सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

The provided image is completely blank and contains no text to transcribe.

६८ साहित्यदर्पणे
विजनत्वम्, अतः संकेतस्थानमेतदिति कयापि संनिहितं प्रच्छन्नका-
मुकं प्रत्युच्यते। अत्रैव स्थाननिर्जनत्वरूपं व्यङ्ग्यार्थवैशिष्ट्यं प्रयोजनम्।
'भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते' इत्युक्तप्रकारायाः काको-
र्भेदा आकरेभ्यो ज्ञातव्याः। एतद्वैशिष्ट्ये यथा—
गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम्।
अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ॥'
अत्र नैष्यति, अपि तर्हि एष्यत्येवेति काका व्यज्यते।
चेष्टावैशिष्ट्ये यथा—
^३ 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया।
हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम्॥'
अत्र संध्या संकेतकाल इति पद्मनिमीलनादिचेष्टया कयाचिद्व्यो-
त्यते।
संनिधिः सामानाधिकरण्यम्, तस्य प्रच्छन्नकामुकनिरूपितत्वं वैशिष्ट्यम्, उच्यते
व्यज्यते। अत्रैव अस्मिन्नुदाहरण एव निर्जनत्वातिशयो वैशिष्ट्यं प्रयोजनं तृतीयव्य-
ज्ञ्जनायाः कारणम्॥ भिन्नेति। शोकहर्षभयादिकृतेत्यर्थः। आकरेभ्य उपजीव्यभर-
तादिग्रन्थेष्व॥ सुरभिसमये वसन्तकाले। अपि तर्हीति। अपि खल्वर्थः॥
संकेतेति। विटमुपपतिम्। हसत्प्रफुल्लम्। नेत्राभ्यामर्पितमाकूतमात्माभिप्रायो यत्र
तथ्या स्यात्तथा निमीलितमित्यर्थ । यद्वा, हसदिति नेत्रविशेषणम्। एतदेव पद्म-
निमीलनस्य नेत्रार्पिताकूतत्वं वैशिष्ट्यम्। चेष्टादिकस्येत्यादिपदाच्चेष्टाविरहादिग्रह।
१. उच्यत इति। व्यञ्जनया प्रतिपाद्यते इत्यर्थः॥
२. काकुरिति। कायत्यर्थान्तरमिति काकुः। यद्वा काकुर्जिह्वेति पस्पशायां भाष्य-
कारः। तद्व्यापारविशेषसद्भावत्वाच्छोकहर्षभयादिभिर्ध्वनेर्विकारः काकु। तथा चोक्तम्-
'वाक्यामभिधेयमानेऽर्थे येनान्य प्रतिपद्यते। भिन्नकण्ठध्वनिर्धीरैः स काकुरिति
कथ्यते॥' इति॥
३. संकेतेति। संकेतकाले मनो यस्य। त जिज्ञासुमिल्पर्थः। अत एव हसद्भ्या
नेत्राभ्यामर्पितं सूचितमाकूत रहस्यं येन। हसदिति भिन्न प्रफुल्लमित्यर्थक पद्मनिशेषणं
वा। शेषं व्यक्तम्। इह नेत्रेङ्गितेन लक्षितो गूढाभिप्रायः कामिन्या निशासूचकेन पद्मनि-
मीलनेन प्रकाशित.॥
१. '-व्यङ्ग्यार्थ-' स-च २ 'प्रयोजकम्' र-न; ग पुस्तके तु 'अत्रैव-' इति नास्ति।
३ 'इत्थं' क.

द्वितीयः परिच्छेदः । ६९
एवं वक्त्रादीनां व्यस्तसमस्तानां वैशिष्ट्ये बोद्धव्यम् ।
त्रैविध्यादियमर्थानां प्रत्येकं त्रिविधा मता ॥ १७ ॥
अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्ता
व्यञ्जनास्त्रिविधाः । तत्र वाच्यार्थस्य व्यञ्जना यथा—'कालो मधु-’
इत्यादि । लक्ष्यार्थस्य यथा—‘निःशेषच्युतचन्दनं-’ इत्यादि । व्य-
ङ्ग्यार्थस्य यथा—'उअ णिच्चल-' इत्यादि । प्रकृतिप्रत्ययादिव्यञ्ज-
कत्वं तु प्रपञ्चयिष्यते ।
शब्दबोध्यो व्यनक्त्यर्थः शब्दोऽप्यर्थान्तराश्रयः ।
एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता ॥ १८ ॥
यतः शब्दो व्यञ्जकत्वेऽप्यर्थान्तरमपेक्षते, अर्थोऽपि शब्दम्, तदे-
कस्य व्यञ्जकत्वेऽन्यस्य सहकारितावश्यमङ्गीकर्तव्या ।
अभिधादित्रयोपाधिवैशिष्ट्यात्त्रिविधो मतः ।
शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा ॥ १९ ॥
तद्वैशिष्ट्ये यथा—‘नादत्ते भूषणं दत्तं नाहूता चिरमृच्छति । मृगाक्षी न क्षिपत्यक्षि
सादरं मयि पश्यति ॥’ अत्र चेष्टाविरहेण कोपो व्यज्यते । तस्य च कान्तापराधरा-
गीनत्वं वैशिष्ट्यम् । व्यस्तानां प्रत्येकं समस्तानां द्वित्र्यादिसन्निधीनाम् ॥ त्रैविध्या-
दिति । इयं व्यञ्जना ॥ प्रपञ्चयिष्यते । ‘असंलक्ष्यक्रमव्यङ्ग्यव्यङ्ग्यादुदाहरणे’ इति
शेषः ॥ ननु शाब्द्या व्यञ्जनायामर्थस्यार्थ्यायामपि शब्दस्योपयोगित्वनसत्त्वेव तन्मीलना-
नन्योभेदवारणमत आह—शब्दबोध्य इति । अर्थान्तराश्रयः अर्थान्तरगम्या-
यकः । ‘व्यनक्ति’ इत्यनुषज्यते । इत्यनुपपत्तिदर्शनानन्तरमुपपत्तिमाह—एकस्येति ।
सहकारिता अप्रधानकारणत्वम् । अप्रधानत्वं च व्यवहितोपपादित्वेन । एवं च यत्र
यस्याव्यवहितोपपादित्वेन प्रधानत्वं तत्र तत्प्राधान्येनैव तस्या व्यवहार इति भावः ।
ननु शब्दार्थौ देशान्वितादिरपि व्यङ्ग्यत्वेनोद्देन व्यञ्जकप्रतिपादनमयुक्तमिति
चेत् । न । तमपि द्योपायित्वाभिद्यैव व्यञ्जकत्वान्निर्वाहात् । देशान्वितादिषु यद्-
विशेषादिरूपप्रकरणाद्युपपादकत्वं शब्दार्थेऽपि देशान्वितादीनां प्रयोजकत्वेन
शब्दव्यवहारः । अत एव वक्ष्यति—'पदं देशान्वितादिषु ईर्ष्यादिरोषविशेष-
युक्तिः । प्रकरणं नियतमुद्देशं रूपं देशान्विताद्यूहम् ।' इति । अभिधा-
दित्रयोपाधिवैशिष्ट्यादित्येतत्प्रपञ्चयितुमाह—अभिधेति । उपा-
१. ‘...’ २. ‘...’ ...
...

