समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 223, कुल 726 में से
संदर्भ में पढ़ें१७८ समराङ्गणसूत्रधार
भूताख्यं तिलकं तद्वन्मण्डलं कुमुदं तथा ।
गृहच्छाद्येषु तेषु स्यादुच्छ्रायोऽपि चतुर्विधः ॥ ४९ ॥
क्षेत्रतुर्यांशतः कार्यो दैर्घ्येणच्छाद्यदण्डकः ।
तदर्धं मुष्टिकायामो दण्डत्र्यंशेन लम्बना ॥ ५० ॥
चतुरश्रं समं कान्तं मधुरं सुदृढं घनम् ।
वेश्मनां छाद्यकं कार्यं भूतं नाम्ना सुपूजितम् ॥ ५१ ॥
तस्यैवाष्टादशो भागो यदा स्यादुच्छ्रयेऽधिकः ।
उदयस्तिलको नाम शस्तः स गृहकर्मणि ॥ ५२ ॥
द्वाभ्यामुच्चतरैः पूर्वो मण्डलः कुमुदस्त्रिभिः ।
अभित्तिस्थे(स्थं) भवेच्छाद्ये(द्यं) चन्द्ररेखाविभूषितम् ॥ ५३ ॥
गुणरागान्विता भित्तिर्यद्वा घनचयात्मिका ।
तत्रच्छाद्यं भवेच्चान्यदवधारणसंज्ञितम् ॥ ५४ ॥
सिंहकर्णकपोतालीघण्टाकर्णार्धपक्षगाः ।
ध्वजच्छत्रकुमारांश्च गृहेषु परिवर्जयेत् ॥ ५५ ॥
न पक्षराजिध्वजसिंहकर्णकुमारघण्टाः समरालपल्लीः ।
न प्रस्खलाँधानि नैचैव पत्राण्यायोजयेद् वेश्मसु मङ्गलार्थी ॥५६॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
गृहद्रव्यप्रमाणानि नामाष्टाविंशोऽध्यायः ।१०
अथ शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः ।
इदानीमभिधास्यामः शयनासनलक्षणम् ।
शुभाशुभपरिज्ञानं येन सम्यक् प्रजायते ॥ १ ॥
१ ख. ग. दण्डं । २ ख. ग. ॰स्ममुच्छाँ, द. ॰इमामुँ । ३ द. ख. ग. ॰चरतः° ।
४ ख. ग. ॰न्द्रे° । ५ द. ख. ग. अ° । ६ द. ॰कर्महयंशार्ली° । ७ द. ख. ग. राधानि ।
८ द. ख. ग. नरेव । ९ द. ॰र्थम् । १० द. ॰प्रमाणाध्यायो नामाष्टाविंशः ॥ छ ॥ ।