साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
द्वितीयः परिच्छेदः । ३९
नालभ्यस्य शीतत्वपावनत्वातिशयस्य बोधनरूपं प्रयोजनम्। हेतुं विनापि
यस्य कस्यचित्संबन्धिनो लक्षणेऽतिप्रसङ्गः स्यात्, इत्युक्तम्—'रूढेः
प्रयोजनाद्वापि' इति ।
केचित्तु 'कर्मणि कुशल.' इति रूढावुदाहरन्ति । तेषामयमभिप्रायः—
कुशाँल्लातीति व्युत्पत्तिलभ्यः कुशग्राहिरूपो मुख्योऽर्थः प्रकृतेऽसंभव-
न्विवेचकत्वादिसाम्यसंबन्धसंबन्धिनं दक्षरूपमर्थं बोधयति । तदन्ये
इति । प्रतिपादयतीति प्रतिपादनं वाक्यम्, तदलभ्यस्य । मुख्यशब्दघटितवा-
क्येनाप्रतिपाद्यस्येत्यर्थः । तीरस्य विप्रकृष्टदेशगतशीतत्वापेक्षया संनिकृष्टदेशगतशीत-
त्वादेराधिक्यमत्रातिशयः । एवं च 'अतिशीतेऽतिपावने तीरे घोष' इति व्यञ्जना-
जन्यबोधो लाक्षणिकशब्दप्रयोगस्य प्रयोजनमिति भावः । 'कथंचिन्न लक्षयितव्यं'
इति लक्षणाया निषेध उक्तः । अशक्तितो रूढिप्रयोजनविरहात् । यथा—'समरे
चरणाघातं मुखं मुमुखि तेऽकरोत्' । अत्र निर्जितत्वं लक्ष्यते । एषा नेयार्थ-
लक्षणा दोषतया वक्ष्यते । सा च कविप्रयोगानर्हत्वात् प्रकृतलक्षणस्य लक्ष्या
न भवतीति तन्नातिव्याप्तिवारणाय चरमहेतुद्वयं न्यस्तम् । तदेव दर्शयति—हेतु-
मिति । रूढिप्रयोजनयोरन्यतरमित्यर्थः । संबन्धिनो मुख्यार्थसंबन्धिनः । ल-
क्षणे लक्षणायाम् । उदाहरन्ति 'काव्यप्रकाशकारादय' इति शेषः । लाति गृह्णाति ।
व्युत्पत्तिः प्रकृतिप्रत्ययविभागकल्पना, ताभ्यस्तत्प्रतिपाद्यः । प्रकृते लौकिक-
कर्मान्वयेऽसंभवन् योग्यतामलभमानः । पदार्थसान्वयानुपपत्तिप्रतिसन्धानान्न
लक्षणाद्युपयोगित्वमित्यभिप्रायेणेदम् । अन्य इति । स्वपक्षानभिप्रायेण दूषय-
1 तदन्य इति । नातिरमिरमेयम् । अत्रापि वाचकशब्दप्रयोगे रूढिलक्ष्या तिरो-
धायोगात मुख्यसदृश कुशलानीति मुख्यार्थस्यान्वयात् । नित्य प्रयोगग्रहणेन प्रकृति-
निमित्तलोपोत्तरे यौगिकव्यवहारस्य मूर्च्छनेन दुर्वारः । यथा वाचनकार्थवाक्येय-
स्तोर्यादाविवेति रपि नियमस्य चन्द्रादयस्य इति योग्यताया नियन्त्रितसम्बन्धस्य प्रवृत्ता-
निमित्ते ते प्रत्यक्षमेव मर्य्यादोपपन्नमिव विचक्षणतया भवेत् नान्यथाव्यवहारो हीति चेत् ।
अत एव अमुख्यार्थसमर्पकविधेरपीत्यपि हरतु । पश्चादयच्छब्दः रूढिशक्तिश्चेत् स च
भिन्नैव यौगिकवृत्तित्युच्यते । 'कुटिलोऽप्यक्षः' इति प्रयोगाद्भवत्येवेत्यत्र ।
यत्र तच्छब्दविभागे तात्पर्यार्थे कर्माणि कुशलस्तद्गुणसङ्क्रान्तोद्भूतः केवलः प्रच्या-
तीत्यादिरित्यनुभवार्थकम् चेदित्यनु रूढिव्यापारव्यतिरेकेण कुशलशब्दो हि न केवलं
इति लक्ष्यार्थः स्वरूपं विवृणु । इह तु रूढ्या दृढतरप्रतीतिरस्ति तादृशी
निष्कृष्टाभ्युपेतादिभेदात् । तैश्च स्थूलोदरमण्डलोऽप्युच्यते यद्वा
प्रकृतिनिमित्तानुरोधात् प्रसिद्धेरेव तात्पर्यार्थसम्बन्ध—इत्युपाध्यायादि-
हतु । तत्र च प्रतिपादितमेवैतत् । तथा च रसगङ्गाधरादावप्यनेन प्रकार-
४६ साहित्यदर्पणे
रोपा । इयमेव रूपकालंकारस्य बीजम् । रूढावुपादानलक्षणा सारोपा
यथा—‘अश्वः श्वेतो धावति’ । अत्र हि श्वेतगुणवानश्वोऽनिगीर्णस्व-
रूपः स्वसमवेतगुणतादात्म्येन प्रतीयते । प्रयोजने यथा—‘एते कु-
न्ताः प्रविशन्ति’ । अत्र सर्वनाम्ना कुन्तधारिपुरुषनिर्देशात्सारोपत्वम् ।
रूढौ लक्षणलक्षणा सारोपा यथा—‘कलिङ्गः पुरुषो युध्यते’ । अत्र
पुरुषकलिङ्गशब्दयोराधाराधेयभावः संबन्धः । प्रयोजने यथा—‘आयु-
र्घृतम्’ । अत्रायुष्कारणमपि घृतं कार्यकारणभावसंबन्धसंवन्ध्यायुस्तादा-
त्म्येन प्रतीयते । अन्यवैलक्षण्येनाव्यभिचारेणायुष्करत्वं प्रयोजनम् ।
यथा वा—राजकीये पुरुषे गच्छति ‘राजासौ गच्छति’ इति ।
अत्र स्वस्वामिभावलक्षणः संबन्धः । यथा वा—अग्रमात्रेऽवयवभागे
धावति’ इत्यत्रापि ‘धावति’ इत्यत्र ‘शोभते’ इति द्रष्टव्यम् । अन्यथोपादानलक्षणा न
स्यादिति प्रागेव दर्शितम् (४३ पृ०) । अत्र निरुक्तारोपमत्त्वमुपपादयति–अत्र हीति ।
‘लक्षणाजन्यपदार्थोपस्थितेः प्राक्काले’ इति शेषः । अनिगीर्णस्वरूपः प्रयुक्तशब्देन
प्रतिपाद्यः । एते कुन्ता इति । विषयस्य सामान्यवाचिना सर्वनाम्ना निर्देशेऽपि
विशेषरूपेणानुपस्थिताँ साध्यवसाना लक्षणैवेति काव्यप्रकाशकारमतम् । तद्भूतल-
मिति प्रतीतिसत्त्वे ‘घटाभाववद्भूतलम्’ इति प्रतीत्यनुदयात्सर्वनाम्नोऽपि विशेषरू-
पेणोपस्थापकत्वं कल्प्यत इत्यभिप्रायेण पूर्वमतमतीकृत्य तत्रापि सारोपा लक्षणेति
दर्शयति—अत्र सर्वनाम्नेति । आयुर्घृतमिति । अत्र शक्यसंबन्धाक्षेपं च
दर्शयति—आयुष्कारणमपीति । अन्यवैलक्षण्येनाव्यभिचारेणेत्यत्र वाकारो
बोध्यः । लक्षणाबीजं विविधं शक्यसंबन्धं दर्शयन्दृष्टान्तयुदाहरणान्याह–राजकीय
इति । अत्र राजकर्मातिशयपरिच्छेदातिशयो राजवदलङ्घनशासनत्वं वा प्रयोजनम् ।
अवयवभागे इत्यत्र भागशब्दः स्वरूपार्थः । अत्र प्रयोजनाभावाद्रूढिरेव । हस्त-
१. एत इति । 'इदमस्तु सन्निकृष्टे समीपतरवर्त्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टं
तदिति परोक्षे विजानीयाद् ॥' इति, कवयस्तु भूतभविष्यन्निर्देशनेष्वपि नियममेकान्ततः
आददते । अत एव ‘पूर्वं त्वामवत्’ ‘अभूद्भूमिः’ ‘बभूव रक्षः’ इति ‘अमुं पुरः पश्यसि’
'अमूं द्विजत्वं' इति चैवमादयो रघुवंशशिशुपालवधप्रयोगाः ।
२ अग्रेति । अग्रशब्द इत्यत्राग्रमात्रेत्यवयवभागे हस्तशब्दो लाक्षणिकः । हस्ताग्रद-
१ 'एते कुन्ता इत्यादौ सारोपा इत्युक्तं न युज्यते २ 'उपपादितमुदाहरणान्तरमाह' घ;
'कार्यकारणभावेन तदुन्मतेऽवस्थिम्' ग. ३ 'अव्यभिचारेण' इति ग पुस्तके नास्ति ४ 'अमुं
पश्यसि' इत्याद्युदाहरणान्यदर्शयन्विशेषाभावादेव प्रयोज्यम् इत्युक्तं ग पुस्तके ५ 'यथा
च कश्च, ख पुस्तके तु 'यथा' इत्येव ६ 'हस्ताग्रे'ति. ग. ७ 'अवयवे' ग 'हस्तशब्देन मते'
क पुस्तके तु 'अग्रेणेति' इति दृश्यते
This page contains no readable text (it is a blank page).