७० साहित्यदर्पणे
अभिधोपाधिको वाचकः । लक्षणोपाधिको लक्षकः । व्यञ्जनोप-
धिको व्यञ्जकः ।
किं च—
तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयवोधने ।
तात्पर्यार्थं तदर्थं च वाक्यं तद्बोधकं परे ॥ २० ॥
अभिधाया एकैकपदार्थबोधनविरमाद्वाक्यार्थरूपस्य पदार्थान्वयस्य
धिर्व्यापार । अभिधया लक्षणया वा शब्दैः प्रत्येकमुपस्थापितानां पदार्थानां संसर्गो-
वाक्याद्भासमानस्तात्पर्याख्या वृत्तिमपेक्षत इति प्राचीननैयायिकमतमाह—किं
चेति । मतान्तरसूचनाय 'आहुः' इति । 'परे' इति परेणान्वय । इयमेवाधुनिकैः
संसर्गमर्यादोच्यते । अभिधाया इति लक्षणाया उपलक्षणम् । अभिहितानामभि-
धया लक्षणया वा पदोपस्थापितानामन्वयबोधवादिना प्राचीननैयायिकानामित्यर्थ ।

  1. तात्पर्येति । एतदुक्त भवति—लाघवात्पदाना पदार्थमात्रे शक्तिः, नत्वन्वयांशे-
    ऽपि । गौरवादनन्यलभ्यत्वाच्च । तदृशो हि तात्पर्यार्थो वाच्यार्थवैलक्षणशरीर आकाङ्क्षा-
    योग्यतामत्तिवशादपदार्थोऽपि प्रतीयते । न चापदार्थविषयस्यापि शाब्दबोधविषयत्वे कथं-
    चिदुपस्थितस्य गगनादेरपि तद्विषयत्वापत्तिरिति वाच्यम् । अपदार्थनिषयस्य शाब्दबोध-
    विषयतायामप्रयोजकत्वात् । इत्यभिहितान्वयवादिनो नैयायिक-भाट्ट-मीमांसकाः । तेषा-
    मयमभिप्रायः—'घट करोति' इत्यादौ घटवृत्तिकर्मत्वानुकूला कृतिरित्पर्यो बोध्यते । तत्र
    घटपदस्य घटोऽर्थः, अम्प्रत्ययस्य च कर्मता, वृत्तिना तु न कस्यापि, इत्यपदार्थोऽपि
    वृत्तित्ता तात्पर्यवशादनयो. संसर्गविधया भासते । अन्विताभिधानवादिन. प्राभाक-
    रास्तु—'अन्वयरूपे वाक्यार्थेऽपि पदाना शक्ति. । व्यवहारेणान्वितस्यैवोपस्थापनाच्चैवेव
    शक्तिग्रहात् । तथाहि—'देवदत्त, गामानय' इत्युत्तमवृद्धप्रयोगात्सास्नादिमन्तं व्यक्तिं
    मध्यमवृद्धे सञ्चारयति, तच्चेष्टया तस्य वाक्यस्य तदर्थबोधकतामनुमाय पश्चात् 'गा
    नय, अश्वमानय' इति प्रयोगे गवापसरणमश्वाहरण च दृष्ट्वान्त्रयव्यतिरेकाभ्या क्रिया-
    पदार्थान्विते कारके कारकपदस्य, कारकपदार्थान्विताया क्रियाया च क्रियापदस्य
    शक्ति बालोऽवधारयति । तत. प्रयोगकाले तस्य प्रथमत एवान्वितबुद्धिर्जायते । न च
    गौरवेणान्वयांशपरिहार. । प्रथमगृहीतान्वयशक्तेरुपजीव्यत्वेन तदपरित्यागात् । शाब्द-
    बोधे तु आकाङ्क्षादिवशाद्वृत्तितादिविशेषरूपमेण भासत इति नापदार्थो वाक्यार्थ.' इति
    वदन्ति । अत्रारुचिबीज तु—'अन्वितत्वेन शक्तावपि अन्वयविशेपावगमाय आकाङ्क्षादिक
    कारणमवश्यमङ्गीकार्यम् । एव च विशेषाकारेण अशक्यस्यैव भानमिति तैरप्यवश्यमभ्यु-
    पेयम्' इति ॥
    १. 'पदार्थमात्रबोधविरमात्पदार्थानामन्वयप्रतिपादिका तात्पर्याख्या शक्ति' ग. २ 'पदाना क',
    ' ' स.

द्वितीयः परिच्छेदः । ७१
बोधिका तात्पर्य नाम वृत्तिः । १ तदर्थश्च तात्पर्यार्थः । तद्बोधकं च
वाक्यमित्यभिहितान्वयवादिनां मतम् ॥
इति साहित्यदर्पणे वाक्यस्वरूपनिरूपणो नाम द्वितीयः परिच्छेदः ।
अत्र मूलकारिका = २० । पूर्वानि. सह २३ ।
उदाहरणश्लोका = ९ । पूर्वैः सह १५ ।
अन्विताभिधानवादिनो मीमांसकगुरवस्तु—'क्रियाकारकयोः प्रथमत एवान्व-
यबोधो जायते, ततः शक्तिग्रहः, पदविशेषसन्निहारात्तु विशेषस्मृतिरिति । किं
तात्पर्याख्यवृत्तिस्वीकारेण' इत्याहुः ॥
इति श्रीरामचरणतर्कवागीशभट्टाचार्यविरचितायां साहित्यदर्पणविवृतौ
द्वितीय प्रकाश ।
१. अभिहितेति । अभिहितानां स्वस्ववृत्त्या पदैरुपस्थितानामर्थानामान्वय इति ये
वदन्ति तेऽभिहितान्वयवादिन इत्यन्वर्थमभिधानम् ॥
२ अन्वितेति । पदान्यन्वितानि भूत्वानन्तरं विशिष्टमर्थं बोधयन्तीति ये वदन्ति
तेऽन्विताभिधानवादिन इत्यन्वर्थं नाम ॥
१. 'तदर्थं च तात्पर्यार्थ' घ

