सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 426, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 426

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३६३
एवमष्टदला(न्) कर्णान् वृत्तानेवं(व) प्रकल्पयेत् ।
भागप्रवेशविस्तारं कर्णान्ते च जलान्तरम् ॥ १४५ ॥
शाला स्यात् षट्पदानायामा त्रिपदोऽस्याश्च निर्गमः ।
द्विपदा बाह्यभित्तिः स्यात् षट्पदा कन्दविस्तृतिः ॥ १४६ ॥
कन्दगर्भस्थितं तन्त्रं भ्रामयेत् कर्णकंवत(?) ।
उत्पद्यते ततो वृत्तं समसूत्रं सुशोभनम् ॥ १४७ ॥
कुर्वीत तस्य मध्ये तु कन्दं षोडशपत्रकम् ।
भित्तिकन्दान्तराले यच्छेषं + स्याद्भ्रमन्तिका(?) ॥ १४८ ॥
पुष्पकस्य तलन्यासः पद्मपुष्पाकृतिर्भवेत् ।
इदानीमूर्ध्वमस्यैव कथ्यते मानपूर्वकम् ॥ १४९ ॥
(एकोनत्रिंशदन्यूर्ध्व सा स्युः पदान् पूर्व ?) यथाक्रमम् ।
अतो बहिर्विधातव्यः पीठबन्धैः पदत्रयम् ॥ १५० ॥
(जयो ?) कुम्भः सपादांशः पादोनः स्यान्मसूरकः ।
अर्धेनान्तरपत्रं स्यात् कपोताली च तत्समा ॥ १५१ ॥
माला विद्याधरी कार्या पुष्पहस्तैरलङ्कृता ।
पदद्वादशकोत्सेधः (सगुरैः ?) स्यात् तुलोदयः ॥ १५२ ॥
अस्य मध्ये विधातव्यो वेदीबन्धस्त्रिभागिकः ।
पदार्धं खुरकं कुर्याद् भागेनैकेन कुम्भकम् ॥ १५३ ॥
मसूरकं पदार्धेन मेखला पदमानतः ।
षड्भागमुच्छ्रिता जङ्घा पुष्पके परिकीर्तिता ॥ १५४ ॥
व(म)रालग्रास(ह)मकरैः पुष्पविद्याधरैरपि ।
सूक्ष्मकर्णसमा कर्णा (?) चास्य जङ्घा विधीयते ॥ १५५ ॥
१ द. तत्पदां । २ द. 'पत्रं भ्रामयेद् कर्णकन्दतः' इति स्यात् । इति मुद्रित पुस्तकस्य पाठः;
द. सूत्रं भ्रमयेत्कंदकर्णवत् । ३ द. ष्पं सा स्याद्भ्रमंतिका । ४ द. वेन् । ५ द. त्रिशदस्य स्युः पदान्यूर्ध्वं
यं । ६ द. धपं । ७ द. जङ्घाकण्ठः सपादांशपादानस्यान्यं । ८ द. ०माः । ९ द. रैः । १० द. ताः :
११ द. सुखिरः स्यात्तु । १२ द. र्थे । १३ द. ताः । १४ द. सूक्ष्मान् कर्ण चास्य जंघा । मुद्रित
पुस्तके तु 'सूक्ष्मकर्णसमाकीर्णा' इति स्यात् ।