सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

१४० समराङ्गणसूत्रधारे
एकादिमूषावहनप्रभेदादथ वेश्मनाम् ।
एतेषां सप्तशालानां ब्रूमः संख्यामनुक्रमात् ॥ ९१ ॥
† वहत्येकापि नो यन्त्र मूषैकं तद् भवेद् गृहम् ।
विभद्रमेकभद्राणि विजानीयाच्चतुर्दश ॥ ९२ ॥
द्विभद्रवेश्मनां सैका नवतिः परिकीर्तिता ।
भवनानां त्रिभद्राणां चतुःषष्टिः शतत्रयम् ॥ ९३ ॥
सहस्त्रमेकाभ्यधिकं स्याच्चतुर्भद्रवेश्मनाम् ।
भवतः पञ्चभद्राणां द्वे सहस्रे द्विसंयुते ॥ ९४ ॥
षड्भद्राणां सहस्राणि त्रीणि त्रीणि गृहाणि च ।
द्वात्रिंशतां चतुस्त्रिंशत् सप्तभद्रशतानि च ॥ ९५ ॥
अष्टभद्राणि षड्भद्रसङ्ख्यातुल्यानि जायते(?) ।
गृहाणां नवभद्राणां द्वे सहस्रे तथा द्वयम् ॥ ९६ ॥
सहस्रं दशभद्राणामेकोत्तरमुदाहृतम् ।
तथैकादशभद्राणां चतुष्षष्ट्या शतत्रयम् ॥ ९७ ॥
सैका द्वादशभद्राणां नवतिर्वेश्मनां भवेत् ।
स्युस्त्रयोदशभद्राणि गृहाणीह चतुर्दश ॥ ९८ ॥
यच्चतुर्दशभिर्भद्रैरेकमेव हि वेश्म तत् ।
इत्येषां सप्तशालानां सहस्राण्यत्र षोडश ॥ ९९ ॥
४एकोनत्रिंशती तद्वदशीतिश्चतुरुत्तरा ।
इदानीमष्टशालानि भवनान्यभिदध्महे ॥ १०० ॥
बहिरन्तैश्चतुःशालद्वयादेकं समासतः ।
अन्यानि सर्वभद्रादिद्वयसंयोगतो दश ॥ १०१ ॥
एकोनत्रिंशता क्षेत्रं चतुरश्रं विभाजयेत् ।
भागद्वयेन मूषा स्याच्छाला भागचतुष्टयात् ॥ १०२ ॥


१ द. ख. द्वात्रिंशानि । २ द. ख. शतभं । ३ द. ख. ॰र्भि॰ । ४ क. 'एकात्र त्रि' ।
५ क. त्र चतु । ६ द. ॰विंशता ।
† 'रत्र यस्यां सप्तशालजातौ एकापि मूषा यद् गृहं न वहति न प्राप्नोति, तदेकं गृहं विभद्रं
भवेत्' इति टिप्पणमस्ति क पुस्तके ।

समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १४१
कुर्वीत पञ्चभिर्भागैस्तन्मध्येऽङ्गणवापिकाम् ।
चतस्रश्च प्रतिदिशं मूषाः स्युस्तत्र वास्तुनि ॥ १०३ ॥
शालयोनं सप्तशालं षट्शालं द्वितयोज्झितम् ।
त्रिहीनं पञ्चशालं स्यादष्टशालमिदं क्वचित् ॥ १०४ ॥
तुल्यत्रिशालद्वितयं द्विशालेन युतं यदा ।
अष्टौ तदाष्टशालानि गृहाण्यन्यानि निर्दिशेत् ॥ १०५ ॥
मूषाव्यूढिवशादष्टशालानामथ कथ्यते ।
सङ्ख्या तत्र विभद्रं स्याद्वहन्मूषसंज्ञितम् ॥ १०६ ॥
षोडशैवकभद्राणि द्विभद्राणां शतं विदुः ।
विंशं षष्ट्या त्रिभद्राणां विज्ञेयं शतपञ्चकम् ॥ १०७ ॥
अष्टादशाहुर्विंशानि चतुर्भद्रशतानि च ।
पञ्चभद्रसहस्राणि चत्वारि स्युः शतत्रयम् ॥ १०८ ॥
अष्टषष्टिश्च गेहानि तानि सम्यग् विभावयेत् ।
सहस्राष्टकमष्टौ च षड्भद्राणि प्रचक्षते ॥ १०९ ॥
एकादशसहस्राणि तथा शतचतुष्टयम् ।
जानीयात् सप्तभद्राणि चत्वारिंशद् गृहाणि च ॥ ११० ॥
द्वादशैवाष्टभद्राणां सहस्राणि शताष्टकम् ।
सप्तत्याभ्यधिकं प्राहुर्वास्तुविद्याविशारदाः ॥ १११ ॥
एकादशसहस्राणि तथा शतचतुष्टयम् ।
चत्वारिंशच्च गेहानि नवभद्राणि सङ्ख्यया ॥ ११२ ॥
अष्टौ स्युर्दशभद्राणां सहस्राण्यष्टभिः सह ।
तथैकादशभद्राणां सङ्ख्या स्यात् पञ्चभद्रवत् ॥ ११३ ॥
अष्टादशशतानि स्युर्विंशतिर्भवनानि च ।
५इति द्वादशभद्राणां सङ्ख्या भवति वेश्मनाम् ॥ ११४ ॥
१ द. ॰न्वि॰ । २ द. ख. ॰द्वं॰ । ३ द. दश॰ । ४ द. ख. ॰सहस्राणि विंश॰ ।
५ द. इत्याख्या दश॰ ।

१७२ समराङ्गणसूत्रधारे
स्यात् त्रयोदशभद्राणां षष्ट्यग्रं शतपञ्चकम् ।
स्याच्चतुर्दशभद्राणां विंशत्यभ्यधिकं शतम् ॥ ११५ ॥
वेश्मानि स्युस्तथा पञ्चदशभद्राणि षोडश ।
एकमेव हि विज्ञेयं गृहं षोडशभद्रकम् ॥ ११६ ॥
† पञ्चषष्टिसहस्राणि षट्त्रिंशं शतपञ्चकम् ।
गृहाणामष्टशालानां भवत्येकत्र सङ्ख्यया ॥ ११७ ॥
स्यात् समानचतुश्शालद्वययोगात् समासतः ।
एकैकशालयोगाच्च नवशालचतुष्टयम् ॥ ११८ ॥
सर्वतोभद्रमुख्यानां मिथो द्वितययोगतः ।
एकैकशालयोगाच्च चत्वारिंशत् तथापरा ॥ ११९ ॥
तुल्यत्रिशालत्रितययोगेन च चतुष्टयम् ।
गृहाणां नवशालानामन्यदुक्तं पुरातनैः ॥ १२० ॥
संस्थानमुक्तं गेहानां नवशालात्मनामिदम् ।
मूषावहनभेदेन तत्सङ्ख्या कथ्यतेऽधुना ॥ १२१ ॥
अवहन्मूषमेकं स्याद् वहन्त्याष्टादशैकया ।
द्वाभ्यां शतं त्रिपञ्चाशदधिकं वेश्मनां भवेत् ॥ १२२ ॥
तिसृभिः स्युः शतान्यष्टौ सह षोडशभिर्गृहैः ।
षष्ट्या सहस्रत्रितयं ताभिश्चतसृभिर्भवेत् ॥ १२३ ॥
पञ्चाशीतिशतान्यष्टषष्टियुक्तानि पञ्चभिः ।
वहन्तीभिः प्रजायन्ते मूषाभिरिह वेश्मनाम् ॥ १२४ ॥

