समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 147, कुल 726 में से
संदर्भ में पढ़ें८२ समराङ्गणसूत्रधारे
शक्रं ते चाष्टभिः कुम्भैः सुहृदैर्वारिपूरितैः ।
स्वर्चितैरभिषिञ्चेयुर्मूले 'चाकृष्टमण्डलैः ॥ १३२ ॥
स्तुतैर्वैजयिकैर्मन्त्रैः स्तुतिभिश्च द्विजोत्तमैः ।
राज्यमाघोषयेदेतैरात्मना च महीपतिः ॥ १३३ ॥
कुर्वीत सर्वबन्धानां मोक्षं हिंसां समुत्सृजेत् ।
दोषान् जनपदस्यापि दशाहं विषहेत वै ॥ १३४ ॥
सुवासा भूषितः स्नातः सदाचारप्रयत्नवान् ।
ध्वजोच्छ्रायं शुचिर्भूयः सबलः प्रतिपालयेत् ॥ १३५ ॥
सोपवासः शुचिः स्नातः प्रयतो विजितेन्द्रियः ।
कृताञ्जलिपुटश्चेमं मन्त्रं स्थपतिरुच्चरेत् ॥ १३६ ॥
ओं नमो भगवति वागुले सर्वविटप्रमर्दनि स्वाहा ।
सुरासुराणां सङ्ग्रामे प्रवृत्ते त्वं यथोत्थितः ।
तथा नृपस्य देवेन्द्र ! जयायोत्तिष्ठ पूजितः ॥ १३७ ॥
स्तुत्वेति स्थपतिस्तस्य कृत्वा चानुप्रदक्षिणम् ।
कारयेद् देवराजस्य ध्वजदण्डसमुच्छ्रयम् ॥ १३८ ॥
स्वलङ्कृतैः सितस्वच्छमाल्याम्बरविलेपनैः ।
पौरैर्जानपदैस्तद्वत् प्रयतैः परिचारकैः ॥ १३९ ॥
सालिङ्गझल्लरीशङ्खनन्दिडिण्डिमगोमुखैः ।
हृष्टैरन्यैश्च वादित्रैर्वाद्यमानैर्महास्वनैः ॥ १४० ॥
गायद्भिश्च नटद्भिश्च गायनैर्नटनर्तकैः ।
हृष्टोत्कृष्टोद्धतध्वानैर्गजस्यन्दनवाजिभिः ॥ १४१ ॥
तैश्च वादित्रनिनदैस्तैश्च पुण्याहनिस्वनैः ।
दृढरज्जुभिराकृष्टं श्रवणे ध्वजमुच्छ्रयेत् ॥ १४२ ॥
यत्नेनोत्थाप्यमानस्य तस्योच्छ्रायगतस्य च ।
नृपक्ष्शिवाहनादीनां निमित्तान्यवलोकयत् ॥ १४३ ॥
१ 'वा', । २ 'अ' ख. पाठः।