समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 219, कुल 726 में से
संदर्भ में पढ़ें१६४ समराङ्गणसूत्रधारे
अथ गृहद्रव्यप्रमाणानि नामाष्टाविंशोऽध्यायः ।
उपादेयानि यान्यत्र परित्याज्यानि यानि च ।
गृहद्रव्यप्रमाणानि तानीदानीं प्रचक्ष्महे ॥ १ ॥
द्वारस्य गृहविस्तारैर्हस्ततुल्याङ्गु लैर्भवेत् ।
उच्छ्रायः सप्तभिर्युक्तैर्विस्तृतिस्तु तदर्धतः ॥ २ ॥
प्रकल्पयेद् गृहद्वारं क्रमेणैव कनीयसा(म्) ।
त्रैराशिकेन मध्यानां द्वादशांशं परित्यजेत् ॥ ३ ॥
इत्युच्छ्रितिस्तदर्धेन सर्वेषामपि विस्तरः ।
उच्छ्रायमुत्तमानां तु कुर्यादष्टांशवर्जितम् ॥ ४ ॥
विस्ताराङ्गुलसंयुक्तां(क्तं)कुर्यादनिकनियसाम् ।
चतुःषष्टिगृहद्वारमुदयेनार्थविस्तृतम् ॥ ५ ॥
विस्तारहस्ततुल्यानि षष्ट्या पञ्चशताथवा ।
संयुतान्यङ्गुलानि स्यादुच्छ्रायोऽर्धेन विस्तृतिः ॥ ६ ॥
गृहोत्सेधेन वा त्र्यंशहीनेन स्यात् समुच्छ्रितिः ।
तदर्धेन तु विस्तारो द्वारस्येत्यपरो विधिः ॥ ७ ॥
द्वारोच्छ्रायकरैस्तुल्येष्वङ्गुलेषु विनिक्षिपेत् ।
चत्वारि पेष्यापिण्डः स्यात् सपादं विदधीत तम् ॥ ८ ॥
सार्धं वा सत्रिभागं वा द्विगुणं चाधिकं न तु ।
एवं कृते भवेद् द्वारपेय्याया विस्तृतिः स्फुटा ॥ ९ ॥
सार्धेन पेष्यापिण्डेन २पिण्डं स्या(ण्डस्यो)दम्बरो भवेत् ।
सार्धस्तु पेष्याविस्तारः स्यादुदुम्बरविस्तृतिः ॥ १० ॥
पेष्यापिण्डेन तुल्या स्याच्छाखाया विस्तृतिः शुभा ।
सार्धया वैनया रूपशाखाया अपि विस्तृतिः ॥ ११ ॥
विस्तारार्धेन पेष्यायाः खल्वशाखा विधीयते ।
रूपशाखासमा वा स्यात् सार्धा वा बाह्यमण्डला ॥ १२ ॥
१ द. विस्तारतस्ततुल्यानि । २ द. पिण्डमोडुंबगे ।