रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
षष्ठोऽध्यायः ६६
खट्वाङ्गं (चक्र ? च क)पालञ्च खेटकं पाशमेव च ।
वामहस्तेषु कर्त्तव्यं (हस्तानां(?) शस्त्राणां) च चतुष्टयम् ॥११॥
त्रिशूलं परशुं खड्गं (चण्डं (?) चक्रं) चैवारिमर्दनम् ।
दक्षिणेषु करेपु स्यादेतच्छस्त्रचतुष्टयम् ॥ १२ ॥
इत्यघोरः ।
पीताम्बरधरं देवं पीतयज्ञोपवीतिनम् ।
मातु(लि?लु)ङ्गं करे वामे अक्षसूत्रञ्च दक्षिणे ॥ १३ ॥
इति तत्पुरुषः ।
शुद्धस्फटिकसङ्काशं जटाचन्द्रविभूषितम् ।
त्र्यक्षं दत्ते त्रिशूलञ्च वामहस्ते कपालिनम् ॥ १४ ॥
इतीशः ।
कपालमालिनं श्वेतं शशाङ्ककृतशेखरम् ।
व्याघ्रचर्मधरं भद्रं नागेन्द्रासनभूषितम् ॥ १५ ॥
त्रिशूलं चाक्षसूत्रञ्च कारयेद्दक्षिणे करे ।
कपालं कुण्डिका पाशं योगमुद्रा करद्वये ॥ १६ ॥
इति मृत्युञ्जयः ।
एकवक्त्रं त्रिनेत्रं च शशाङ्ककृतशेखरम् ।
बृहद्भालकपालं च कण्ठग्रीवासुशोभितम् ॥ १७ ॥
चतुर्भुजं महाबाहुं शूलपङ्कजधृत्करम् ।
दिव्यरूपधरं देवं वरदाभयपाणिकम् ॥ १८ ॥
इति विजयः ।
चतुर्भुजं महाबाहुं शुक्लाक्षिपाणिपादकम् ।
पुस्तकाभयहस्तञ्च वरदाक्षं द्विलोचनम् ॥ १६ ॥
इति किरणात् ।
१६। कुण्डिका कमण्डलुः। योगमुद्रा मुद्राविशेषः। तत्स्वरूपं श्रीतत्त्वचिन्तामणौ
षोडशप्रकाशे द्रष्टव्यम् ।
१९। वरदाक्षमिति वराक्षसूत्रकरमित्यर्थः ।
१०० देवतामूर्त्तिप्रकरणम्
ज्वलत्पावकसङ्काशं खड्गहस्तं त्रिशूलिनम् ।
महाक्रोधधरं देवं भयत्तत्तं (?) महद्भयम् ॥ २० ॥
इत्यघोरः (?) ।
चित्रचन्द्रधरं (सूलं ? चित्रं) चित्रयज्ञोपवीतिनम् ।
चित्ररूपं महेशानं चित्रैश्वर्यसमन्वितम् ॥ २१ ॥
चतुर्बाहुं चैकवक्त्रं सर्व्वालङ्कारभूषितम् ।
खड्गचापशिरःखेटं शशाङ्ककृतशेखरम् ॥ २२ ॥
इति श्रीकण्ठमूर्त्तिः ।
त्रिलोचनं चतुर्बाहुं शुक्रनेवं करद्वयम् ।
दत्ते पाणौ च संपूर्णं चामृतं च रसं पिबेत् ॥ २३ ॥
अक्षसूत्रं तथा वामे महादेवमुमार्चितम् ।
रुद्रमेकादशं प्रोक्तं महदैश्वर्यकारकम् ॥ २४ ॥
इति महादेवः ।
पद्मासनशिवच्छायां योगासनकरद्वयम् ।
पञ्चवक्त्र(भ
र्धेनस्तुhasर्धे. So the correctionर्द्धेन तुalso hasर्!
Wait, look at the image: yes, there is a small repha merged with the matra:र्द्धेन तुorद्धेन तु?
Wait, let's look at:
कृष्णा(र्धेनस्तु ? द्धेन तु)or(र्धेनस्तु ? र्द्धेन तु)?
Wait, look at the letter: is thatर्द्धेन? Look at the top hook: it goes up and curves right: that IS a repha! And the slant goes left: that's an e-matra! So it has BOTH the e-matra and the repha:र्द्धेन तु!