४८ साहित्यदर्पणे
सादृश्येतरसंबन्धाः शुद्धास्ताः सकला अपि ॥ ९ ॥
सादृश्यात्तु मता गौण्यस्तेन षोडश भेदिताः ।
ताः पूर्वोक्ता अष्टभेदा लक्षणाः । सादृश्येतरसंबन्धाः कार्यकारण-
भावादयः । अत्र शुद्धानां पूर्वोदाहरणान्येव । रूढावुपादानलक्षणा सा-
रोपा गौणी यथा—'एतानि तैलानि हेमन्ते सुखानि' । अत्र तैल-
शब्दस्तिलभवस्नेहरूपं मुख्यार्थमुपादायैव सार्षपादिषु स्नेहेषु वर्तते³ ।
दिना प्रतीयमानस्य विषयस्य निरुक्ताध्यवसानविशेष्यस्य । पूर्वोदाहरणान्येवेति ।
श्वेतो धावति । कुन्ताः प्रविशन्ति । कलिङ्गः साहसिकः । गङ्गायां घोषः प्रतिव-
संतीति । एतानीत्यर्थ । एवञ्चादीना विशेष्याणां शब्दं विनैव प्रतीयमानत्वाद
'गङ्गायाम्' इत्यादौ तीरं विशेष्यम् । तच्च शब्दं विनैव प्रतीयते । पुनरपि लक्ष-
णाया द्वैविध्यमाह—सादृश्येतरेति । सादृश्यादितरे संबन्धा हेतवो यस्या इति
समासः । 'सादृश्यात्संबन्धात्' इति शेषः । सादृश्यसंबन्धहेतुका लक्षणा गौण्य
इत्यर्थः । तेन निरुक्तद्वैविध्येन पूर्वोदाहरणान्येवेति । 'अश्वः श्वेतो धावति' इत्यादी-
न्येवेत्यर्थः । एतानीति । हेमन्ते हि तैलाद्यभावादत्यन्तं दुःखमुत्पद्यते । तन्नि-
राकरणेन तैलानामुपकारित्वमिति सूचनाय 'हेमन्ते' इत्युक्तम् । उपादानैव
अपरित्यज्यैव । सार्षपादि स्नेहेषु वर्तत इति घृतादिविलक्षणद्रवत्वरूपकधर्मसंब-
न्धेन सार्षपादिस्नेहान्प्रतिपादयतीत्यर्थ । 'छत्रिणो यान्ति' इतिवत्तिलस्नेहस्यापि
- गौण्य इति । गुणेभ्य आगता गौण्य इति विग्रहः । 'तत आगतः' इत्यत्र
'द्विगो-' इति ङीप् ॥
१ 'तत्र' ग. २ ग पुस्तके तु 'एव' इत्यस्याग्रे 'सादृश्येतर-' इत्यादि पङ्क्तिका दृश्यते, त
दग्ने "आदित्यादिरादित्यो भृगा इन्द्र सादृश्यं' क्षणात् । क्वचिन्स्वामिभावात् 'राजकीय पुरुषो
राजा' इति । क्वचित्तादर्थ्यात् 'अनक्षा नजा' इति । क्वचिदवयवावयविभावात् 'सप्तम्येकवचने
हल्लोप्यम्' इति । क्वचित्साहचर्यात् 'छत्रिणो यान्ति' इति । एवमन्यान्युदाहरणान्यूह्यानि । पञ्चा-
षदष्टाशौ इति वचनात् । सादृश्यसंबन्धात्तु ना एवाष्टधा लक्षणा गौण्यो भवन्ति ।" इति पाठान्तरं वर्तते
३ 'नेयं प्रयोजनवती । नाप्येकदेशिकव्यवहृत्तया सर्षपस्नेहादिनातीय एव प्रसिद्धा निर्दामितत्वात्
इति ग-पुस्तकेऽधिकः पाठ ४ 'इति' पुस्तकान्तरे नास्ति ५ क्वचित् 'एषु दध्याद्यभेनेन्दा
दिपदनध्याहार्यम् । एनेन लक्षणातावच्छेदकेन सारोपान्यसाध्यवसानानान्तर्गतधर्मयोश्चित्थं न गृह्यं
गंमनन् । वस्तुतस्तु त्वामस्मि वन्मि विदुषा समवायोऽत्र तिष्ठति' इत्यादौ 'उपविशन्ति कनिनीना'
इत्यादौ चाध्याहारेणापि समानविभक्तिपदामभवाद् 'बटटी वटी करम फज' इत्यादौ 'रागोऽग्नि
सर्वञ्चहे' इत्यादौ च मुख्यसंबन्धोभेदाभावादितिसारोपाध्यवसानासंभवात्तादृश नियमस्य व्यभिचार । इ-
यञ्च काव्यप्रकाशनरोण 'सारोपाद्या तु यत्रोक्तौ विषयो विषयस्तथा । विषयस्य तुनेव्यन्नित्यन्तव्याख्या
- निता ॥' इति ज्ञातव्यम् । अन्योपादानत्वनिमित्तप्रकृष्टदर्शनान्निमित्तप्रयोगाद्योऽष्टा लक्षणात्व-
... विज्ञातेऽध्यारोपविशिष्टेयम् । एतेन उपपादितैरेव सारोपाध्यवसानसम्बन्ध
... प्रतीयते । न तु यावनीना लक्षणान् । एव च 'गङ्गाया घोष' इत्यादीविदमादिपदाना-
... दृष्टान्ता संगच्छन्ते ।" इत्यादिक दृश्यते,
प्रयोजने यथा—राजकुमारेषु तत्सदृशेषु च गच्छत्सु 'एते राजकुमारा
गच्छन्ति' । रूढावुपादानलक्षणा साध्यवसाना गौणी यथा—'तैलानि
हेमन्ते सुखानि' । प्रयोजने यथा—'राजकुमारा गच्छन्ति' । रूढौ
लक्षणलक्षणा सारोपा गौणी यथा—'राजा गौडेन्द्रं कण्टकं शोधयति'।
प्रयोजने यथा—'गौर्वाहीकः' रूढौ लक्षणलक्षणा साध्यवसाना गौणी
यथा—'राजा कण्टकं शोधयति' । प्रयोजने यथा—'गौर्जल्पति' ।
अत्र केचिदाहुः—गोसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यन्ते ।
ते च गोशब्दस्य वाहीकार्थाभिधाने निमित्तीभवन्ति । तदयुक्तम् ।
ऽप्यननेनेन्वयोऽनीति भाव्यम् । नन्वेव त्रयमत्र सुखार्थबोध इति चेत्, सर्व-
परिहताना स्निग्धत्वाभावात् । नाम नाधिकरऐनान्वयाद्यपमेशैतान गुणार्थ-
पात्तापीत्याह । न केवलदोषवेदेनस्य विशेषेण नित्यवतगन्धान सम्ब-
न्धानुपपत्तिरिति वाच्य। तादृशान्तर्गतान्यत्वेनेनाधिकारात्। नहि विसङ्कट-
परिग्रन्तुरोगा शब्दानां वेगात्प्रसन्नैन पतिते । एवं च 'हंस ते तुल्येन'
इत्यत्र प्रतीमदर्शनसम्बन्धेन तैलगणमित्यस्यापत्तिरेव सुरूपमित्यर्थः । न
चैवं 'गङ्गायां घोष' इत्यादौ सर्वौऽय तत्सम्बन्धोपलम्भने निमित्तीप्रयत्कर्म-
ईशून्यादित्यापादकमिति वाच्यम् । निमित्तस्य सुखार्थतायाः प्रसिद्धयेनैव
बोध्यम् । चित्तस्य तत्र प्रतिसन्धानाभावाच्चेत्याह । एते राजकुमारा
इति । तन्निश्चयत्वविशिष्टेष्वप्यनेकविधेष्वप्युपमानान्तरसम्भावना-
यामथ प्रयोजनम् । राजसमूहराजकुमारत्वारोपरूपं प्रयोजनम् । राजा
गौडेन्द्रमिति । गौडेन्द्रो कण्टकेनेव दोषप्रदानेनात्मानमुपकृत-
वान्तरान्न दूषयन् । तस्य कण्टकसाम्यमन्तरेणाशक्यत्वात् तेन कण्टका-
भिधाने कण्टक इत्येतदर्थं लक्षणारूपता सारोपा गौणीति ।