७८ साहित्यदर्पणे .
'रजस्तमोभ्यामस्पृष्टं मनः सत्त्वमिहोच्यते' । इत्युक्तप्रकारो बाह्य-
मेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वम् । तस्योद्रेको रजस्तमसी
अभिभूय आविर्भावः । तत्र हेतुस्तथाविधालौकिककाव्यार्थपरिशीलनम् ।
अखण्ड इत्येक एवायं विभावादिरत्यादिप्रकाशसुखचमत्कारात्मकः ।
अत्र हेतुं वक्ष्यामः स्वप्रकाशत्वाद्यपि वक्ष्यमाणरीत्या । चिन्मय इति
स्वरूपार्थे मयट् । चमत्कारश्चित्तविस्ताररूपो विस्मयापरपर्यायः ।
तत्प्राणत्वं चास्मद्वृद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीम-
न्नारायणपादैरुक्तम् । तदाह धर्मदत्तः स्वग्रन्थे—
'रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते ।
तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः ।
तस्मादद्भुतमेवाह कृती नारायणो रसम् ॥' इति ।
चमत्कारसारः । स्वाकारवदिति । यथा स्वस्माद्भिन्नोऽपि देहोऽहं स्थूल इत्यादि-
भेदोल्लेखाभावेन प्रतीयते, तथा रसोऽपि ज्ञातृज्ञानभेदोल्लेखाभावेनास्वाद्यत इत्यर्थः ।
घटादिज्ञाने जाते वेद्मीति यथा ज्ञातृज्ञानभेदः प्रतीयते तथात्र नेति भावः । यद्वा
स्वाकारवत्स्वविषयवत् । परिणामवादिभिर्ज्ञानज्ञेययोर्भेदानीकारादिति भावः ।
कामलोभादिबीजभूतौ मनोदोषौ रजस्तमसी, ताभ्यामस्पृष्टं स्वकार्यजननेऽसंसृष्टं
मनो मनोधर्मः । विवृणोति—इत्युक्त इति । उक्तस्वरूप इत्यर्थः । बाह्यं बहि-
र्भवम् । लौकिकमिति यावत् । मेयं वस्तु । विमुखता ज्ञानानुकूलव्यापाराभावः ।
तस्यापादकः प्रयोजकः । ज्ञानानुकूलव्यापारश्चात्र दृङ्मनोयोगः । अभिभूय स्वका-
र्याक्षमे कृत्वा । आविर्भावः प्रतिबन्धकाभावेन स्वकार्यक्षमत्वेनावस्थानम् ।
तस्य सत्त्वोद्रेके । अलौकिको यः काव्यार्थो विभावादिः तस्य परिशीलनमसन्नाभि-
निवेशः । प्रकाशः संवित् । ननु मिलिता विभावादयो रसस्तत्कथमस्याखण्डत्वमत
आह—अत्रेति । अखण्डतायामित्यर्थः । हेतुमिति । समुद्राल्लम्बनज्ञानादान्म्यमेव
हेतुर्वक्ष्यते । स्वप्रकाशत्वाद्यपीत्यादिना सुखनादान्त्यपरिग्रहः । स्वरूपार्थ
इति । न त्वन्नमयो यज्ञ इतिवत्प्राचुर्यार्थे । लोकातीतार्थाकलनेन किमेतदिति
तन्मयतयार्जनेन चित्तस्य दीर्घप्रायत्वं विस्तारः । दृष्टहेतुभ्योऽप्रभवित्वज्ञानेन
हेत्वन्वेषणे मनोव्यापारमेव चित्तविस्तार इत्यपरे । विस्मयो विस्मयशब्देन
गृह्यमाणो वस्तुचमत्कार उच्यते सः । यद्वा अपरपर्यायोऽभिन्नः । तत्प्राणत्वं
चमत्कारसारत्वम् । रस विभावः । सर्वत्र शृङ्गारादौ । चमत्कारसारत्वे
१ 'इत्युक्तप्रकारत्वात्' ग. म. २ इदं पदं ख. पुस्तके नास्ति ३ 'अस्य' ग. ४ 'यद्वा' इति
नास्ति ख. पुस्तके ५ 'अत्र इति नास्ति पुस्तकान्तरे ६ 'प्रकृष्ट'

७९
तृतीयः परिच्छेदः ।
कैश्चिदिति प्राक्तनपुण्यशालिभिः । यदुक्तम्-
'पुण्यवन्तः प्रमिण्वन्ति योगिवद्रमसन्ततिम् ।' इति ।
यद्यपि 'स्वादः काव्यार्थसभेदाद्वात्मानन्दसमुद्भवः ।' इत्युक्तदिशा
रसास्वादनातिरिक्तत्वम्, तथापि 'रसः स्वाद्यते' इति काल्पनिकं
भेदमुरीकृत्य कर्मकर्तरि वा प्रयोगः । तदुक्तम्- 'रस्यमानतामात्रा-
त्स्वात्मकाशरीरादनन्य एव हि रस' इति । एवमन्यत्राप्येवंविध-
स्थलेषूपचारेण प्रयोगो ज्ञेयः ।
नन्वेतावता रसस्याज्ञेयत्वमुक्तं भवति । व्यञ्जनाव्यापारविष-
यत्वाद् द्वयोरेक्यमापतितम् । तत्तश्च-

वक्तव्यस्येत्याद्यन्वये । रस्यास्वादयोर्भेदमाशंक्याह-
सूक्ष्मदृष्टेति यद्यद्यपि स्वादोऽस्तितन्मूलकश्च व्यङ्ग्यः स न रसः । इति
प्राक्तनेति । ऐतिह्यमुच्चार्योत्तरे दृष्टान्तमाह-पुण्येति ।
श्लोकेन रसो दर्शितः । यद्यपीति । काव्यार्थभेदात्प्रतिपादितः । रसो
ऽपि, आत्मानन्दं प्रति नो गृह्यते तथा काल्पनिकभेदविशिष्ट-
म्भवेपि इति । प्रयोग इति कर्मकर्तरि वा । काल्पनिकभेदविशिष्ट-
रस एव । रस्यास्वादयो भेदन नोपपद्यते भेदप्राप्त्यावेव प्रयोगो-
ऽयं । तत्र प्रमाणमाह-रस्यमानेति-कर्मकर्तरि वेति । स्वात्म-
कादिति प्रतीतेराद्यन्तशून्य एव रसः । तस्मात् स्वात्मका-
रस्यमानतेति । सात्मकात् प्रतीतेराद्यन्तशून्य एव रसः
प्रतीतिराद्यन्तशून्यात् । प्रभाशरीरात् व्यतिरिक्तो रसः ।
एव रसत्वे नास्ति तस्मादुच्यते कर्मकर्तरि वेति ।
द्विगुणादिके समानाधिकरणे प्रयोगः ।
न्यूनार्थाद्वा ज्ञेयः ।
नन्वेतावता रसस्यैवाज्ञेयत्वमुक्तम् ।
रसस्यैवेति भावः ।
रसास्वादयोर्भेदमाशङ्क्याह-व्यञ्जनाव्यापारेति ।
आक्षेपं वारयति-द्वयोरिति ।
प्रतिपाद्योऽपि ।
रसेनैवेत्यर्थेति ।

९८ साहित्यदर्पणे
अथ धीरोद्धतः—
मायापरः प्रचण्डश्चपलोऽहंकारदर्पभूयिष्ठः ।
आत्मश्लाघानिरतो धीरैर्धीरोद्धतः कथितः ॥ ३३ ॥
यथा—भीमसेनादिः ।
अथ धीरललितः—
निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात् ।
कला नृत्यादिका । यथा—रत्नावल्यादौ वत्सराजादिः ।
अथ धीरप्रशान्तः—
सामान्यगुणैर्भूयान्द्विजादिको धीरशान्तः स्यात् ॥ ३४ ॥
यथा—मालतीमाधवादौ माधवादिः ।
एषां च शृङ्गारादिरूपत्वे भेदानाह—
एभिर्दक्षिणधृष्टानुकूलशठरूपिभिस्तु षोडशधा ।
तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिणधृष्टानुकूलशठत्वेन षोड-
शप्रकारो नायकः ।
एषु त्वनेकमहिलासमुरागो दक्षिणः कथितः ॥ ३५ ॥
द्वयोस्त्रिचतुःप्रभृतिषु नायिकासु तुल्यानुरागो दक्षिणनायकः ।
यथा—
स्नाता तिष्ठति कुन्तलेश्वरसुता, वारोऽङ्गराजस्वसु-
र्द्यूते रात्रिरियं जिता कमलया, देवी प्रसाद्याद्य च ।
अहंकारः अह महानिति ज्ञानविशेष । दर्प शौर्यवीर्याद्यतिशय । मृदुः अप्र-
चण्डचरित. ॥ सामान्यगुणैर्नायकसामान्यगुणै. । धीरोदात्तादित्रितयभिन्नो
नायको धीरप्रशान्त इत्यभिप्राय ॥ एषां धीरोदात्तादीनाम् । षोडशधेति ।
शृङ्गारे षोडशप्रकारो नायको भवति रसान्तरे तु चतुष्प्रकार इत्यवधेयम् ॥ स्नाता
ऋतुस्नाता । वार सुरतार्थ नियमितदिवस । जिता जयेनात्मसुरतार्थ प्राप्ता । देवी
कृताभिषेका राजपत्नी । देवेन राज्ञा । अप्रतिपत्त्या कर्तव्यनिश्चयेन मूढं व्याकुलम्