-
Line 13:
कृष्णार्धे मुकुटं कुर्याज्जटाभारञ्च दक्षिणे ॥ ३३ ॥ -
Line 14:
कुण्डलं दक्षिणे भागे वामे मकरकुण्डलम् । -
Line 15:
अक्षमाला त्रिशूलञ्च चक्रं वै शङ्खमेव च ॥ ३४ ॥ -
Line 16:
(इत्य?इति) कृष्णशङ्करः । -
Line 17:
`पद्मशक्तिखेटशङ्गं मूर्त्ति(:?) स्यात् कृष्ण(तार्त्तिकः?कार्त्तिकी)
१०२ देवतामूर्तिप्रकरणम्
शिवनारायणं वक्ष्ये सर्वपापप्रणाशनम् ।
वामार्द्धे माधवं विद्याद्दक्षिणे शूलपाणिनम् ॥ ३६ ॥
बाहुद्वयञ्च कृष्ण(अ?स्य) मणिकेयूरभूषितम् ।
शङ्खचक्रधरं शान्तमारक्ताङ्गु(ली?लि)विभ्रमम् ॥ ३७ ॥
चक्रस्थाने गद(ां)वाऽपि पाणौ दद्यादधस्तने ।
शेषं वा दक्षिणे दद्यात् कट्यर्थं भूषणोज्ज्वलम् ॥ ३८ ॥
पीतवस्त्रपरीधानं चरणं मणिभूषितम् ।
दक्षिणार्धजटाभार(मर्धं दुष्कृत?मर्द्धेन्दुकृत)लक्षणम् ॥ ३६ ॥
भुजङ्गहारवलयं वरदं दक्षिणं करम् ।
द्वितीयं चापि कुर्वीत त्रिशूलवरधारिणम् ॥ ४० ॥
व्यालोपवीतसंयुक्तं कट्य(र्धं कृत?र्धे कृत्ति)वाससम् ।
मणिरत्नैश्च संयुक्तं पादं नागविभूषितम् ॥ ४१ ॥
इति शिवनारायणः ।
एकपीठसमारूढं तनु(त्येक?त्य)निवासिनम् ।
षड्(वक्तृञ्च ? भुजञ्च) चतुर्वक्त्रं सर्वलक्षणसंयुतम् ॥४२॥
अक्षसूत्रं त्रिशूलञ्च गदाञ्चैव तु दक्षिणे ।
कमण्डलुञ्च खट्वाङ्गं चक्रं वामभुजे तथा ॥ ४३ ॥
इति ह(री?रि)हर(पी?पि)तामहः ।
३८। 'शेषं वा दक्षिणे दद्यादि'त्यत्र 'शङ्ख' चैवोत्तरे दद्यादि'ति मत्स्यपुराणे
(२६० अ०, २४ श्लो०) पाठः ।
४२। द्वाचत्वारिंशश्लोकात्त्रिचत्वारिंशश्लोकं यावदेकं हरिहरपितामहलक्षणम्, पुनश्चतु-
श्चत्वारिंशश्लोकात् पञ्चत्वारिंशश्लोकं यावदन्यद् हरिहरपितामहलक्षणमिति; किमभिसन्धान-
मूलेयं लक्षणद्वयीति नावधारयामः। न चैका पुष्पिकैव खपुष्पायतामिति वाच्यम्; उभयो-
षष्ठोऽध्यायः १०३
चतुर्वक्त्रमष्टबाहुं चतुष्कैकनिवासिनम् ।
ऋद्धा(?)मुखगतः कार्यः पद्महस्तो दिवाकरः ॥ ४४ ॥
खट्वाङ्गत्विशूलहस्तो रुद्रो दक्षिणतः शुभः ।
कमण्डलुश्चाक्षसूत्रमपरस्थः पितामहः ॥ ४५ ॥
शङ्खचक्रधरो हरिर्वामे चैव तु संस्थितः ।
एवं विधेय(?)कर्त्तव्यं सर्वकामफलप्रदम् ॥ ४६ ॥
इति (सूर्य?)हरिहरपितामहः ।
षड्भुजञ्च चतुर्वक्त्रं सर्वाभरणभूषितम् ।
कमण्डलुश्चाक्षसूत्रमुभयोः कमलधृतकरम् ॥ ४७ ॥
मणा(?)लोर्द्धौ युग्महस्ते कर्त्तव्ये शुभलक्षणे ।
सर्वाभरणसंयुक्तं सर्वकामफलप्रदम् ॥ ४८ ॥
इति चन्द्राङ्कपितामहः ।
लेलिहन्तं दंष्ट्राकरालं चण्डभैरवमुत्तमम् ।
एकवक्त्रं शूलहस्तं खड्गशक्तिशराङ्कुशम् ॥ ४९ ॥
वरदं दक्षिणे ज्ञेयं खट्वाङ्गं खेटकं तथा ।
चापं तथाऽभयं चैव कपालं वामहस्तके ॥ ५० ॥
लक्षणयोर्भिन्नतयैकस्य वस्तुनः प्रतिपादकत्वानुपपत्तेः । तस्माद् द्वितीयहरिहरपितामहलक्षणे
'दिवाकर'पददर्शनात् सूर्यहरिहरपितामहस्येदं लक्षणमिति निश्चिनुमः । 'तनुत्रयनिवासिनमि'ति
सम्भाव्यमाने पाठे एतेषां पृथङ्मूर्त्तयः कर्त्तव्या इत्यर्थः ।