१ द. भद्राणां भं° । २ द. ख. °न्त्यष्टा° ।

| † अष्टशालगृहाणामैक्यं ६५५३६ षोडशगुरुणां प्रस्तारे | गृह १ | १६ | १२० | ५६० | १८२० | ४३६८ | ८००८ | ११४४० | १२८७० |
| | भद्र ० | १ | २ | ३ | ४ | ५ | ६ | ७ भद्र | ८ |
| | भद्र १६ | १५ | १४ | १३ | १२ | ११ | १० | ९ भद्र | • |

इति टिप्पणं दत्तमस्ति क पुस्तके ॥

समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १४३
अष्टादशसहस्राणि तथा पञ्चशतानि च ।
चतुःषष्टिं च गेहानि मूषाभिः षड्भिरादिशेत् ॥ १२५ ॥
एकत्रिंशत्सहस्राणि सहितान्यष्टभिः शतैः ।
चतुर्विंशतियुक्तानि मूषाभिः सप्तभिर्विदुः ॥ १२६ ॥
चत्वारिंशत्सहस्राणि त्रिसहस्री च वेश्मनाम् ।
शतानि चाष्टपञ्चाशत् सप्त मूषाभिरष्टभिः ॥ १२७ ॥
चत्वारिंशत्सहस्राणि सहस्राण्यष्ट षट्शती ।
विंशतिं चैव मूषाभिर्गृहाणां नवभिर्विदुः ॥ १२८ ॥
चत्वारिंशत्सहस्राणि सहस्रत्रयमोकसाम् ।
मूषाभिर्दशभिः साष्टपञ्चाशच्छतसप्तकम् ॥ १२९ ॥
एकत्रिंशत्सहस्राणि चतुर्विंशच्छताष्टकम् ।
मूषाभिरेकादशभिर्गृहाणां मुनयो जगुः ॥ १३० ॥
अष्टादशसहस्राणि तथा पञ्चशतानि च ।
धाम्नां द्वादशमूषाणां चतुःषष्टिश्च जायते ॥ १३१ ॥
भवन्त्यष्टौ सहस्राणि तथा पञ्चशतानि च ।
स्यात् त्रयोदशमूषाणामष्टषष्टिश्च वेश्मनाम् ॥ १३२ ॥
स्याच्चतुर्दशमूषाणां त्रिसहस्री सषष्टिका ।
मूषाभिः पञ्चदशभिः षोडशाष्टशती तथा ॥ १३३ ॥
धाम्नां षोडशमूषाणां त्रिपञ्चाशच्छतं भवेत् ।
स्युः सप्तदशमूषाणि वेश्मान्यष्टादश स्फुटम् ॥ १३४ ॥
मूषाभिरष्टादशभिर्वेश्मैकं तद्विदो विदुः ।
लक्षद्वयं सहस्राणि द्वाषष्टिश्च शतान्विता ॥ १३५ ॥
वेश्मनां नवशालानां चत्वारिंशच्चतुर्युता ।
स्यात् समानचतुःशालद्वययोगात् समासतः ॥ १३६ ॥
१ द. नवति˚। २ द. ˚र्णा।

१४४ समराङ्गणसूत्रधारे
एकेन च द्विशालेन दशशालचतुष्टयम् ।
सर्वतोभद्रमुख्यानां मिथो द्वितययोगतः ॥ १३७ ॥
एकद्विशालयोगाच्च चत्वारिंशत् तथापरा ।
तुल्यत्रिशालं त्रितयमेकशालयुतं यदा ॥ १३८ ॥
साधारणं तदान्यत् स्याद् दशशालचतुष्टयम् ।
तुल्ये त्रिशाले युज्येते सर्वभद्रादिभिर्यदा ॥ १३९ ॥
तदान्या दशशालानां समुत्पद्येत विंशतिः ।
तेष्वेकंमवहन्मूषं विंशतिर्मूषयैकया ॥ १४० ॥
वहन्त्या स्यादुभाभ्यां तु नवत्यभ्यधिकं शतम् ।
चत्वारिंशानि तिसृभिः शतान्येकादश ध्रुवम् ॥ १४१ ॥
चत्वारि² स्युश्चतसृभिः सहस्राणि शताष्टकम् ।
चत्वारिंशच्च गेहानि जायन्ते पञ्चभिः सह ॥ १४२ ॥
पञ्चभिस्तु सहस्राणि मूषाभिर्दशपञ्च च ।
जायन्ते सचतुष्काणि तथा पञ्चशतानि च ॥ १४३ ॥
अष्टात्रिंशत्सहस्राणि षड्भिः सप्त शतानि च ।
षष्ट्युत्तराणि जायन्ते वेश्मनां परिसङ्ख्यया ॥ १४४ ॥
गृहाणां स्युः सहस्राणि सप्तभिः सप्तसप्ततिः ।
शतपञ्चकमन्यच्च भवेद् विंशतिसंयुतम् ॥ १४५ ॥
लक्षमेकं सहस्राणि पञ्चविंशतिरष्टभिः ।
शतानि नव जायन्ते सप्तत्यभ्यधिकानि च ॥ १४६ ॥
लक्षमेकं सहस्राणि सप्तषष्टिः शतानि च ।
नव स्युः षष्टियुक्तानि नवमूषाप्रचारतः ॥ १४७ ॥
लक्षं चतुरशीतिश्च सहस्राणि शतानि च ।
सप्त स्युर्दशभिस्तद्वत् पञ्चाशच्च षडुत्तरा ॥ १४८ ॥
१ द. °लद्वितयं त्रिशालेन युतं । २ द. °रिशं ।

समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १४५
लक्षमेकं सहस्राणि सप्तषष्टिश्च वेश्मनाम् ।
शतानि चैकादशभिः षष्ट्यानि नव निर्दिशेत् ॥ १४९ ॥
लक्षं तथा सहस्राणि जायन्ते पञ्चविंशतिः ।
शतानि च द्वादशभिर्नव तद्वच्च सप्ततिः ॥ १५० ॥
सहस्राणि निकेतानां सङ्ख्यया सप्तसप्ततिः ।
सविंशतिः पञ्चशती त्रयोदशभिरीरिता ॥ १५१ ॥
अष्टात्रिंशत्सहस्राणि तथा सप्तशतानि च ।
स्युश्चतुर्दशभिः षष्ट्या वेश्मनामन्वितानि च ॥ १५२ ॥
स्यात् पञ्चदशसाहस्री शतैः पञ्चभिरन्विता ।
मृषाभिः पञ्चदशभिश्चत्वारि भवनानि च ॥ १५३ ॥
स्युः सहस्राणि चत्वारि तद्वदष्टौ शतानि च ।
तथा षोडशमृषाणां चत्वारिंशच्च पञ्च च ॥ १५४ ॥
सहस्रं सप्तदशभिः शतमेकं च वेश्मनाम् ।
चत्वारिंशच्च वेश्मानि भवन्ति परिसङ्ख्यया ॥ १५५ ॥
शतं नवत्यभ्यधिकमष्टादशभिरुच्यते ।
भवत्येकोनविंशत्या मृषाणां वेश्मविंशतिः ॥ १५६ ॥
एकमेव गृहं मृषाविंशतेर्बहनाद् भवेत् ।
सङ्ख्येयं दशशालानां मृषाभेदप्रचारतः ॥ १५७ ॥
प्रयुतं चत्वार्ययुतान्यष्टसहस्राणि पञ्च शतानि च ।
षट्सप्ततिर्गृहाणि च दशशालेष्वेकसङ्ख्येयम् ॥ १५८ ॥
चतुःशालादिगेहानि यावन्त्यादशशालततः ।
चतुर्गुणानि प्रत्याशं तान्यलिन्देन निर्दिशेत् ॥ १५९ ॥
एकद्वित्रिचतुःशालवेश्मनां सङ्गमान्मिथः ।
गृहाणि दशशालान्तान्येवमुक्तानि विस्तरात् ॥ १६० ॥
समारभ्य चतुःशाल(लं) दशशालान्तवेश्मनाम् ।
सङ्ख्यामिदानीमैक्येन सर्वेषामभिदध्महे ॥ १६१ ॥
वा. १९

१५६ समराङ्गणसूत्रधारे ।
मूषाभेदेन लक्षाणि स्युस्त्रयोदश वेश्मनाम् ।
सहस्राण्यष्टनवतिस्तथा वेश्मानि षोडश ॥ १६२ ॥
मूषासंस्थानभेदेन भिन्नानां वेश्मनां पुनः ।
जायन्ते कोटिशो भेदा यस्मान्नोक्तानि तान्यतः ॥ १६३ ॥
इत्थं चतुःशालमुखानि वेश्मान्युक्तानि यावद्दशशालमत्र ।
शालाप्रभेदेन मिथोऽमिषङ्गात् सङ्ख्या च तेषामुदिता यथावत्॥१६४॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः ॥
अथ आयादिनिर्णयो नाम षड्विंशोऽध्यायः ।
इदानीमभिधास्यामः सूत्रपातं विधेः क्रमम् ।
शस्ते मासि सिते पक्षे विदध्यात् तं शुभेऽहनि ॥ १ ॥
चैत्रे शोकाकुलो भर्त्ता वैशाखे च धनान्वितः ।
ज्येष्ठे गृही विपद्येत नश्यन्ति पशवः शुचौ ॥ २ ॥
श्रावणे धनवृद्धिः स्यान्नभस्ये न वसेद् गृहे ।
कलहश्चाश्विने मासि भृत्या नश्यन्ति कार्त्तिके ॥३॥
मार्गशीर्षे धनप्राप्तिः सहस्ये कामसम्पदः ।
माघे वह्निभयं चैव फाल्गुने श्रीरनुत्तमा ॥ ४ ॥
द्वितीया पञ्चमी मुख्या सप्तमी नवमी तथा ।
एकादशीत्रयोदश्यस्ति(स्त्यौ ति)थयः स्युः शुभावहाः ॥ ५ ॥
चन्द्रताराबलं भर्तुरनुकूलं च शस्यते ।
इयं हि सूत्रपाताख्या क्रिया प्रासादकर्मणि ॥ ६ ॥
कार्या पुरनिवेशे च प्रारम्भे भवनस्य च ।
शिलानिवेशने द्वारस्तम्भोच्छ्रायादिकेषु च ॥ ७ ॥
१ द. ॰शालजयुक्त॰। २ द. ख. ॰विधिं । ३ द. ख. ॰र्त्ता स्याद् वैशाखे ध॰। ४ ख.
भयं विद्यात् फा॰।

आयादिनिर्णयो नाम पञ्चविंशोऽध्यायः । १४७
आद्रियेत सिते पक्षे शोभने लग्न एव हि ।
रवौ कन्यातुलालिस्थे गृहं वरुणदिङ्मुखम् ॥ ८ ॥
न कुर्यात् तद्धि शून्यं स्यान्न च वृद्धिर्भवेत् प्रभोः ।
१ न दक्षिणमुखं कुम्भमृगधन्विस्थिते रवौ ॥ ९ ॥
कुर्वीत निष्फलं तत् स्यान्नृपदण्डवधादिकृत् ।
न मीनवृषमेषस्थे कुर्वीत प्राङ्मुखं रवौ ॥ १० ॥
तद् धनघ्नं कलिक्रुद्रराजचौरा३र्तिकृद् यतः ।
रवौ मिथुनसिंहस्थे न कर्कस्थेऽप्युदङ्मुखम् ॥ ११ ॥
कुर्यात् तद्धि दरिद्रत्वं दद्याच्चरणदासताम् ।
आयव्ययांशकर्क्षाणि प्रवक्ष्यामोऽथ वेश्मनाम् ॥ १२ ॥
गृहमानवशात् सम्यक् कर्तुः स्थानबलाबलम् ।
नगरे वा पुरादौ वा दण्डैर्मानं विधीयते ॥ १३ ॥
तदलाभे करैः कार्यं सम्यगायविशुद्धये ।
यत्र हस्तैर्मितिः ४ क्षेत्रे तत्रायो हस्तसंश्रितः ॥ १४ ॥
५ क्षेत्रालाभे तु तत्रैव ग्राह्यः स स्यादिहाङ्गुलैः ।
अङ्गुलैस्तु मिते क्षेत्रे सोऽङ्गुलैस्तदलाभतः ॥ १५ ॥
पादैर्वाथ यवैर्वापि ग्राह्यः क्षेत्रानुसारतः ।
गृहेषु कर्महस्तेन मानं स्वामिकरेण वा ॥ १६ ॥
देवतानां तु धिष्ण्येषु कर्महस्तेन केवलम् ।
दैर्घ्यं हन्यात् पृथुत्वेन हरेद् भागं ततोऽष्टभिः ॥ १७ ॥
यच्छेषमायं तं विद्याच्छास्त्रदृष्टं ध्वजादिकम् ।
ध्वजो धूमोऽथ सिंहश्च श्वा वृषः खरकुञ्जरौ ॥ १८ ॥
ध्वाङ्क्षश्चेति त उद्दिष्टाः प्राच्याद्यासु प्रदक्षिणम् ।
अन्योन्याभिमुखास्त च कामं स्वच्छन्दचारिणः ॥ १९ ॥
१ द. ख. 'दक्षिणाभिमु' । २ ख. चापस्थि । ३ क. 'राग्निकृ' । ४ द. ॰र्मितैः ।
५ द. क्षेत्रला॰ ।