रूढावित्यादि । गौर्वाहीक इति । गोसदृशगुणाश्रयो वाहीक इति ।
लक्षणलक्षणासारोपगौणी । गोशब्देन लक्ष्यमाणस्य जाड्यमान्द्या-
देरभेदप्रतीतौ सत्यां सामानाधिकरण्येन वाहीकसादृश्यप्रतीतिः । गौर्जल्प-
तीति । गोसदृशो जल्पतीत्यर्थः । साध्यवसाना गौणी । अत्र वाहीकशब्द-
स्याप्रयोगादन्तर्भूत एव वाहीकः साध्यवसानतया प्रतिपाद्यते ।
निमित्तीभवन्तीति । गोपदार्थस्य वाहीकस्य च साक्षात्सम्बन्धाभा-
वात् तदुभयसम्बन्धी गुणो मध्ये द्वारतां प्रतिपद्यते ।
५० साहित्यदर्पणे
गोशब्दात्स्यागृहीतसंकेतं वाहीकार्थमभिधातुमशक्यत्वाद् गोशब्दार्थमात्र-
बोधनाच्च । अभिधाया विरतत्वाद् विरतायाश्च पुनरुत्थानाभावात् ।
अन्ये च पुनर्गोशब्देन वाहीकार्थो नाभिधीयते । किंतु स्वार्थ-
सहचारिगुणसाजात्येन वाहीकार्थगता गुणा एव लक्ष्यन्ते । तदप्यन्ये
न मन्यन्ते । तथाहि—अत्र गोशब्दाद्वाहीकार्थः प्रतीयते, न वा ।
आद्ये गोशब्दादेव वा । लक्षिताद्वा गुणाद् । अविनाभावाद्वा¹। तत्र, न
दृष्टान्तेनाभिप्रायं स्पष्टयन्नपि बोधयन्निवाहन आह—गोशब्दार्थमात्रबोधना-
द्येति । विरतत्वात् प्रतीति योग्यताविरहेण नष्टप्रायत्वात् । सहदुद्गतित्वेनानुकम्पा-
नियमः शब्दार्थयोरन्योन्यनियमार्थमित्यभिप्रायः । नन्वस्य नियमस्य श्लेषादौ व्यभि-
चारदर्शनाच्छब्देन पुनरपि प्रतीतियोग्यता कल्पनीयेत्यत आह—विरताया
इति । उत्थानाभावान्न प्रतीतिजननोन्मुखीभावविरहात् । श्लेषादौ धर्मान्तरे गृहीत
शक्त्यन्तरमर्थान्तरं बोधयतु । प्रकृते तु गोत्वे गृहीता शक्तिर्गोव्याधर्यं बोधयति
यदि गवादिकमपि बोधयेत्तदानिर्वच्य लक्ष्यार्थबोधसम्भवेन लक्षणा नानुष्ठेयेति
भावः । स्वार्थेति । स्वार्थो गोत्वम् । तत्समानाधिकरणेऽर्थे । गुणसाजा-
त्येनेति । तद्गतगुणानां शश्यार्थगतगुणैर्वाप्त्यसंभव इति भावः । आद्ये प्रती-
तिशब्दे । न प्रथमः, न गोशब्दजन्यप्रत्यक्षत । असंकेतितत्वाद् गोशब्दस्ये-
न्द्रियसन्निधिवत् । न तृतीयः, अविनाभावजन्यप्रत्यक्षतः । शाब्देऽन्वयेऽ-
संभवस्य शाब्दबोधविषयत्वासम्भवात् । अत्र हेतुमाह—शाब्दीति । एव
मिष्टसाधनत्वादिना मन्वधियोक्तम् । अर्थापत्त्यादिना मीमांसकानां मते
नाभिधेयसम्बन्धजन्यस्य शाब्दी प्रसिद्धिरर्थापत्तिविज्ञानाम् । अन्यथाऽभि-
धितदिशा मतेऽप्यस्य शाब्दबोधविषयत्वं न स्यात् । न च लक्षार्थेन तत्र संबन्-
धसिद्ध्यिति वाच्यम् । तद्विषयोजनाभावस्य लक्षणाया असंभवत् । न च
प्रयोजनाभावाद् वक्ष्यत इति वाच्यम् । लक्ष्यार्थव्यंग्गिनिश्चयस्य, विशेषणत-
याऽव्यङ्ग्यस्य फलप्रयोजनस्य चोद्देश्यहेतुत्वाङ्गीकारात् । गवादिपदस्य
तु वाहीकादिपदार्थे लक्षणाद् भवेत् । लक्ष्यार्थे प्रयोजनमर्थेव व्याप्तिरङ्गीकृता-
स्मिन्तो मुख्यार्थलक्षकत्वे गोत्वे वाच्या साध्योपपादकत्वात् । निक्षेप्यत्वाद्गु-
णान् वाच्याधिकृत्य तथार्थं द्वितीयप्रत्यक्षतया मुख्यार्थविशेषणतामङ्गीकृत्यापर-
स्वाश्यापह्वणमुपपाद्य व्यभिचारशङ्कानिरासार्थमाह, सजात्येत्याद्यन्ते गोत्वे वैपरीत्य-
१. तद्नैति । २. अविनाभावाद्वा ।
२. 'त' इति । ३. प्रत्यक्षकल्पना...
प्रथमः । वाहीकार्थस्यासंकेतितत्वात् । न द्वितीयः । गोगवयचन्द्रमु-
खादिशब्दद्वन्द्वानांमवयवप्रसादादिसाम्येऽप्यन्योन्यस्यान्यतमगद्गदार्थानभि-
धायकत्वात् । न तृतीयः । अविनाभावलभ्यस्यार्थस्य शाब्देऽन्वये
प्रवेशासंभवात् । शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते । न द्वितीयः ।
यदि हि गोशब्दाद्वाहीकार्थो न प्रतीयेत, तदास्य वाहीक-
शब्दस्य च सामानाधिकरण्यमसङ्गतं स्यात् ।
तस्मादत्र गोशब्दो मुख्यया वृत्त्या वाहीकशब्देन सहान्वयमभ-
जमानोऽज्ञत्वादिसाधर्म्यसम्बन्धाद्वाहीकार्थं लक्षयति । वाहीकस्याज्ञत्वा-
यतिशयबोधनं प्रयोजनम् । इयं चै गुणयोगाद्गौणीत्युच्यते । पूर्वा
तूपचारामिश्रणाच्छुद्धा । उपचारो हि नामात्यन्तं विशकलितयोः
शब्दयोः सादृश्यातिशयमहिम्ना भेदप्रतीतिस्थगनमात्रम् । यथा—
संदिग्वर्णाम्' इति जैमिनिसूत्रोक्तं न स्यात् । आक्षेपापेक्षया लक्षणाया मुख्यार्थना-
धारिप्रतिसन्धानापेक्षत्वेन विलम्ब्यार्थोपस्थापकत्वात् समवाये विरोधेऽविप्रक-
र्षाद्विलम्ब्यार्थोपस्थापकत्वात् । 'श्रुतिर्द्वितीया क्षमता च नित्यं वाक्यं पदान्येव तु
संहतानि । सा प्रक्रियार्था कथमित्यपेक्षाभ्यां तयो र्योगदलं समाख्या ॥' इति
कारिका सूत्रार्थव्याख्या । न द्वितीयः, न प्रतीतिरित्युभयपक्ष । अत्र गोश-
ब्दस्य, वाहीकशब्दस्येत्यनन्तरं चकारो बोध्य । सामानाधिकरण्यमेकस्यार्थप्रति-
पादकत्वम् । सन्तमसाह—तस्मादिति । तस्मादुभयरीतितश्च्युतो दोषान्तरम् ।
अन्वयमिति । अभेदसंसर्गेणान्वयेनापि । अगत्वाद्दीति । व्यक्तिभेदेऽपि गुणादि-
गयोरैकमित्यभिप्रेत्येदं निर्वचनम् । अन्यथा शब्दलक्षणापक्षेऽप्यभेदान्वयसम्बन्धो
न संभवति । प्रयोजनमिति । अज्ञत्वातिशयेदप्रतीति प्रयोजनमिति काव्यप्रकाश-
कारः । इयं चेति । गुणस्य साधारणधर्मस्य योगात् सन्निधानादन्वयसम्बन्धा-
द्वात् । तदुक्तम्—'एकस्माद्गुणवै धयेरियाद् दृ ... इति । ...