  1. एभिरिति । दक्षिणधीरोदात्त , दक्षिणधीरोद्धत, दक्षिणधीरललितः, दक्षिणधीर-
    प्रशान्तः, एव धृष्टादिपदयोजनेन षोडशप्रकारका नायका इत्यवधेयम् ॥
    १ ग पुस्तके 'कला नृत्यादिका यथा' नास्ति, घ पुस्तके तु 'यथा रत्नावल्यां' इति पाठ. २ 'धीरप्रशान्त'
    ३ 'महत्सु' घ. ४ 'नायिकासु' इति घ पुस्तके नास्ति. ५ 'नायक' इति नास्ति ग पुस्तके

तृतीयः परिच्छेदः ।
इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते
देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥
कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः ।
दृष्टदोषोऽपि मिथ्यावाक्कथितो धृष्टनायकः ॥ ३६ ॥
यथा मम—
शोणं वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं, ततः
पादेन प्रहृतं तया, सपदि तं धृत्वा सहासे मयि ।
किञ्चित्तत्र विधातुमक्षमतया वाष्पं सृजन्त्याः सखे
ध्यातश्चेतसि कौतुकं वितनुते कोपोऽपि वामभ्रुवः ॥
अनुकूल एकनिरतः—
ऐकस्यामेव नायिकायामासक्तोऽनुकूलनायकः ।
यथा—
अस्माकं सखि वाससी न रुचिरे, ग्रैवेयकं नोज्ज्वलं,
नो वक्रा गति, रुद्धतं न हसितं, नैवास्ति कश्चिन्मदः ।
किंत्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो
दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥
अप्राप्तिनिश्चयशून्यं वा मनो यस्य तेन ॥ कृतागाः कृतापराध । मिथ्यावाक् मयै-
तन्न कृतमित्ययथार्थवचन ॥ तं पादम् । अत्र प्रथमपादेन कारिकाया प्रथमपा-
दोक्तं द्वितीयपादेन द्वितीयपादोक्तं लक्षणं वेदितव्यम् ॥ अस्माकमिति । कस्या-
श्चिन्नायिकाया उक्तिरियम् । ग्रैवेयकं कण्ठभूषणम् । वक्रा चित्रा । उद्धतमुत्कटम् ।
१. इतीति । इति अन्तःपुरसुन्दरीः प्रति विज्ञाय यन्मया यद् वक्तव्यं तदवगम्य मया
विज्ञापिते विदित्य निवेदिते सति । एतदुक्तं भवति—ऋतुस्नातैव तावदनपेक्षणीया किमुत
कुन्तलमहाराजतनया, साधारणोऽपि समयो दुर्लङ्घ्यः किमुताद्यनाथस्यसन्निहितन्या-
यागतसमागमसमय., सामान्येऽपि जये परनवता किमुत कमलाललामकमलाप्रयुक्ते ।
एवमुत्तरोत्तराधिककार्यसंपानेऽपि महाराज्ञाः प्रसादनं तावत्सर्वोपरीति रहस्यम् ॥
२. नाडिका इति । अत्यन्तसंयोगे द्वितीया ॥
३. 'वक्त्रं वीक्ष्य चुम्बितुमर्' इति साधीयान् पाठः ॥
१. ग-पुस्तके तु 'इत्थं सान्द्रविलेपनस्तनुभृतोऽप्युत्थातुमप्यक्षमः सान्द्रस्नेहमहानिधिर्व्यथयते
नोन्माद्यते । रक्षन्ते न परिक्षतीर्यत इतो नान्तर्बहिर्व्यापिना संविष्टा रमणेन तन्मुखवलादाज्ञा च
तद्दिद्यतम्' इति परमोदाहरणं दृश्यते २. 'एकस्या-' इति पठितं ग-पुस्तके
३ 'इत्यवे' इत्यधिकं ङ-पुस्तके.

१०२ साहित्यदर्पणे
अर्थचिन्तने सहायमाह—
मन्त्री स्यादर्थानां चिन्तायां—
अर्थास्तन्त्रावापादयः। यत्त्वत्र सहायकथनप्रस्तावे— 'मन्त्री स्वं
चोभयं वापि सखा तस्यार्थचिन्तने' इति केनचिल्लक्षणं कृतम्, तदपि
राज्ञोऽर्थचिन्तनोपायलक्षणप्रकरणे लक्षयितव्यम्, न तु सहायकथनप्र-
करणे । १ नायकस्यार्थचिन्तने मन्त्री सहायः, इत्युक्तेऽपि नायकस्यार्थत
एव सिद्धत्वात् । यदप्युक्तम्— 'मन्त्रिणा ललितः शेषा मन्त्रिष्वायत्त-
सिद्धयः' इति, तदपि स्वलक्षणकथनेनैव लक्षितस्य धीरललितस्य मन्त्रि-
मात्रायत्तार्थचिन्तनॊपपत्तेर्गतार्थम् । न चार्थचिन्तने तस्य मन्त्री सहायः ।
किं तु स्वयमेव सम्पादकः । तस्यार्थचिन्तनाद्यभावात् ।
शरीरचेष्टाविशेष इत्यर्थः ॥ मन्त्रीति । अस्य इति सहायः इति चानुपज्यते ।
चिन्तायामुपायनिरूपणे । स्वमण्डले क्रियमाणं कर्म तन्त्रम् । परमण्डले क्रियमाणं
कर्म आवाप । आदिना शत्रुनिग्रहादय । यत्त्विति । स्वं चेति चकारो वार्थ ।
उभयं मन्त्रिसद्वयम् । तस्य नायकस्य । सहायकथनपरत्वे दोषमाह—नायक-
स्येति । एवं च स्वं चेत्यादि निरर्थकम् । तदनुपादानेऽपि तल्लाभात् । स्वयं
चिन्तापक्षे स्वस्य सहकारिरूपसहायत्वानुपपत्तेरुभयचिन्ताया कारणान्तरप्रसङ्गा-
च्चेति भाव । सरिशब्दस्योपायार्थत्वम्, न तु सहायपरत्वमित्यवगन्तव्यम् ।
मन्त्रिणेति । आयत्तसिद्धिरित्यन्वय । ललितो धीरललित । शेषा धीरोदात्तादयः ।
स्वलक्षणेति । चिन्तन इति । धीरललितलक्षणनिविष्टेन तस्यार्थचिन्तनाद्यभाव ।
तेन च मन्त्रिमात्रायत्तार्थसिद्धिकत्वं प्रतीयत इति भाव । तस्य धीरललि-
१. तन्त्रेति । तन्त्रण तन्त्रम् । स्वाधीनत्वात्स्वराष्ट्रे क्रियमाण कर्मापि तन्त्रशब्देनो-
च्यते । आ समन्ताद् वपन्ति इतिकर्तव्यताबीजमत्रेत्यावापः । 'डुपव् बीजतन्तुसन्ताने'
'हुलश्च' इति घञ् । 'पर प्रत्यावाप फलति कृतसेकस्तुरुरिव' इति ॥
२. केनचिदिति । दशरूपके धनञ्जयेनेत्यर्थः । तत्राय सुगमः सदंर्भः—अथ नेतुः
कार्यान्तरसहायानाह—'मन्त्रौ स्व वोभय वापि सखा तस्यार्थचिन्तने । तस्य नेतुः
अर्थचिन्ताया तन्त्रावापादिलक्षणाया मन्त्री वा आत्मा वा उभय वा सहायः। तत्र
विभागमाह—'मन्त्रिणा ललित , शेषा मन्त्रिष्वायत्तसिद्धय. ।' उक्तलक्षणो ललितो नेता
मन्त्रायत्तसिद्धि. । शेषा धीरोदात्तादय अनियमेन मन्त्रिणा स्वेन वा उभयेन वा अङ्गी-
कृतसिद्धय इति ॥
१ क पुस्तके तथा मुद्रितपुस्तकेषु 'मन्त्री स्यादर्थाना चिन्ताया तद्भवदवरोधे ।' इत्यार्धं
रथो ने 'मन्त्री स्यादर्थचिन्तायामर्थास्तन्त्रावापादय ।' इत्येवमउष्ट्रपुरूपतत्र प्राप्तितम् 'तथा
नि खण्डे गद्ये योजितम् २ 'तस्योभयस्यापि' क.

