सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 428, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 428

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३६५
बाह्यात् परस्परं क्षेपमंशोनांशेन योजयेत् ।
मध्ये लतास्य कर्तव्या १भागषट्केन विस्तृता ॥ १६७ ॥
स्कन्धे द्विपदविस्तारं विदध्यान्मध्यमञ्जरीम् ।
षड्गुणं सूत्रमादाय लँ२तारेखां समालिखेत् ॥ १६८ ॥
आलेखं३ च ततः कुर्यात् सुशुँद्धं४ भागसुन्दरम् ।
भागेन वेदिकोत्सेधः षड्भागः स्कन्धविस्तरै(र)ः ॥ १६९ ॥
भागेनैकेन च ग्रीवा द्वाभ्यां५ सामलसारकम् ।
विशालपद्मसदृशं विधेयं पद्मशीर्षकम् ॥ १७० ॥
चन्द्रिका पद्मपत्राभा द्वयमेतत् पदोच्छ्रितम् ।
त्र्यं७शः स्यात् (कलशोर्मूत्या जनकैरवकुङ्ग्मलः ?) ॥ १७१ ॥
एवंविधं विधत्ते यः पुष्पकं सुमनोरमम् ।
तुष्येत् तस्य धनाधीशः शुभैर्याति८ व्रजेच्च सः(?) ॥ १७२ ॥
पुष्पकः ॥
ब्रूमो विजयभद्रस्य सुभद्रस्य च लक्षणम् ।
वल्लभः षण्मुखस्यायं बहुपुण्यविधायकः ॥ १७३ ॥
चतुरश्रीकृते क्षेत्रे साष्टविंशतिभाजिते ।
कुर्यादष्टपदं कर्ण( र्णं )भद्रं वास्य चतुष्पदम् ॥ १७४ ॥
पँ१०देनैकेन निर्यातं११ सर्वकोणेष्वयं विधिः ।
उदकान्तरकं कार्यं पदै१२क्लृप्तं पदायतम् ॥ १७५ ॥
दशभागायतं भद्रं कार्यं त्रिपदनिर्गतम् ।
दिक्षुँ१३(येव?) विधेयः स्यान्मुखतो मुखमण्डपः ॥ १७६ ॥
त्रिपदा बाह्यतो भित्तिस्त्रिपदा चान्धकारिकौ१४ ।
मध्ये प्रासादमानं तु कर्तव्यं षोडशांशकम् ॥ १७७ ॥
१ द. भागमेकेन वि० । २ द. ल(त)त्वरेखां समाचरेत् । ३ द. ख्य । ४ द. संयुद्धं सा० ।
५ द. ०भ्यामा० । ६ द. ०ताः । ७ द. अंशः स्यात्कलशो मूर्त्या ञ्जि० । ८ द. ०लं । ९ द. ०नैवं० ।
१० द. पा । ११ द. तः । १२ द. पदक्षुद्रं पदायुतम् । १३ द. दिक्षु विधिरेषः स्यात् । १४ द. काः ।