पूर्वं साधारणधर्माभावादविनाभावसम्बन्धादेवेलक्षणा । पूर्वा ...
व्यतिदिशन् । सादृश्यसम्बन्धेनाभेदं दर्शयितुमुपचारमाह । ...
घटः' इत्याद्यपि प्रयोगस्य उपचारमूलकत्वापत्तेर्न सादृश्य ...
पदावली निर्दिशि—अत्यन्तमिति । ...
पमेयेऽप्युल्लेख्यमिति । विशकलितयोर्नानाभूतयोः सादृश्यातिश ...
स्यस्वाभिधेयप्रतिपादकेन भेदप्रतीत्यसंसर्गेन ...
हेतैरस्तीत्याह च ...
- जैमि० सू० ...
५४ साहित्यदर्पणे
'स्निग्धश्यामलकन्तिलिप्तवियतो वेल्लद्वलाका घना
वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे
वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥'
द्वेति समाह—धर्मीति । धर्मी लक्ष्यः । तद्वृत्तिपदार्थो धर्मः । स्निग्धश्याम-
लेति । विरहिण श्रीरामस्योक्तिरियम् । लिप्तेति । व्याप्तेत्यर्थः । वेल्लद्वलाका सच-
ञ्चलवलाकापेता । पयोदसुहृदा मयूराणामाऽऽनन्दजनिका आनन्दजनिता वा केका ध्वनयः ।
- स्निग्धश्यामलेति । व्याख्यातोऽयम् श्लोकः चमत्कारतिशयलाभाय पुनर्व्या-
ख्यायते—अत्र रामशब्दाद्विविक्ता । तथाहि—स्निग्धया सहिष्णुसन्नवनरम्यया श्यामलया
उद्दीपकविभावत्वेऽपि मनोऽभिरामया कान्त्या कान्तगुणान् विश्रान्त्वङ्कुरित नियन्त्रमो ये । वेल्लन्त्यो
वायुसञ्चारवशाच्चलाश्चलन्त्यः परभागप्रसाधनार्थंवेलायाम वलाकाः सितपक्षिविशेषा येषु
तथाभूता घनाः । एष नभन्ताददूरागेव वर्तन्ते । द्विष्टोऽपि तु महाः । यत सूक्ष्मजल-
कणशालिनो वाता इति मन्दमन्दत्वमेषामनियतदिग्भागगमनं च बहुवचनेन सूचितम् ।
नहि केवलं दृष्टिरूपविषयव्यञ्जनिया आह—पयोदो मेघः सुहृत् केकाजनकत्वादुप-
कारकः येषां तेषां केकारूपमपि पान्थपुंखानामानन्देन हर्षेण केका शब्दविशेषाः रता
मयूराः स्युः । नाह्य ह्येतद् पयोदसुहृन् न मयूरस्येति । मयि च दुःखदा इति भावः ।
सम्प्रत्युद्दीपनाधिक्यं निरूप्यम् । वक्ष्यमाणविधानचाटुत्वे । विभावानां साधारण्य-
निर्देशमुक्त्वा सम्प्रत्युद्दिष्टमना मध्ये विधाय महनमाह—काममिति । हठेऽपि
कामं कामम् । कठोरहृदय इति । रामशब्दात्प्रसिताशेषावकाशादानाय कठोरहृदयपदम् ।
ततः विदेहराजदुहित्री इत्यभिप्रायः इति । अन्यथा गात्रस्य दशमदशोपपत्तप्रसङ्गाद्वाच्या-
भ्युपगतः कठोरहृदयताभ्युपगतो दशामवस्थाविशेषगमनेन सा न जानन्तीति । गण्याहं
सर्वं सहिष्ये सह्यामि प्रसिद्धोऽस्मि । अत एव संभूतसंभोगविलासजनितं यत्
सर्वम् । एतादृशं दुःखमनुसृत्य । जीविष्यति ? प्रियासामान्यम् । तेन किं भविष्यतीति ।
रामः स्वस्वभावतः सुव्यक्ताशक्यसाधनतायाः दृष्टदृष्टिर्वा प्रिया सामान्यस्त्रीस्वभाव-
सुलभतया प्राणत्यागशीला तद्विरहदुःखसहेति सम्भ्रमादाह—अयेति । भिन्नं तदुत्तरं
भिन्नमेव वा । अत्र सङ्घटनया विरहोत्कण्ठायमानतयाऽमृतं दिशन् अन्तः प्रसह्य, सोऽहं
चेतः किमुद्गीर्णमिव क्षणं नोपहसति मलिम्लुचानां सहकारम् । धैर्य्यं त्यक्त्वा प्राहहाहाः
इति कातराद्विगुणपदद्वयेन हा देवि! धैर्ये समालम्ब्य । यदिहाधिकतरमाह तद् धिग् धिग् ।
यद्यस्याः सम्प्रतिकालावस्थाऽज्ञानेऽपि कथं भविष्यतीति संशयवर्णनम् तद्वियोगदुःखात्
तादृशावस्थायाश्च सम्भावनातो वा । वस्तुतस्तु पूर्वार्द्धे समुदितैस्तद्भावभावितैरेव विरहिणो
दुःसहमहो यत्किञ्चिद्रूपं व्यञ्जयत् सुतरामेव परिपोषाय सम्भवति । अत्र च रामशब्देन
राज्यभ्रंशादिनाऽत्यन्तविविधदुःखसहिष्णुत्वं व्यज्यते । सीताशब्देन चातिसुकुमार-
तरत्वेन तादृशदुःखासहिष्णुत्वम् । अतो न पुनरुक्तम् । अत एवोक्तम् 'रामोऽस्मि' इति ॥
इस पृष्ठ/चित्र में कोई पठनीय या मुद्रित पाठ (Text) उपलब्ध नहीं है (पृष्ठ रिक्त है)।
६८ साहित्यदर्पणे
विजनत्वम्, अतः संकेतस्थानमेतदिति कयापि संनिहितं प्रच्छन्नका-
मुकं प्रत्युच्यते । अत्रैव स्थाननिर्जनत्वरूपं व्यङ्ग्यार्थवैशिष्ट्यं प्रयोजनम् ।
'भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते' इत्युक्तप्रकारायाः काको-
र्भेदा आकारेभ्यो ज्ञातव्याः । एतद्वैशिष्ट्ये यथा—
गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ ॥'
अत्र नैष्यति, अपि तर्हि एष्यत्येवेति काका व्यज्यते ।
चेष्टावैशिष्ट्ये यथा—
³'संकेतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥'
अत्र संध्या संकेतकाल इति पद्मनिमीलनादिचेष्टया कयाचिद्द्यो-
त्यते ।
संनिधिः सामानाधिकरण्यम्, तस्य प्रच्छन्नकामुकनिरूपितत्वं वैशिष्ट्यम्, उच्यते
व्यज्यते । अत्रैव अस्मिन्नुदाहरण एव निर्जनत्वातिशयो वैशिष्ट्यं प्रयोजनं तृतीयव्य-
ज्ञनायाः कारणम् ॥ भिन्नेति । शोकहर्षभयादिकृतेत्यर्थः । आकारेभ्य उपजीव्यभर-
तादिग्रन्थेभ्य ॥ सुरभिसमये वसन्तकाले । अपि तर्हीति । अपि त्वित्यर्थः ॥
संकेतेति । विटमुपपतिम् । हसत्प्रफुल्लम् । नेत्राभ्यामर्पितमाकृतमात्माभिप्रायो यत्र
तथ्या स्यात्तया निमीलितमित्यर्थ । यद्वा, हसदिति नेत्रविशेषणम् । एतदेव पद्म-
निमीलनस्य नेत्रार्पिताकूतत्वं वैशिष्ट्यम् । चेष्टादिकस्येत्यादिपदाच्चेष्टाविरहादिग्रह ।
- उच्यत इति । व्यञ्जनया प्रतिपाद्यते इत्यर्थः ॥
- काकुरिति । कायलर्योन्तरमिति काकु. । यद्वा काकुर्जिह्वेति पस्पशायां भाष्य-
कारः । तद्व्यापारनिक्षेपसवाद्यत्वाच्छोकहर्षभयादिभिर्ध्वनेर्विकारः काकु । तथा चोक्तम्-
'वाकयामभिधेयमानेऽर्थे येनान्य प्रतिपद्यते । भिन्नकण्ठध्वनिर्धीरैः स काकुरिति
कध्यते ।।' इति ॥ - संकेतेति । संकेतकाले मनो यस्य । तं जिज्ञासुमियर्थः । अत एव हसद्भ्या