तृतीयः परिच्छेदः । १०३
अथान्तःपुरसहायाः—
तद्वदवरोधे ।
वामनषण्ढकिरातम्लेच्छाभीराः शकारकुब्जाद्याः ॥ ४३ ॥
मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्तः ।
सोऽयमनूढाभ्राता राज्ञः श्यालः शकार इत्युक्तः ॥ ४४ ॥
आद्यशब्दान्मूकादयः । तत्र षण्ढवामनकिरातकुब्जादयो यथा
रत्नावल्याम्—
नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा-
मन्तःकञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ।
पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतं
कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥
शकारो मृच्छकटिकादिषु प्रसिद्धः । अन्येऽपि यथादर्शनं
ज्ञातव्याः ।
अथ दण्डसहायाः—
दण्डे सुहृत्कुमाराटविकाः सामन्तसैनिकाद्याश्च ।
दुष्टनिग्रहो दण्डः । स्पष्टम् ।
ऋत्विक्पुरोधसः स्युर्ब्रह्मविदस्तपसस्तथा धर्मे ॥ ४५ ॥
ल्ल । सयमेव सहदेव निष्पादकः प्रधानकारणम् ॥ तद्वदिति । अवरोधेऽन्तः-
पुरे । वामनादयो नायकस्य सहाया इत्यर्थः । शष्टारिष्टनोपस्य क्लीबो वा । शरा-
र्त्थाह—मदेति । मदमूर्खताभ्यामभिमानी अहं महानिति ज्ञानवान् । मदा-
दित्यर्थवान् वा ॥ नष्टमिति । वानरवेषेणान्तःपुरप्रविष्टं विदूषकमवलोक्य भये-
नान्तःपुरस्थानां पलायनवर्णनमिदम् । नष्टमदर्शनतां प्राप्तम् । वर्षवरैः षण्ढैः ।
'सौविदल्लाः कञ्चुकिन' इत्यमरः । किर पर्यन्तदेशमटतीति किरात इति नाम्नोऽन्वया-
च्चस्थानस्य सदृशं योग्यं पर्यन्तदेशं प्राप्त इत्यर्थः ॥ मृच्छकटिका नाटिकाविशेषः ।
अन्ये म्लेच्छाभीरादयः । आटविका दण्डायिनः ॥ ऋत्विगिति । धर्मे धर्मसंबन्धि-
१. दण्डेति । राज्ञो दण्डसंसाधको दण्डः । 'दण्डः समासे' । इति । मूर्-
र्खविद् राजसंबन्धिः । तत्र राज्ञोऽनुचरस्य बहुत्वात्कृतं यतोऽपत्यं नाशं गच्छेत् ।
सार्थे संचरं स्थानान्तेऽस्तु । 'ये सामन्ताः, कुमाराः, सैनिकाः कौटिकादितः ।
स वा न दृष्टा कार्येषु ते हि संविदः स्मृताः ।' इति शास्त्रान्तरे दर्शितोऽप्यनादृतो
२. मृच्छेति । शूद्रकविरचितं नाटकविशेष इत्युचितम् ॥

१०६ साहित्यदर्पणे
अथ विलासः-
धीरा दृष्टिर्गतिश्चित्रा विलासे सस्मितं वचः ।
यथा-
दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा
धीरोद्धता नमयतीव गतिर्धरित्रीम् ।
कौमारकेऽपि गिरिवद्गुरुतां दधानो
वीरो रसः किमयेत्युत दर्प एव ॥
संक्षोभेष्वप्यनुद्वेगो माधुर्यं परिकीर्तितम् ॥ ५२ ॥
ऊह्यमुदाहरणम् ।
भीशोकक्रोधहर्षाद्यैर्गाम्भीर्यं निर्विकारता ।
यथा-
आहूतस्याभिषेकाय विसृष्टस्य वनाय च ।
न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥
व्यवसायादचलनं धैर्यं विघ्ने महत्यपि ॥ ५३ ॥
यथा-
श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव ।
आत्मेश्वराणां नहि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥
अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् ।
प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥ ५४ ॥
तादि ॥ तृणीकृतौ तुच्छीकृतौ जगत्त्रयस्य सत्त्वमुत्साह सारो बलं च यया सा ।
धीरा मन्थरा । उद्धता उद्भटा च । एतेन गतेश्चित्रत्वं नैकरूपत्वं च । अत्र नाय-
कस्य उत्साहदर्पयोरतिशयसूचनाय वीररसत्वेन दर्पत्वेन चोल्लेख ॥ ऊह्यमुदाह-
रणमिति । यथा मम रामविलासे- 'तन्निपीय कटु कर्णपदव्या खेदमाप न
मनागपि राम । शूलपाणिरिव घोरमुदग्रं कालकूटपटलं किल पूर्वम् ॥' तस्य
श्रीरामस्य । आकारो मुखनेत्रादि तस्य विभ्रमो वैपरीत्यं येन हर्षशोकादयो
लक्ष्यन्ते ॥ व्यवसायात् प्रारब्धकर्मण । अचलनम् अप्रच्यवनम् ॥ प्रसं-
ख्यानपरो योगनिष्ठ । आत्मेश्वराणा मनोरोधक्षमाणांम् ॥ अधिक्षेपो

  1. अस्मिन्निति । अस्मिन्क्षणे वसन्ताविर्भावसमये ॥
    घ. ३. 'तस्य-' इत्यादि लक्ष्य'ते' इत्यन्त पाठो टि 'मनोनिरोधक्षमागाम्' इत्यादाग्रे
    ५०

तृतीयः परिच्छेदः । १०७
वाग्वेषयोर्मधुरता तद्वच्छृङ्गारचेष्टितं ललितम् ।
दानं सप्रियभाषणमौदार्यं शत्रुमित्रयोः समता ॥ ५५ ॥
एषामुदाहरणान्यूह्यानि ।
अथ नायिका त्रिभेदा स्वान्या साधारणस्त्रीति ।
नायकसामान्यगुणैर्भवति यथासंभवैर्युक्ता ॥ ५६ ॥
नायिका पुनर्नायकसामान्यगुणैस्त्यागादिभिर्यथासंभवैर्युक्ता भवति ।
सा च स्वकी अन्यस्त्री साधारणस्त्रीति त्रिविधा ।
तत्र स्वकी—
विनयार्जवादियुक्ता गृहकर्मपरा पतिव्रता स्वीया ।
यथा—
लज्जापञ्जरपसाहणोइ परभत्तिणिप्पिदामारं ।
अविणअदुम्मेधाई धणगाण घरे अलत्ताइ ॥
नर्मन्नम् । अपमान पराभव । अरिना अपर. तरि । प्रयुक्तव्य दृश्य । परेण
नहणा ॥ उदाहरण यथा रामनिती— निरपरररदोहन...
कृत्वा त्रिदिवेरितलोचनन्युत्योनरुचिरकृतम् । वृत्त तस्य हस्तहृत्तपटि
तेजोवराहस्त नेत्रान्तेन विदार्य ... प्रोचे दय राघव ।' विरन्वक-
सन्तं एरदोटयात्र यस्य तम् । तस्य गदादस्य । अहं गच्छन् । तद्गच्छ-
... । ललितं पार्थगौरवार्थे यत्र—'दीक्ष तस्य रुचि प्रतेश शूषणस्य
मधुर च भवितम् । सप्रसादमदस्य चित्र हरणस्य सप्रक्ति दृष्टम् ।',
'दत्ते गहावदने सप्रियवदन च नूपुर । द्विचि तस्ये यत्र निशितस...
जरा रक्षन् ।' स्वा स्वीय । अन्या परन ... । साधारणी सर्वलोक-
वेश्या । 'स्त्री इति स्वरूपोक्तेः, यथासंभवैरिति । हेतुकर्मगुणैर्युक्ता
नायिकाया न वर्तन्ते । अत एव कुलाङ्गने नायके नासिका तुष...
... । तत्रेति । 'राजा' इत्युपलक्षणम् ...