४४ । चतुर्वक्त्रमिति द्वितीयान्तपदाना मन्वयो दुर्घटः । चतुष्कैकनिवासिनमिति, एकस्मिन्
चतुष्कोणे स्थाने चतुष्कोणवत्यासने वा समासीनम् । ऋद्धामुखगत इति, रुद्रस्य दक्षिणे,
हरेर्वामे, पितामहस्य पश्चिमे सन्निवेशदर्शनादयं पूर्वदिक्स्थ इत्यायाति, क्वचित्तदर्थद्योतकमिदं
पदं स्यादनर्थकं वेति सुधीभिर्भाव्यम् ।
४६ । द्वितीयार्द्धे 'एवंविधोऽयं कर्त्तव्यः सर्वकामफलप्रदः' इति स्यात् ।
४७-४८ । चन्द्राङ्कपितामहोऽनुसन्धेयस्वरूपः ।
१०४ देवतामूर्तिप्रकरणम्
द्वाभ्यां वै गजचर्म स्यान्मुण्डमालाविभूषितम् ।
(इद?ईदृ)शं कारयेत् प्राज्ञश्चण्डभैरवमुत्तमम् ॥ ५१ ॥
इति चण्डभैरवः ।
विरूपाक्षस्ततः खड्गं शूलं डमरुमङ्कुशम् ।
सर्पं चक्रं गदामक्षसूत्रं बिभ्रत् कराष्टके ॥ ५२ ॥
खेटं खट्वाङ्गशक्ति(श्व? श्व) परशुतर्जनीघटम् ।
घण्टाकपाल(क्तौ?कौ) चेति (वामार्धा?वामोर्ध्वा)दिकराष्टके ॥ ५३ ॥
इति विरूपाक्षः ।
त्र्यम्बकोऽपि दधच्चक्रं डमरुं (मुदरं ? मुद्गरं) शरम् ।
शूलाङ्कुशाहिजाप्यञ्च दक्षोर्ध्वादिकराष्टके ॥ ५४ ॥
गदाखट्वाङ्गपात्राणि कार्मुकं तर्ज(नी ? नीं) घटम् ।
परशुं पट्टिशं चैव वामोर्ध्वादिक्रमेण वै ॥ ५५ ॥
इति त्र्यम्बकः ।
कार्यो हरिहर(स्या?श्चा)पि दक्षिणाद्धे सदाशिवः ।
वामार्द्धे च हृषीकेशः श्वेतनीलाकृ(तिः?ती) क्रमात् ॥ ५६ ॥
व(रं?र) त्रिशू(लं?ल) चक्राब्जधारिणो बाहवः क्रमात् ।
दक्षिणे वृष(भे?भः) पार्श्वे वामे विहगराडिति ॥ ५७ ॥
इति हरि-हरमूर्त्तिः ।
कृ(ष्णा?ष्ण)शङ्करसंयोगाद् द्वाविंशद्भेद-(मर्जयः ? मूर्त्तयः) ।
नोदिता ग्रन्थबाहुल्याज् (ज्ञेयादियार्णवा?) बुधैः ॥ ५८ ॥
५४-५५ । अहिजाप्यमिति अहिः सर्पः जाप्यं जपसाधनमक्षसूत्रमिति यावत् । गदा-
खट्वाङ्गेति । पात्रं नृकपालम् । एतेनायं षोडशभुज इति सिद्धम् । पूर्वोक्तो विरूपाक्षोऽपि
तथा ।
षष्ठोऽध्यायः १०५
अथ लिङ्गानि
अष्टलोहानि लिङ्गार्थे स्वर्णं रौप्यञ्च ताम्रकम् ।
कांस्यपित्तलवङ्गानि नागं लोहं तथाऽष्टमम् ॥५९॥
[ धातुलिङ्गमानम् ]
एकाङ्गुलाद् धातुमयं यावदष्टाङ्गुलोदयम् ।
एकैकस्याङ्गुलस्याष्टौ लिङ्गान्राष्टौ ततः पुनः ॥६०॥
५९ । अथ लिङ्गान्याह—अष्टलोहानीति । एतेऽष्टौ धातव एवाष्टलोहनाम्नाऽभिधीयन्ते
लोहशब्दस्य धातुपर्यायेऽन्तःपातात् । तत्र वङ्गं रङ्गापरनामा धातुविशेषः, नागं सीसकम् ।
लिङ्गफलान्युक्तानि रूपमण्डने ( अ० ४, श्लो० ३७-४१ ) ।
स्थिरलक्ष्मीप्रदं हेमं रजतञ्चैव राज्यदम् ।
प्रजावृद्धिकरं ताम्रं वाङ्मायुर्विवर्धनम् ॥
विशेषकारकं कांस्यं पित्तलं भुक्तिमुक्तिदम् ।
सीसकञ्च शत्रुलिङ्गम् आयसं रिपुनाशनम् ॥
अष्टलोहमयं लिङ्गं कुष्ठरोगक्षयापहम् ।
त्रिलोहसम्भवं लिङ्गमन्तर्धानप्रसिद्धिदम् ॥
आयुष्यं हीरकं लिङ्गं भोगदं मौक्तिकोद्भवम् ।
सुखकृत् पुष्परागोत्थं वैदूर्यं शत्रुमर्दनम् ॥