नेत्राभ्यामर्पितं सूचितमाकूत रहस्यं येन । हसदिति मित्र प्रफुल्लमित्यर्थक पद्मविशेषणं
वा । शेषं व्यक्तम् । इह नेत्रेङ्गित्रेन लक्षितो गूढाभिप्राय. कामिन्या निशासूचकेन पद्मनि-
मीलनेन प्रकाशित. ॥
१. '-व्यङ्ग्यार्थ-' ग-घ २ 'प्रयोजकम्' ग-घ; ग पुस्तके तु 'अत्रैव-' इति पङ्क्तिः
द्वितीयः परिच्छेदः । ६९
एवं वक्त्रादीनां व्यस्तसमस्तानां वैशिष्ट्ये बोद्धव्यम् ।
त्रैविध्यादियमर्थानां प्रत्येकं त्रिविधा मता ॥ १७ ॥
अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्ता
व्यञ्जनास्त्रिविधाः । तत्र वाच्यार्थस्य व्यञ्जना यथा—'कालो मधु-’
इत्यादि । लक्ष्यार्थस्य यथा—'निःशेषच्युतचन्दनं-' इत्यादि । व्य-
ङ्ग्यार्थस्य यथा—'उअ णिच्चल-’ इत्यादि । प्रकृतिप्रत्ययादिव्यञ्ज-
कत्वं तु प्रपञ्चयिष्यते ।
शब्दबोध्यो व्यनक्त्यर्थः शब्दोऽप्यर्थान्तराश्रयः ।
एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता ॥ १८ ॥
यतः शब्दो व्यञ्जकत्वेऽप्यर्थान्तरमपेक्षते, अर्थोऽपि शब्दम्, तदे-
कस्य व्यञ्जकत्वेऽन्यस्य सहकारितावश्यमङ्गीकर्तव्या ।
अभिधादित्रयोपाधिवैशिष्ट्यात्त्रिविधो मतः ।
शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा ॥ १९ ॥
तद्वैशिष्ट्ये यथा—'नादत्ते भूषणं दत्तं नाहूता चिरमृच्छति । मृगाक्षी न क्षिपत्यक्षि
सादरं मयि पश्यति ॥' अत्र चेष्टाविरहेण कोपो व्यज्यते । तस्य च कान्तापराधरा-
तीनत्वं वैशिष्ट्यम् । व्यस्तानां प्रत्येकं समस्तानां द्वित्वादिरूपाणाम् ॥ त्रैविध्या-
दिति । इयं व्यञ्जना ॥ प्रपञ्चयिष्यते । 'असंलक्ष्यक्रमव्यङ्ग्यध्वन्युदाहरणे' इति
शेषः ॥ ननु शाब्द्या व्यञ्जनायामर्थस्यार्थीमपि शब्दस्योपयोगिसत्त्वान्नैव तन्मोदृश-
मन्योर्भेदकारणमत आह—शब्दबोध्य इति । अर्थान्तराश्रयः अर्थान्तरेणान्व्य-
यकः । 'व्यनक्ति' इत्यनुषज्यते । इत्यनुपपत्तिदर्शनानन्तरमुपपत्तिमाह—एकस्येति ।
सहकारिता अप्रधानकारणत्वम् । अप्रधानत्वं च व्यवहितोपपादित्वेन । एवं च यत्र
यस्याव्यवहितोपपादकत्वेन प्रधानत्वं तत्र तत्सम्बन्धित्वेनैव तस्या व्यवहार इति भावः ।
ननु नाटकादौ चेष्टाभिनयादेरपि व्यङ्ग्यव्यञ्जकत्वेन व्यञ्जकत्रैविध्यमयुक्तमिति
चेत् । न । तत्रापि दृष्टोपस्थितायैव व्यङ्ग्यावबोधकत्वात् । चेष्टादिनाप्यभिप्राय
विशेषादिरूपप्रहणादिबोधनानन्तरं दृष्टाच्छब्देऽपि चेष्टाभिनयाद्यपेक्ष्य प्राधान्येन
तज्ज्ञव्यवहारः । अत एव वक्ष्यति—'शब्दार्थ चेष्टाभिर्भयान् ईदृश्या बोधकैर्वि-
बुद्धिः । शब्दार्थमिव निबद्धं नाटयं चेष्टाभिरुच्यते' । इति । अभिधा-
दिविषयविभागं विधाय तद्वृत्तौ शब्दस्यापि त्रैविध्यमाह—अभिधेति । एत-
१. 'अपराधरा- २. 'व्यङ्ग्यध्वनौ' ३. 'व्यनक्ति' इत्यस्य स्थाने 'व्यज्यते'
दृश्यते'
७० साहित्यदर्पणे
अभिधोपाधिको वाचकः । लक्षणोपाधिको लक्षकः । व्यञ्जनोपा-
धिको व्यञ्जकः ।
किं च—
तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने ।
तात्पर्यार्थं तदर्थं च वाक्यं तद्बोधकं परे ॥ २० ॥
अभिधाया एकैकपदार्थबोधनविरमाद्वाक्यार्थरूपस्य पदार्थान्वयस्य
धिर्व्यापार । अभिधया लक्षणया वा शब्दैः प्रत्येकमुपस्थापिताना पदार्थानां संसर्गो-
वाक्याङ्गादसमानस्तात्पर्याख्या वृत्तिमपेक्षत इति प्राचीननैयायिकमतमाह—किं
चेति । मतान्तरसूचनाय 'आहुः' इति । 'परे' इति परेणान्वय । इयमेवाधुनिकै-
संसर्गमर्यादोच्यते । अभिधाया इति लक्षणाया उपलक्षणम् । अभिहितानामभि-
धया लक्षणया वा पदोपस्थापितानामन्वयबोधवादिना प्राचीननैयायिकानामित्यर्थ ।
- तात्पर्येति । एतदुक्त भवति—लाघवात्पदाना पदार्थमात्रे शक्तिः, नत्वन्वयांशे-
ऽपि । गौरवादनन्यलभ्यत्वाच्च । तादृशो हि तात्पर्यार्थो वाच्यार्थवैलक्षणशरीर आकाङ्क्षा-
योग्यतासत्तिवशादपदार्थोऽपि प्रतीयते । न चापदार्थविषयस्यापि शाब्दबोधविषयत्वे कथं-
चिदुपस्थितस्य गगनादेरपि तद्विषयत्वापत्तिरिति वाच्यम् । अपदार्थविषयस्य शाब्दबोध-
विषयतायामप्रयोजकत्वात् । इत्यभिहितान्वयवादिनो नैयायिक-भाट्ट-मीमांसकाः । तेषा-
मयमभिप्रायः—'घटं करोति' इत्यादौ घटवृत्तिकर्मत्वानुकूला कृतिरित्थों बोध्यते । तत्र
घटपदस्य घटोऽर्थः, अम्रप्रत्ययस्य च कर्मता, वृत्तिता तु न कस्यापि, इत्यपदार्थोऽपि
वृत्तिता तात्पर्यवशादनयोः ससर्गविधया भासते । अन्विताभिधानवादिनः प्राभाक-
रास्तु—'अन्वयरूपे वाक्यार्थेऽपि पदाना शक्तिः । व्यवहारेणान्वितसंवोपस्थापनात्तत्रैव
शक्तिग्रहात् । तथाहि—'देवदत्त, गामानय' इत्युत्तमवृद्धप्रयोगात्सास्नादिमतीं व्यक्तिं
मध्यमवृद्धे सचारयति, तच्चेष्टया तस्य वाक्यस्य तदर्थबोधकतामनुमाय पश्चात् 'गा
नय, अश्वमानय' इति प्रयोगे गवापसरणमश्वाहरण च दृष्ट्वान्न्वयव्यतिरेकाभ्यां क्रिया-
पदार्थांन्विते कारके कारकपदस्य, कारकपदार्थान्विताया क्रियाया च क्रियापदस्य
शक्ति बालोऽवधारयति । ततः प्रयोगकाले तस्य प्रथमत एवान्वितबुद्धिर्जायते । न च
गौरवेणान्वयांशपरिहारः । प्रथमगृहीतान्वयशक्तेरुपजीव्यत्वेन तदपरित्यागात् । शाब्द-
बोधे तु आकाङ्क्षादिवशाद्वृत्तितादिविशेषरूपमेव भासत इति नापदार्थो वाक्यार्थः' इति
वदन्ति । अत्रारुचिबीज तु—'अन्वितत्वेन शक्तावपि अन्वयविशेषावगमाय आकाङ्क्षादिकं
कारणमवश्यमङ्गीकार्यम् । एव च विशेषाकारेण अशक्यस्यैव भानमिति तैरप्यवश्यमभ्यु-
पेयंम्' इति ॥
१. 'पदार्थमात्रबोधविरमात्पदार्थानामन्वयप्रतिपादिका तात्पर्याख्या वृत्ति' ग. २ 'पदाना क',
' ' ख.
