गो वि । ४ द. त । ५ द. कार्यस्तुलोदयस्यांते वें˚ । ६ द. ˚कस्तत्र˚ । ७ द. ˚शाद्वा-
मलपट्टिका । ८ द. सार्ध भागत्र˚ । ९ द. च । १० द. ˚र्णस˚ । ११ द. त्कां । १२ द. हीरग्रहण-
मासिक । १३ द. चतुष्कं छायाविस्तृतिः ।
मेर्वादिप्रिंशिका नाम सप्तपञ्चाशोऽध्यायः ३६७
( द्व्यंशास्यालम्बनोध्वें तु रूपकं चक पट्टिकाः ? ) ।
सा² च भागत्रयेण स्यात् सुश्लिष्टा साधुचित्रिता ॥ १८९ ॥
कर्णकर्णेषु शृङ्गाणां विस्तृतिर्द्विपदा भवेत् ।
ऊर्ध्वमानं त्रिभागं स्याद् ग्रीवाण्डकलशैः सह ॥ १९० ॥
मध्ये चतुष्पदा कर्मा(र्णा)दुरोमञ्जरिका भवेत् ।
उच्छ्रायः षट्पदस्तस्या⁵ ग्रीवाण्डं द्विपदोच्छ्रितम् ॥ १९१ ॥
भागेन कलशोत्सेधः स्यादेवं कर्णनिर्मित(र्ति⁶)ः ।
कर्णा⁷ पिण्डिका कार्या भद्रदेशे तथोच्छ्रितः ॥ १९२ ॥
कर्तव्यः सप्तभिर्भागैः सिंहकर्णः⁸ सुचर्चितः ।
कर्णद्वये तथा शृङ्गे तयोरूर्ध्वं चतुर्दिशैम्⁹ ॥ १९३ ॥
उरोमञ्जरिकायामादुदया(?)दश पञ्च च ।
तस्याश्चाष्टपदः१० कन्दो ग्रीवा भागसमुन्नतौ११ ॥ १९४ ॥
द्विभागमण्डकं कार्यं चन्द्रिका पदमुच्छ्रिता ।
त्रिपदौः१२ कलशास्तेषां मध्यगान्तरमञ्जरी ॥ १९५ ॥
तला(लता)पञ्चकसंयुक्ता चरटक्रियान्वितां१३ ।
भागविंशतिविस्तीर्णा कर्तव्या मूलमञ्जरी ॥ १९६ ॥
द्वाविंशतिसमुत्सेधा१४ स्कन्धो द्वादशभागिकः ।
मध्या लता सू(शू)रसेनकर्मरूपसमाकुलो१५ ॥ १९७ ॥
ग्रीवा सार्धपदोत्सेधौ१६ कार्या द्विपदमण्डकम् ।
भागेन चैं(म)पिण्डिकां कुर्यात् कलशं तु चतुष्पदम् ॥ १९८ ॥
एकोनत्रिंशदण्डोऽयं प्रासादः शुभलक्षणः ।
षट्पदं पीठमाख्यातं चरितं१८ पूर्वकमेवत् ॥ १९९ ॥
१ द. द्यंशाशालंबनोदूर्ध्वे तु रूपकं बकपट्टिका । २ द. र्द्धा । ३ द. ॰त्रि । ४ द. ॰र्ध्वं । ५ द. इतः
परं-कलशं यावदिष्यताम् ॥ ऊर्ध्वताः कर्णे शृंगस्य षट्पदाकर्णमंजरी । उच्छ्रायः षट्पदस्तस्या । ६ द. ताः
७ द. श्रपंडकाः । ८ द. ॰स्तु चर्चितः । ९ द. र्देशा । १० द. दृ । ११ द. ताः । १२ द. दः ।
१३ द. ताः । १४ द. ॰त्रिं । १५ द. लाः । १६ द. ॰धः । १७ द. चंद्रिका कार्या कलशं° ।
१८ द. चर्चितं पू° ।
३६८ समराङ्गणसूत्रधारे
आरोग्यं पुत्रलाभश्च भवेद् विजयकारिणाम् ।
तेषां तुष्यति षड्वक्त्रो भक्त्या ये विदधत्यमुम् ॥ २०० ॥
विजयभद्रः ॥
अधुना श्रीनिवासाख्यः प्रासादः सम्यगुच्यते ।
तृप्त्यर्थमेव क्रियते जयश्रीस्तत्र तिष्ठति ॥ २०१ ॥
चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः ।
अन्धारिका च भित्ते(त्ति)श्च पदे द्वे द्वे यथाक्रमम् ॥ २०२ ॥
गर्भश्च षट्पदः कार्यः श्रीनिवासस्य सुन्दरः ।
कन्दे स्युर्द्विपदाः कर्णा भागेन सलिलान्तरम् ॥ २०३ ॥