१४८ समराङ्गणसूत्रधारे
पूर्वाचार्यैः समुद्दिष्टा आयवृद्धिविधायकाः ।
वृषसिंहगजाः शस्ताः प्रासादपुरवेश्मसु ॥ २० ॥
ध्वजेऽर्थलाभः सन्तापो धूमे भोगो मृगाधिपे ।
कलिः शुनि धनं धान्यं वृषे स्त्रीदूषणं खरे ॥ २१ ॥
गजे भद्राणि दृश्यन्ते ध्वाङ्क्षे तु मरणं ध्रुवम् ।
वृषस्थाने गजं कुर्यात् सिंहं वृषभहस्तिनोः ॥ २२ ॥
न कुर्याद् वृषमन्यत्र शस्यते सर्वतो ध्वजः ।
कल्याणं कुरुते सिंहो ब्राह्मणस्य विशेषतः ॥ २३ ॥
क्षत्रियस्य गजः शस्तो वृषभः शस्यते विशः ।
शूद्रस्य ध्वज एवैकः शस्यतेऽर्थप्रदः सदा ॥ २४ ॥
एवमेते गृहादीनामायाः सर्वे प्रकीर्तिताः ।
प्रदद्यादासने सिंहमातपत्रेषु तु ध्वजम् ॥ २५ ॥
चिह्नेष्वपि च सर्वेषु चामरव्यजनादिषु ।
सिंहं गजं वा शस्त्रेषु रथेषु कवचेषु च ॥ २६ ॥
सार्यश्वगजपर्याणेष्विभं वृषभमेव च ।
अर्थधारणपात्रेषु शयनेषु मतङ्गजम् ॥ २७ ॥
याने च वाहने चैव मतिमान् योजयेद् गजम् ।
प्रासादप्रतिमालिङ्गपीठमण्डपवेदिषु ॥ २८ ॥
कुण्डेषु च ध्वजं दद्याद् देवोपकरणेषु च ।
आयो गृहवदुद्वाहवेदीमण्डपयोर्भवेत् ॥ २९ ॥
महानसे वृषं दद्याज्जलाधारे जलाशये ।
स्थाल्यां भोजनपात्रे च कोष्ठागारेऽन्नधारणे ॥ ३० ॥
एतद्गृहे तथा दद्याद् गृहोपकरणेषु च ।
वृषभं गजशालायां प्रदद्याद् गजमेव वा ॥ ३१ ॥
वृषं तुरगशालासु गोशालागोकुलेषु च ।
गजाश्ववृषशालासु सिंहं यत्नेन वर्जयेत् ॥ ३२ ॥

आयादिनिर्णयो नाम षड्विंशोऽध्यायः । १४९
अधमानां खरध्वाङ्क्षधूमश्वानः शुभावहाः ।
धूमोऽग्निजीविनां शस्तो ध्वाङ्क्षः सन्न्यासिनां हितः ॥ ३३ ॥
स्वर्गणानां श्वपाकानां स्ववेश्मानां खरः शुभः ।
नटनर्तकवेश्मेषु पण्यस्त्रीणां खरः शुभः ॥ ३४ ॥
कुलालरजकादीनां तथा गर्दभजीविनाम् ।
गृहादिषु क्षेत्रफल गणयेदष्टभिर्भजेत् ॥ ३५ ॥
त्रिघनेन भजेच्छेषं नक्षत्रेऽष्टहृते व्ययः ।
पिशाचो राक्षसो यक्ष इति त्रेधा व्ययो मतः ॥ ३६ ॥
साम्याधिक्यन्यूनताभिरायतः स्याद् यथाक्रमम् ।
व्ययं क्षेत्रफले क्षिप्त्वा गृहनामाक्षराणि च ॥ ३७ ॥
भागं त्रिभिर्हरेत् तत्र यच्छेषं सोऽशको भवेत् ।
चतुरङ्गो यथा मन्त्रो मुख्यो लग्ने नवांशकः ॥ ३८ ॥
तथा गृहादिषु प्रोक्तं मुख्यत्वेनांशकत्रयम् ।
इन्द्रो यमश्च राजा च त्रयो नामाभिरंशकाः ॥ ३९ ॥
स्वनामतुल्यफलदा विज्ञातव्यास्त्रयोऽपि च ।
गणयेत् स्वामिनक्षत्राद् यावत् स्याद् भवनस्य भम् ॥ ४० ॥
नवभिर्भाजिते तस्मिंञ् शेषं तारा प्रकीर्तिता ।
जन्मसम्पद्विपत्क्षेमपापसाधकनैधनीः ॥ ४१ ॥
मैत्रीपरममैत्र्यौ च प्राहुः संज्ञाः समाः फले ।
त्रिसप्तपञ्चमीर्भर्तुर्गृहतारा विवर्जयेत् ॥ ४२ ॥
आद्याद्वितीयाष्टम्यस्तु ताराः स्युरिह मध्यमाः ।
तथा ऋक्षेऽपि चानिष्टे चन्द्रेऽष्टमगतेऽपि च ॥ ४३ ॥
नयते दुरितं तारा चतुःषण्णवती (?) नृणाम् ।
सुरराक्षसमर्त्याख्या ऋक्षाणां स्युर्गणास्त्रयः ॥ ४४ ॥
१ द. ॰गणी । २ द. ख. गुणं । ३ द. नक्षत्रेषु हृते । ४ द. ख. ॰स्मान्छेपं ।