द्वितीयः परिच्छेदः । ७१
बोधिका तात्पर्यं नाम वृत्तिः । १_ तदर्थश्च तात्पर्यार्थः । तद्बोधकं च
वाक्यमित्यभिहितान्वयवादिनां मतम् ॥
इति साहित्यदर्पणे वाक्यस्वरूपनिरूपणो नाम द्वितीयः परिच्छेदः ।
अत्र मूलकारिका = २० । पूर्व्वानि सह २३ ।
उदाहरणश्लोका = ९ । पूर्व्वैः सह १५ ।
अन्विताभिधानवादिनो मीमांसकगुरुवस्तु—'क्रियाकारक्यः प्रथमत एवान्व-
यबोधो जायते, ततः शक्तिग्रहः, पदविशेषसन्निहारात्तु विशेषस्मृतिरिति । किं
तात्पय्र्यवृत्तिकारेण' इत्याहुः ॥
इति श्रीरामचरणतर्कवागीशभट्टाचार्य्यविरचितायां साहित्यदर्पणविवृतौ
द्वितीय प्रकाश ।
१. अभिहितेति । अभिहितानां स्वस्ववृत्त्या पदैरुपस्थितानामर्थानामन्वय इति ये
वदन्ति तेऽभिहितान्वयवादिन इत्यन्वर्थमभिधानम् ॥
२ अन्वितेति । पदान्यन्दितानि भूत्वानन्तरं निर्दिष्टमर्थं बोधयन्तीति ये वदन्ति
तेऽन्विताभिधानवादिन इत्यन्वर्थं नाम ॥
१. 'तदर्थं च तात्पर्यार्थ' ग
७८ साहित्यदर्पणे .
‘रजस्तमोभ्यामस्पृष्टं मनः सत्त्वमिहोच्यते’ । इत्युक्तप्रकारो बाह्य-
मेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वम् । तस्योद्रेको रजस्तमसी
अभिभूय आविर्भावः । तत्र हेतुस्तथाविधालौकिककाव्यार्थपरिशीलनम् ।
अखण्ड इत्येक एवायं विभावादिरेत्यादिप्रकाशसुखचमत्कारात्मकः ।
अत्र हेतुं वक्ष्यामः स्वप्रकाशत्वाद्यैरपि वक्ष्यमाणरीत्या । चिन्मय इति
स्वरूपार्थे मयट् । चमत्कारश्चित्तविस्ताररूपो विस्मयापरपर्यायः ।
तत्प्राणत्वं चास्मद्वृद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीम-
न्नारायणपादैरुक्तम् । तदाह धर्मदत्तः स्वग्रन्थे—
‘रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते ।
तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः ।
तस्मादद्भुतमेवाह कृती नारायणो रसम् ॥’ इति ।
चमत्कारप्राणः । स्वाकारवदिति । यथा स्वात्माद्भिन्नोऽपि देहोऽहं स्थूल इत्यादि-
भेदोल्लेखाभावेन प्रतीयते, तथा रसोऽपि ज्ञातृज्ञानभेदोल्लेखाभावेनास्वाद्यत इत्यर्थः ।
घटादिज्ञाने जाते वेद्मीति यथा ज्ञातृज्ञानभेदः प्रतीयते तथात्र नेति भावः । यद्वा
स्वाकारवत्सविषयवत् । परिणामवादिभिर्ज्ञानविषयोर्भेदानङ्गीकारादिति भावः ।
कामलोभादिबीजभूतौ मनोवर्मा रजस्तमसी, ताभ्यामस्पृष्टं स्वकार्यजननेऽसंस्पृष्टं
मनो मनोधर्मः । विवृणोति—इत्युक्त इति । उक्तस्वरूप इत्यर्थः । बाह्यं बहि-
र्भवम् । लौकिकमिति यावत् । मेयं वस्तु । विमुखता ज्ञानानुकूलव्यापाराभावः ।
तस्यापादकः प्रयोजकः । ज्ञानानुकूलव्यापाराभावश्च दृढमनोयोगः । अभिभूय स्वका-
र्याक्षमे कृत्वा । आविर्भावः प्रतिबन्धकाभावेन स्वकार्यक्षमत्वेनावस्थानम् ।
तत्र सत्त्वोद्रेके । अलौकिको यः काव्यार्थो विभावादिस्तस्य परिशीलनमतन्ताभि-
निवेशः । प्रकाशः संवित् । ननु मिलिता विभावादयो रसस्तत्कथमस्याखण्डत्वमत
आह—अत्रेति । अखण्डतायामित्यर्थः । हेतुमिति । समुदायालम्बनज्ञानादात्म्यमेव
हेतुर्वक्ष्यते । स्वप्रकाशत्वाद्यैरपीत्यादिना सुखतादात्म्यपरिग्रहः । स्वरूपार्थे
इति । न त्वन्नमयो यज्ञ इतिवत्प्राचुर्यार्थः । लोकातीताश्चर्यदर्शनेन विस्फारिते
नेत्रविकासने चिन्मय दीप्ताप्राचुर्य्यं चित्तविस्तारः । दृष्टहेतुभ्योऽसमन्वितज्ञानेन
दिष्टसंज्ञाने मनोव्यापाराभाव एव चित्तविस्तार इत्यपरे । विस्मयो विस्मयशब्दोऽय
----------------- । यद्वा अपरपर्यायोऽस्य । तत्प्राणत्वं
----------------- । सर्वत्र शृङ्गारादौ । चमत्कारप्राण्ये
१ 'अयं प्रकाशानन्द...' ग. २ 'दर्शयत्याह-सुख...' ३ 'अस्य' ग. ४ 'मयट्' इति
५ 'रतिरस...' क-ख-ग-पुस्तके ६ 'अस्य' इति नास्ति पुस्तकान्तरे ७ 'प्राणता'
७९
तृतीयः परिच्छेदः ।
कैश्चिदिति प्राक्तनपुण्यशालिभिः । यदुक्तम्—
'पुण्यवन्तः प्रमिण्वन्ति योगिवद्रमसन्ततिम् ।' इति ।
यद्यपि 'स्वादः काव्यार्थसंभेदाद्भात्मानन्दसमुद्भवः ।' इत्युक्तदिशा
रसास्वादानतिरिक्तत्वम्, तथापि 'रसः स्वाद्यते' इति काल्पनिक-
भेदमङ्गीकृत्य कर्मकर्तरि वा प्रयोगः । तदुक्तम्— 'रस्यमानतामात्रा-
त्स्वात्मनावशरीरादनन्य एव हि रस' इति । एवमन्यत्राप्येवंविध-
शैलेषूत्पत्तारेण प्रयोगो ज्ञेय ।
नन्वेतादृता रसस्याहेयत्वमुक्तं भवति । व्यञ्जनावश्च इत्यभि-
धानाद् द्वयोरैक्यमापतितम् । तत्तश्च—
घनत्त्वात्पविभाव्यते । रसास्वादान्तरान्नव ...