भद्रं चतुष्पदं कार्यं पदेनैकेन निर्गतम् ।
बाह्याः स्युस्त्रिपदाः कर्णा भद्रैश्च द्विपदैर्युताः ॥ २०४ ॥
भद्रं चतुर्थकर्णेषु(तु) पदेनैकेन निर्गतम् ।
कोणकोणाश्च कर्तव्याः पदस्यार्धं समायताः ॥ २०५ ॥
पदेनाम्बुधरः कार्यः प्रवेशाद् विस्तृतेरपि ।
विस्तारात् षट्पदं भद्रं पदद्वितयनिर्गमम् ॥ २०६ ॥
नीरस्यालान्तरे(?) कार्या(:) तिलका द्वयंशविस्तृताः ।
पदेनैकेन निष्क्रान्ताः शोभिताश्चारुकर्मणा ॥ २०७ ॥
ऊर्ध्वमानमथ ब्रूमः श्रीनिवासे यथाक्रमम् ।
खुरकस्योच्छ्रितिः पीठे पादोनं पदमिष्यते ॥ २०८ ॥
कुर्यात् सपादो(दे)नांशेन जाड्यकुम्भ(:?)समुच्छ्रितम् ।
भागेनान्तरपत्रे तु भागेनैकेन मेखलाम् ॥ २०९ ॥
पीठोत्सेधश्चतुर्भागः श्रीनिवासे भवेदिति ।
वेदीबन्धस्य खुरको भागार्धेन समुन्नतः ॥ २१० ॥
; कुम्भकः सार्धभागेन तदर्धेन मे + + + ।
१ द. द् । २ द. णं । ३ द. 'मसूरकम्' इति स्यात् ।
मेर्वादिद्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३६९
[ इत ऊर्ध्वमादर्शग्रन्थे द्वे पत्रे ( १६८, १६९ तमे ) लुप्ते । तयोराहत्य उपपञ्चाशाः श्लोका
नष्टाः संभाव्यन्ते । ]
++++++++++++ पञ्जरात् ॥
त्रिभागेन तु भागस्य अष्टशृङ्गस्य(?) पक्षकः ।
नष्टशृङ्गस्य(?) शृङ्गस्य चान्तरे सलिलान्तरम् ॥
अन्योन्यं शृङ्गनिष्कासो भागेनैकेन शस्यते ।
दशभागायतं भद्रं चतुर्थांशेन निर्गम(तम्) ॥
एवमेष तलच्छन्दः कथितः सुरसुन्दरे ।
ऊर्ध्वमानमथ ब्रूमो भागशुद्ध्या यथाक्रमम् ॥
पीठादारभ्य विस्तारो (राद्) द्विगुणा स्यात् समुन्नतिः ।
उपपीठेऽप्यलंकुर्याद् भागमेकं समुन्नतम् ॥
पदेन पादहीनेन ( गजा ? ) द्वारसमुन्नतिः ।
उच्छ्रितिर्जाड्यकुम्भस्य सार्धभागा विधीयते ॥
कलशोत्तरपत्रे च पादहीनपदोन्नते ( : ? ) ।
अस्यादूर्ध्वं तु कर्तव्या पदार्धं ग्रासपट्टिका (?) ॥
( आयपीतोच्छदा प्रोक्ता मूलभूतोभिवास्तुनः ?) ।
खुरकश्च पदार्धेन (सार्धभागे कुम्भपूरकः ? ) ॥
भागेनैकेन कलशः समवृत्तोऽतिसुन्दरः ।
भागं सपादं कुर्वीत मेखलान्तरपत्रके ॥
षड्भागेनु (नो) च्छ्रिता जङ्घा भागार्धं ग्रासपट्टिका ।
कर्णे चैकेन भागेन भागार्धं (कुंणपो?) भवेत् ॥
भागेन हीरकं कुर्याद् यथा शोभा प्रजायते ।
मेखलान्तरपत्रे च सार्धभागेन कारयेत् ॥
ऊर्ध्वतः पदयोर्मध्ये स्यात् सार्धद्वादशांशकम् ।
तन्मध्ये सार्धभागं तु राजसेनं सपट्टकम् ॥
१ ' कोणयोः' इति स्यात् ।
वा. ४७
३७० समराङ्गणसूत्रधारे।
द्वौ भागौ वेदिका भागस्यार्धमासनपट्टकः ।
भागं चन्द्रावलोकं स्यात् स्तम्भमासनमूर्धनि ॥
निवेशयेत् पश्चभागं भरणं भागिकं ततः ।
भागमेकं समुच्छ्रायां ( यः ) शीर्षकं द्विगुणायतम् ॥
पट्टस्य कुर्यादुत्सेधं भागमर्धसमन्वितम् ।
