सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

७० समराङ्गणसूत्रधारे
कूजयतीव वायुश्च स्मृतः १सोऽथ शुभप्रदः ।
खरोष्ट्रयोः शृगालानां दर्शनं भुजगस्य वा ॥ ३७ ॥
छेदे स्यात् कर्मविघ्नाय निगडैर्बन्धनाय वा ।
हलचक्रपताकाब्जध्वजच्छत्रादिदर्शनम् ॥ ३८ ॥
श्रीवृक्षवर्धमानादिदर्शनं वा शुभप्रदम् ।
उत्क्षिप्यते यदि छेदात् तदर्द्धिः स्यात् कुटुम्बिनः ॥ ३९ ॥
सर्वतः परिहानिः स्याच्छिन्नश्चाक्षिप्यते यदि ।
एकवृक्षे यथोद्दिष्टलक्षणोत्क्षेपदर्शने ॥ ४० ॥
शेषान् दोषविनिर्मुक्तान् पादपानुपलक्षयेत् ।
धीरस्तं कल्पयेत् सम्यगनुलोमार्जवं तरुम् ॥ ४१ ॥
छिन्द्याच्च२ शुभभागार्ध३दशभागाधिकं कृतम् ।
४तुङ्गीसाचवमध्यश्च(?) सगर्भो धरणीरुहः ॥ ४२ ॥
ज्ञेयानि मण्डलान्यस्य त(त्क्षणोच्छे ? क्षणे छे)दनेऽपि च ।
मञ्जिष्ठाभे विदुर्भेकं कपिलाभे च मूषकम् ॥ ४३ ॥
पीतभासि तथा गोधां सर्पं दीर्घसितायते ।
गुडच्छाये मधु भवेत् कृकलासस्तथारुणे ॥ ४४ ॥
गृहगोधा कपोताभे गौधेरो घृतमण्डभे ।
रसाञ्जनाभे शक्राभे कमलोत्पलभासि च ॥ ४५ ॥
धौतासियष्टिवर्णे च मण्डले जलमादिशेत् ।
आकारो यस्य सर्पस्य वर्णो वा संप्रदृश्यते ॥ ४६ ॥
तं सर्पगर्भितं वृक्षमादिशेदविचारयन् ।
तस्करेभ्यो भयं क्षौद्रे सलिले सलिलाद् भयम् ॥ ४७ ॥
विद्यात् सर्पे विषाद् भीतिं पाषाणे भयमग्नितः ।
अजाविगोमहिष्युष्ट्ररासभादिनिपीडितम् ॥ ४८ ॥
गोधागौधेरमण्डूककृकलासैश्च गर्भिते ।
मूषके पुनरिच्छन्ति मरणं वास्तुवेदिनः ॥ ४९ ॥
१ द. सोऽप्यशुभप्रदः । २ क. छिन्द्यातु । ३ शा. गार्थे । ४ द. तुंगीत्याद्यधमध्यस्कं ( ? ) ।

अमुनैव वदन्त्यन्ये गृहपीडां मनीषिणः ।
क्षेमेण यद्यविघ्नः स्यादासङ्गश्चागमो यदि ॥ ५० ॥
वनान्तरे तदा क्षेमं सुभिक्षं च समादिशेत्
अर्घदानविधिना विधानविद् द्रव्यमागतमिहार्चयेद् गृही ।
प्रत्युपेते^१कुलिशायुधध्वजं द्रव्यमुज्ज्वलमुतावनीपतिः ॥ ५१ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
वनप्रवेशो नाम षोडशोऽध्यायः ।

अथ इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः ।

सुराणामर्थसिद्ध्यर्थं वधाय च सुरद्रुहाम् ।
यथा शक्रध्वजोत्थानं प्राह ब्रह्मा तथोच्यते ॥ १ ॥
भगवन्तमथाम्भोजसंभवं वचसांपतिः ।
प्रोवाच कथमिन्द्रेण जेतव्यास्त्रिदशद्विषः ॥ २ ॥
सोऽब्रवीत् सर्वरत्नानां ध्वजं कुरुत सङ्गताः ।
तं चाभिचारिकैर्मन्त्रैरुद्द्वहन्तोऽभिमन्त्रितम् ॥ ३ ॥
स्थितं चोपरि यन्त्रस्य सम्यक् पक्षिशतान्वितम् ।
अग्रतो देवसैन्यस्य नयन्तो जेष्यथ द्विषः ॥ ४ ॥
सहस्रधारमप्येकमन्यं रिपुकुलान्तकम् ।
दिव्यरूपमयं प्रादाद् ध्वजमिन्द्राय दुर्धरम् ॥ ५ ॥
वीर्यप्रवर्धनी चेष्टिरेतदर्थं विधीयते ।
कर्मणानेन निःशेषाञ् शक्रः शत्रूञ् जयेदिति ॥ ६ ॥
जहृषी तमथ क्षिप्रमसृजच्चेतसा ध्वजम् ।
यन्त्रस्थितं स येनाजावमोहयदरीन् हरिः ॥ ७ ॥
आदित्या वसवो रुद्रा विश्वेदेवास्तथाश्विनौ ।
अलञ्चक्रुस्तमालोक्य मरुतश्च विभूषणैः ॥ ८ ॥


१ द. ख. प्रत्युपेत्य ।

७२ समराङ्गणसूत्रधारे
तेजो वीर्यं वपुश्चेष्टां बलमप्येष पश्यताम् ।
अहरच्छत्रुसैन्यानां तेजस्वी तरसा ध्वजः ॥ ९ ॥
तमभ्यर्च्य सुराधीशः शत्रून् बलवतोऽप्यसौ ।
त्रिरात्रेणाजयद् युद्धे कुलिशेन बलाद् बली ॥ १० ॥
ततः प्रीतस्तमृक्षेऽसौ वैष्णवे द्वादशे तिथौ ।
त्रैलोक्यराज्यं प्राप्याभ्यषिञ्चद् बलनिषूदनः ॥ ११ ॥
स सर्वलोकमभ्यर्च्य सर्वलोकाभिपूजितः ।
ध्वजमभ्यर्च्य तुष्टाव वाक्यैर्वृत्रनिषूदनः ॥ १२ ॥
ततस्तमन्तिके वीक्ष्य ध्वजं प्रोवाच वासवः ।
इन्द्रध्वजाक्षया लोकाः करिष्यन्ति तवार्चनम् ॥ १३ ॥
वीक्षमाणा निमित्तानि भूमिपालाश्च शास्त्रतः ।
ततः प्रभृत्यसौ लोके सर्वलक्षणसंभृतः ॥ १४ ॥
वरप्रदानादिन्द्रस्य नृपैः शक्रध्वजोऽर्च्यते ।
दुर्गमायतनं वह्निशरणं वेदिकाः कृताः ॥ १५ ॥
विचित्राः स्थालिकापाका भक्ष्यपानानि यानि च ।
एतान्यायतनार्तं प्राक् स्युर्यद्द्रव्यानि प्रकल्पयेत् ॥ १६ ॥
विजेतुं यदि वाञ्छन्ति दुर्धर्षान् द्वेषिणो रणे ।
तेजो बलं यशश्चाप्तुं तदैन्द्रं कारयेद् ध्वजम् ॥ १७ ॥
सेनायां वा पुरे वापि प्रतिष्ठाप्य पुरन्दरम् ।
विजयार्थं महीपालैरभिप्रशमनाय च ॥ १८ ॥
यथा शक्रध्वजोत्थानविधानं जगतीभुजः ।
करिष्यन्ति तथा सम्यक् कार्त्स्न्येन प्रतिपाद्यते ॥ १९ ॥
वनादुपाहृतं द्रव्यमथ प्राग्विधिना सुधीः ।
पाद्यार्घ्यादिभिरभ्यर्च्य गन्धैर्माल्यैरलङ्कृतम् ॥ २० ॥
द्विजान् संपूज्य च शुचौ देशे सम्यक्समाहितः ।
पूर्वाग्रमुत्तराग्रं वा प्रयत्नादवतारयेत् ॥ २१ ॥