गृह्यतेने दपदस्य पाठान्तराननस्य च यह ... ।
प्राक्तनेति । ऐहिकपुण्यगोचरतरे दुद्धर्षतरपुण्यवद्भिः । इति
नर्वाि यदा रसति । यद्यपीति । काव्यार्थस्यात्माविभूतत्त्वे । रस
टति, रसान्द इत्यत्र न गृह्यतेने यच्चातिरिक्तत्वेने ... । एव
म्यते इति । प्रयोग इति कर्मकर्तृप्रयोगः । काल्पनिकभेदेनेत्यत्र
एवं रसः । रसास्वादानतिरिक्तत्वे कर्मकर्तरि वेति । ...
ननू । तस्यैव कर्मत्वात्कर्तृत्वं च ...
गतेरिति । रस्यमानतामात्रे ...
रस्यमानेतीति । रसनात्मकात्प्रकाराद्
नतिरिक्तस्य हेतोरात्, प्रकाशाशरीराद् ...
एव रसइति नन्वतिप्रसङ्गादत्रान्य
द्वित्वमिति रसास्वाद ...
हेतुर्व्यञ्जन
न तथा रसास्तेन ...
रतः, तैश्च व्य ...
यद्व्यञ्जकत्वोक्तौ ...
... रस ... व्यञ्जनावशत्वेनेति
स्वैश्वर्यत्वाचेति । ...
अथ धीरोद्धतः—
मायापरः प्रचण्डश्चपलोऽहंकारदर्पभूयिष्ठः ।
आत्मश्लाघानिरतो धीरैर्धीरोद्धतः कथितः ॥ ३३ ॥
यथा—भीमसेनादिः ।
अथ धीरललितः—
निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात् ।
कला नृत्यादिका । यथा—रत्नावल्यादौ वत्सराजादिः ।
अथ धीरप्रशान्तः—
सामान्यगुणैर्भूयान्द्विजादिको धीरशान्तः स्यात् ॥ ३४ ॥
यथा—मालतीमाधवादौ माधवादिः ।
एषां च शृङ्गारादिरूपत्वे भेदानाह—
एभिर्दक्षिणधृष्टानुकूलशठरूपिभिस्तु षोडशधा ।
तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिणधृष्टानुकूलशठत्वेन षोड-
शप्रकारो नायकः ।
एषु त्वनेकमहिलाससरागो दक्षिणः कथितः ॥ ३५ ॥
द्वयोस्त्रिचतुःप्रभृतिषु नायिकासु तुल्यानुरागो दक्षिणनायकः ।
यथा—
स्नाता तिष्ठति कुन्तलेश्वरसुता, वारोऽङ्गराजस्वसु-
द्यूते रात्रिरियं जिता कमलया, देवी प्रसाद्याद्य च ।
अहंकारः अहं महानिति ज्ञानविशेष । दर्प शौर्यवीर्याद्यतिशय । मृदुः अप्र-
चण्डचरितः ॥ सामान्यगुणैर्नायकसामान्यगुणैः । धीरोदात्तादित्रितयभिन्नो
नायको धीरप्रशान्त इत्यभिप्राय ॥ एषां धीरोदात्तादीनाम् । षोडशधेति ।
शृङ्गारे षोडशप्रकारो नायको भवति रसान्तरे तु चतुष्प्रकार इत्यवधेयम् ॥ स्नाता
ऋतुस्नाता । वार सुरतार्थं नियमितदिवम । जिता जयेनात्मसुरतार्थं प्राप्ता । देवी
कृताभिषेका राजपत्नी । देवेन राज्ञा । अप्रतिपत्त्या कर्तव्यानिश्चयेन मूढं व्याकुलम्
- एभिरिति । दक्षिणधीरोदात्त , दक्षिणधीरोद्धतः, दक्षिणधीरललितः, दक्षिणधीर-
प्रशान्तः, एवं धृष्टादिपदयोजनेन षोडशप्रकारका नायका इत्यवधेयम् ॥
१ ग पुस्तके रत्नावल्याद्या नास्ति, घ पुस्तके तु 'यथा रत्यादिका' इति पाठः, २ 'धीरप्रशान्त'
३ 'नायकासु' घ, ४ 'नायिकस्य' इति घ पुस्तके नास्ति ५ 'नायकः' इति नास्ति ग पुस्तके
तृतीयः परिच्छेदः । ९९
१इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते
देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः^२ ॥
कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः ।
दृष्टदोषोऽपि मिथ्यावाक्कथितो धृष्टनायकः ॥ ३६ ॥
यथा मम—
शोणं^३ वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं, ततः
पादेन प्रहृतं तया, सपदि तं धृत्वा सहासे मयि ।
किंचित्तत्र विधातुमक्षमतया बाष्पं सृजन्त्याः सखे
ध्यातश्चेतसि कौतुकं वितनुते कोपोऽपि वामभ्रुवः ॥
अनुकूल एकनिरतः—
१एकस्यामेव नायिकायामासक्तोऽनुकूलनायकः ।
यथा—
अस्माकं सखि वाससी न रुचिरे, ग्रैवेयकं नोज्ज्वलं,
नो वक्रा गति, रुद्धतं न हसितं, नैवास्ति कश्चिन्मदः ।
किंत्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो
दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम्^२ ॥
अप्राप्तिनिश्चयशून्यं वा मनो यस्य तेन ॥ कृतागाः कृतापराध । मिथ्यावाक् मयै-
तन्न कृतमित्ययथार्थवचन ॥ तं पादम् । अत्र प्रथमपादेन कारिकाया प्रथमपा-
दोक्तं द्वितीयपादेन द्वितीयपादोक्तं लक्षणं वेदितव्यम् ॥ अस्माकमिति । कस्या-
श्चिन्नायिकाया उक्तिरियम् । ग्रैवेयक कण्ठभूषणम् । वक्रा चित्रा । उद्धतमुत्कटम् ।
- इतीति । इति अन्तःपुरसुन्दरीः प्रति विज्ञाय यन्मया यद् वक्तव्यं तदवगम्य मया
विज्ञापिते विनिश्चय निवेदिते सति । एतदुक्तं भवति—ऋतुत्सवं तावदनुपक्षणीया किमुत
कुन्तलमहाराजतनया, साधारणोऽपि समयो दुर्लङ्घ्यः किमुतापनायस्तत्सन्मोहिन्या-
यागतसमागमसमय., सामान्योऽपि जने परतन्त्रता किमुत कमलाललामकमलाप्रयुक्ते ।
एवमुत्तरोत्तराधिककार्यसंपादनेऽपि महाराज्ञाः प्रसादनं तावत्सर्वोपरीति रहस्यम् ॥ - नाडिका इति । अत्यन्तसंयोगे द्वितीया ॥
- 'वरुणवेक्ष्य चुम्बितुमर्' इति प्राचीयान् पाठ. ॥
१. ग-पुस्तके तु 'सा... सान्द्रस्विद्यत्तनूत्तुङ्गतनूत्तुङ्गकुचेन किं वक्षक्षर... प्रतिनिश्चयनिश्चयात्मने
नोदाह्यते । रक्ते प्र... सहसा तन्मुन्तनष्टै तया स्रष्टा रभसेन तन्मुखावलोक्या च
तदित्युक्तम्' इति परणीतमुदाहरणं दृश्यते २. 'रख्या-' इति पाठिका ग-पुस्तके ।
३. ... 'इत्यदि' इत्यादिर्गं ग-पुस्तके.