सार्धभागद्वयं बाह्यं ( तद्रूपं दूतावलं छिवितम् ? ) ॥
द्वौ भागौ छाद्यकस्योर्ध्वे कार्या वासनपट्टिका ।
विराजमाना सा कार्या रूपग्रासवरालकैः ॥
मेखलान्तरपत्रेषु ( तु ) भागाद् रूपसमन्विते ।
भागद्वयेन कर्तव्या द्वितीया मेखला बुधैः ॥
कूटान्यतः परं कुर्यात् कर्मयुक्तानि सर्वतः ।
कूटेषु कुर्यात् प्रत्येकं सिंहकुम्भसमन्वितम् ( ? ) ॥
उरोमञ्जरिका तानि भवत्येव ( ? ) यथाक्रमम् ।
अष्टाण्डकत्रयान्तेषु षडण्डं स्याच्चतुष्टयम् ॥
चतुरण्डं द्वयं कृत्वा त्वेवं कर्णे विदुर्बुधाः ( ? ) ।
नव कुण्डानि(?) तुल्यानि विस्तारेण पदद्वयम् ॥
सार्धं भवति प्रत्येकं सार्धमुच्चैः पदद्वयम् ।
एवं ( निकर्तं एकैकं स्यात् ? ) तत्पदं वांशदण्डकम् ॥
सिंहकर्णः षडुच्छ्रायो भद्रे स्यात् प्लवविस्तृतिः ।
द्वितीय( श्चानुदन्तश्च ? ) शोभितश्चारुकर्मणा ॥
तृतीयो द्विपदः कार्यः सिंहकर्णो मनोरमः ।
विस्तारो मूलमञ्जर्याश्चतुर्दशपदो भवेत् ॥
भागसप्तदशोच्चे तु मातृभिः( ? ) पद्मकोशवत् ।
स्कन्धश्चाष्टपदः प्रोक्तो ग्रीवा सार्धपदोच्छ्रिता ॥
द्विपदश्चाण्डकोत्सेधश्चन्द्रिकार्धपदोन्नतः( ता ) ।
कलशं त्रिपदं प्राहुर्मातुलिङ्गस्य( स )मुद्भवम् ॥
मेर्त्रादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३७१
मध्ये तु मूलमञ्जर्याः कुर्वीत शिखरत्रयम् ।
सुरेखं सुप्रसन्नं च सर्वदेशिविभूषितम् ॥
षट्पञ्चाशं (?) भवेदस्मिन्नण्डकानां शतद्वयम् ।
एवं श्रेष्ठोऽयमाख्यातः प्रासादोऽण्डकमानतः ॥
सप्त( शत )मेकान्नसतत्या युतं स्यान्मध्यमे पुनः ।
एकोत्तरं शतं (तं ) प्राहुरण्डकानां कनीयसाम( सि ) ॥
मन्दारकुसुमाकाराण्या(ण्येता)नि सुरसुन्दरे ।
कुर्याद् ( य ) एनं प्रासादमीदृशं सुरसुन्दरम् ॥
स वैरिञ्चं (यु) गशतं सूर्यलोके महीयते ।
सुरसुन्दरः ॥
नन्द्यावर्तमथ ब्रूमः प्रासादं नृपवृद्धिदम् ॥
भूषितं मना(नाग)कन्याभिर्वल्लभं पृथिवीभुजाम् ।
चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ॥
पदद्वयमिदं यन्त्र नादाय(?) ब्रह्मणः पदात् ।
वृत्तं समालिखेद् गर्भा वस्मैलं च तुलं(?) भवेत् ॥
भागेन च तुलो(?) भित्तिर्भागेन स्याद् भ्रमन्तिका ।
भागेन बाह्यभित्तिः स्यात् पदपञ्चकवर्जिता ॥
कन्दे वि(द्वि)भागं कुर्वीत पुष्पशेखरकं ततः ।
द्विपदा बाह्यतः कर्णा विधातव्यास्तु वर्तुलाः ॥
यथागात्रं विधातव्याः स्वस्तिकाकृतयश्च ते ।
चत्वारो रथिका(कन्दो कोणे कर्णे ?) चतुष्टयम् ॥
पञ्चभागायतं भद्रं सार्धभागविनिर्गमम् ।
भद्रान्तपातिनी कुर्यात् प + ङ्गे पदसंमिते ॥
शेषं भद्रं तु कर्तव्यं विस्तारेण त्रिभागिकम् ।
भागस्यार्धेन विस्तीर्णं तथा भागप्रवेशकम् ॥