१ द. ख. इन्द्रध्वजाख्यया । २ शा. काक्षताः । ३ द. न्यायतनानि स्युर्यं । ४ शा. ॰रेमिः ।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ७३
प्रागुदग् वा पुरस्याथ स्थपतिः कर्मवानपि ।
कारयेत् सर्वयन्त्राणि ध्वजपूर्वाणि शिल्पिभिः ॥ २२ ॥
श्रेष्ठं द्वात्रिंशता हस्तैर्विंशत्या युतंयाष्टभिः ।
मानं स्यान्मध्यमं तस्य चतुरन्वितयाधमम् ॥ २३ ॥
मूलविस्तृतिरायामादङ्गुलाधं करे करे ।
विष्कम्भोऽग्रे च मूलाधोत् तत्तूर्याशाद् वाखिलेष्वपि ॥ २४ ॥
ध्वजमूलाष्टमांशोनं विस्तारात् कुष्यमिष्यते ।
२विस्तारार्धेन च स्थूलं स्थूलत्वत्रिगुणायतम् ॥ २५ ॥
ध्वजविस्तारबहलं साङ्घ्रिबाहल्यविस्तृतम् ।
भ्रमपीठं विधातव्यं सार्धायामं शुभावहम् ॥ २६ ॥
सम्मितो ३ध्वजकुष्येण वेधः स्याद् भ्रमपीठगः ।
कुष्यकोष्ठ्यधिकां४वृत्तावक्षौ कोटिद्वयायतौ ॥ २७ ॥
कार्यावङ्घ्री भ्रमस्थूलौ भ्रमविस्तृतिविस्तृतौ ।
तद्युक्तिवेधे तावेत(वि ? द्वि) स्तुतेर्द्विगुणोच्छ्रितौ ॥ २८ ॥
ध्वजायतितुर्भागात् पीठमत्र प्रकल्पयेत् ।
मल्लप्रतिष्ठितं मध्ये प्रान्तयोः स्तम्भधारितम् ॥ २९ ॥
तत्पीठस्तम्भनीयाभ्यां द्वाराभ्यामन्वितं दृढम् ।
याम्योत्तरप्रतिक्षोभं प्राङ्मुखं सुदृढार्गलम् ॥ ३० ॥
केतुव्यासार्धविस्तारं तद्दैर्ध्याष्टांशकोच्छ्रितम् ।
विस्तारसदृशायामं मध्ये स्याद् वज्रिणो गृहम् ॥ ३१ ॥
मल्लश्च पीठिकाङ्घ्री च बाहू स्तम्भविनिर्गतौ ।
शक्रमाता कुमार्यश्च ध्वजविस्तृतिविस्तृताः ॥ ३२ ॥
निम्नभागाश्च सर्वेषां स्वविस्तृतिचतुर्गुणाः ।
कार्या वा पञ्चगुणिताः सैप्त (का ? वा) मूलदेश(कं ? तः) ॥३३॥
१ द. विस्तरात् । २ द. विस्तारार्धेन । ३ द. ध्वजकुप्येण वधः । ४ शा. द.
°त्रिको वृत्ता कक्षौ । ५ द. स्रत्वक्तामूलदेशकः ।
वा, १०

७४ समराङ्गणसूत्रधारे।
कन्यानामुदयः प्रोक्तो यः ष(ष्ठ्यो ?)¹ष्ठांशस्त्रिसंगुणः।
इन्द्रमाता तु सर्वाभ्यः स्यात् तदष्टांशतोऽधिका ॥ ३४ ॥
वेधः खविस्तरैः सप्तभागे स्यात् कन्यकोदयात् ।
निर्वेधश्चतुरश्रः स्याल्लकटस्य समाहितः ॥ ३५ ॥
निर्वेधावरय चोर्ध्वाधः सप्तांशान्तरवर्तिनौ ।
कार्यौ सूचीव्यधावन्यौ सूचीमानप्रमाणतः ॥ ३६ ॥
कन्याव्यासत्रिभागेन सूची विस्तारतो भवेत् ।
पादोनबहुला चारुदारुजा दृढसंहिता ॥ ३७ ॥
कुमारीव्याससंयुक्तो² द्विगुणा लकटायतिः ।
एतद्वाह्यान्तरं ज्ञात्वा यन्त्रं संयोजयेत् ततः ॥ ३८ ॥
तयोरधस्तदर्धेन मृगाल्यौ सूचिविस्तृतौ ।
क्षेत्रस्य लेखितं कार्यं सम्बन्धै³ सूचिकन्ययोः ॥ ३९ ॥
साङ्घ्रिकेतनमूलार्धं लकटे विस्तृतायती ।
अक्षाभ्यां योजयेत् सम्यग् दृढं बाह्रक्षवेधयोः ॥ ४० ॥
पञ्चानामपि तुल्यैव कन्यानां स्यात् प्रकल्पना ।
कृत्वानुपूर्व्या यन्त्राणि स्थापयेदखिलान्यपि ॥ ४१ ॥
आश्विने मासि पक्षे च धवले प्रतिपत्तिथौ ।
स्थिरोदयैर्ग्रहैः सौम्यैर्वीक्षि⁴ते त्वाष्ट्रभेऽपि च ॥ ४२ ॥
पौरजानपदैः सर्ववादित्रध्वनितेन च ।
यन्त्राण्युत्क्षिप्य यष्टिं च कर्मस्थानान्नयेज्जलम् ॥ ४३ ॥
चित्रप्रतिसराकीर्णां यष्टिं तत्राज्यलेपिताम् ।
चूर्णैः सर्वौषधीमिश्र स्थपतिः स्नापयेत् स्वयम् ॥ ४४ ॥
जलाशयात् समुत्तार्य नृणां कलकलस्वनैः ।
प्रागग्रां स्थापयेद् दारुहस्तिन्योः प्राक्समुन्नताम् ॥ ४५ ॥