श्रीप्रदं पद्मरागञ्च इन्द्रनीलं यशःप्रदम् ।
लिङ्गं मणिमयं पुष्ट्यै स्फाटिकं सर्वकामदम् ॥ इति ।
शिल्परत्नेऽपि प्रायेणैवमेव फलानि । ( शिल्प० उत्तरभाग० अ० १, श्लो० ३८-४१ ) ।
६० । एकाङ्गुलादिति । धातुमयानि लिङ्गानि एकाङ्गुलादारभ्य यावदष्टाङ्गुलमुन्नतानि
स्युः । एवमष्टौ लिङ्गानि भवेयुः, ततः पुनरेकैकस्याङ्गुलस्याष्टौ लिङ्गानि भवेयुः, स्वर्ण-
रौप्यादिभेदेनेत्यर्थः, इति व्युत्क्रमेण व्याख्येयम् । तथा च एकाङ्गुलादष्टाङ्गुलान्तानि स्वर्ण-
लिङ्गान्राष्टौ, एवं रजतानि एवं ताम्राणीत्यादि । यद्वा एकैकस्य अङ्गुलस्याष्टौ लिङ्गानीति
वक्ष्यमाणमनोहरादिसंज्ञाभेदेनेत्यर्थः, तथाच एकाङ्गुलादष्टाङ्गुलान्तानि मनोहरलिङ्गान्राष्टौ एवं
श्रीमुखलिङ्गानीत्यादि । अत्र च पक्षे अविशेषाद् वक्ष्यमाणेषु शैलदारुवादिलिङ्गेष्वप्येवं
भेदस्याऽऽवश्यकत्वेनास्योपलक्षणपरत्वं व्याख्येयम् ।
यद्वा, तृतीयपादे 'एकैकस्याङ्गुल्यस्यर्द्धया' इति कृतशुद्धिः पाठः । ऋद्धिवृद्धिरिति
नार्थान्तरम् । तथाच एकाङ्गुलादारभ्य एकैकस्याङ्गुलस्य वृद्ध्या लिङ्गान्राष्टौ भवन्ति ।
शिल्परत्ने अङ्गुलीनां वृद्धेस्तारतम्यतो लौहलिङ्गस्य द्वैविध्यमुक्तम् । तथाच—
देवता—१४
१०६ देवतामूर्त्तिप्रकरणम्
[ धातुलिङ्गनामानि ]
(१)मनोहरं (२)श्रीमुखञ्च (३)रुद्रतेजो (४)महोत्सवम् ।
(५)आनन्दञ्च (६)सुवक्त्राख्यं (७)स्त्रीपुंजं (८)नन्दिवर्धनम् ॥६१॥
[ धातुलिङ्गे विशेषः ]
(लोह?लौहं) मिश्रं न कर्त्तव्यं स्वमा(लं योनि?त्रयोनि)संयुक्तम् ।
[ रत्नलिङ्गम् ]
कर्त्तव्यं धातुलिङ्गस्य प्रमाणेन हि रत्नजम् ॥६२॥
इति धातुरत्नलिङ्गानि ।
अष्टाङ्गुलं समारभ्य ( द्विद्वय ? ष्टाष्टा ) ङ्गुलविवर्धनात् ।
लौहानि नव लिङ्गानि त्रिहस्तान्तानि कारयेत् ॥
तथाऽष्टाङ्गुलमारभ्य द्विद्व्यङ्गुलविवर्धनात् ।
त्रिहस्तान्तानि लिङ्गानि त्रयस्त्रिंशद् भवन्ति हि ॥
( उत्तरभाग० २ अ० ५४-५५ श्लो० )
इत्यादौ अष्टाङ्गुलवृद्धिभाञ्जि नव लिङ्गानि, अनन्तरञ्च द्विद्व्यङ्गुलवृद्धिभाञ्जि त्रयस्त्रिंशत्संख्य-
लिङ्गानीत्युक्तम् । मानन्तुभयत्रैवाष्टाङ्गुलत आरब्धम् । रूपमण्डनेऽपि अष्टाङ्गुलारब्धमानकानि
अष्टाङ्गुलवृद्धिमन्ति नवैव लौहलिङ्गानि । तथाच—
धातोरष्टाङ्गुलं पूर्वमष्टाष्टाङ्गुलवर्धनात् ।
त्रिहस्तान्तं नवैव स्युर्लिङ्गानि च यथाक्रमम् ॥ इति ।
( अ० ४, श्लो० ५१ ) ।
एवञ्च स्वकृताद् रूपमण्डनात परकृताच्छिल्परत्नाच्चान्यादृशस्यास्य धातवलिङ्गानां लक्षणस्य
मूलमन्यत्र शास्त्रान्तरेऽनुसन्धेयम् ।
६१ । अष्टानां धातवलिङ्गानां नामान्याह—मनोहरमिति । एतानि नामानि नान्यत्रोप-
लभ्यन्ते । एवमुत्तरत्रापि दारुजादिलिङ्गानाम् । शिल्परत्ने अष्टादशलिङ्गनामान्युक्तानि
( शिल्प० उ० अ० २, श्लो० १-५ ) ।
६२ । लौहमिति । लौहं धातुजं लिङ्गं मिश्रं धात्वन्तरसंयुक्तं न कर्त्तव्यम् । यद्यपि