१ 'यलादादाय' इति स्यात् ।
३७२ समराङ्गणसूत्रधारे
एतत्प्रमाणं कर्तव्यमिह प्राज्ञैर्जलान्तरम् ।
तलच्छन्दानुगं भद्रं नन्द्यावर्तं(र्ते) यथाक्रमम् ॥
ऊर्ध्वमानमथ ब्रूमो नन्द्यावर्तं(र्ते) यथाक्रमम् ।
सार्धभागद्वयोच्छ्रा( १यामासनं तस्य ?)दूर्ध्वतः ॥
( २कार्यतुलोदयस्य+?) मध्ये भागैस्तथाष्टभिः ।
तुलोदयस्य मध्ये स्याद् वेदीबन्धो द्विभागिके (क)ः ॥
भागिकः कुम्भकोसेन( त्सेधो ) मेखलाकलशान्वितः ।
चतुर्भागा भवेज्जङ्घा भागिकं भरणं भवेत् ॥
मेखलान्तरपत्रे तु भागेनैकेन कल्पयेत् ।
पादेन राजसेनं स्याद् ( वदूत्तच पट्टतः ? ) ॥
वेदी साष्टपदोत्सेधा भागपादेन चासनम् ।
भागार्धेन नतं कुर्याद् भागं ( ३पञ्चवलोकत ? ) ॥
पादोनत्रिपदः स्तम्भः पल्लवैरुपशोभितः ।
हीरग्रहणशीर्षं च कुर्याद् भागसमुच्छ्रिति ॥
पट्टमेकपदोत्सेधं छायकं द्विपदायतम् ।
भागेन कुर्यादुपरि पट्टिकां चारुकर्मणा(म् ?) ॥
अंशांस्त्रीनुच्छ्रितः सिंहकर्णः स्याच्चतुरायतः ।
भूषितः( खरसे + न ? ) स च कार्योंऽतिशोभनः ॥
विस्ताराद् द्विपदे शृङ्गे सार्धभागद्वयोच्छ्रिते ।
अस्योर्ध्वमन्यशृङ्गं स्यात् सहशोच्छ( च )परिस्तुति( : ? ) ॥
प्रत्यङ्गस्तु व(ङ्गेषु च) कूटानि सार्धांशोच्छ्रायवन्ति च ।
द्वितीयः सिंहकर्णः स्यात् सिंहकर्णस्य मस्तके ॥
( ४ततो शृङ्गं ? ) तृतीयः स्याच्चतुर्थस्तस्य चोपरि ।
षड्भागविस्तृता कर्ण( : ? ) कूटस्था मूलमञ्जरी ॥
१ 'यमासनं स्यात् त' इति स्यात् । २ 'कार्यस्तुलोदयस्तस्य' इति स्यान् । ३ 'चन्द्राव-
लोकनम्' इति स्यात् । ४ 'ततः शृङ्गे' इति स्यात् ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३७३
सप्तभागोच्छ्रिता च स्यात्(स्कन्धस्यच शोच्छ्रितिः १ ? ) ।
स्यादुरोमञ्जरी मूलमञ्जर्या मध्यसंश्रया ॥
भागैश्चतुर्भिर्विस्तारः षड्भिश्चास्याः समुच्छ्रितिः ।
कलशाण्डकसंयुक्ता कर्णाभ्यन्तरमञ्जरी ॥
स्यादण्डकैकविंशत्या नन्द्यावर्तः सुलक्षणः ।
भक्त्या ये कारयन्त्येनं नद्यावर्तमनुत्तमम् ॥
विमानं शुभमारुह्य शक्रलोकं व्रजन्ति ते ।
नन्द्यावर्तः ॥
प्रासादमथ वक्ष्यामः पूर्ण पूरितवाञ्छितम् ॥
वन्दितैः(तं) किन्नरैर्यक्षैर्मनुष्यपितृवल्लभम् ।
चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥
विस्तार(राद्) द्विपदो गर्भः कार्या भित्तिस्तु भागिकः ।
द्विपदं कन्दभद्रं च निर्गमोऽस्यार्धभागिकः ॥
शोभना दिषु(क्षु) सर्वासु द्विपदा च भ्रमन्तिका ।
पदिका बाह्यभित्तिस्तु द्विपदा कर्णविस्तृतिः ॥
आयत्या चतुरो (भागावण्डभित्तेर्विनिर्गमा ? ) ।
भद्रं सुशोभनं तस्या द्वि(वि)धातव्यं द्विभागिकम् ॥
पर्णस्तु पदिका( ? ) पक्षभद्रं भागार्धनिर्गतम् ।