१ द. ˚प्रोक्तो यष्टाष्टांशस्˚ २ द. ˚संयुक्तां द्विगुणां लक्रटायतिम् । ३ द. सम्बन्धि-
सूचिकानयोः । ४ द. ख. ˚क्षि˚ ।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ७५
अहतेप्सितवासोभिराच्छाद्याचार्य स्रगादिभिः ।
१विक्षिप्य च बलिं दिक्षु द्विजातीन् स्वस्ति वाचयेत् ॥ ४६ ॥
त्रिसन्ध्यं पूजितां तत्र सर्वप्रकृतिभिस्ततः ।
पञ्चाहं वासयेद् यष्टिं गुप्तां चापधरैर्नरैः ॥ ४७॥
तस्मिन्नेवाह्नि यन्त्राणि सर्वाण्यपि च यष्टिवत् ।
स्नातान्याच्छादितानीन्द्रस्थानदेशं प्रवेशयेत् ॥ ४८ ॥
सूत्रितेऽथ ध्वजस्थाने यष्टेरष्टांशदैर्घ्यतः ।
तदर्धविस्तृते दिक्स्थे समे प्रागायते शुभे ॥ ४९ ॥
विभक्तेऽत्र विभागानामेकाशीत्या ततः क्रमात् ।
विन्यस्तास्वथ सर्वासु देवतासु यथातथम् ॥ ५० ॥
प्राचि मध्ये मैत्रपदे तन्मध्यान्मरुतो दिशि ।
मल्लं निम्नप्रमाणेन् पादकोणे निवेशयेत् ॥ ५१ ॥
भृङ्गुमुख्यपदद्वन्द्वंमध्ययोर्वायुकोणयोः ।
न्यस्येत् स्तम्भौ तयोः पीठीं मल्ले च विनिवेशयेत् ॥ ५२ ॥
पीठिका निर्गता बाहुयुग्मात् तत्रा३ग्रयोगतः ।
स्तम्भिन्यौ रोपयेद् ब्राह्मं पृथक्पदयुगं श्रिते ॥ ५३ ॥
प्रतिक्षोभाविह द्वौ द्वौ बाहुद्वितयमाश्रितौ ।
बाह्यतः प्रान्तपदयोर्मैत्रयोर्विनिवेशयेत् ॥ ५४ ॥
प्राच्यां मल्लाग्रतो ज्ञात्वा शक्रस्योर्ध्वगतिं क्रमात् ।
योजयेद् भ्रमणोपेतौ भ्रमपादावभङ्गुरौ ॥ ५५ ॥
मल्लात् पश्चिमदिग्भागे वरुणस्याश्रितां पदम् ।
भद्रां निवेशयेन्निम्नमानतः शक्रमातरम् ॥ ५६ ॥
स्युः पर्जन्यान्तरिक्षद्वा५र्यें (क्ष्मा ? क्ष्म) णां पदमाश्रिताः ।
क्रमान्नन्दोपनन्दारूयजय्याख्यविजयाभिधाः ॥ ५७ ॥
१ द. निक्षिप्य । २ द. ख. भृंगमुख्यापदं द्वन्द्वं मध्याभ्यां वायु । ३ शा. तत्त्वाग्र ।
४ द. गतिः क्रमात् । शा. गतिक्रमः । ५ द. वार्यक्षमाणां ।

७६ समराङ्गणसूत्रधारे
विन्यस्तास्वथ सर्वासु कुमारीषु विभागशः ।
त्रयस्त्रयः प्रतिक्षोभा योज्या दाढ्र्याय बाह्यतः ॥ ५८ ॥
निक्षिपन्नखिलं द्रव्यं भावयेत् पददेवताः ।
प्राप्नोति तत्तदाख्यां तद् द्रव्यं पूजां च तद्गताम् ॥ ५९ ॥
पीठपृष्ठसमं कन्यापार्श्वयोरुभयोरपि ।
कुर्यादनुसरद्वन्द्वं कीलकैर्बद्धमायसैः ॥ ६० ॥
संश्रित्याँनुसरद्वन्द्वं पीठौं चोपरि सङ्ग्रहात् ।
बध्नीयात् कीलकैर्लोहैर्यन्त्रनिश्चलताकृते ॥ ६१ ॥
यन्त्रकर्मणि निर्वृत्त इति शास्त्रविधानतः ।
प्रवेशयीत स्वस्थाने त्रिदशाधिपमैन्द्रभे ॥ ६२ ॥
स्नातस्य विधिवद् वस्त्रच्छन्नस्यालेपितस्य च ।
श्रीखण्डाद्यैः सुरभिभिः कुसुमैरर्चितस्य च ॥ ६३ ॥
रौहिणादिमुहूर्तेषु त्रिषु मैत्रेऽथ वज्रिणः ।
प्रवेशमभिनन्दन्ति करणेष्वर्चितेषु च ॥ ६४ ॥
स्थपतिर्वा पुरोधा वा शुचिः स्नातः समाहितः ।
गन्धमाल्यार्चिनान् विप्रॉस्तर्पयेद् दक्षिणादिभिः ॥ ६५ ॥
ततो मङ्गलघोषेण वादित्रनिनदेन च ।
पुण्याहजयशब्दैस्तमुत्क्षिपेयुः समाहिताः ॥ ६६ ॥
अलङ्कारभृतः पौराः प्रहृष्टमनसोऽखिलाः ।
नीरुजो बलिनः शक्ताः प्रकृत्यभिमताश्च ये ॥ ६७ ॥
स्तुवीरन् पुण्यमनसः स्तुतिभिः सूतमागधाः ।
वन्देरन् वन्दिनश्चैनं सेवेरन् गणिका अपि ॥ ६८ ॥
प्रविशन्तं निजं स्थानमनुगच्छेद्वराधिपः ।
सुराधिपं बलामात्यपौरजानपदान्वितः ॥ ६९ ॥
१ शा. द. विभागतः । २ क. नादयेत् । ३ द. ख. ॰ख्यानां द्रव्यं । ४ क. संश्रितानु॰ ।
५ द. ख. पीठं ।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ७७
प्रोद्यत्कलकलारावसुखराः पुरुषा यदि ।
उत्क्षिपेयुः प्रहृष्टा वा वहेयुर्वा सुराधिपम् ॥ ७० ॥
तदा भवति भूपालो जयी नन्दन्ति च प्रजाः ।
राष्ट्रे सुखं पुरे हर्षो भवेन्नश्यन्ति चेतयः ॥ ७१ ॥
मुञ्चत्युत्थापितः कृच्छ्राद् यदि शय्यां स गौरवात् ।
तदा नृपतिरभ्येति महतीं विमनस्कताम् ॥ ७२ ॥
स्खलन्तो दुःखिना दीना निःश्वसन्तः पदे पदे ।
२वैचित्त्यभाजो गच्छेयुर्देशहानिस्तदा ध्रुवम् ॥ ७३ ॥
भूमौ यदैकदेशेन हसितः(?)पतति ध्वजः ।
न सुभिक्षं न च क्षेमो न राज्ञो विजयस्तदा ॥ ७४ ॥
दीर्णे भग्नेऽथ पतिते कृत्स्ने चास्मिन् समुद्धृते ।
स्यान्नृपस्यावनिच्छेदः सुतध्वंसोऽथवा मृतिः ॥ ७५ ॥
वस्त्रालङ्कृतिमाल्यानां हरणात् पतनादुत ।
तादृशद्रव्यविध्वंसः पौराणां भवति ध्रुवम् ॥ ७६ ॥
पुरं भवति निःशब्दं निष्प्रभं वा प्रवेशने ।
समुच्छ्रये वा शक्रस्य तदा तन्नाशमृच्छति ॥ ७७ ॥
शक्रं स्वस्थानमानीतं शीघ्रं सुखमविघ्नतः ।
प्राग्वत् प्रदक्षिणं न्यस्येत् प्रागग्रं शयने निजे ॥ ७८ ॥
कुर्यात् तत्रैव नक्षत्रे शय्यास्थस्यामरेशितुः ।
भ्रमे ३कुष्ये च संयोगं यथाभागविकल्पितम् ॥ ७९ ॥
४कुष्ये संयोग्यमानश्चेद् ध्वजो निपतति क्षितौ ।
तदा नरपतेः स्थानभ्रंशो भवति निश्चितः ॥ ८० ॥
५कुष्ययोगे यदा शक्रो वामतः परिवर्तते ।
तदा स्यात् स्थपतेर्मृत्युर्भवेद् भङ्गश्च दक्षिणे ॥ ८१ ॥
१ क. च पाठः । २ द. वैच्छित्त्यं । ३ द. ख. कृष्ये । ४ द. पुष्ये । ५ द. पुष्ययोगे ।