धातुष्वपि केचनान्योन्यसंकरजन्मानो वर्तन्ते, अत एव तानुद्दिश्य निन्दाऽपि श्रूयते—
मुख्यलोहानि चत्वारि हेमादीनि शुभानि हि ।
पिशाचलोहान्यन्यानि कांस्यादीनीति केचन ॥ इति ।
( शिल्प० उ० अ० १ ४१-४२ श्लो० )
तथाऽप्यद्यतनमिश्रणव्यावृत्त्यर्थमेतदित्यनुसन्धेयम् । यद्बोत्तरपादे पीठिकालक्षणघटकीभूत'स्वमात्र'-
षष्ठोऽध्यायः १०७
[ दारुलिङ्गमानम् ]
षोडशाङ्गुललिङ्गञ्च (षोडशा ?एकैका)ङ्गुलवर्धनात् ।
लिङ्गा(ना ?न्या)रसह(स्ता ?स्ता)न्तमष्टाविंशोत्तरं शतम् ।
क्रमेण नव लिङ्गानां षट्(का ?क)रान्तानि संख्यया ॥६३ ॥
षड्व्यावर्त्तनीयमनेनाऽऽद्यपादेन दर्शितम्, तथाच पीठिका लोहमिश्रा न कर्त्तव्येति वर्त्तलोऽर्थः ।
यद्वा लोहमिश्रं लोहान्तरमिश्रं लिङ्गमिति शेषः, न कर्त्तव्यम् । एवञ्च यथाश्रुत एव पाठः
प्रथमपादे ।
स्वमात्रेति । लिङ्गं स्वमात्रयोनिसंयुतं कर्तव्यम् इत्यन्वयः । स्वमात्रं येन धातुना कृतं
लिङ्गं तन्मात्रं तेन कृता योनिः पीठिका तया संयुक्तं लिङ्गं कुर्यादित्यर्थः, न त्वेकेन धातुना घटिते
लिङ्गे धात्वन्तरेण पीठिका कर्तव्येति भावः । तदेतत् सर्वं विशिष्याऽऽह शिल्परत्ने—
स्वयोनिः पीठिकैव स्याच्छैलादीनामदूषणा ।
अभावे त्वैष्टकी शैले रत्नजानां हिरण्मयी ॥
राजती ताम्रजा वा स्याच् श्रेष्ठमध्याधमक्रमात् ।
न्यूनैर्वा परलोहानामिष्टकाभिश्च दारवे ॥ इति ।
( उ० अ० १, ९७-९८ श्लो० )
रूपमण्डनेऽपि—
रत्नलिङ्गं द्विधा ख्यातं स्वपीठं धातुपीठकम् ।
धातुजन्तु स्वयोनिस्थं सिद्धिभक्तिप्रदायकम् ॥
ताम्रजं पुष्परागस्य स्फाटिकस्य तु राजतम् ।
ताम्रजं मौक्तिकस्यापि शेषाणां हेमजं मतम् ॥ इति
( रूप० अ० ४, ४२-४३ श्लो० )
एवमुत्तरपादे सम्भिन्नमर्थं प्रब्रुवाणोऽपि यथाश्रुतः पाठः प्रमाणान्तरानुग्रहाभावादुपेक्षितः ।
अतिरोहितार्थश्च यथाश्रुतः पाठः । उक्तमर्थं रत्नलिङ्गेऽप्यतिदिशति—कर्त्तव्यमिति । सन्नप्यन्यत्र
रत्नलिङ्गविषये विशेषो नेह प्रपञ्चित इति द्रष्टव्यम् ।
६३ । षोडशेति । एवमेव शिल्परत्न( उ० अ० २, श्लो० ५६ )रूपमण्डनयोः ( अ० ४,
श्लो० ५२ ) । त्र्यर्थस्यास्य पद्यस्य प्रथमार्धे यथोक्तशोधनं विना मध्यमार्थे लिङ्गसंख्या
दुरुपपादा । तथाहि येय'मष्टाविंशोत्तरं शतम्' इति संख्या श्रूयते सा किं लिङ्गानामुताङ्गुली-
नामिति विचार्यमाणे न लिङ्गानामित्यापातत आयाति । कथमिति चेद् रसहस्तमवधीकृत्य
षोडशाङ्गुलादारभ्य षोडश-षोडशवर्धनेन नवैव लिङ्गानि भवेयुर्न यथोक्तानि । नाप्यङ्गुलीनाम्,
यथोक्तसंख्याकाभिरङ्गुलीभी रसहस्तानिष्पत्तेः । तस्मादत्र क्वचित् कश्चिद् भ्रमः कल्पनीय
१०८ देवतामूर्त्तिप्रकरणम्
[ दारुलिङ्गनामानि ]
(१)मकरेन्दु च (२)मांलक्यं (३)पुष्पं (४)सिद्धार्थकं ततः।
(५)दण्डाख्यं (६)ग्रौरवं (७)काम्यं (८)पुष्पकञ्च (६)फलोद्भवम् ॥६४॥
[ लिङ्गोचितवृक्षाः ]