जलान्तरं तु भागार्धमायामक्षेपयोः समम् ॥
चतुर्भागो वलस्यास्य( ? ) गर्भो भित्तिस्तु भागिकी ।
यामायुर्वित्तगोस्त्रीणां वलभी कीर्तिकारयेत् ( ? ) ॥
पूर्वतः कारयेद् द्वारं चतुर्गर्भेऽत्र मन्दिरे ।
ऊर्ध्वमानं तु वक्ष्यामः प्रासादस्यास्य सम्प्रति ॥
पीठं द्विभागिकं कार्यं वेदीबन्धो द्विभागिकः ।
जङ्घा पदचतुष्कं च शोभिता रूपकर्मणा ॥
१ 'स्कन्धः स्याच्च दशोच्छ्रितिः' इति पाठ्यं स्यात् ।
३७४ समराङ्गणसूत्रधारे
पदद्वयं तु कर्तव्यं (हीनंनं ?) सातपत्रकम् ।
कलशाण्डकयुक्तानामुच्छ्रायस्त्रिपदो बुधैः ॥
कर्तव्यः कर्णशृङ्गाणां सर्वेषामपि मानतः ।
चतुष्पदोच्चा वलभी घण्टाकलशसंयुता ॥
मल्लच्छाद्यत्रयं कुर्यात् कर्णशृङ्गस्य चोपरि ।
युक्तमन्तरपत्रेण भागोच्छ्रायं पृथक् पृथक् ॥
भागेनैकेन घण्टा स्याद् भद्रा(भागा)भ्यां कलशाण्डके ।
समूलकलशे कर्णे सूत्रं सम्पातयेद् बुधः ॥
मल्लच्छाद्यं विधातव्यं सूत्रेणैकेन लाञ्छितम् ।
प्रासादमेवं पूर्णायुर्यः कुर्याद् भक्तिमानिमम् ॥
(सप्तकामः + ?) पुरुषः स(श)र्वलोके महीयते ।
पूर्णः ॥
सिद्धार्थमथ वक्ष्यामः सर्वकामार्थसिद्धि(द)म् ॥
कामाः सिध्यन्ति यत्कर्तुरिहलोके परत्र च ।
चतुरश्रे समे क्षेत्रे विभक्ते दशभिः पदैः ॥
कुर्वीत षट्पदं गर्भं + + चास्य चतुष्पदम् ।
भागेनैकेन रमणीं बाह्यभित्तिं च भागिकीम् ॥
कुर्वीत द्विपदान् कर्णाञ् शालां षड्भिः पदैर्बुधै(धः) ।
तदूर्ध्वं कर्णशृङ्गांश्च(ङ्गे च) यथाशोभं प्रकल्पयेत् ॥
त्रिपदं निर्गमं तस्याश्चतुष्कीश्च चतुर्दिशम् ।
मध्ये बहिश्च कुर्वीत तस्या द्वारचतुष्टयम् ॥
उन्नतं भागविंशत्या मानमस्योर्ध्वतो भवेत् ।
त्रिपदः पीठबन्धः स्याद् द्विगुणोच्छ्रायबाह्यतः ॥
सार्धं भागद्वयं कार्यो वेदिबन्धस्तु शोभनः ।
अर्धकुम्भैकमर्दे च मेखलां समस्तूरकः (?) ॥
१ 'आप्तकामः स' इति स्यात् ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३७५
जङ्घा सार्धचतुर्भागा कार्योच्छ्रायेण शोभना ।
मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥
खुरका( दू ) मेखला यावत् सप्तभागान्तरं भवेत् ।
भागाभ्यां राजसेनं च कुर्याद् वेदीं च सासनाम् ॥
त्रिभागं स्तम्भमुत्सेधाद् भागस्यार्धेन हीरकम् ।
भागार्धं स्तम्भशीर्षं स्याद् भागः पट्टस्य चोन्नतिः ॥
सूर्यच्छाद्यो द्विभागः स्याद् भागेनैकेन लम्बना( : ? ) ।
शृङ्गोत्सेधस्त्रिभागश्च कलशाण्डकसंयुत( म् ? : ) ॥
चतुर्भागोन्नतः सिंहकर्णः षड्भागविस्तृतः ।
कुर्वीत शृङ्गयोरूर्ध्वं शोभनां मूलमञ्जरीम् ॥
अष्टभागप्रविस्तीर्णां नवभागसमुच्छ्रित( ताम् ) ।
स्कन्धः पञ्चपदो ज्ञेयो ग्रीवा चार्धपदोच्छ्रिता ॥