१६० समराङ्गणसूत्रधारे
यद्गणर्क्षो भवेद् भर्ता तद्गणर्क्षं गृहं शुभम् ।
मृगाश्विरेवतीस्वात्यो मैत्रं पुष्यपुनर्वसू ॥ ४५ ॥
हस्तः श्रवण इत्येष देवाख्यो नवको गणः ।
विशाखा कृत्तिकाश्लेषा नैऋतं वारुणं मघा ॥ ४६ ॥
चित्रा ज्येष्ठा धनिष्ठेति नवको राक्षसो गणः ।
आर्द्राभरणी रोहिण्यौ (ण्या) तिस्रः पूर्वास्तथोत्तराः ॥ ४७ ॥
इति नक्षत्रनवकं विज्ञेयं मानुषे गणे ।
गणसाम्यं शुभा तारा यस्यायात् (च्च) व्ययोऽल्पकः ॥ ४८ ॥
हितौँऽशकश्च तद्वेश्म भर्तुः शुभफलप्रदम् ।
आयो व्ययश्च योनित्वं ताराश्च भवनांशकाः ॥ ४९ ॥
गृहनामेति चिन्त्यानि करणानि गृहस्य षट् ।
त्रिभिः शुभैः शुभं वेश्म द्वाभ्यामेकेन चाशुभम् ॥ ५० ॥
करणैश्चतुराद्यैस्तु शुभैरतिशुभं भवेत् ।
न समायव्ययं वेश्म नाव्ययं नाधिकव्ययम् ॥ ५१ ॥
न द्वितीयांशमसहग्योनिभं च न कारयेत् ।
भर्तृतुल्याभिधानं च गृहं दूरात् परित्यजेत् ॥ ५२ ॥
समसप्तकमेकैकक्षं तृतीयैकादशं तथा ।
चतुर्थदशकं चेति कर्तव्यं मन्दिरं सदा ॥ ५३ ॥
षट्कोष्ठकं त्रिकोणं च वर्ज्यं द्विर्द्वादशं तथा ।
षट्कोष्ठके मृतिर्दैन्यं वियोगश्च भवेद् गृहे ॥ ५४ ॥
त्रिकोणे वसतां दुःखं वैधव्यं च प्रजायते ।
द्विर्द्वादशे पुत्रपौत्रगुरुबन्धुधनक्षयः ॥ ५५ ॥
हँतेऽष्टभिः क्षेत्रफले खनेत्रशशिभाजिते ।
शेषं जीवितमेतस्मिन् पञ्चभक्ते भवेन्मृतिः ॥ ५६ ॥
१ द. यद्गुणाक्षि...गुणक्ष्यं...। २ द. ख. ॰ण्यास्तिस्रः । ३ द. ख. ॰नव्यांश॰ । ४ द. ख.
॰तृ॰ । ५ द. ॰कक्षां । ६ द. ख. ॰दशे । ७ द. हते ।

आयादिनिर्णयो नाम षड्विंशोऽध्यायः । १९१
सभुजं सहषड्दारु मुखमण्डपसंयुतम् ।
आयामतो पृथुत्वाच्च मानं कृत्वा विभाजयेत् ॥ ५७ ॥
सर्वतः शोधितं वास्तु यच्च सम्यङ्नमितं भवेत् ।
स्वामिनस्तद् भवेद् धन्यं स्थपतेश्च यशस्करम् ॥ ५८ ॥
अर्चितं वर्धते वास्तु नारीभिः पशुभिर्नरैः ।
कीर्त्यायुर्धनधान्यैश्च प्रमोदैस्तु महोत्सवैः ॥ ५९ ॥
मेरुश्च खण्डमेरुश्च पताका सूचिका तथा ।
उद्दिष्टं नष्टमिति षट् छन्दांसीह प्रचक्षते ॥ ६० ॥
एकाद्येकोत्तरान् कोष्ठान् विन्यसेदिच्छयात्मनः ।
आद्यादारभ्य तद्वृद्धिर्यथा स्यात् पार्श्वयोः समम् ॥ ६१ ॥
मेरोरेकाधिका सङ्ख्या शरावस्येव चाकृतिः ।
प्रथमे कोष्ठके रूपमन्तं यावच्च पार्श्वयोः ॥ ६२ ॥
आसनोर्ध्वस्थयोर्न्यस्येन्मध्ये सङ्कलितं पृथक् ।
तस्मिन्निष्टविकल्पानां सङ्ख्या स्यादन्त्यपङ्क्तिगा ॥ ६३ ॥
खण्डमेरुं तु विन्यस्येत् तद्वदेवैकपार्श्वतः ।
प्रवृद्धैः कोष्ठकैस्तत्राप्यङ्काः प्राग्वत् फलं तथा ॥ ६४ ॥
अथापरः खण्डमेरुः कोष्ठांस्तत्रेष्टसङ्ख्यया ।
कृत्वैकापचितान् वामविभागापचितानधः ॥ ६५ ॥
एकाद्येकोत्तरानङ्कानाद्यपङ्क्तौ निवेशयेत् ।
अन्यासु पङ्क्तिष्वाप्रान्तं शून्यान्या(ना)द्येषु कल्पयेत् ॥६६॥
द्वितीयेषु च कोष्ठेषु तासामेकैकमावयेत्(?) ।
द्वितीयायां तृतीयादिकोष्ठकेषु यथाक्रमम् ॥ ६७ ॥
विकर्णयोगजानन्यानूर्ध्वाधोयोगसंभवान् ।
फलं विकर्णयोगोत्थमेकँस्मिन् परिकल्पयेत् ॥ ६८ ॥
१ द. ख. र्यशसोत्स° । २ द. ˚न्न˚ । ३ द. ˚त्° ।

१९२ समराङ्गणसूत्रधारे
एकाधिकांनभीष्टायाः सङ्ख्यायास्तिर्यगालिखेत् ।
कोष्ठानेकांच(तांश्च) रूपादींस्तन्मध्ये द्विगुणोत्तरान् ॥ ६९ ॥
एकोनं पृष्ठतस्तेषामेकं द्विगुणमग्रतः ।
नातिक्रामेत् परां सङ्ख्यां पताकाछन्द उच्यते ॥ ७० ॥
तद्दिनेष्टाद्यगा सङ्ख्येत्येकाद्यैस्तैस्तनो गृहे ।
न्यस्ताङ्कसङ्ख्याः सङ्ख्याः स्युरलिन्दाद्यैः प्रकल्पिताः ॥ ७१ ॥
एकैकमिष्टस्थानेषु लिखेत् सैकैश्वतः परम् ।
अन्त्यादं(ह)ते पूर्वपूर्वयुक्तेनायोजयेत् परम् ॥ ७२ ॥
अन्त्यादारभ्य तद्बनावेकाद्येषु(?) च पर्ययात् ।
अलिन्दादिषु यत्र स्यात् सङ्ख्या सूचीं तु तां विदुः ॥ ७३ ॥
उद्दिष्टे स्थापयेत् सङ्ख्यामुद्दिष्टां सम्भवे(जे)च्च ताम् ।
दलयेद् रूपयुक्तां तु दलयेन्नाम सम्भवेत्(?) ॥ ७४ ॥
लघुस्वरूपदलने सैकार्थे करणे गुरुः ।
यावदिष्टपदाप्तिः स्याल्लघवोऽलिन्दकोदयः ॥ ७५ ॥
कृत्वा छन्दः समुद्दिष्टं तदन्ते लघुनि द्विकम् ।
न्यसेदेकं गुरूणां च द्विगुणं द्विगुणं ततः ॥ ७६ ॥
व्यत्यासाल्लघुनः स्थाने द्विगुणादेककं गुरोः ।
कुर्यात् तमाद्यस्थानाङ्कसङ्ख्यं नष्टे गृहं भवेत् ॥ ७७ ॥
प्राग्रस्यैकं कोष्ठमेकैकवृद्धया न्यस्येदूर्ध्वं पङ्क्तयो यावदिष्ट्टाः ।
इष्टानेकादील्लिखेदानुपूर्व्या कर्णेनाधः शून्यरूपे च दद्यात् ॥७८॥
कर्णस्थाङ्कश्लेषतोऽङ्के भवेद् यस्तं विन्यस्येत् कोष्ठकेषु क्रमेण ।
उद्दिष्टाङ्को भद्रसङ्ख्यानि मध्ये याभ्यः कर्णश्लेषतो मूषिकास्ताः ॥७९॥
एकादिषु द्विगुणितेष्विह यावदिष्टमूषाक्रमैव्युपहितेष्वथ तेषु विद्यात् ।
उद्दिष्टवेश्मकृतनिर्गममार्गंमूषासत्कङ्कसैकयुतिनिर्मितसङ्ख्यमोकः॥८०॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
आयव्ययनक्षत्रराशिपलतद्योगताराङ्कयोनितच्छन्दोगनिर्णयो नाम षड्विंशोऽध्यायः।
१ द. °को° । २ द. ख. °द्वानपूर्व पू° । ३ द. क्रमेत्युपहिं° । ४ द. 'स्तथासत्काकारो '
टिप्यणामिवाभाति ।

