सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 213, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 213

१४८ समराङ्गणसूत्रधारे
पूर्वाचार्यैः समुद्दिष्टा आयवृद्धिविधायकाः ।
वृषसिंहगजाः शस्ताः प्रासादपुरवेश्मसु ॥ २० ॥
ध्वजेऽर्थलाभः सन्तापो धूमे भोगो मृगाधिपे ।
कलिः शुनि धनं धान्यं वृषे स्त्रीदूषणं खरे ॥ २१ ॥
गजे भद्राणि दृश्यन्ते ध्वाङ्क्षे तु मरणं ध्रुवम् ।
वृषस्थाने गजं कुर्यात् सिंहं वृषभहस्तिनोः ॥ २२ ॥
न कुर्याद् वृषमन्यत्र शस्यते सर्वतो ध्वजः ।
कल्याणं कुरुते सिंहो ब्राह्मणस्य विशेषतः ॥ २३ ॥
क्षत्रियस्य गजः शस्तो वृषभः शस्यते विशः ।
शूद्रस्य ध्वज एवैकः शस्यतेऽर्थप्रदः सदा ॥ २४ ॥
एवमेते गृहादीनामायाः सर्वे प्रकीर्तिताः ।
प्रदद्यादासने सिंहमातपत्रेषु तु ध्वजम् ॥ २५ ॥
चिह्नेष्वपि च सर्वेषु चामरव्यजनादिषु ।
सिंहं गजं वा शस्त्रेषु रथेषु कवचेषु च ॥ २६ ॥
सार्यश्वगजपर्याणेष्विभं वृषभमेव च ।
अर्थधारणपात्रेषु शयनेषु मतङ्गजम् ॥ २७ ॥
याने च वाहने चैव मतिमान् योजयेद् गजम् ।
प्रासादप्रतिमालिङ्गपीठमण्डपवेदिषु ॥ २८ ॥
कुण्डेषु च ध्वजं दद्याद् देवोपकरणेषु च ।
आयो गृहवदुद्वाहवेदीमण्डपयोर्भवेत् ॥ २९ ॥
महानसे वृषं दद्याज्जलाधारे जलाशये ।
स्थाल्यां भोजनपात्रे च कोष्ठागारेऽन्नधारणे ॥ ३० ॥
एतद्गृहे तथा दद्याद् गृहोपकरणेषु च ।
वृषभं गजशालायां प्रदद्याद् गजमेव वा ॥ ३१ ॥
वृषं तुरगशालासु गोशालागोकुलेषु च ।
गजाश्ववृषशालासु सिंहं यत्नेन वर्जयेत् ॥ ३२ ॥