७८ समराङ्गणसूत्रधारे
खवेधं प्रतिपद्येत तयष्टिर्यदि कृच्छ्रतः ।
प्रमादिनस्तदा राज्ञो जायते व्यसनं महत् ॥ ८२ ॥
निष्कृष्य योजितः शक्रध्वजो विघटते यदि ।
विश्लिष्यति तदा सन्धिः सामन्तैः सह भूपतेः ॥ ८३ ॥
स्फुटेद्$^१$ भज्येत वा कुष्ये योज्यमानोऽथ सर्वतः ।
तदा भङ्गे नृपव्याधिः स्फुटनादङ्गनावधः$^२$ ॥ ८४ ॥
अविदीर्णमपर्यस्तमव्यङ्गमविलम्बितम् ।
यथावन्न्यासमायाति योगं चेद् वासवध्वजः ॥ ८५ ॥
धनभृत्याङ्गनापत्यैः सामन्तैश्चान्वितोऽनुगैः$^४$।
निरातङ्को बलाङ्गश्च वृद्धिमेति तदा नृपः ॥ ८६ ॥
यत्नतो रक्ष्यमाणस्य शय्यास्थस्यैव वज्रिणः ।
तस्याङ्गान्यखिलान्येव कुटन्त्यादीनि योजयेत् ॥ ८७ ॥
ऐन्द्रं बर्लाकं$^६$ यक्षेशं सर्पमादं दिगाह्वयम् ।
मयूरं चेन्द्रशीर्षं च पिटकाष्टकमित्यदः ॥ ८८ ॥
स्वप्रमाणेण कर्तव्यं स्पष्टरूपसमन्वितम् ।
तदाख्याश्चान्तरेष्वेषां सन्धयो वस्त्रनिर्मिताः ॥ ८९ ॥
मूलादन्वग्रमायातः स्वंवंशैर्विदलैर्दृढैः$^९$ ।
गुणैश्च वेष्टयेदेनं घनैर्शिशथिलैर्ध्वजम् ॥ ९० ॥
साङ्घ्रिणा ध्वजनाहेन सत्र्यंशेनाथ विस्तृतिः ।
विधेया शक्रपिटकस्योच्छ्रयस्तु तदर्धतः ॥ ९१ ॥
अस्मिन्नष्टौ दिशः कृत्वा वंशाव्यवहिते ततः ।
न्यस्येद् दिगीशांश्चतुरस्तस्योपरि यथादिशम् ॥ ९२ ॥
पञ्चमांशगते कुष्याद् वज्रिणः पिटके कृते ।
शेषाण्यप्यष्टभागोनान्यस्मिन् न्यस्येद् यथाक्रमम् ॥ ९३ ॥
१ द. स्फटेद् । २ द. स्फटनाद् । ३ क. मवल॑ । ४ द. ॰द्भगैः । ५ द. कुटभ्या-
दीनि, ख. कूटभ्या॑ ६ शा. बजार्कं । ७ शा. स्वेष्टं , द. स्पष्टं । ८ क. दाक्षाश्च । ९ द. ख.
तैस्तं वंशै।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ७९
बलाकादीनि विस्तृत्या चरणोनानि चोच्छ्रितौ ।
खवर्णवन्ति वृत्तानि रामणीयकवन्ति च ॥ ९४ ॥
१भङ्गपातविपर्या(सो?स)सिद्धयः पिटकोद्भवाः ।
पीडार्त्तिमृत्युवेऽव्यर्थमेकैकस्य प्रकीर्त्तिताः ॥ ९५ ॥
शुद्धान्तामात्यचित्तानां बलस्य यशसोऽपि च ।
वसुमत्याश्च धाम्नां च नृपते राष्ट्र(म?प)स्य च ॥ ९६ ॥
केतुषड्भागविस्तारा रज्जवोऽष्टौ सुवर्त्तिताः ।
विधेयाः स्युर्ध्वजायामत्रिगुणायतयो दृढाः ॥ ९७ ॥
छादितं छ(वि?दि)भिः पूर्वं कुट्टनीसहितं शुभम् ।
यत्नेनासन्नदिवसे विदध्यादमरध्वजम् ॥ ९८ ॥
अर्केन्दुग्रहताराङ्कं वेणुगुल्मेन्द्रशीर्षकम् ।
साष्टकण्ठगुणं दण्डसूत्रादर्शान्वितं शुभम् ॥ ९९ ॥
ससस्यफलपुष्पाढ्यं शुभवस्त्रमलङ्कृतम् ।
दृढमन्वितमष्टाभिः सन्तताभिश्च रज्जुभिः ॥ १०० ॥
३ध्वजपट्टं विदध्याच्च चित्रं सुरचितं तथा ।
निमित्तार्थं च लोकानां शोभाहेतोर्ध्वजस्य च ॥ १०१ ॥
सपत्तनपुरारामगन्धर्वत्रिदशासुरम् ।
निखिलं जगदालेख्यमस्मिन्नद्रिद्रुमाकुलम् ॥ १०२ ॥
ध्वजाग्रे रश्मिभिर्नद्धं (स?सु)विन्यस्तं च भूतले ।
विन्यसेत् तमResource/तमसम्मूढमधोभागसमाश्रितम् ॥ १०३ ॥
प्रमोदगीतवादित्रनटनर्तकैःसंयुतः ।
तदग्रे जागरः कार्यः समस्तामेव तां निशाम् ॥ १०४ ॥
पुरोहितस्ततो भास्वत्युदिते प्रयतेन्द्रियः ।
अग्नेः परिग्रहं कुर्यान्मूलस्य प्रागुदग्दिशि ॥ १०५ ॥