सभाष्टक नाम सप्तविंशोऽध्यायः । १९३
अथ सभाष्टकं नाम सप्तविंशोऽध्यायः ।
नन्दा भद्रा जया पूर्णा सभा स्याद् भाविता तथा ।
दक्षा च प्रवरा तद्वद् विदुरा चाष्टमी मता ॥ १ ॥
चतुरश्रीकृते क्षेत्रे ततः षोढा विभाजिते ।
मध्ये पदचतुष्कं स्यात् सीमालिन्दस्तु भागिकः ॥ २ ॥
तद्बाह्योऽलिन्दकस्तद्वद् भवेत् प्रतिसराभिधः ।
प्राग्ग्रीवाख्यस्तृतीयश्च बहिः क्षेत्राच्चतुर्दिशम् ॥ ३ ॥
निसृष्टसौर्ध(धे)यैर्वा(?) स्यादेकस्यां वा यदा दिशि ।
नन्दा भद्रा जया पूर्णा क्रमेण स्युः सभास्तदा ॥ ४ ॥
षड्भागभाजिते क्षेत्रे कर्णभित्तिं निवेशयेत् ।
सभा स्याद् भाविता नाम सप्राग्ग्रीवात्र पञ्चमी ॥ ५ ॥
स्तम्भान् षट्त्रिंशदेतासु पञ्चस्वपि निवेशयेत् ।
स्तम्भान् प्राग्ग्रीवसंबद्धान् पृथगेभ्यो विनिर्दिशेत् ॥ ६ ॥
दक्षेति षष्ठी परितस्तृतीयालिन्दवेष्टिता ।
प्रवरा सप्तमी द्वारैर्युक्तैषा परिकीर्तिता ॥ ७ ॥
प्राग्ग्रीवद्वारसंयुक्ता विदुरेत्यष्टमी सभा ।
सभानामिदमष्टानां लक्षणं समुदाहृतम् ॥ ८ ॥
इत्यष्टानां लक्ष्म सम्यक् सभाना-
मेतत् प्रोक्तं दिग्भवालिन्दभेदात् ।
तद्वद् द्वारालिन्दसंयोगतश्च
ज्ञातेऽत्र स्याद् भूभृतां स्थानयोगः ॥ ९ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
सभाष्टकं नाम सप्तविंशोऽध्यायः ॥
वा, २०

१६४ समराङ्गणसूत्रधारे
अथ गृहद्रव्यप्रमाणानि नामाष्टाविंशोऽध्यायः ।
उपादेयानि यान्यत्र परित्याज्यानि यानि च ।
गृहद्रव्यप्रमाणानि तानीदानीं प्रचक्ष्महे ॥ १ ॥
द्वारस्य गृहविस्तारैर्हस्ततुल्याङ्गु लैर्भवेत् ।
उच्छ्रायः सप्तभिर्युक्तैर्विस्तृतिस्तु तदर्धतः ॥ २ ॥
प्रकल्पयेद् गृहद्वारं क्रमेणैव कनीयसा(म्) ।
त्रैराशिकेन मध्यानां द्वादशांशं परित्यजेत् ॥ ३ ॥
इत्युच्छ्रितिस्तदर्धेन सर्वेषामपि विस्तरः ।
उच्छ्रायमुत्तमानां तु कुर्यादष्टांशवर्जितम् ॥ ४ ॥
विस्ताराङ्गुलसंयुक्तां(क्तं)कुर्यादनिकनियसाम् ।
चतुःषष्टिगृहद्वारमुदयेनार्थविस्तृतम् ॥ ५ ॥
विस्तारहस्ततुल्यानि षष्ट्या पञ्चशताथवा ।
संयुतान्यङ्गुलानि स्यादुच्छ्रायोऽर्धेन विस्तृतिः ॥ ६ ॥
गृहोत्सेधेन वा त्र्यंशहीनेन स्यात् समुच्छ्रितिः ।
तदर्धेन तु विस्तारो द्वारस्येत्यपरो विधिः ॥ ७ ॥
द्वारोच्छ्रायकरैस्तुल्येष्वङ्गुलेषु विनिक्षिपेत् ।
चत्वारि पेष्यापिण्डः स्यात् सपादं विदधीत तम् ॥ ८ ॥
सार्धं वा सत्रिभागं वा द्विगुणं चाधिकं न तु ।
एवं कृते भवेद् द्वारपेय्याया विस्तृतिः स्फुटा ॥ ९ ॥
सार्धेन पेष्यापिण्डेन २पिण्डं स्या(ण्डस्यो)दम्बरो भवेत् ।
सार्धस्तु पेष्याविस्तारः स्यादुदुम्बरविस्तृतिः ॥ १० ॥
पेष्यापिण्डेन तुल्या स्याच्छाखाया विस्तृतिः शुभा ।
सार्धया वैनया रूपशाखाया अपि विस्तृतिः ॥ ११ ॥
विस्तारार्धेन पेष्यायाः खल्वशाखा विधीयते ।
रूपशाखासमा वा स्यात् सार्धा वा बाह्यमण्डला ॥ १२ ॥
१ द. विस्तारतस्ततुल्यानि । २ द. पिण्डमोडुंबगे ।