१०२ साहित्यदर्पणे
अर्थचिन्तने सहायमाह—
मन्त्री स्यादर्थानां चिन्तायां—
अर्थास्तन्त्रावापादयः । यत्त्वत्र सहायकथनप्रस्तावे— 'मन्त्री स्वं
चोभयं वापि सखा तस्यार्थचिन्तने' इति केनँचिल्लक्षणं कृतम्, तदपि
राज्ञोऽर्थचिन्तनोपायलक्षणप्रकरणे लक्षयितव्यम्, न तु सहायकथनप्र-
करणे । नायकस्यार्थचिन्तने मन्त्री सहायः, इत्युक्तेऽपि नायकस्यार्थत
एव सिद्धत्वात् । यदप्युक्तम्— 'मन्त्रिणा ललितः शेषा मन्त्रिष्वायत्त-
सिद्धयः' इति, तदपि स्वलक्षणकथनेनैव लक्षितस्य धीरललितस्य मन्त्रि-
मात्रायत्तार्थचिन्तनोपपत्तेर्गतार्थम् । न चार्थचिन्तने तस्य मन्त्री सहायः ।
किं तु स्वयमेव संपादकः । तस्यार्थचिन्तनाद्यभावात् ।
शरीरचेष्टाविशेष इत्यर्थः ॥ मन्त्रीति । अस्य इति सहायः इति चानुषज्यते ।
चिन्तायामुपायनिरूपणे । स्वमण्डले क्रियमाणं कर्म तन्त्रम् । परमण्डले क्रियमाणं
कर्म आवाप । आदिना शत्रुनिग्रहादय । यत्त्विति । स्वं चेति चकारो वार्थे ।
उभयं मन्त्रिसद्वयम् । तस्य नायकस्य । सहायकथनपरत्वे दोषमाह—नायक-
स्येति । एवं च स्वं चेत्यादि निरर्थकम् । तदनुपादानेऽपि तल्लाभात् । स्वयं
चिन्तापक्षे स्वस्य सहकारित्वरूपसहायत्वानुपपत्तेरुभयचिन्ताया कारणान्तरप्रसङ्गा-
च्चेति भाव । सखिशब्दस्योपायार्थत्वम्, न तु सहायपरत्वमित्यवगन्तव्यम् ।
मन्त्रिणेति । आयत्तसिद्धिरित्यन्वय । ललितो धीरललित । शेषा धीरोदात्तादयः ।
स्वलक्षणेनेति । चिन्तन इति । धीरललितलक्षणनिविष्टेन तस्यार्थचिन्तनाद्यभावः ।
तेन च मन्त्रिमात्रायत्तार्थसिद्धिकत्वं प्रतीयत इति भाव । तस्य धीरललि-
- तन्त्रेति । तन्त्रण तणम् । स्वाधीनत्वात्स्वराष्ट्रे क्रियमाण कर्मापि तन्त्रशब्देनो-
च्यते । आ समन्ताद् वपन्ति इतिकर्तव्यताबीजमत्रेत्यावापः । 'डुपव् बीजतन्तुसन्ताने'
'हलश्च' इति घञ् । 'पर प्रत्यावाप फलति कृतसेकस्तरुखि' इति ॥ - केनचिदिति । दशरूपके धनञ्जयेनेत्यर्थः । तत्राय सुगमः सदंर्भः—अथ नेतुः
कार्यान्तरसहायानाह—'मन्त्रौ ख वोभय वापि सखा तस्यार्थचिन्तने । तस्य नेतुः
अर्थचिन्ताया तन्त्रावापादिलक्षणाया मन्त्री वा आत्मा वा उभय वा सहायः । तत्र
विभागमाह—'मन्त्रिणा ललित , शेपा मन्त्रिष्वायत्तसिद्धयः ।' उक्तलक्षणो ललितो नेता
मन्वायत्तसिद्धिः । शेषा धीरोदात्तादय अनियमेन मन्त्रिणा स्वेन वा उभयेन वा अङ्गी-
कृतसिद्धय इति ॥
१ क पुस्तके तथा मुद्रितपुस्तकेषु 'मन्त्री स्यादर्थाना चिन्ताया तद्वदवरोधे ।' इत्यार्ध
२ ... न 'मन्त्री स्यादर्थचिन्तायामर्थास्तन्त्रावापाद्य ।' इत्येवम् ...
अथान्तःपुरसहायाः—
तद्वदवरोधे ।
वामनषण्ढकिरातम्लेच्छाभीराः शकारकुब्जाद्याः ॥ ४३ ॥
मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्तः ।
सोऽयमनूढाभ्राता राज्ञः श्यालः शकार इत्युक्तः ॥ ४४ ॥
आद्यशब्दान्मूकादयः । तत्र षण्ढवामनकिरातकुब्जादयो यथा
रत्नावल्याम्—
नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा-
मन्तःकञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ।
पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतं
कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥
शकारो मृच्छकटिकादिषु प्रसिद्धः । अन्येऽपि यथादर्शनं
ज्ञातव्याः ।
अथ दण्डसहायाः—
दण्डे सुहृत्कुमाराटविकाः सामन्तसैनिकाद्याश्च ।
दुष्टनिग्रहो दण्डः । स्पष्टम् ।
ऋत्विक्पुरोधसः स्युर्ब्रह्मविदस्तपसस्तथा धर्मे ॥ ४५ ॥
त्स । स्वयमेव महदेव निष्पादक प्रधानकरणम् ॥ तद्वदिति । अवरोधेऽन्त-
पुरे । वामनादयो नायकस्य सहाया इत्यर्थः । शकारितानेपक्षः क्लीबो वा । शका-
रमाह—मदेति । मदमूर्खताभ्यामभिमानी अहं महानिति ज्ञानवान् । मदा-
दिप्रभवान् वा ॥ नष्टमिति । वानरवेगेनान्त पुरप्रविष्टं विदूषकमवलोक्य भये-
नान्तःपुरस्थाना पलायनवर्णनमिदम् । नष्टमदर्शन्तां प्राप्तम् । वर्षवरै र्षण्ढैः ।
'सौविदल्ला कञ्चुकिनः' इत्यमरः । किर पर्यन्तदेशस्तमटतीति किरात इति नाम्नाः स्ववा-
च्यशब्दास्य सदृशं योग्यं पर्यन्तदेशं प्राप्त इत्यर्थः ॥ मृच्छकटिक नाटिकाविशेषः ।
अन्ये म्लेच्छाभीरादयः । अटाटिनि दण्डारिणः ॥ ऋत्विगिति । धर्मे धर्मकर्मणि
१. दण्डेति । राज्ञो ये दण्डमदन्ति दण्डः । 'दण्ड दमने' । डण्डी । मूर्खा-
र्थादित् बहुव्रीहिः । तेन दण्डानुवृत्तय बह्मवत्कुलं प्रभोः सद्य नाशमाप्नुयात् ।
इत्यादी दण्डो दण्डकर्मकरणम् । 'ये सामन्तादयः इत्यतः पूर्वम् नीतिशास्त्रविदः ।
स चाऽत्र गृहीत भवेत् ते तु मन्त्रिणः स्युस्ततः' इति पाठान्तरं केषुचित्कोशेषूपलभ्यते ।
२. मूर्खेति । शकारोऽयं नराधमश्चेत् इत्युचितम् ।
१०६ साहित्यदर्पणे
अथ विलासः—
धीरा दृष्टिर्गतिश्चित्रा विलासे सस्मितं वचः ।
यथा—
दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा
धीरोद्धता नमयतीव गतिर्धरित्रीम् ।
कौमारकेऽपि गिरिवद्गुरुतां दधानो
वीरो रसः किमयमेत्युत दर्प एव ॥
संक्षोभेष्वप्यनुद्वेगो माधुर्यं परिकीर्तितम् ॥ ५२ ॥
ऊह्यमुदाहरणम् ।
भीशोकक्रोधहर्षाद्यैर्गाम्भीर्यं निर्विकारता ।
यथा—
आहूतस्याभिषेकाय विसृष्टस्य वनाय च ।
न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥
व्यवसायादचलनं धैर्यं विघ्ने महत्यपि ॥ ५३ ॥
यथा—
श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्¹हरः प्रसङ्ख्यानपरो बभूव ।
आत्मेश्वराणां नहि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥
अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् ।
प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥ ५४ ॥
तादि ॥ तृणीकृतौ तुच्छीकृतौ जगत्त्रयस्य सत्त्वमुत्साहः सारो बलं च यया सा ।
धीरा मन्थरा । उद्धता उद्भटा च । एतेन गतेश्चित्रत्वं नैकरूपत्वं च । अत्र नाय-
कस्य उत्साहदर्पयोरतिशयसूचनाय वीररसत्वेन दर्पत्वेन चोल्लेखः ॥ ऊह्यमुदाह-
रणमिति । यथा मम रामविलासे—'तन्निपीय कटु कर्णपदव्या खेदमाप न
मनागपि रामः । शूलपाणिरिव घोरसुदग्रं कालकूटपटलं किल पूर्वम् ॥' तस्य
श्रीरामस्य । आकारो मुखनेत्रादि तस्य विभ्रमो वैपरीत्यं येन हर्षशोकादयो
लक्ष्यन्ते ॥ व्यवसायात् प्रारब्धकर्मणः । अचलनम् अप्रच्यवनम् ॥ प्रसङ्-
ख्यानपरो योगनिष्ठः । आत्मेश्वराणां मनोनिरोधक्षमाणाम् ॥ अधिक्षेपो
- अस्मिन्निति । अस्मिन्क्षणे वसन्ताविर्भावसमये ॥
घ. ३. 'तस्य-' इत्यादि लक्ष्यते' इत्यन्त पाठो हि 'मनोनिरोधक्षमागाम्' इत्यादग्रे