समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 425, कुल 726 में से
संदर्भ में पढ़ें३६२ समराङ्गणसूत्रधारे
सिंहकर्णौ(र्णं ) प्रकुर्वीत सुसूत्रमानपूर्वकम्( ? ) ।
उरोमञ्जरिका कार्या द्वितीया तिलकोर्ध्वतः ॥ १३४ ॥
अर्धभागायतां मूले नवभागमितोच्छ्रया( : ? ) ।
तस्यास्तु स्कन्धविस्तारो भागैः स्यादर्धपञ्चमैः ॥ १३५ ॥
ग्रीवार्धभागमुत्सेधाद् भागेनामू( म )लसारकम् ।
चन्द्रिका चार्थभागेन कलशो भागमुच्छ्रितः ॥ १३६ ॥
द्वितीया कर्णशृङ्गस्य स्यादूर्ध्वं मूलमञ्जरी ।
भागा( ग )द्वादशविस्तारा कलयोऽभ्यधिकोर्ध्वतः ॥ १३७ ॥
स्कन्धः सप्तपदश( दः ) प्रोक्तो ग्रीवा भागसमुच्छ्रिता ।
अण्डस्य द्व्यंश उत्सेधो विस्तारः सप्तभागिकः ॥ १३८ ॥
चन्द्रिकैकेन भागेन कलशस्तु द्विभागिकः ।
तला(लता)नागरिका कार्यानान्यन्तक्त(नान्यत् क)र्मात्र योजयेत् ॥
३जैस्मिन् ( ? ) विजयमिच्छन्ति भोगान् सुविपुलानपि ।
सर्वपापप्रणाशं च कार्यों४ वा रिपुकेसरी ॥ १४० ॥
रिपुकेसरी ॥
इदानीं प्रेष( पुष्प )कं नाम प्रासादमभिदध्महे ।
निर्मितं( तो ) धनदस्यार्थे ( यः )५ पूर्वं विश्वकर्मणा ॥ १४१ ॥
चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ।
६विभज्यस्त्रिपदाकीर्णं ( ? ) चत्वारोऽपि विदिग्( ग्ग )ताः ॥ १४२ ॥
७कर्णमकर्णगर्भाच्च( ? ) सूत्रं तेन समानि च ।
८रक्तानि दत्त्वा सूत्राणि तदग्रद्वितयः( ? ) स्मृताः ॥ १४३ ॥
सूत्रेण चतुरः कर्णान् दिक्स्थानुत्पात( द )येत् ततः ।
चत्वारोऽन्ये९ पुनः कर्णाः संसिद्धाः सर्वमे( ए )व हि ॥ १४४ ॥
१ द. अष्टभागायते मूले । २ द. शा । ३ द. य । ४ द. कार्यस्तैरि° । ५ द. यत् । ६ द.
विभाज्यो( ज्यं )स्त्रिपदाः कर्णाश्चत्वारोपि विदिग्गताः । ७ द. कर्णगं कर्णगंधाय सूत्रं । ८ द. भ ।
९ द. °यस्तशः । १० द. न्याः । ११ द. पूर्वमेव हि ।