समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 146, कुल 726 में से
संदर्भ में पढ़ेंइन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ८१
दुर्वर्णाशुचि दुर्गन्धि मक्षिकाखुविडम्बितम् ।
आज्यं राज्यच्छिदे प्राहुर्हूयते यच्च भस्मनि ॥ ११९ ॥
हीनाधिकप्रमाणाश्च विदीर्णा घुणभक्षिताः ।
वातरुग्णद्रुमोत्थाश्च समिधोऽर्थक्षयावहाः ॥ १२० ॥
सगर्भाश्च सपुष्पाश्च विच्छिन्नाग्रास्तृणान्विताः ।
कुर्वन्त्युपद्रवं दर्भा दुष्प्रलूनाश्च ये तथा ॥ १२१ ॥
दुष्टानि पांसुकीर्णानि कीटजर्जरितानि च ।
बीजानि बीजनाशाय स्युरपुष्टानि यानि च ॥ १२२ ॥
माल्यं विगन्धि प्रम्लानं न पीतं न सितं च यत् ।
कीटैः खण्डितपीतं च न जयाय न वृद्धये ॥ १२३ ॥
विस्रावीण्युद्गतान्युग्रखण्डितस्फुटितानि च ।
दुर्भिक्षरोगकारीणि प्राहुः पात्राणि सर्पिषः ॥ १२४ ॥
अशुचौ पतिते च स्यान्मक्षिकाकीटदूषिते ।
बलौ च शक्रभक्ते च क्षुन्मारः केश¹भाजि च ॥ १२५ ॥
यथोदितान्यरूपाणि सर्पिरादीन्यनुक्रमात् ।
भवन्ति राष्ट्रपुरयोर्भयाय निखिलान्यपि ॥ १२६ ॥
वितीर्य गन्धमाल्यादीन् देवताभ्यो यथादिशम् ।
पुरोधाः स्थपतिर्वाथ प्रीतचित्तः क्षिपेद् बलिम् ॥ १२७ ॥
ध्वजनैर्ऋतदिग्भागे द्विजमुख्यानुपस्थितान् ।
शीलवृत्तयुतान् भूरिगन्धमाल्यैः² स्वलङ्कृतान् ॥ १२८ ॥
वृद्धान् षट्कर्मनिरतान् सुहृदो वेदपारगान् ।
मनःप्रियान् पूर्णगात्रान् समर्थान् सर्वतः शुचीन् ॥ १२९ ॥
शुक्लाम्बरान् दर्शनीयान् गौरप्रायान् बलान्वितान् ।
अमुण्डा³जटिला⁴क्लीबा(न् ?)दीक्षितान् व्याधिताकृशान् ॥ १३० ॥
यथेष्टं दक्षिणाभिस्तान् संयोज्याष्टशतेन वा ।
साक्षतैः प्रीतमनसः कुसुमैः स्वस्ति वाचयेत् ॥ १३१ ॥
१ क. ‘केशैश्चैव विदूषिते । २ क. ‘ल्यैरलं’ । ३ ‘ण्डान् ज’, । ४ ‘लान् क्ली’, ।
वा. ११