सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 424, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 424

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३६१
ऊर्ध्वप्रमाणं द्विगुणं कर्तव्यं द्विकलाधिकम् ।
भागैरेकोनविंशत्या मध्ये कार्यस्तलोदयः ॥ १२२ ॥
एभ्यो मध्याद् विधातव्या³ वेदीबन्धाः⁴ सुशोभनाः⁵ ।
द्विपदः कुम्भकः सार्धं⁶ पदं तु कलशो भवेत् ॥ १२३ ॥
मेखलान्तरपत्रे तु⁷ कार्ये सार्धपदोन्नते ।
नवभागोन्नता जङ्घा द्विपदा रूपपट्टिका ॥ १२४ ॥
मेखलान्तरपत्रे तु विदधीत पदद्वयम् ।
मध्यं स्यात् षोडशपदं ⁸(मानायाः ?)खुरके(को)ऽस्य च ॥ १२५ ॥
राजसेनां तथा वेदी तद्वदासनापट्टकम् ।
पदैः पञ्चभिरेतानि विदध्यादूर्ध्वमानतः ॥ १२६ ॥
चन्द्रावलोकनं कुर्याद् द्विपदं भागमानतः ।
उपर्वासनपट्टस्य स्तम्भः स्यात् सप्तभागिकः ॥ १२७ ॥
भरणं स्तम्भशीर्षं च द्विपदं चोर्ध्वमानतः ।
द्विपदः पट्टपिण्डः स्यात् त्रिपदश्छाद्यविस्तरः । १२८ ॥
ऊर्ध्वमन्तरपत्रस्य साम्प्रतं परिकीर्त्यते ।
चतुष्पदैः कर्णशृङ्गमायामोच्छ्रायतः ⁹++ (?) ॥ १२९ ॥
ग्रीवाण्डकं च भागेन चन्द्रिकार्धपदेन च ।
कलशश्चार्ध¹³भागेन कर्तव्योऽत्र न संशयः ॥ १३० ॥
अस्योर्ध्वतः प्रकर्तव्या द्वितीया कर्णमञ्जरी ।
त्रिपदायामविस्तारा ग्रीवाण्डकलशा(:)¹⁴पदम् ॥ १३१ ॥
भद्रकर्णाश्रिते द्व्यंशो¹⁵ विस्तौ¹⁶रस्तिलके स्मृतः ।
उच्छ्रयस्त्रिपदस्तस्य द्वितीयेः¹⁷ स्यात् तदूर्ध्वतः ॥ १३२ ॥
सार्धद्विपद उच्छ्रायो विस्तारो द्विपदः स्मृतः ।
सप्तभागोन्नतं तद्वद् विस्तारादष्टभागिकम् ॥ १३३ ॥

१ द. °केन। २ द. °स्तु°। ३ द. व्यो। ४ द. न्थः। ५ नः। ६. र्धं। ७ द. षु।
८ द. मालाया खुरकस्य च। ९ द. नं। १० द. °यत्तस्य। ११ द. दं। १२ द. °तः समम्। १३ द.
त्र। १४ द. °स्पदं। १५ द. शं°। १६ द. स्त°। १७ द. द्वितीयस्य तत्संशयः।
वा, ४६