२. तृतीय परिच्छेद: रस-निरूपण, भाव व विभाव

१२० साहित्यदर्पणे
पुनश्च—
अवस्थाभिर्भवन्त्यष्टावेताः षोडशभेदिताः ।
स्वाधीनभर्तृका तद्वत्खण्डिताथाभिसारिका ॥ ७२ ॥
कलहान्तरिता विप्रलब्धा प्रोषितभर्तृका ।
अन्या वासकसज्जा स्याद्विरहोत्कण्ठिता तथा ॥ ७३ ॥
तत्र—
कान्तो रतिगुणाकृष्टो न जहाति यदन्तिकम् ।
विचित्रविभ्रमासक्ता सा स्यात्स्वाधीनभर्तृका ॥ ७४ ॥
यथा—'अस्माकं रति वाससी—' इत्यादि (९०पृ.) ।
पार्श्वमेति प्रियो यस्या अन्यसंभोगचिह्नितः ।
सा खण्डितेति कथिता धीरैरीर्ष्याकषायिता ॥ ७५ ॥
यथा—'तद्वितथमवादीः—' इत्यादि (११३पृ.) ।
अभिसारयते कान्तं या मन्मथवशंवदा ।
स्वयं वाभिसरत्येषा धीरैरुक्ताभिसारिका ॥ ७६ ॥
उदाहरणम्—
न च मेतिगच्छति यथा लघुतां, करुणां यथा च कुरुते न मयि ।
निपुणं तथैनमभिगम्य वदेर्गर्भद्रुतिं क्वचिद्दिनि संदिदिगे ॥
उच्छ्रिते कनकद्रणद्वयमिदं, बद्धा दृढं मेखला,
दत्तेन प्रतिपादिता मुग्गरयोर्मङ्गीयोर्मूक्रता ।
.... । ईर्ष्याकषायिता ईर्ष्या कषायीकृताचित्ता ॥ अभिसारिकाया लक्षणं
........ सूत्रेण तद्व्याचष्टे—अभिसारयते इति ॥ न चेति । न
....... दूतं प्रति संदिष्टे कविः न्याख्यातं ॥ उच्छ्रि-
.............................................................
.............................................................
.............................................................
.............................................................
.............................................................
.............................................................
.............................................................
.............................................................
.............................................................

तृतीयः परिच्छेदः । १२१
आरब्धे रससान्मया प्रियसखि क्रीडाभिसारोत्सवे,
चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः ॥’
संलीना स्वेषु गात्रेषु मूकीकृतविभूषणा ।
अवगुण्ठनसंवीता कुलजाभिसरेद्यदि ॥ ७७ ॥
विचित्रोज्ज्वलवेषा तु रणन्नूपुरकङ्कणा ।
प्रमोदस्तमेरवदना स्याद्वेश्याभिसरेद्यदि ॥ ७८ ॥
मदस्खलितसंलापा विभ्रमोत्फुल्लोचना ।
आविद्धगतिसंचारा स्यात्प्रेष्याभिसरेद्यदि ॥ ७९ ॥
तत्राद्ये ‘उत्क्षिप्तं—’इत्यादि (१२० पृ.) । अन्ययोरप्युदाहरणम् ।
प्रसङ्गादभिसारस्थानानि कथ्यन्ते—
क्षेत्रं वाटी भग्नदेवालयो दूतीगृहं वनम् ।
मालापक्षः श्मशानं च नद्यादीनां तटी तथा ॥ ८० ॥
तम् ऊर्ध्वं न्यस्तम् । एतेन तयोः शब्दप्रतिरोधः । प्रतिपादिता दृशा । तिमिरमेव
अवगुण्ठनपटं आच्छादनवस्त्रं तस्य क्षेपं निरासम् ॥ प्रसङ्गादभिसारलक्षणमाह—
संलीनेति । गात्रेषु अङ्गेषु । सङ्कुचितसर्वाङ्गीत्यर्थः । अवगुण्ठनेन आच्छादनपटेन
संवीता संवृतदेहा । एतदुपलक्षणम् । अनुचितरविनापि संवीता । तत्रान्धकारे नील-
तत्तत्सदृशवस्त्रादिनासंवीता । ज्योत्स्नायां चन्दनाद्युपलीप्ता । उक्तेन यथा—‘लीनं
यत्तमसि प्रियं वपुषि नीलोत्पलाभाम्बरं साटोपारवमद्य मन्दमपरं पादौ दधौ योषिताम् । व्योम
परिवेदितं रजनिराज्या दुर्दिनः परं परमनुग्रहान् गतिं न रुद्धितः प्रेयसी ।’,
‘मदिरामोदगन्धेन सङ्केतगोऽनुविन्दन् । दीपोऽसौ न तरन्ते जोत्स्नावतारि-
गतिम् ॥’ आविद्ध उद्धान्ता पद उद्भ्रान्तो यस्याः । ‘आविद्धगतिसञ्चारा’ इति
पाठे आविद्धा उद्धान्ता गता सञ्चारः यस्येत्यन्यपदार्थस्य विशेषणं । आद्ये
कुलजाभिसारप्रसङ्गे । अन्ययोरपि प्रेष्याभिसारप्रसङ्गयोः । तत्र ...
तम् । यथा मम—‘दत्तेऽङ्गुष्ठेऽङ्गुष्ठे पुरे दर्शनं स्थिरतरकुटीकुसुमकेशे-
र्भितः । अन्ये मुकुलितकुवलयदलैरम्भोभिर्नवाश्चित्तधृत इति यक्षः ।’,
‘अयं तवेशान-...-रभसनिर्भरम् । प्रसङ्गादेते विशेषण-
नीनि सूच्यते प्रेक्षद् विभाव्यिते । अत्र ‘मन्दोऽयम्’ इति पाठाद् ‘अतीवोध्द्’ इति
... वाटीति । ...
...
...
...