१ द. भङ्गे पात विपर्य्यासासिद्धयः; शा० विपर्यासात् । २ क. पूर्ण । ३ द. ध्वजयष्टे ।
४ द. °नर्तन° ।

कृतवोपलेपनं तस्मिन्नुल्लेखाभ्युक्षणैस्ततः ।
संस्कृत्यास्तीर्य दर्भांश्च ज्वालयेत् तत्र पावकम् ॥ १०६ ॥
तत्राज्यपात्राण्याज्यं च गन्धांश्च कुसुमानि च ।
द्रव्याणि वाचनीयानि समिधश्च पलाशजाः ॥ १०७ ॥
सौवर्णौ स्रुक्स्रुवाविन्द्रभक्तं च बलयोऽपि च ।
इत्येतत्सर्वमाहृत्य जुहुयात् पावकं ततः ॥ १०८ ॥
पुत्रदारपशुद्रव्यसैन्ययुक्तस्य भूपतेः ।
विजयावाप्तिजनकैर्मन्त्रैः शान्तिविधायिभिः ॥ १०९ ॥
सुस्वनः सुमहर्चिश्च स्निग्धश्चेद्धोऽपि च स्वयम् ।
कान्तिमान् सुरभिर्जिघ्रन् होतारं शस्यतेऽनलः ॥ ११० ॥
तप्तकाञ्चनसच्छाया लाक्षाभः किंशुकच्छविः ।
प्रवालविद्रुमाशोकसुरगोपसमद्युतिः ॥ १११ ॥
ध्वजाङ्कुशगृहच्छत्रयूपप्राकारतोरणैः ।
सदृशार्चिः प्रशस्तोऽग्निर्माङ्गल्यैरपरैस्तथा ॥ ११२ ॥
स्निग्धः प्रदक्षिणशिखो विधूमो विपुलोऽनलः ।
सुभिक्षक्षेमदः प्रोक्तो दीप्यमानश्चिरं तथा ॥ ११३ ॥
धूम्रो विवर्णः परुषः पीनो वा नीलकोऽथवा ।
विच्छिन्नो भैरवरवो वामावर्त्तशिखोऽल्पकः ॥ ११४ ॥
मन्दार्चिर्धुतिमुक्तोऽसृग्वसागन्धैः स्फुलिङ्गवान् ।
धूमावृतः सफेनश्च हुतभुग् न जयावहः ॥ ११५ ॥
दर्भाणां संस्तरं वह्निर्होमाङ्गान्यपराणि वा ।
हूयमानो दहति चेद्धानिस्तदभिनिर्दिशेत् ॥ ११६ ॥
होमे वोत्सर्पयेत् पीठं दह्यमानो (?) यदाग्निना ।
भूम्येकदेशनाशः स्याल्लाभः स्यादुपकर्षणात् ॥ ११७ ॥
सर्वतो वाप्यगाधो यः स वर्धयति पार्थिवान् ।
यां दिशं यान्ति च ज्वालास्तस्यां विजयमादिशेत् ॥ ११८ ॥
१ द. कृतोप°, शा. कृतोपलेवनं । २ द. ख. वसागन्धिः ।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ८१
दुर्वर्णाशुचि दुर्गन्धि मक्षिकाखुविडम्बितम् ।
आज्यं राज्यच्छिदे प्राहुर्हूयते यच्च भस्मनि ॥ ११९ ॥
हीनाधिकप्रमाणाश्च विदीर्णा घुणभक्षिताः ।
वातरुग्णद्रुमोत्थाश्च समिधोऽर्थक्षयावहाः ॥ १२० ॥
सगर्भाश्च सपुष्पाश्च विच्छिन्नाग्रास्तृणान्विताः ।
कुर्वन्त्युपद्रवं दर्भा दुष्प्रलूनाश्च ये तथा ॥ १२१ ॥
दुष्टानि पांसुकीर्णानि कीटजर्जरितानि च ।
बीजानि बीजनाशाय स्युरपुष्टानि यानि च ॥ १२२ ॥
माल्यं विगन्धि प्रम्लानं न पीतं न सितं च यत् ।
कीटैः खण्डितपीतं च न जयाय न वृद्धये ॥ १२३ ॥
विस्रावीण्युद्गतान्युग्रखण्डितस्फुटितानि च ।
दुर्भिक्षरोगकारीणि प्राहुः पात्राणि सर्पिषः ॥ १२४ ॥
अशुचौ पतिते च स्यान्मक्षिकाकीटदूषिते ।
बलौ च शक्रभक्ते च क्षुन्मारः केश¹भाजि च ॥ १२५ ॥
यथोदितान्यरूपाणि सर्पिरादीन्यनुक्रमात् ।
भवन्ति राष्ट्रपुरयोर्भयाय निखिलान्यपि ॥ १२६ ॥
वितीर्य गन्धमाल्यादीन् देवताभ्यो यथादिशम् ।
पुरोधाः स्थपतिर्वाथ प्रीतचित्तः क्षिपेद् बलिम् ॥ १२७ ॥
ध्वजनैर्ऋतदिग्भागे द्विजमुख्यानुपस्थितान् ।
शीलवृत्तयुतान् भूरिगन्धमाल्यैः² स्वलङ्कृतान् ॥ १२८ ॥
वृद्धान् षट्कर्मनिरतान् सुहृदो वेदपारगान् ।
मनःप्रियान् पूर्णगात्रान् समर्थान् सर्वतः शुचीन् ॥ १२९ ॥
शुक्लाम्बरान् दर्शनीयान् गौरप्रायान् बलान्वितान् ।
अमुण्डा³जटिला⁴क्लीबा(न् ?)दीक्षितान् व्याधिताकृशान् ॥ १३० ॥
यथेष्टं दक्षिणाभिस्तान् संयोज्याष्टशतेन वा ।
साक्षतैः प्रीतमनसः कुसुमैः स्वस्ति वाचयेत् ॥ १३१ ॥
१ क. ‘केशैश्चैव विदूषिते । २ क. ‘ल्यैरलं’ । ३ ‘ण्डान् ज’, । ४ ‘लान् क्ली’, ।
वा. ११