गृहद्रव्यप्रमाणानि नामाष्टाविंशोऽध्यायः । १५५
पादोना त्र्यंशहीना वा विस्तारादर्धमेव वा ।
प्रासादेषु च तुल्यः स्याद् द्वारशाखाविनिर्गमः ॥ १३ ॥
आद्या शाखा भवेद् देवी द्वितीया नन्दिनीति च ।
तृतीया सुन्दरी नाम चतुर्थी स्यात् प्रियानना ॥ १४ ॥
भद्रेति पञ्चमी शाखा प्रशस्ताः पञ्च वेश्मनि ।
अतोऽधिकास्तु याः शाखा गृहद्वारे न ताः शुभाः ॥ १५ ॥
विस्तारात् षोडशो भागश्चतुर्हस्तसमन्वितः ।
तलोच्छ्रयः प्रशस्तोऽयं भवेद् विदितवेश्मनाम् ॥ १६ ॥
सप्तहस्तो भवेज्ज्येष्ठे मध्यमे षट्करोन्मितैः ।
पञ्चहस्तः कनिष्ठे तु विधानव्यस्तथोदयः ॥ १७ ॥
ज्येष्ठे भवेत् सप्तदशहस्ताच्छाला प्रविस्तृता ।
मध्यमे दशहस्तात् तु पञ्चहस्तात् कनीयसि ॥ १८ ॥
उदुम्बरार्धे बाहुल्यं तलन्यासं तु कारयेत् ।
तलन्याससमं पट्टमलिन्दस्य परिग्रहे ॥ १९ ॥
द्वारविस्तारपादेन स्तम्भकोटिर्विधीयते ।
साष्टांशेनाधिकेनाथ मन्त्रिभागे वा पुनः ॥ २० ॥
कुर्यादेकादशांशेन तथास्यैव प्रपालकम् ।
स्तम्भान् कुर्यादृतेऽष्टांशान्नव द्वादशथाथवा ॥ २१ ॥
भागैस्ततः स्वार्धसमैरर्धभागसमन्वितैः ।
अधस्तादष्टभागा स्यात् स्तम्भस्य प्रतिपालना ॥ २२ ॥
स्तम्भमूलस्य विस्तारादर्धेन स्थलनिर्गमः ।
तदर्धेन विधातव्यो मसूरकविनिर्गमः ॥ २३ ॥
उत्कालकसमुच्छ्रायः स्तम्भपिण्डसमः शुभः ।
कुम्भिकोत्कालवत् पिण्डे विस्तारेऽष्टांशसम्मिता ॥ २४ ॥

१ द. ख. तु । २ द. द्वार । ३ द. प्रमाणेयं तेषां कनिष्ठवेश्मना । ४ द. ॰न्मितः ।
५ द. ॰हस्तावमेयसि । ६ द. ख. उदुम्ब...बाहर्म्यं तलं । ७ क. उपरि क प्रतेः पाठः गृहीतः,
द. ख. प्रतिद्वये 'प्रमालिनी', शास्त्रिभिस्तु प्रणालीनीति संशोधितः । ८ द. ॰गम्य स्तम्भस्थान प्रति ।

१६६ समराङ्गणसूत्रधारे
प्रागुक्तस्तम्भभागेन सपादेन विधीयते ।
दीर्घत्वमाद्यपत्राणां¹ शेषाणां पादहानितः ॥ २५ ॥
पादः पादो भवेन्न्यूनः पात्राणां रसनोच्छ्रयात् ।
सार्धभागोच्छ्रिता कार्या रसना कण्टकोपमा ॥ २६ ॥
सार्धपादोच्छ्रिता यद्वा जङ्घा शेषं यथोदितम् ।
इत्थं स्यात् पद्मकस्तम्भो युक्त्या युक्तस्वरूपकैः ॥ २७ ॥
अष्टाश्रौ वा विधातव्यः स्तम्भसूत्रपरिक्रमात् ।
तद्विस्तारसमं त्यक्तोत्सेधं भागान् विभाजयेत् ॥ २८ ॥
अष्टाश्रच्छेदमानेन बाह्यसूत्रानुपल्लवान् ।
विदध्यान्मध्यभागे तु कोणांश्च(प)ल्लविकाकुलान् ॥ २९ ॥
घटिका पुष्पमालाभिः पल्लवैश्चोपशोभिता ।
छेदभागः समः कार्यों बहिर्भागँविवर्जितः ॥ ३० ॥
घटपल्लवको नाम स्तम्भोऽयं परिकीर्तितः ।
विहितो वेश्मनामेष स्वामिनः श्रेयसे भवेत् ॥ ३१ ॥
कुबेरो वा विधातव्यः षोडशाश्रक्रियान्वितः ।
ऊर्ध्वतः पल्लवाकीर्णो जङ्घास्य चतुरश्रिकाँ ॥ ३२ ॥
श्रीधरश्च भवेद् वृत्तंः कल्पनास्य कुबेरवत् ।
एवं गृहाणां चत्वारः स्तम्भा लक्ष्मभिरीरिताः ॥ ३३ ॥
स्तम्भमूलस्य विस्तृत्या तलपद(दृ)स्यै विस्तृतः ।
सपादया विधातव्या बाहुल्यं पादहीनया ॥ ३४ ॥
स्तम्भेन तुल्यं विस्तारे बाहल्ये पदसम्मितम् ।
हीरग्रहणमायामे स्तम्भाग्रात् त्रिगुणं भवेत् ॥ ३५ ॥
हीरग्रहणविस्तारं भागात् सप्त प्रकल्पयेत्( ? ) ।
तत् स्यात् सृष्टोत्तरं भागं भागेनेष्टं प्रवेशनम् ॥ ३६ ॥
१ द. °माययंत्राणां । २ द. ख. °न्यूनप° । ३ द. °र्भोग° । ४ द. चतुरंशिका ।
५ द. पट्टस्य । ६ द. ंत्यो पट्टसंम्मितं ।

गृहद्रव्यप्रमाणानि नामाष्टाविंशोऽध्यायः । १६७
तस्याधस्तात् त्रिकण्टेन त्रिभागं लम्बितेन च ।
लिखेदुभावर्धचन्द्रौ पार्श्वयोरुभयोरपि ॥ ३७ ॥
खल्वं कृत्वा ततो मध्यं भागद्वयमधोगतम् ।
कुर्यात् त्रिकण्टकं कान्तं तुम्बिकामथ लम्बिकाम् ॥ ३८ ॥
द्वयोर्मध्येऽपरं भूयो द्विभागस्थं च कण्टकम् ।
तुम्बिकां लम्बमानां वा पत्रजातिविभूषिताम् ॥ ३९ ॥
तस्याश्चापरतीरं स्यात् पद्मपत्र्या विभूषितम् ।
तलपट्टसमः पट्टो विस्तारात् पिण्डतोऽपि च ॥ ४० ॥
पट्टत्र्यंशेन तीरे स्यात् पट्टपिण्डार्धनिर्गमः ।
स्तम्भाग्रेण समा कार्या विस्तारस्थौल्यतस्तुला ॥ ४१ ॥
तदर्धेन जयन्तीनां कर्तव्ये पिण्डविस्तृती ।
ताभ्यो विधेयाः पादोनाः सन्धिपाला यदृच्छया ॥ ४२ ॥
निर्यूहेषु च ये पट्टाः पादोनांस्तांस्तु कारयेत् ।
तुलापट्टाश्च पादोनास्तदर्धेन जयन्तिकाः ॥ ४३ ॥
तुलार्धेन विधातव्या प्रतिमोकस्य विस्तृतिः ।
पट्टस्योपरि कण्ठः स्याद् भूषितो रूपकर्मणा ॥ ४४ ॥
वेदिकाजालरूपाद्यो निर्यूहः संप्रशस्यते ।
विधातव्या च सच्छत्रा निबद्धाङ्गणवापिका ॥ ४५ ॥
स्तम्भपट्टांश्च विस्तीर्णान् सपादांस्तत्र कल्पयेत् ।
तुलापिण्डाः समाः कार्याः सङ्ग्रहैः सुदृढैर्युताः ॥ ४६ ॥
वेदिकाजालसम्पन्नं तलं कार्यं मनोरमम् ।
भूमौ भूमौ भवेत् तच्च द्वादशांशविवर्जितम् ॥ ४७ ॥
प्रणाल्यः सर्वतः कार्या मूलँग्राह्याग्रनिर्गमाः ।
दण्डच्छाद्यं गृहेषु स्याज्ज्ञेयं तच्च चतुर्विधम् ॥ ४८ ॥
१ द. ॰का लंबना तं वा पत्रं । २ द. पट्टापिण्डार्धनिर्गमं । ३ द. ख. ग. ॰कालहू॰ । ४ द. ग.
॰णऋवां । ५ द. ख. ॰द्रांगु॰ । ६ द. तुल्यपिंडः । ७ ख. ग. ॰लाँ । ८ ग. ॰च्छाद्यग्र ।