श्रीपर्णी शिशुकाशोकः शिरी(ष ? षः) खदिरोऽर्जुनः ।
चन्द(न ? नः) श्रीफलो निम्बो रक्तचन्दनवीर्यकौ ॥६५॥
कर्पूरो देवदारुश्च स्यन्दनः पारिजातकः ।
चम्पको मधुवृक्षश्च (हिताश्चागरुडः?हिन्तालश्चागुरुः) शुभः॥६६॥
[ वृक्षाणां लक्षणोद्धारः ]
निर्त्र(णा ?: सु ) दृढा वृक्षा लिङ्गार्थे सौख्यदाय(कः ? काः) ।
ग्रन्थिकोटरसंयु(क्ता ?क्तान्) शाखोद्भू(ता ?तान् )
परित्यजेत् ॥ ६७ ॥
[ लिङ्गोचितानि गृहाणि ]
निलयं दारुलिङ्गानाम् इष्टकादारुजं शुभम् ।
शैलजं धातुलिङ्गानां स्वरूपं वाऽधिकं शुभम् ॥६८॥
इति दारुजा(ती ? नि) ।
[ शैललिङ्गमानम् ]
एकहस्तादिमं लिङ्गं हस्तवृद्ध्या नवान्तिकम् ।
शैललिङ्गस्य मानन्तु हस्त(हितं ? हीनं) न कारयेत् ॥६९॥
इति द्वितीयपादे शुद्धिः कृता । ततश्च षोडशाङ्गुललिङ्गमारभ्य एकैकाङ्गुलवर्धनाद् रसहस्तं
यावल्लिङ्गानि यथोक्तसंख्याकान्येव स्युरिति सर्वमनवद्यम् । ‘आरसे’त्यादावाङ् मर्यादायाम्
एकाङ्गुलोनरसहस्तान्तमित्यर्थः, एवमेवाष्टाविंशोत्तरशतसंख्या स्यात् । मध्ये शुद्धिरित्यु
प्रास्ताविक्येव ।
६४ । नवानां लिङ्गानां नामान्याह-मकरेन्दु चेति ।
६५ । लिङ्गवृक्षानाह-‘श्रीपर्णी’त्यादि ‘हिन्तालश्चागुरुः शुभः’ (६६) इत्यन्तेन । ‘स्यन्दन’
इत्यत्र ‘चन्दन’ इति प्रामादिकः पाठो रूपमण्डने (अ० ४, श्लो० ५६ ) ।
६९ । शैललिङ्गमानमाह-एकेति । एकहस्ततो नवहस्तान्तं शैललिङ्गं कुर्यात् ।
षष्ठोऽध्यायः १०६
हस्तादिपादवृद्ध्या च (भयलिं ? त्रयस्त्रिं)शत् क्रमेण वै ।
लिङ्गानि (न च ? नव) हस्तान्तं—
७०। पूर्वोक्तानां नवानां लिङ्गानां निर्माणक्रमेण त्रयस्त्रिंशत्त्वमाह—हस्तादीति ।
‘हस्तहीनं न कारयेदि’त्युक्तत्वादेकहस्तमारभ्य एकहस्तं सपादहस्तं सार्द्धहस्तं पादोनद्विहस्त-
मित्यादिक्रमेण पादशो वर्द्धितानि लिङ्गानि नवहस्तं यावत् त्रयस्त्रिंशत्संख्याकानि भवन्तीत्यर्थः ।
रूपमण्डने—
हस्तादि नवहस्तान्तं शैलं लिङ्गं विधीयते ।
हस्तवृद्ध्या नवैव स्युर्मध्ये वृद्धिर्यदृच्छया ॥ (अ० ४, श्लो० ५३)
इति हस्तादिनवहस्तान्तं लिङ्गमानं नियम्य या चेह पादवृद्धिरुक्ता तत्रौदासीन्येन यादृच्छिकवृद्धि-
स्तत्र प्रतिपादितेति ज्ञेयम् । शिल्परत्ने पुनः—
(सप्त ? एक)हस्तोच्छ्रमारभ्य पादवृद्ध्या तु पूर्ववत् ।
श्रेष्ठानि नवलिङ्गानां त्रयस्त्रिंशदुदाहृतम् ॥
(उ० अ० २, श्लो० २४-२५)
इत्यनेन प्रकृता पादवृद्धिः समर्थिता दृश्यते ।
लिङ्गमानं तावत् नवधा भवेत् । तथाच—
लिङ्गं गर्भगृह(१)द्वार(२) स्तम्भा(३)धिष्ठान(४)किष्कुभिः (५) ।
ताल(६)मानाङ्गुलै(७)श्चापि तथा मात्राङ्गुलै(८)रपि ॥
यजमानोच्छ्रमानेन (९) चैवं नवविधं स्मृतम् ॥ इति ।
(शिल्प० उ० अ० २, श्लो० १३) ।
क्वचित् सप्तधेत्यपि । तथाच—
गर्भगृहप्रमाणञ्च द्वारमानं तथैव च । स्तम्भञ्च कालमानञ्च हस्ततालाङ्गुलं तथा ॥
लिङ्गमानं ध्रुवं सप्त......... । (काश्यप० अ० ४९, श्लो० ६९-७०)