अण्डकं भागमात्रं स्यादूर्ध्वं भागेन चन्द्रिका ।
वर्तुलः समविस्तारः कलशस्तु द्विभागिकः ॥
भद्रे वराटकाश्वेह कर्तव्या हेमकूटवत् ।
यः कुर्यात् कारयेद् यस्तु सिद्धार्थं सर्वकामदम् ॥
स भवेत् सर्वकामाप्तिः शिवलोके च शाश्वतः ।
सिद्धार्थः ॥
अथाभिधीयते सर्वपापघ्नः शङ्खुवर्धनः ॥
आलयः सर्वदेवानां प्रासादो भूभृतां प्रियः ।
चतुरश्रे समे क्षेत्रे ( गर्भाकर्णे ? ) विशोधितम् ॥
वर्तुलं कारयेत् पश्चात् सर्वकोणेषु लाञ्छितम् ।
विस्तारार्धे भवेद् गर्भो यच्छेषं तेन ( भर्तिवः ? ) ॥
द्विगुणं कारयेदूर्ध्वं भागविंशतिभाजिते ।
तुलोदयोऽष्टभागः स्याद् द्वादशांशा च मञ्जरी ॥
३७६ समराङ्गणसूत्रधारे
कुम्भकं कलशं द्वाभ्यां कपोतालीं च कल्पयेत् ।
पञ्चभागोच्छ्रिता जङ्घा मध्येऽस्या ग्रासपट्टिका( म् ) ॥
मेखलान्तरपत्रे च भागेनैकेन कारयेत् ।
भागार्धं कारयेत् प्राज्ञः संख्या( शङ्खा )वर्तकमञ्जरीम् ॥
शङ्खावर्तककूटांश्च विदधीत + विस्तरात् ।
शतवास्तुविभक्तेऽस्मिन् या + मानानुसारतः ॥
स्कन्धो विधेयो ग्रीवा च भगार्धेन समुच्छ्रिता ।
चन्द्रिका शिरसा सार्धं कार्या सार्धपदोन्नता ॥
द्विपदः कलशोच्छ्रायः कर्तव्यः शङ्खवर्धने ।
गर्भश्चा(स्या)च्छादनं कुर्यात् संख्या( शङ्खा )वर्तवितानकम् ॥
यः शङ्खवर्धनं कुर्यात् स भुनक्ति चिरं महीम् ।
वशगा चास्य सततं भवेल्लक्ष्मीजलाञ्जलिः (?) ॥
शङ्खवर्धनः ॥
त्रैलोक्यभूषणं ब्रूमो वन्दितं त्रिदशैरपि ।
आश्रयं सर्वदेवानां पापस्य च विनाशनम् ॥
त्रिंशद्धस्तः कनीयान् स्यान्मध्यमस्त्रिदशाधिकः ।
पञ्चाशद्धस्त उत्कृष्टस्त्रिविधं( घो ) हस्तसंख्यया ॥
चतुरश्रे समे क्षेत्रे त्रिंशद्भक्तोप( क्ते प्र )कल्पयेत् ।
दशभागायतं गर्भं कन्दं द्विगुणसप्तकम् ॥
चतुष्पदं कन्दकर्त्त( णं ) भद्रं चास्य द्विभागिकम् ।
कुर्वीत षट्पदां शालां भागेनैकेन निर्गताम् ॥
अन्धोऽर्धद्विपदे चास्य द्विपदाश्चात्र भित्तयः ।
शृङ्गमेकं भवेन्मध्ये विस्तारेण चतुष्पदम् ॥
मध्ये शृङ्गस्य चान्तः + + + षड्दारुकं भवेत् ।
द्व्यंशा द्वितीया रमणी(या ?) बाह्यभित्तिर्द्विभागिका ॥
१ 'लक्ष्मीः कृताञ्जलिः' इति स्यात् ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३७७
कर्णशृङ्गद्वयं कार्यं विस्तारेण चतुष्पदम् ।
द्वादशांशमिता शाला निर्गमोऽस्याः पदत्रयम् ॥
प्राक्कर्णशृङ्गमष्टांस्तिस्यादुर्जनफलोपमम् (?) ।
-
- द्विशृङ्गभागेन विनिष्क्रान्तं चतुष्पदम् ॥
द्विपदं तस्य भद्रं च निर्गमो द्विपदं भवेत् ।
शृङ्गयोरुभयोर्मध्ये पदार्धं पक्षभद्रकम् ॥
पदार्धं वारिमार्गश्च प्रक्षेपः पदसंमितः ।
ऊर्ध्वमानमथ ब्रूमः षष्टिभागसमुच्छ्रितम् ॥