१७८ समराङ्गणसूत्रधार
भूताख्यं तिलकं तद्वन्मण्डलं कुमुदं तथा ।
गृहच्छाद्येषु तेषु स्यादुच्छ्रायोऽपि चतुर्विधः ॥ ४९ ॥
क्षेत्रतुर्यांशतः कार्यो दैर्घ्येणच्छाद्यदण्डकः ।
तदर्धं मुष्टिकायामो दण्डत्र्यंशेन लम्बना ॥ ५० ॥
चतुरश्रं समं कान्तं मधुरं सुदृढं घनम् ।
वेश्मनां छाद्यकं कार्यं भूतं नाम्ना सुपूजितम् ॥ ५१ ॥
तस्यैवाष्टादशो भागो यदा स्यादुच्छ्रयेऽधिकः ।
उदयस्तिलको नाम शस्तः स गृहकर्मणि ॥ ५२ ॥
द्वाभ्यामुच्चतरैः पूर्वो मण्डलः कुमुदस्त्रिभिः ।
अभित्तिस्थे(स्थं) भवेच्छाद्ये(द्यं) चन्द्ररेखाविभूषितम् ॥ ५३ ॥
गुणरागान्विता भित्तिर्यद्वा घनचयात्मिका ।
तत्रच्छाद्यं भवेच्चान्यदवधारणसंज्ञितम् ॥ ५४ ॥
सिंहकर्णकपोतालीघण्टाकर्णार्धपक्षगाः ।
ध्वजच्छत्रकुमारांश्च गृहेषु परिवर्जयेत् ॥ ५५ ॥
न पक्षराजिध्वजसिंहकर्णकुमारघण्टाः समरालपल्लीः ।
न प्रस्खलाँधानि नैचैव पत्राण्यायोजयेद् वेश्मसु मङ्गलार्थी ॥५६॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
गृहद्रव्यप्रमाणानि नामाष्टाविंशोऽध्यायः ।१०
अथ शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः ।
इदानीमभिधास्यामः शयनासनलक्षणम् ।
शुभाशुभपरिज्ञानं येन सम्यक् प्रजायते ॥ १ ॥
१ ख. ग. दण्डं । २ ख. ग. ॰स्ममुच्छाँ, द. ॰इमामुँ । ३ द. ख. ग. ॰चरतः° ।
४ ख. ग. ॰न्द्रे° । ५ द. ख. ग. अ° । ६ द. ॰कर्महयंशार्ली° । ७ द. ख. ग. राधानि ।
८ द. ख. ग. नरेव । ९ द. ॰र्थम् । १० द. ॰प्रमाणाध्यायो नामाष्टाविंशः ॥ छ ॥ ।

शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः । १९९
मैत्रे १ मुहूर्त्ते पुष्यस्थे शीतरश्मौ शुभेऽहनि ।
सम्पूज्य देवताः सम्यक् कर्माम्भं समाचरेत् ॥ २ ॥
वृक्षास्तत्र प्रशस्यन्ते चन्दनस्तिनिशोऽर्जुनः ।
तिन्दुकः सालशाकौ च शिरीषासनधन्वनाः ॥ ३ ॥
हरिद्रुदेवदारुश्च स्यन्दनोकौ सपद्मकौ ।
श्रीपर्णी दधिपर्णश्च शिंशपान्येऽपि ये शुभाः ॥ ४ ॥
गृहकर्मणि ये नेष्टा वृक्षास्तेऽत्रापि निन्दिताः ।
हेम्ना रूप्येण चानद्धा गजदन्तेन वा शुभा ॥ ५ ॥
आरकूटेन वा नद्धा शय्या कार्या विचक्षणैः ।
पूर्वच्छिन्नं यदा दारु शयनासनहेतवे ॥ ६ ॥
आदीयते तदारम्भे निमित्तान्युपलक्षयेत् ।
दध्यक्षतान् पूर्णकुम्भं रत्नानि कुसुमानि वा ॥ ७ ॥
सुगन्धद्रव्यवस्त्राद्यान् मत्स्याश्वयुगलं तथाँ ।
मत्तवारणमन्यांश्च शुभान् वीक्ष्यादिशेच्छुभम् ॥ ८ ॥
कर्माङ्गुलं समुद्दिष्टं वितुषैरष्टभिर्यवैः ।
अष्टोत्तरशतं नेषां शय्या ज्येष्ठा महीभुजाम् ॥ ९ ॥
मर्ध्या महीभुजां शय्या शतं स्याच्चतुरोत्तरम् ।
शतं कनीयसी प्रोक्ता नृपाणां विजयावहा ॥ १० ॥
नवतितृपपुत्रस्य मन्त्रिणः सा षडुज्झिता ।
द्वादशोना बलपतेस्त्रिषट्कोना पुरोधसः ॥ ११ ॥
आयामार्धेन विस्तारं सर्वं शय्यासु कल्पयेत् ।
यद्वा निजाष्टभागेन षड्भागेनाथवाधिकम् ॥ १२ ॥
विप्राणां शस्यते शय्या दैर्घ्येणाङ्गुलसप्ततिः ।
द्वाभ्यां द्वाभ्यामङ्गुलाभ्यां हीना स्याच्छेषवर्णिनाम् ॥ १३ ॥


१ द. ॰त्र्ये । २ द. ॰रश्मौ स्थितेऽहनि । ३ क. शां । द. सालसाकौव । ४ क. ग. द.
ख. ॰भाः । सर्वदन्तमयी शय्या हेमरत्नान्विता शुभा । गृ॰ । ५ द. प्रतौ इयं पंक्तिर्नास्ति । ६ ग. द.
ख, ॰ध्यमा नृपतेः शं॰ । ७ द. म्व. ॰ष्ठि॰ ।