१२६ साहित्यदर्पणे

'तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः ।
ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ॥'
'मुहुरुपहसितामिवालिनादैर्वितरसि नः कलिकां किमर्थमेनाम् ।
वसतिमुपगतेन धाम्नि तस्याः शठ कलिरप महांस्त्वयाद्य दत्तः ॥'
'इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेसरेण ।
श्रवणनियमितेन कान्तमन्त्या सममसिताम्बुरुहेण चक्षुषा च ॥'
इयं हि वक्रोक्त्या परुषवचनेन कर्णोत्पलताडनेन च धीरमध्यताधी-
रमध्यताधीरप्रगल्भताभिः संकीर्णा । एवमन्यत्राप्यूह्यम् ।
इतरा अप्यसंख्यास्ता नोक्ता विस्तरशङ्कया ॥ ८८ ॥
ता नायिकाः ।

पिवति पाति वेति व्युत्पत्तिद्वयेन सैव विटपा अयमपि विटप इति तुल्ययोर्योगो
योग्यो भवतीत्यर्थः । भवद्व्यलीकैर्भवतोऽप्रियवचनै । स्फुरितो मनोरमः पक्ष्मवत्के-
सरो यस्य तेन । चक्षु पक्षे—पक्ष्मैव केसरो यस्य तेन । वक्रोक्त्येति । विटश-
ब्दस्य नानार्थकल्पनाविचित्रोक्त्येत्यर्थः ॥ इतरा अपि पद्मिनीहस्तिनीप्रभृतयः ॥
अमु विटान्पातीति विटपं पल्लवम् । 'विटपः पल्लवे पिङ्गे' इति विश्वः । ददस्व प्र-
यच्छ । व्रज गच्छ । यतो दानाच्चिराय सदृशोरनुरूपयोर्योगो भवतु । उभयोरपि
विटपत्वादिति भावः ॥ हे कितव धूर्त, वृथा व्यर्थमेवाहितैः । तत्कार्यस्यान्यथा-
सिद्धत्वादिति भावः । तव सम्बन्धिभिः क्षितिरुहाणां पल्लवाः पुष्पाणि च तान्येव कर्णं
पूरयन्तीति कर्णपूराः कर्णावतंसाः । तैरनोऽस्माकं किं तत्साध्यम् । न किंचिदस्ती-
त्यर्थ । ननु अङ्ग, जनविदितैर्भवद्व्यलीकैस्तवाप्रियवचनैः कर्णयुग्मं चिरपरिपूरितं नित्यं
पूर्णमेव । अतः पूरितस्य पूरणायोगादलमेभिरिति ॥ अलिनादैर्मुहुरुपहसिता प्रतारणा-
येति प्रहस्यमानामिव स्थितामेनां कलिकां कोरकम्, अद्य कलिं कलहं च । 'कलहे च
युगे कलिः' इति वैजयन्ती । स्त्रीप्रत्ययस्त्वविवक्षितः श्लेषे । नः अस्माकं किमर्थं वितरसि ।
हे शठ गूढविप्रियकारिन्, तस्याः त्वत्प्रियाया धाम्नि भवने वसतिं स्थितिमुपगतेन
त्वया अद्यैव वर्तमानो महान् कलिः कलहो दत्तः । स्वदत्त एव महति कलौ स्थिते
किं कृत्यन्तरेणेत्यर्थः ॥ इति गदितवती उक्तवती अन्या स्त्री रुषा कान्तं स्फुरितान्युज्ज्वलानि
मनोरमाणि च पक्ष्माणीव केसराणि । अन्यत्र केसराणीव पक्ष्माणि, यस्य तेन श्रवणे
नियमितेन श्रोत्रे निरुद्धेन असिताम्बुरुहेण नीलोत्पलेन चक्षुषा च समं युगपज्जघान
ताडयामासेति ॥

  1. इतरा इति । तथा चोक्तम्—'पुनश्च तास्त्रिधा ज्ञेया दिव्यादिव्योभयात्मना ।
    चतुर्धा चोद्धतोदात्ता ललिता शान्तिका तथा ॥ अक्षता च क्षता यातायाता यायावरेत्यपि ।

१ अयं श्लोकः क-ग-घ पुस्तके नास्ति, २ 'इतरा-' इति कारिकार्धं नास्ति ग पुस्तके.

तृतीयः परिच्छेदः । १३३
अथ विव्वोकः—
विव्वोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ॥ १०० ॥
यथा—
‘यासां सत्यपि सद्गुणानुसरणे दोषानुवृत्तिः परा,
याः प्राणान्वरमर्पयन्ति, न पुनः संपूर्णां दृष्टिं प्रिये ।
अत्यन्ताभिहितेऽपि वस्तुनि विधिर्यासां निषेधात्मक-
स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु ते ॥’
अथ किलिकिञ्चितम्—
स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् ।
सांकर्यं किलिकिञ्चितमभीष्टतमसङ्गमादिजाद्धर्षात् ॥ १०१ ॥
यथा—
‘पाणिरोधमविरोधितवाञ्छं भर्त्सनाथ मधुरस्मितगर्भाः ।
कामिन स्म कुरुते करभोरुर्हारि शुष्करुदितं च सुखेऽपि ॥’
यासामिति । कंचिन्मानिनं प्रति सख्युपगर्भवचनमिदम् । सद्गुणानुसरणे संद-
र्शनायने दोषाणामनुवृत्तिः खय पुन पुनरुद्भावनम् ॥ सांकर्यं मेलनम् ॥ पाणि-
रोधं दन्तक्षेपणादिरूपनानाप्रकारप्रतिबन्धम् । हारि मनोहरम् । करणं भिन्नम् ॥
१. प्राणानिति। गन्धरूपरसादिना न्यक्करणम्, न पुनः संपूर्णदृष्टिप्रिये ।
२ वस्तुनीति । गं ऽभ्यन्तरविषये ॥
३ वामा इति । ङग देविषु । देवी प्रसूति शशिशेखरम चित्तवृत्तिभिरिति

१३२ साहित्यदर्पणे
अथ विलासः—
यानस्थानासनादीनां मुखनेत्रादिकर्मणाम् ॥ ९९ ॥
विशेषस्तु विलासः स्यादिष्टसंदर्शनादिना ।
यथा—
'अत्रान्तरे किमपि वाग्विभवातिवृत्त-
वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः ।
तद्भूरिसात्त्विकविकारमपास्तधैर्य-
माचार्यकं विजयि मान्मथमाविरासीत् ॥'
अथ विच्छित्तिः—
स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत् ।
यथा—
'स्वच्छाम्भःस्नपनविधौतमङ्गमौष्ठ-
स्ताम्बूलद्युतिविशदो विलासिनीनाम् ।
वासस्तु प्रतनु विविक्तमस्त्वितीया-
नाकल्पो यदि कुसुमेषुना न शून्यः ॥'
जूतो यस्या अस्तीति ॥ अत्रान्तरे नायकसंदर्शनादिसमये । वाग्विभवमतिवृत्तम-
तिक्रम्य स्थितं वैचित्र्यं गमनादिचातुरी यस्मात्तत् । ते प्रसिद्धा भूरिसात्त्विकवि-
काराः स्तम्भादयो यस्मात्तत् । आचार्यकमुपाध्यायकर्म । उपदेश इत्यर्थः ॥ स्तोका
अल्पा आकल्परचना वेषविन्यासः । प्रतनु अतिसूक्ष्मम् । विविक्तं निर्मलम् ॥
महाकुलोत्पन्ना, कुलं स्वामिकुलममलं निष्कलङ्कम् । अयं मटक्षणो जनः न त्वेष स्थिरः,
जीवितं च न स्थिरम् । अचिरावस्थायिनः शरीरस्य कृते मातृपितृभर्तृकुलकलङ्कनमभि-
नरामनुचितमिति भावः ॥

  1. इतीति । इत्येवंरूपं स्यात् एतावानेव विलासिनीनामाकल्पो नेपथ्यमस्तु ।
    किन्न्वन्तरित्यर्थः । यदि स कुसुमेषुना कामेन शून्यो न स्यात् । अन्यथा उद्विग्नितानामिव
    कनकभूषणादि नाप्यायत एवेति भावः ॥
    १ 'प्रतन्वङ्गे विशेषस्तु विष्णोनेत्रादिकर्मणाम् २' इति ग. २. 'मोष्ठस्तम्बूलदीप्ति विच्छित्ति-
    १' इति ग. ३ 'कन्दिशो शैलप्रपातमधो गोगोवनागद्वेषिनिवारणे । यस्य वने
    ० ० ० ० च यदि दहनदोहः ३' इति ग.