८२ समराङ्गणसूत्रधारे
शक्रं ते चाष्टभिः कुम्भैः सुहृदैर्वारिपूरितैः ।
स्वर्चितैरभिषिञ्चेयुर्मूले 'चाकृष्टमण्डलैः ॥ १३२ ॥
स्तुतैर्वैजयिकैर्मन्त्रैः स्तुतिभिश्च द्विजोत्तमैः ।
राज्यमाघोषयेदेतैरात्मना च महीपतिः ॥ १३३ ॥
कुर्वीत सर्वबन्धानां मोक्षं हिंसां समुत्सृजेत् ।
दोषान् जनपदस्यापि दशाहं विषहेत वै ॥ १३४ ॥
सुवासा भूषितः स्नातः सदाचारप्रयत्नवान् ।
ध्वजोच्छ्रायं शुचिर्भूयः सबलः प्रतिपालयेत् ॥ १३५ ॥
सोपवासः शुचिः स्नातः प्रयतो विजितेन्द्रियः ।
कृताञ्जलिपुटश्चेमं मन्त्रं स्थपतिरुच्चरेत् ॥ १३६ ॥
ओं नमो भगवति वागुले सर्वविटप्रमर्दनि स्वाहा ।
सुरासुराणां सङ्ग्रामे प्रवृत्ते त्वं यथोत्थितः ।
तथा नृपस्य देवेन्द्र ! जयायोत्तिष्ठ पूजितः ॥ १३७ ॥
स्तुत्वेति स्थपतिस्तस्य कृत्वा चानुप्रदक्षिणम् ।
कारयेद् देवराजस्य ध्वजदण्डसमुच्छ्रयम् ॥ १३८ ॥
स्वलङ्कृतैः सितस्वच्छमाल्याम्बरविलेपनैः ।
पौरैर्जानपदैस्तद्वत् प्रयतैः परिचारकैः ॥ १३९ ॥
सालिङ्गझल्लरीशङ्खनन्दिडिण्डिमगोमुखैः ।
हृष्टैरन्यैश्च वादित्रैर्वाद्यमानैर्महास्वनैः ॥ १४० ॥
गायद्भिश्च नटद्भिश्च गायनैर्नटनर्तकैः ।
हृष्टोत्कृष्टोद्धतध्वानैर्गजस्यन्दनवाजिभिः ॥ १४१ ॥
तैश्च वादित्रनिनदैस्तैश्च पुण्याहनिस्वनैः ।
दृढरज्जुभिराकृष्टं श्रवणे ध्वजमुच्छ्रयेत् ॥ १४२ ॥
यत्नेनोत्थाप्यमानस्य तस्योच्छ्रायगतस्य च ।
नृपक्ष्शिवाहनादीनां निमित्तान्यवलोकयत् ॥ १४३ ॥
१ 'वा', । २ 'अ' ख. पाठः।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ८३
कुटनीनिहिताभोगं पताकादर्पणोज्ज्वलम् ।
चिलपट्टस्फुटाटोपमर्केन्दुगुणभूषणम् ॥ १४४ ॥
अस्रस्तमाल्यालङ्कारमशीर्णच्छत्रमस्तकम् ।
अकम्पितमदीर्णाङ्गमदिग्भ्रष्टं सुरेश्वरम् ॥ १४५ ॥
सममूर्ध्वं१समश्लिष्टमनवक्षतमद्भुतम् ।
अविलम्बितविश्रान्तं२ऋजुमार्गंसमुद्धतम् ॥ १४६ ॥
इत्थं शक्रध्वजोत्थानं कृतं राज्ञो जयावहम् ।
पौरजानपदानां च क्षेमारोग्यसुभिक्षकृत् ॥ १४७॥
यदा शक्रध्वजः प्राचीमुच्छ्रितः३ प्रतिपद्यते ।
तदामन्त्रिगणक्षत्रनृपप्राग्वासिवृद्धिदः ॥ १४८ ॥
आग्नेयीं ककुभं याते वर्धन्ते वह्निजीविनः ।
प्रारब्धकार्यनिष्पत्तिर्यत्नाच्चोपजायते ॥ १४९ ॥
दक्षिणां दिशमायाते केतने नमुचिद्विषः ।
तदा स्युर्वैश्यलोकस्य पूजाधान्यधनर्द्धयः ॥ १५० ॥
सर्वाशासंपदः श्रेष्ठा जायन्ते नैर्ऋताश्रिते ।
न स्याद् गर्भो वृथा तद्वद् वधबन्धभयं न च ॥ १५१ ॥
श्रिते प्राचेतसीमाशामास्मिञ् शूद्रजयो भवेत् ।
क्षुत्तृष्णाग्निभयं न स्याद् वृष्टिरिष्टा च जायते ॥ १५२ ॥
द्रुमशस्यफलर्द्धिः स्यात् केतौ वायोः श्रिते दिशम् ।
चतुष्पदविवृद्धिश्च रोगोच्छित्तिश्च जायते ॥ १५३ ॥
चतुर्णामपि वर्णानां सम्पत् स्यात् सौम्यदिग्गते ।
विशेषात् सा द्विजेन्द्राणां तथा सिध्यन्ति चाध्वराः ॥ १५४ ॥
ऐशीमाशां श्रिते धर्मपरो भवति पार्थिवः ।
वृद्धिर्जनपदस्य स्यात् तथा पाषण्डिनामपि ॥ १५५ ॥
यदि किञ्चिद् व्रजेत् पूर्वं रज्ज्वाकृष्टः शतक्रतुः ।
विजिगीषोर्नरेन्द्रस्य तदा यात्रा प्रसिध्यति ॥ १५६ ॥
१ 'सुश्लिष्टमनवक्षतमद्भुतम्' ख. पाठः । २ 'न्तं नृपमा' क. पाठः । ३ द. मुत्थितः ।

