सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 137, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 137

७२ समराङ्गणसूत्रधारे
तेजो वीर्यं वपुश्चेष्टां बलमप्येष पश्यताम् ।
अहरच्छत्रुसैन्यानां तेजस्वी तरसा ध्वजः ॥ ९ ॥
तमभ्यर्च्य सुराधीशः शत्रून् बलवतोऽप्यसौ ।
त्रिरात्रेणाजयद् युद्धे कुलिशेन बलाद् बली ॥ १० ॥
ततः प्रीतस्तमृक्षेऽसौ वैष्णवे द्वादशे तिथौ ।
त्रैलोक्यराज्यं प्राप्याभ्यषिञ्चद् बलनिषूदनः ॥ ११ ॥
स सर्वलोकमभ्यर्च्य सर्वलोकाभिपूजितः ।
ध्वजमभ्यर्च्य तुष्टाव वाक्यैर्वृत्रनिषूदनः ॥ १२ ॥
ततस्तमन्तिके वीक्ष्य ध्वजं प्रोवाच वासवः ।
इन्द्रध्वजाक्षया लोकाः करिष्यन्ति तवार्चनम् ॥ १३ ॥
वीक्षमाणा निमित्तानि भूमिपालाश्च शास्त्रतः ।
ततः प्रभृत्यसौ लोके सर्वलक्षणसंभृतः ॥ १४ ॥
वरप्रदानादिन्द्रस्य नृपैः शक्रध्वजोऽर्च्यते ।
दुर्गमायतनं वह्निशरणं वेदिकाः कृताः ॥ १५ ॥
विचित्राः स्थालिकापाका भक्ष्यपानानि यानि च ।
एतान्यायतनार्तं प्राक् स्युर्यद्द्रव्यानि प्रकल्पयेत् ॥ १६ ॥
विजेतुं यदि वाञ्छन्ति दुर्धर्षान् द्वेषिणो रणे ।
तेजो बलं यशश्चाप्तुं तदैन्द्रं कारयेद् ध्वजम् ॥ १७ ॥
सेनायां वा पुरे वापि प्रतिष्ठाप्य पुरन्दरम् ।
विजयार्थं महीपालैरभिप्रशमनाय च ॥ १८ ॥
यथा शक्रध्वजोत्थानविधानं जगतीभुजः ।
करिष्यन्ति तथा सम्यक् कार्त्स्न्येन प्रतिपाद्यते ॥ १९ ॥
वनादुपाहृतं द्रव्यमथ प्राग्विधिना सुधीः ।
पाद्यार्घ्यादिभिरभ्यर्च्य गन्धैर्माल्यैरलङ्कृतम् ॥ २० ॥
द्विजान् संपूज्य च शुचौ देशे सम्यक्समाहितः ।
पूर्वाग्रमुत्तराग्रं वा प्रयत्नादवतारयेत् ॥ २१ ॥


१ द. ख. इन्द्रध्वजाख्यया । २ शा. काक्षताः । ३ द. न्यायतनानि स्युर्यं । ४ शा. ॰रेमिः ।