साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 344, कुल 506 में से
संदर्भ में पढ़ेंद्वितीयः परिच्छेदः । ३९
नालभ्यस्य शीतत्वपावनत्वातिशयस्य बोधनरूपं प्रयोजनम्। हेतुं विनापि
यस्य कस्यचित्संबन्धिनो लक्षणेऽतिप्रसङ्गः स्यात्, इत्युक्तम्—'रूढेः
प्रयोजनाद्वापि' इति ।
केचित्तु 'कर्मणि कुशल.' इति रूढावुदाहरन्ति । तेषामयमभिप्रायः—
कुशाँल्लातीति व्युत्पत्तिलभ्यः कुशग्राहिरूपो मुख्योऽर्थः प्रकृतेऽसंभव-
न्विवेचकत्वादिसाम्यसंबन्धसंबन्धिनं दक्षरूपमर्थं बोधयति । तदन्ये
इति । प्रतिपादयतीति प्रतिपादनं वाक्यम्, तदलभ्यस्य । मुख्यशब्दघटितवा-
क्येनाप्रतिपाद्यस्येत्यर्थः । तीरस्य विप्रकृष्टदेशगतशीतत्वापेक्षया संनिकृष्टदेशगतशीत-
त्वादेराधिक्यमत्रातिशयः । एवं च 'अतिशीतेऽतिपावने तीरे घोष' इति व्यञ्जना-
जन्यबोधो लाक्षणिकशब्दप्रयोगस्य प्रयोजनमिति भावः । 'कथंचिन्न लक्षयितव्यं'
इति लक्षणाया निषेध उक्तः । अशक्तितो रूढिप्रयोजनविरहात् । यथा—'समरे
चरणाघातं मुखं मुमुखि तेऽकरोत्' । अत्र निर्जितत्वं लक्ष्यते । एषा नेयार्थ-
लक्षणा दोषतया वक्ष्यते । सा च कविप्रयोगानर्हत्वात् प्रकृतलक्षणस्य लक्ष्या
न भवतीति तन्नातिव्याप्तिवारणाय चरमहेतुद्वयं न्यस्तम् । तदेव दर्शयति—हेतु-
मिति । रूढिप्रयोजनयोरन्यतरमित्यर्थः । संबन्धिनो मुख्यार्थसंबन्धिनः । ल-
क्षणे लक्षणायाम् । उदाहरन्ति 'काव्यप्रकाशकारादय' इति शेषः । लाति गृह्णाति ।
व्युत्पत्तिः प्रकृतिप्रत्ययविभागकल्पना, ताभ्यस्तत्प्रतिपाद्यः । प्रकृते लौकिक-
कर्मान्वयेऽसंभवन् योग्यतामलभमानः । पदार्थसान्वयानुपपत्तिप्रतिसन्धानान्न
लक्षणाद्युपयोगित्वमित्यभिप्रायेणेदम् । अन्य इति । स्वपक्षानभिप्रायेण दूषय-
1 तदन्य इति । नातिरमिरमेयम् । अत्रापि वाचकशब्दप्रयोगे रूढिलक्ष्या तिरो-
धायोगात मुख्यसदृश कुशलानीति मुख्यार्थस्यान्वयात् । नित्य प्रयोगग्रहणेन प्रकृति-
निमित्तलोपोत्तरे यौगिकव्यवहारस्य मूर्च्छनेन दुर्वारः । यथा वाचनकार्थवाक्येय-
स्तोर्यादाविवेति रपि नियमस्य चन्द्रादयस्य इति योग्यताया नियन्त्रितसम्बन्धस्य प्रवृत्ता-
निमित्ते ते प्रत्यक्षमेव मर्य्यादोपपन्नमिव विचक्षणतया भवेत् नान्यथाव्यवहारो हीति चेत् ।
अत एव अमुख्यार्थसमर्पकविधेरपीत्यपि हरतु । पश्चादयच्छब्दः रूढिशक्तिश्चेत् स च
भिन्नैव यौगिकवृत्तित्युच्यते । 'कुटिलोऽप्यक्षः' इति प्रयोगाद्भवत्येवेत्यत्र ।
यत्र तच्छब्दविभागे तात्पर्यार्थे कर्माणि कुशलस्तद्गुणसङ्क्रान्तोद्भूतः केवलः प्रच्या-
तीत्यादिरित्यनुभवार्थकम् चेदित्यनु रूढिव्यापारव्यतिरेकेण कुशलशब्दो हि न केवलं
इति लक्ष्यार्थः स्वरूपं विवृणु । इह तु रूढ्या दृढतरप्रतीतिरस्ति तादृशी
निष्कृष्टाभ्युपेतादिभेदात् । तैश्च स्थूलोदरमण्डलोऽप्युच्यते यद्वा
प्रकृतिनिमित्तानुरोधात् प्रसिद्धेरेव तात्पर्यार्थसम्बन्ध—इत्युपाध्यायादि-
हतु । तत्र च प्रतिपादितमेवैतत् । तथा च रसगङ्गाधरादावप्यनेन प्रकार-