इति । इह तु त्रिधा लिङ्गमानमुक्तम् । तत्र मानाङ्गुलेन पूर्वमुक्तं प्रासादगर्भमानाभ्यामिदानी-
मुच्यते । प्रासादमानेन लिङ्गमानकथनस्यायमभिप्रायः—एवं हि तन्त्रयुक्त्या लिङ्गमानं
लिङ्गोचितप्रासादमानञ्चोक्तं भवतीति । तदुक्तं मात्स्ये—
प्रासादस्य प्रमाणेन लिङ्गमानं विधीयते ।
लिङ्गमानेन वा विद्यात् प्रासादं शुभलक्षणम् ॥ इति ।
(मत्स्य० अ० २६३, श्लो० २) ।
११४ देवतामूर्तिप्रकरणम्
[ शैललिङ्गनामानि ]
(१)श्रीभवं (२)(नु ?तू)र्ध्वं (३)भवम् ॥७०॥
(४)भयहृत् (५)पाशहरणं (६)पापहस्तेज उच्यते ।
ततः परं (७)महातेजा (८)परापर(६)म(खे ? हे)श्वरम् ॥७१॥
(१०)शेखरश्च (११)शिवं (१२)शान्तं (१३)मनोल्हादकरं ततः ।
(१४)रुद्रतेजः (१५)सदात्मज्ञं (१६)वामदेव (१७)मघोरे (१८)श्वरम् ॥७२॥
(१९)तत्पुरुषं (२०)तथेशानं (२१)मृत्युञ्जय(२२)विजयक्रमात् ।
(२३)किरणाक्ष(२४)महोरात्रं (२५)श्रीकण्ठं (२६)मुनिवर्धनम् ॥७३॥
(२७)पुण्डरीकं (२८)सुवक्त्राख्यम् (२९)उमातेजं (३०)विश्वेश्वरम् ।
(३१)त्रिनेत्रं (३२)त्र्यम्बकं चैव (३३)महाकालञ्च नामतः ॥७४॥
[ प्रासादमानेन लिङ्गमानम् ]
हस्तमानं भवेल्लिङ्गं वेदहस्ते सुरालये ।
(ये ? ज्ये)ष्ठलिङ्गन्तु (वेदशं ? वेदांशे) षट्त्रिंशे नवहस्तकम् ॥७५॥
पञ्चादिभूतवेदा(न्तं ? न्ते) प्रासादे हस्तसंख्यया ।
मध्यमं पञ्चमांशेन हस्तादिनवहस्तकम् ॥७६॥
रित्यादि(?)युगलं चान्ते हस्तसंख्या शिवालये ।
षडंशेन प्रकर्त्तव्यं हस्तादि (भव ?नव)हस्तकम् ॥७७॥
७६ । प्रासादमानस्यावधिमाह—पञ्चादीति । पञ्चसंख्याया आदिः पञ्चादिः चतुः-
संख्येत्यर्थः । तथा च चतुर्हस्ततो भूतवेदान्ते पञ्चचत्वारिंशद्धस्तमिते प्रासादे हस्तसंख्यया
लिङ्गं स्थाप्यमित्यर्थः । 'हस्तमानं भवेल्लिङ्गम्' इत्युक्तत्वादेवमनाजर्वेन व्याख्यातम् ।
७७ । 'रित्यादियुगलं'मित्ययं दुर्ग्रहार्थः पाठः । यच्च समानतन्त्रे रूपमण्डने 'कृत्वा
द्वियुगलम्' ( अ० ४, श्लो० ६२ ) इति पाठः सोऽपि दुर्ज्ञेयप्रकृतोपयोग इत्युपेक्षितः ।
'अतिकोमलमेकतोऽन्यतः सरसाम्भोरूहवृन्तकर्कशम्' ।
षष्ठोऽध्यायः १११
कनि(ष्ठा ये ? ष्ठज्ये?)ष्ठलिङ्गेषु मध्यमामध्यमेषु च ।
प्रासा(द?दाः)कन्यसे (यष्ठां ? ज्येष्ठाः) सीमा-
(न ?मान)मिदं स्मृतम् ॥७८॥
[ गर्भगेहमानेन लिङ्गमानम् ]
गर्भे पञ्चांशके त्र्यंशे (न्यष्टे ?ज्येष्ठ)लिङ्गन्तु मध्यमम् ।
नवांशे पञ्चभागे (स्याद्गर्भार्थं ?स्याद्गर्भार्धं) कन्यसोदयम् ॥७६॥
धातुजे रत्नजे चैव शम्भुबाणे च (दारुणे ? दारवे) ।
गृहं न्यूनाधिकं प्रोक्तं वक्त्रलिङ्गे(षु? च) पार्थिवे ॥८०॥
७९ । इदानीं गर्भगेहमानेन लिङ्गमानमाह—गर्भ इति । पञ्चभागीकृतस्य गर्भगेहस्य त्र्यंशेन
परिमितं लिङ्गं ज्येष्ठं भवेत्, एवं नवधा कृतस्य तस्य पञ्चांशेन मध्यमम्, द्विधा कृतस्य च
तस्यार्द्धेन कनिष्ठमित्यर्थः । मात्स्ये—