८४ समराङ्गणसूत्रधारे
प्रतिष्ठां लभते भूमौ भ्रमं भित्त्वा यदि ध्वजः ।
सशैलकाननामुर्वी तदा जयति पार्थिवः ॥ १५७ ॥
दिक्सर्पणे फलं प्रोक्तमित्यव्यङ्गस्य वज्रिणः ।
विपरीतं तदेवोक्तं व्यङ्गस्य निखिलं पुनः ॥ १५८ ॥
यदि स्वलङ्कृतः पूर्वं योज्यमानः शतक्रतुः ।
उत्क्षिप्तो रज्जुयन्त्रेण स्तोकमर्धे स्थितोऽपि वा ॥ १५९ ॥
शय्यायां यदि वा भूमावुत्सङ्गे वा पतत्यसौ ।
तदा नृपं राजदारान् कुमारं वा विनाशयेत् ॥ १६० ॥
उत्थितोऽर्धोत्थितो वापि यदि क्षुभ्यति कम्पते ।
स्थानान्तरं व्रजेद् वापि सञ्चरेद् वा कथञ्चन ॥ १६१ ॥
विगृह्यते तदा भूपो भ्रश्येति स्थानतोऽपि वा ।
भयाज्जनपदो वास्य चलत्येव न संशयः ॥ १६२ ॥
आकृष्टासु यदाष्टासु छिद्यते कापि रज्जुषु ।
अमात्यमरणं तत् स्यादेकैकांशन निश्चितम् ॥ १६३ ॥
मूलमध्याग्रभागे वा प्रोच्छ्रितो³ यदि ⁴भज्यते ।
पौरसेनापतिनृपान् क्रमशॊ हन्त्यसौ तदा ॥ १६४ ॥
छत्रार्कवेणुगुल्मेन्द्रशीर्षकण्ठगुणा यदि ।
पतन्ति भूमाविन्द्रो वा तदा हन्ति महीपतिम् ॥ १६५ ॥
नृपो वधमवाप्नोति तैर्भग्नैः पतितैर्धुतैः⁵ ।
अभग्नैर्विधुतैरेतैः क्षयं व्रजति साधनम् ॥ १६६ ॥
क्रमशॊ हन्युरादर्शवैजयन्तीन्दुतारकाः ।
पतन्त्यो ह्वचमूनाथपुरोधःस्त्रीर्महीपतेः ॥ १६७ ॥
माल्यैर्विभूषणैर्यानैः शस्त्रवस्त्रफलाशनैः ।
यान्ति केतुच्युतैरेतै राज्ञस्तान्येव संक्षयम् ॥ १६८ ॥
१ द. स्तोकमर्धोत्थितोऽपि वा । २ क. भ्रश्यते । ३ द. प्रोत्थितो । ४ क. भिद्यते ।
५ क. द्रुतैः । ६ क. ˚द्रुतै˚ ।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ८९
शीर्यते शक्रपिटकं कूटैभ्यः शक्रवेक्ष्म वा ।
यस्यां ककुभि तत्राहुर्हानिं पूर्वे विपश्चितः ॥ १६९ ॥
भङ्गे मृगालीलकटाक्षार्गलानामनुक्रमात् ।
पीडा सञ्जायते वेश्यानृपतिश्रेष्ठिरक्षिणाम् ॥ १७० ॥
भग्ना भ्रमाक्षपादैर्वा मल्लमातृकुमारिकाः ।
राष्ट्रं हन्युर्नरेन्द्रस्य प्रियामातृसुतान् क्रमात् ॥ १७१ ॥
निर्घातोऽशनिरुल्का वा ध्वजे यदि पतेत् तदा ।
अनावृष्टिभयं राज्ञः पराजयमथादिशेत् ॥ १७२ ॥
कुर्वन्ति मक्षिकाः शके मधुच्छत्रं समुच्छ्रिते ।
यस्मिंस्तत्र द्विषद्रोधं षण्मासाच्चादिशेत् पुरे ॥ १७३ ॥
मक्षिका वा खगा वा चेद् अमेयुः पार्श्वतो हरेः ।
प्रदक्षिणा बहिस्थानंमासाच्चाहुस्तदा मृतिम् ॥ १७४ ॥
गृध्रश्येनकपोताश्चेल्लीयन्ते शक्रमूर्धनि ।
तदा कुर्वन्ति दुर्भिक्षविग्रहक्षितिपक्षयान् ॥ १७५ ॥
यदि केतौ निलीयन्ते कुररोलूकवायसाः ।
राज्ञः क्रमात् तदा हन्युर्मन्त्रिपुत्रपुरोधसः ॥ १७६ ॥
मयूरो यदि वा हंसः समाश्रयति वासवम् ।
समस्तलक्षणोपेतस्तदा स्यान्नृपतेः सुतः ॥ १७७ ॥
चक्री बलाका हंसी वा यदि केतौ निलीयते ।
तदा नरपतिर्भार्यामवाप्नोत्यतिसुन्दरीम् ॥ १७८ ॥
खगैः सुवृष्टिर्जलजैः सुभिक्षं स्यात् फलाशिभिः ।
विष्ठाशिभिश्च दुर्भिक्षं भीतिः स्यात् पिशिताशिभिः ॥ १७९ ॥
यदि चित्रपटन्यस्ताः सुरयक्षोरगोत्तमाः ।
विचित्राकृतिभिर्युक्ता वाहनायुधभूषणैः ॥ १८० ॥
१. द. ख. 'नमासमाहुस्तदितिरा मृ.' (?) ।

८६ समराङ्गणसूत्रधारे
अष्टौ च ककुभो मूर्ताः प्रनृत्ताश्चाप्सरोगणाः ।
सग्रहास्तारका मेघाः स्फीता नद्यस्तथाब्धयः ॥ १८१ ॥
वाप्यः पङ्केरुहच्छन्ना हंसवन्ति सरांसि च ।
फलपुष्पावतंसानि वनान्युपवनानि च ॥ १८२ ॥
देवतायतना(न्याद्य?न्यष्ट)गोपुराणि पुराणि च ।
भवनान्यतिशुभ्राणि शयनासनवन्ति च ॥ १८३ ॥
प्रहृष्टाः पार्थिवा भृत्या बलवाहनशालिनः ।
पौरा जानपदा लोकाः क्रीडाभाजः कुमारकाः ॥ १८४ ॥
चत्वारो मुदिता वर्णा नटनर्तकशिल्पिनः ।
सगोत्रजलतागुल्मद्रुमौषधिभृतो नगाः ॥ १८५ ॥
मृगपक्षिगणाः शस्ता मङ्गलान्यखिलानि च ।
विचित्रापानवसुधाः फलभक्षाश्च पक्षिणः ॥ १८६ ॥
यथानिवेशं शोभन्ते तदा देशे पुरेऽपि च ।
क्षेमारोग्यसुभिक्षाणि जयं राज्ञश्च निर्दिशेत् ॥ १८७ ॥
एतेषां कुट्टने पाते छेदे नाशेऽथवा हृतौ ।
प्लोषे वाप्यशुभं वाच्यं यथायोनि यथादिशम् ॥ १८८ ॥
स्थिते वा पतिते वापि चित्रपट्टे भुवस्तले ।
उपप्लवो नरेन्द्रस्य भवेज्जनपदस्य च ॥ १८९ ॥
राजते यद्यलङ्कारः सकलो यावदुत्सवम् ।
अनस्तोऽविप्लुतश्चोर्वीं तदा कृत्स्नां जयेन्नृपः ॥ १९० ॥
नटनर्तकसङ्घेषु प्रनृत्यत्सु पठत्सु च ।
शुभे शुभं समादेश्यमितरस्मिन्नशोभनम् ॥ १९१ ॥
ये वर्गाः सम्प्रहृष्यन्ति मङ्गल्या गजवाजिनः ।
सुवेषचेष्टालङ्काराः शुभं तेष्वादिशेद् ध्रुवम् ॥ १९२ ॥
१ क. राज्ये विनिर्दिशेत् । २. क. पठत्स्वपि ।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ८७
अमङ्गलैषिणो¹ ये स्युर्विकृता दीनचेतसः ।
पुरुषा योषितो वापि निर्दिशेत् तेषु वैशसम् ॥ १९३ ॥
प्रभिन्नकरटा नागा बृहन्तस्तोयदा इव ।
अदीनाश्च स्वतन्त्राश्च नृपतेर्विजयावहाः ॥ १९४ ॥
आलिखन्तः खुरैः क्षोणीं दक्षिणैर्हृष्टचेतसः ।
हेषमाणा हयाश्चापि शंसन्ति नृपतेर्जयम् ॥ १९५ ॥
सतडिद्गर्जिताम्भोदा वृष्टिश्चैज्जायते तदा ।
महीपतेर्जयं विद्यात् सुभिक्षं क्षेममेव च ॥ १९६ ॥
अथार्धरात्रे सम्प्राप्ते रोहिण्यां दशमेऽहनि ।
शक्रस्य ²पातमिच्छन्ति मुनयः प्रतिवत्सरम् ॥ १९७ ॥
ततः समाजे ³निर्वृत्ते शक्रकेतौ प्रतिष्ठिते ।
गन्धतोयैश्च पुष्पैश्च विदधीताम्बुसेवनम् ॥ १९८ ॥
अमेध्यैर्वस्त्रखण्डैर्वा भस्मकेशास्थिकर्दमैः ।
यदा क्रीडन्ति मनुजा दुर्भिक्षं जायते तदा ॥ १९९ ॥
विप्राः प्राँच्यां विल(म्पे?म्बे)युः पतन्तं वासवध्वजम् ।
सुभिक्षं क्षेममारोग्यमन्यथा स्याद् विपर्ययः ॥ २०० ॥
अष्टाङ्गोक्तो ध्वजाङ्गे यो विशेषः सोऽथ कथ्यते ।
पुरे ब्रह्मपुरात् प्राच्यामिन्द्रस्थानं विधीयते ॥ २०१ ॥
मात्राशयेन हस्तेन प्रमाणं तस्य कीर्तितम् ।
चतुःषष्टिसमायामं चतुरश्रं समन्ततः ॥ २०२ ॥
एकाशीतिपदेनैव भजेत् क्षेत्रं विभागतः ।
शैलस्यार्धेन कुर्वीत ध्वजायामं प्रमाणतः ॥ २०३ ॥
ततो वृद्धिर्विधातव्या हस्ते हस्तेऽङ्गुलं बुधैः
अर्धाङ्गुलं वा वृद्धिः स्याद् ध्वजस्येन्द्रस्य कुत्रचित् ॥ २०४ ॥
१ द. ख. अमङ्गल्यै° २ द. ख. शत° । ३ द. निवृत्ते । ४ ख. ताम्बुसेचनम् ।
५ द. ख. प्राक्चैर्विलम्पेयुः; क. प्राच्यां विलुपे ।