तृतीयः परिच्छेदः । १३३
अथ विव्वोकः-
विव्वोकस्त्वतिगर्नेण वस्तुनीष्टेऽप्यनादरः ॥ १०० ॥
यथा-
'यासां सत्यपि सद्गुणानुसरणे दोषानुवृत्तिः परा,
याः प्राणान्वरसमर्पयन्ति, न पुनः संपूर्णदृष्टिं प्रिये ।
अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मक-
स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु ते ॥'
अथ किलकिञ्चितम्-
स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् ।
सांकर्यं किलकिञ्चितमभीष्टतमसङ्गमादिजाद्धर्षात् ॥ १०१ ॥
यथा-
'पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।
कामिनः स कुरुते करभोरुर्हारि शुष्करुदितं च सुखेऽपि ॥'
यासामिति । कंचित्कामिनं प्रति सख्याशीर्वचनमिदम् । सद्गुणानामनुसरणे परै-
रुद्भावने दोषाणामनुवृत्तिः स्वय पुन पुनरुद्भावनम् ॥ सांकर्यं मेलनम् ॥ पाणि-
रोधं वस्त्रक्षेपणादिप्रवृत्तनायककरप्रतिबन्धम् । हारि मनोहरम् । कारणं विना रुदितं
१. प्राणानिति । मानत्रह्यस्त्वत्प्राणार्पणं तावत्सुकरम्, न पुनः संपूर्णदृष्ट्यर्पणम् ॥
२. वस्तुनीति । नीवीवसनादिरूपे ॥
३. वामा इति । वामा योषितः । इष्टेपि वस्तुनि अनिष्टोद्भावन विलक्षणप्रकृतित्वे
बीजम् ।
४. पाणीति । करभोरुः स्त्री अविरोधितवाञ्छमनिवारितप्रियमनोरथं यथा तथा का-
मिनः पाणिरोधं नीवीमोक्षणे व्यापृतस्य प्रियपाणेर्निवारणं कुरुते स्म । तथा मधुर सित गर्भे
अन्तर्वर्ति यासु ता मन्दहासमिश्रा भर्त्सनास्तर्जनाश्च कुरुते स्म । तथा सुखेऽपि अधरपीड-
१ 'गर्भाभिमानादिष्टेऽपि विव्वोकोऽनादरोऽनया । तथा वात्स्यायन - 'शोभाभ्यन्तारितैर्वैत्र यत्प्रिय-
म्यवधीरणम् । ताटन वावर्त्तनेन यच्च रागायैव वर्धनम् ॥ निषेधस्यापि हि जानन्पुष्पादिना इति ।
दत्तस्तम्तिनपैश्राद्यरोपस्थानेऽपि यन्मित्तम् ॥ प्रेयस्तत्सूरयो राशीद्भावनवाले । विव्वोकारव्य
मूनो हाव रागरागविवर्द्धनः ॥ अभिनवगुप्तेनपट्टनावपि 'यष्टिनादरस्त्वन्या । नग्नत्वं प्रियस्य
वधन (न) ताडनमश्राणिद्यादि विव्वोकः ॥' अवधीरणे यथा कालिदास - 'निर्मुमुन्द दशनच्छदं
न्नो वाचि मधुरैरधीगण्परा । ईक्षणात्तनया समीपानात् नाय दिपदानहेतुवन् ॥' इति ग
२ 'पाठा-' इति श्लोको नास्ति ग-पुस्तके. ३. 'रोषाऽह्रञ्चीत्यादे संकरः किलकिञ्चितम् ।' इति
ग ४ 'रुजिनीडावृत्ते व्यजनि सन्त्रास समथं मया दृष्ट्यैः तया इत्यित्थन्तद्वाष्पैर्मधे । कुल-
भूमहाडौ मरटिन्दिरगुंणैरहर्द्दित्तकण्येगोधोद्वाप्त पुनरपि वि इपदान्ति मुखम् ॥' इति ग.

  • १२ ५

१४८ साहित्यदर्पणे
यथा-
'वृद्धोऽन्धः पतिरेष मञ्चकगतः, स्थूणावशेषं गृहं,
कालोऽभ्यर्णजलागमः, कुशलिनी वत्सस्य वार्तापि नो ।
यत्नात्सञ्चिततैलविन्दुघटिका भग्नेति पर्याकुला
दृष्ट्वा गर्भभरालसां निजबधूं श्वश्रूश्चिरं रोदिति ॥'
अथ श्रमः-
खेदो रत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रमः ।
यथा-
'³सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी
सीता जवात्त्रिचतुराणि पदानि गत्वा ।
गन्तव्यमस्ति कियदित्यसकृद्ब्रुवाणा
रामाश्रुणः कृतवती ⁴प्रथमावतारम् ॥'
अथ मदः-
⁵संमोहानन्दसंभेदो मंदो मद्योपयोगजः ॥ १४६ ॥
स्थूणा स्तम्भः । अभ्यर्णजलागमो निकटस्थवर्षासमयः । तैलविन्दूना घटिका
क्षुद्रभाजनम् ॥ सद्य इति । वारंवार गन्तव्याध्वपरिमाणजिज्ञासया सीताया
स्वल्पपथलङ्घनश्रममवधार्य श्रीरामस्य रोदनम् ॥ संमोहानन्दयो समेदो मेलकः ।
१. वत्सस्येति । वत्सस्य पुत्रस्य ॥
२. निजबधूमिति । निजबधू आत्मस्नुषाम् ॥
३. श्रम इति । बहुतरशारीरव्यापारजन्मा नि श्वासाङ्गमर्दननिद्रादिकारणीभूतः खेद-
विशेषः श्रम इति। यदाहु - 'अध्वव्यायामसेवाद्यैर्विभावैरनुभावकैः । गात्रसंवाहनैरा-
स्यसङ्कोचैरङ्गमोटनैः ॥ नि श्वासैर्जृम्भितैर्मन्दै पादोत्क्षेपैः श्रमो मतः ॥' इति। अय च
सत्यपि बले जायते, शारीरव्यापारादेव च जायते न तु ग्लानि । अतो ग्लानि-
श्रमस्य भेदः ॥
४. प्रथमेति । प्रथमावतार पूर्वाविष्करणम् ॥
५. मद इति । मद्याद्युपयोगजन्मा उल्लासाख्यः शयनहसितादिहेतुश्चित्तवृत्तिविशेषो
१ '-श्रम स्वेदादिकारक रतान्मार्गगमनादेश्च य खेद स श्रम स्वेदमर्दनाद्यनुभाजन क ।'
इति ग. २ 'यथा' ग-पुस्तके नास्ति ३ ग-पुस्तके तु 'सद्य ' इति श्लोकस्य स्थाने 'अइ पिहुल
घेत्तूण समागदम्हि रुहि तुरिअम् । समसेअसलिलणीतासणीसहा वीसमानि खणम् ॥' इति
४ 'च' घ ५ 'हर्षोत्कर्षो मद पानात्स्खलदङ्गवचोगति । मद्यादिपानाद्यो हर्षोत्कर्ष

  • वचनगत्वादिस्खलनानुभावक ।' इति ग.