सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 208, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 208

समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १४३
अष्टादशसहस्राणि तथा पञ्चशतानि च ।
चतुःषष्टिं च गेहानि मूषाभिः षड्भिरादिशेत् ॥ १२५ ॥
एकत्रिंशत्सहस्राणि सहितान्यष्टभिः शतैः ।
चतुर्विंशतियुक्तानि मूषाभिः सप्तभिर्विदुः ॥ १२६ ॥
चत्वारिंशत्सहस्राणि त्रिसहस्री च वेश्मनाम् ।
शतानि चाष्टपञ्चाशत् सप्त मूषाभिरष्टभिः ॥ १२७ ॥
चत्वारिंशत्सहस्राणि सहस्राण्यष्ट षट्शती ।
विंशतिं चैव मूषाभिर्गृहाणां नवभिर्विदुः ॥ १२८ ॥
चत्वारिंशत्सहस्राणि सहस्रत्रयमोकसाम् ।
मूषाभिर्दशभिः साष्टपञ्चाशच्छतसप्तकम् ॥ १२९ ॥
एकत्रिंशत्सहस्राणि चतुर्विंशच्छताष्टकम् ।
मूषाभिरेकादशभिर्गृहाणां मुनयो जगुः ॥ १३० ॥
अष्टादशसहस्राणि तथा पञ्चशतानि च ।
धाम्नां द्वादशमूषाणां चतुःषष्टिश्च जायते ॥ १३१ ॥
भवन्त्यष्टौ सहस्राणि तथा पञ्चशतानि च ।
स्यात् त्रयोदशमूषाणामष्टषष्टिश्च वेश्मनाम् ॥ १३२ ॥
स्याच्चतुर्दशमूषाणां त्रिसहस्री सषष्टिका ।
मूषाभिः पञ्चदशभिः षोडशाष्टशती तथा ॥ १३३ ॥
धाम्नां षोडशमूषाणां त्रिपञ्चाशच्छतं भवेत् ।
स्युः सप्तदशमूषाणि वेश्मान्यष्टादश स्फुटम् ॥ १३४ ॥
मूषाभिरष्टादशभिर्वेश्मैकं तद्विदो विदुः ।
लक्षद्वयं सहस्राणि द्वाषष्टिश्च शतान्विता ॥ १३५ ॥
वेश्मनां नवशालानां चत्वारिंशच्चतुर्युता ।
स्यात् समानचतुःशालद्वययोगात् समासतः ॥ १३६ ॥
१ द. नवति˚। २ द. ˚र्णा।