८८ समराङ्गणसूत्रधारे
तावद् वृद्धिविधातव्या यावत् क्षेत्रसमोऽङ्गुलैः ।
ततः प्रमाणमाग्यं यत् तत् पुनर्विनियोजयेत् ॥ २०५ ॥
प्रमाणमङ्गुलैः केतोः स्याच्चत्वारिंशता मितम् ।
तस्य संवत्सरे वृद्धिः कर्तव्या द्व्यङ्गुलैर्बुधैः ॥ २०६ ॥
ब्रह्मस्थाने च कुर्वीत ब्रह्मावर्त्तं विचक्षणः ।
ब्रह्मणोऽनन्तरं प्राच्यां भवेद् दैवतमार्यमा ॥ २०७ ॥
तत्र यन्त्रस्य पादौ स्तः समुच्छ्रायेण षट्पं(मौ?दौ) ।
तस्यैव पश्चिमे भागे मित्रो भवति देवता ॥ २०८ ॥
ततः प्रभृति यन्त्रस्य( वाम ? ) वेधो नतो भवेत् ।
पूर्वापरं च निम्नं स्यादेष यन्त्रविधिः स्मृतः ॥ २०९ ॥
यन्त्रस्य पश्चिमे भागे वरुणो दैवतं भवेत् ।
वरुणस्य पदान्ते च वंशस्थे द्वे कुमारिके ॥ २१० ॥
खानिले(?)चतुरो हस्तान् दशहस्तोच्छ्रिते च ते ।
रुद्रस्थाने च कर्तव्या कुमारी सुप्रतिष्ठिता ॥ २११ ॥
सोमयोगे चतुर्थी स्यादापभागे च पञ्चमी ।
षष्ठी च सवितुर्भागे यमभागे च सप्तमी२ ॥ २१२ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
इन्द्रँध्वजनिरूपणं नाम सप्तदशोऽध्यायः ॥
अथ नगरादिसंज्ञा नामाष्टादशोऽध्यायः ।
नगरं मन्दिरं दुर्गं पुष्करं साम्परायिकम् ।
निवासः सदनं सद्म क्षयः क्षितिलयस्तथा ॥ १ ॥
१ द. ख. षट्यमौ । २ द. सप्तमीत्यनन्तरम् अष्टमीत्यधिकः पाठः ।
३ द. ख. इन्द्रसंपदाध्या° ।

नगरादिसंज्ञा नामाष्टादशोऽध्यायः । ८९
यत्रास्ते नगरे राजा राजधानीं तु तां विदुः ।
शाखानगरसंज्ञानि ततोऽन्यानि प्रचक्षते ॥ २ ॥
शाखानगरमेवाहुः कर्वटं नगरोपमम् ।
ऊनं कर्वटमेवेह गुणैर्निगम उच्यते ॥ ३ ॥
ग्रामः स्यान्निगमादूनो ग्रामकल्पो गृहस्त्वसौ ।
गोकुलावासमिच्छन्ति गोष्ठमल्पं तु गोष्ठकम् ॥ ४ ॥
उपस्थानं भवेद् राज्ञां यत्र तत् पत्तनं विदुः ।
बहुस्फीतवणिग्युक्तं तदुक्तं पुटभेदनम् ॥ ५ ॥
विधाय कुटिका यत्र पत्रशाखातृणोपलैः ।
पुलिन्दाः कुर्वते वासं पल्ली स्वल्पा तु पल्लिका ॥ ६ ॥
नगरं वर्जयित्वान्यत् सर्वं जनपदः स्मृतः ।
नगरेण समं कृत्स्नं राष्ट्रं देशोऽथ मण्डलम् ॥ ७ ॥
आवासः सदनं सद्म निकेतो मन्दिरं मतम् ।
संस्थानं निधनं धिष्ण्यं भवनं वसतिः क्षयः ॥ ८ ॥
अगारं संश्रयो नीडं गेहं शरणमालयः ।
निलयो लयनं वेश्म गृहमोकः प्रतिश्रयः ॥ ९ ॥
गृहस्योपरिभूमिर्या हर्म्यं तत् परिकीर्तितम् ।
तस्यारोहणमार्गो यः सोपानं तत् प्रचक्षते ॥ १० ॥
कोष्ठकैर्यत्र रचितं स्थूणयोरधिरोहणम् ।
सा निःश्रेणिरिति प्रोक्ता सोपानैर्विपुलैः पदैः ॥ ११ ॥
स्मृतः काष्ठविटङ्कोऽसौ यत् काष्ठैः संवृतं गृहम् ।
सुधालिप्ततलं हर्म्यं सौधं स्यात् कुट्टिमं च तत् ॥ १२ ॥
वर्षाभयेन या छन्ना तालशाँकदलादिभिः ।
स्मृताभिगुप्तिरन्तस्था सर्वोपरि गृहस्य सा ॥ १३ ॥
१ द. ख. कल्पगृहं । २ क. पुटभेदकम् । ३ क. कोष्ठकैः । ४ क. शाल ।
वा. १२