तुलोदयस्ततो ( विंशपञ्चसूदनमञ्जरी ? ) ।
( स नृप्तंसत्यदोच्छ्रायो ? ) भागेष्वेषु विधीयते ॥
तुलोदयस्य मध्ये तु वेदी पञ्चपदोदया ।
तदर्धं कुम्भकं कुर्यात् तद्वत् कलशमेखला ॥
एकादशपदा जङ्घा हीरकं तु पदत्रयम् ।
द्वौ भागौ मेखला तद्वद् द्वितीयापि सतारका ॥
ऊर्ध्वतस्तलपट्टस्य प + षोडशभिः पदैः ।
राजसेनं सार्धभागं वेदी कार्या द्विभागिका ॥
पदार्धमासनं सार्धपदं चन्द्रावलोकनम् ।
स्तम्भः सप्तपदो ( दैर्घ्यहार ? ) सार्धत्रिभागिकम् ॥
शीर्षं सार्धपदोत्सेधं पक्षस्तु द्विपदो भवेत् ।
त्रिपदं छाद्यकं कुर्याद् भागेनैकेन लम्बितम् ॥
द्विपदां छेदहारां तु (?) द्वयंशा वा सन्तु पट्टिकाः ।
तदूर्ध्वं मञ्जरीं कुर्याद् द्राविडक्रमभूषितम् ॥
सप्तोच्छ्रितं कोणकूटं सघण्टाकलशाण्डकम् ।
द्वितीयामेतदूर्ध्वं च तन्मानेनैव कारयेत् ॥
१ 'दैर्घ्याद्धारं' इति स्यात् ।
वा. ४८
- द्विशृङ्गभागेन विनिष्क्रान्तं चतुष्पदम् ॥
कर्णे कर्णं समाश्रित्य षट्पदानि तु कारयेत् ।
(षेष्ठाण्डके ?) द्वे कुर्वीत ष( डंश ? डण्ड )कचतुष्टयम् ॥
एवं कर्णाण्डकानि स्युश्चत्वारिंशत् समासतः ।
द्वादशांशकविस्तारमुच्छ्रायान्नवभागिकम् ॥
आद्यक्रमे विजानीयाद् द्राविडाभक्रियान्वितम् ।
अष्टाण्डकं समुत्सेधाद् विस्ताराद् दशभागिकम् ।१
भद्रक्रमं द्वितीयं तु विद्यात् कर्मविभूषितम् ।
विस्तारो मूलमञ्जर्या द्वाविंशत्यंशसंमितः ॥
त्रयोविंशतिरुच्छ्रायः स्कन्धाश्चैव त्रयोदश ।
ग्रीवा पट्ट( द )द्वयोत्सेधात् त्रिपदोन्नतमण्डकम् ॥
कर्परं द्विपदं भागचतुष्कं कलशोच्छ्रयः ।
प्रासादा( दे )द्वादशैतस्मिन्नुरोमञ्जरिका मताः ॥
अण्डकानां तु विज्ञेयं त्रिसप्तत्यधिकं मतम् ।
त्रैलोक्यभूषणं कृत्वा त्रिदशानन्दकारकम् ॥
कल्पान्तं यावदध्यास्ते पुरुषस्त्रिदशालयम् ।
त्रैलोक्यभूषणः ॥
प्रासादमथ पद्माख्यं कथयामोऽश्विनोः प्रियम् ॥
चतुरश्रीकृते क्षेत्रे सप्तभागविभाजिते ।
त्रीन् भागान् मध्यमे त्यक्त्वा द्वौ (द्वौ) कोणेषु लाञ्छयेत् ॥
( सा द्वयेद्भूभि ? )रष्टाँ च पश्चादपि च षोडश ।
विस्तारार्धेन गर्भः स्याद् विस्तारार्धं तथा बहिः ॥
ऊर्ध्वमानमथ ब्रूमः पद्माख्यस्य यथाक्रमम् ।
विस्ताराद् द्विगुणोत्सेधं भागविंशतिभाजितम् ॥
वेदी जङ्घा तथैतस्मिन् कार्या मालाथ मञ्जरी ।
ग्रीवाण्डकलशाश्चेह शङ्खवर्धनवर्त्मना ॥
१ 'अष्टाण्डके' इति पाठ्यं भाति ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३७९
पद्माख्यः कारितो येन प्रासादो दश(स्र)वल्लभः ।
आत्मा समुद्धृतस्तेन पापपङ्कमहोदधेः ॥
पद्माख्यः ॥
पक्षबाहुमथ ब्रूमः प्रासादं कुलनन्दनम् ।
सर्वरोगहरं पुण्यं सर्वलोकक्षणं भवं( ? ) ॥
चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते ।
अष्टभागायतं गर्भं कुर्याद् भित्तिर्द्विभागिका ॥
द्विपदं कारयेत् कर्णं भागार्धमुदकान्तरम् ।
प्रत्यङ्गं सार्धभागे सा(स्यात्) शाला चैव चतुष्पदा ॥
निष्क्राममु(उ)भयोर्भागाद् भागार्धेन पृथक् पृथक् ।
कर्तव्या(व्यौ) पक्षयोर्बाहू विस्तारेष्व(णा)ष्टभागिकौ ॥
चतुष्पदस्तयोगर्भो द्विपदा भित्तिविस्तृतिः ।
चतुर्भागं भवेद् भद्रं कोणश्चैव द्विभागिकः ॥
ऊर्ध्वमानमथ ब्रूमश्चतुर्विंशतिभागिकम् ।
त्रिपदो वेदिकाबन्धो जङ्घा पञ्चपदोन्नता ॥
द्वौ भागौ कलशः कार्यों द्वौ भागौ चन्द्रिकाण्डकम् ।
मध्ये तु मञ्जरी कार्या घण्टाबध(बद्धा) च पार्श्वयोः ॥
पक्षबाहुः कृतो येन त्रिगर्भः कर्मभूषितः ।
स त्रिनेत्रप्रतापः स्याच्च(त्) तुरङ्गव्रातनायकः ॥
पक्षबाहुः ॥
विशालं सम्प्रवक्ष्यामि विशालैरन्वितं गुणैः ।
दयितं कृत्तिकासूनोः पूजितं गणकिन्नरैः ॥
क्षेत्रे(त्रे) दशांशं कुर्वीत षड्भागा मध्यमञ्जरी ।
भागिक्यो भित्तयः कार्या भ्रमन्त्यभि(न्त्योऽपि) तथाविधाः ॥
भागद्वयं भवेत् कर्णो वारिमार्गेण संयुतः ।
पदेन तिलकं कुर्याद् भागार्धेन विनिर्गतम् ॥
३८० समराङ्गणसूत्रधारे
आयामनिर्गमा(मौ) चास्य चतुर्भागा चतुष्किका ।
चतुष्पदो मध्यगर्भो(र्भः) चतुर्द्वारस्य शस्यते ॥
विस्ताराद् द्विगुणोच्छ्रायन्यू(यमू)र्ध्वमानं विधीयते ।
विदध्याद् वेदिकाबन्धं सार्धभागय(गेन) संमितम् ॥
सार्धैश्चतुर्भिः कुर्वीत भागैर्जङ्घोच्छ्रितिं बुधः ।
मालामन्तरपत्रं च भागेनैकेन कारयेत् ॥
सार्धद्विभागिकं शृङ्गं कलशाण्डकसंयुतम् ।
तस्यार्धमपरं शृङ्गं तावन्मानं विधीयते ॥
षड्भागविस्तृतां जङ्घामन्तर्या भागसप्तकम् ।
तद्विस्तारदशांशै(शै)स्यात् षड्भिः स्कन्धस्य विस्तृतिः ॥
ग्रीवायास्तु विधातव्या पदस्यार्धं समुन्नतिः ।
भागेनाण्डकमुच्छ्रायो भागेनार्धेतु(न) चन्द्रिका ॥
द्विपदं कलशं कुर्यात् समसूत्रं सुशोभनम् ।
प्रासादोऽयं विशालः स्यादेवं सप्तदशाण्डकम् ॥
यः करोति स लोकेऽस्मिन्(+ रं) नागाधिपो भवेत् ।
लभते च बहून् कामान् देहान्ते चोत्तमं पदम् ॥
विशालः ॥
ब्रूमोऽथ लक्ष्म(क्ष्मी)दयितं प्रासादं कमलोद्भवम् ।
सिद्धगन्धर्वसहितं स्कन्दो यत्र व्यवस्थितः ॥
चतुरश्रं समं क्षेत्रं भुवि दिक्षु विदिक्षु च ।
कृत्वा वृत्तं समालिख्य भागैर्द्वात्रिंशता भत्रे(जे)त् ॥
भागौ द्वौ द्वौ ततः कुर्यादेकैकां दलपङ्क्तिकाम् ।
कर्णं षोडशभिः का(कु)र्यादम्भोजसदृशाकृतिः(म्) ॥
पञ्चभिर्भाजिते सीम्नि गर्भो भागत्रयं भवेत् :
अधस्तादा(सँमत्त स्यात् ?) पद्मपीठं प्रकल्पयेत् ॥
१ 'नरो' इति स्यात् । २ 'सनं तस्य' इति स्यात् ।