भागार्धेन तु यल्लिङ्गं कार्यं तदिह शस्यते ।
पञ्चभागविभक्तेषु त्रिभागो ज्येष्ठ उच्यते ।
भाजिते नवधा गर्भे मध्यमं पाञ्चभागिकम् ॥
इति ( अ० २६३, श्लो० ७-८ )
गर्भगृहस्वरूपमाह समराङ्गणसूत्रधारे—
शालानां यत् पुनर्मध्यं वापी पुष्करिणी च सा ।
संछन्ना ( चा ? सा )पि यस्य स्यात् तद् गर्भगृहमुच्यते ॥ इति ।
( अ० १८, श्लो० २० ) ।
तन्मानन्तु—
प्रासादस्य त्रिभागैकं सप्तभागानलांशकम् ।
विशेषाद् गर्भगेहस्य विस्तारं प्राह काश्यपः ॥ इति ।
( शिल्प० पूर्व० अ० २१, श्लो० ९ ) ।
८० । यथोक्तमानस्य कचिद् विपर्ययोऽपि भवतीत्याह—वक्त्रलिङ्गे चेति । पार्थिवे
वक्त्रलिङ्गे इति सम्बन्धः । वक्त्रलिङ्गं लिङ्गविशेषः, मुखलिङ्गमित्यस्य नामान्तरम् । तत्स्वरूपं
शिल्परत्ने उत्तरभागे तृतीयाध्याये द्रष्टव्यम् । शम्भुबाणे इति शाम्भौ बाणे चेत्यर्थः ।
११२ देवतामूर्तिप्रकरणम्
[ लिङ्गविस्तारः ]
मृद्दारुलोहशै(लं वा?लानां) दैर्घ्ये
भक्ते (दिनांशके?जिनांशकैः) ।
कुर्यात् षट्सार्धसप्तांशनवांशे विस्त(र?रं) क्रमात् ॥८१॥
(विषकं?विष्कम्भं) नव(नागं?भागं) तु सार्द्धमष्ट पितामहः ।
नारायणोऽष्टभिर्जे(यो?यः) सप्तसार्धं महेश्वरः ॥८२॥
८१-८२। इदानीं लिङ्गस्य विस्तारं ब्रह्मादिभागविभागञ्च युग्मकेनाऽऽह—मृद्दार्विति ।
मृदादिलिङ्गानां दैर्घ्यं जिनांशकेश्चतुर्विंशत्येत्यर्थः, भक्ते षट्सार्धादिना विस्तरं कुर्यादित्यर्थः । यद्वा
विष्कम्भनवभागं गर्भगृहविष्कम्भस्य नवमांशमितं विस्तरं कुर्यादित्यर्थः । अत्रोद्दिष्टानां
मृदादीनां चतुर्णां षट्सार्धंत्यादिभिश्चतुर्भिरनुद्देशाद् यथासंख्येनान्वयो बोध्यः । विषमफलमपि
तुल्यप्रकारं विभागवचनं शिल्परत्ने—
आयामे दलिते दिवाकरयुजाऽभीष्टेऽष्टभिर्विस्तृतिः
पञ्चांशैरपि गर्भगृहनवमांशेनापि सा स्मर्यते ॥
( उ० अ० २, श्लो० ६७ ) ।
ब्रह्मादिभागमाह—सार्द्धमष्टेति । अत्रापि जिनांशकैर्भक्ते इत्येव । सप्तसार्द्धमिति सार्द्ध-
सप्तेत्यर्थः । अत्रापि फलविसंवाद्यपि संवादि प्रमाणं तत्रैव—
लिङ्गं सर्वसमं समोन्मितिर्विभक्तांशत्रयं तत् पुनः
स्वायत्या सम-नाहकं यदि समांशं वाथ वृद्धूत्तरम् ।
भक्ते भानुयुजोच्छ्रयेऽद्रि(७)वश्व(८)नन्दां(९)शैस्तु मूलादिषू-
पेतं दिग्दलिते त्रिलोकयुगसंख्यातैस्तथेशाधिकम् ॥
( शिल्प० उ० अ० २ श्लो० ६६ )
अस्यायमर्थः—लिङ्गस्य उच्छ्राये भानुयुजा रविद्वयेन चतुर्विंशत्येत्यर्थः, भक्ते क्रमेण अद्रिवस्व-
नन्दांशैः सप्ताष्टनवभिरंशैर्मूलादिषु मूलमध्योर्ध्वभागेषु उपेतं पूर्वार्धविशेषणविशिष्टं लिङ्गम्
ईशाधिकं शिवभागाधिकं भवेदित्यर्थः । पक्षान्तरमाह—दिग्दलिते इति । दिशा दशभिर्दलिते
विभाजिते उच्छ्राये इत्येव, त्रिलोकयुगसंख्यातैः यथाक्रमं त्रिभिखिभिश्चतुर्भिरंशैर्मूलादिषु उपेतम्
ईशाधिकञ्च सत् लिङ्गं तथा पूर्वोक्तवदेव भवेदित्यर्थः ।
षष्ठोऽध्यायः ११३
[ लिङ्गस्य ब्रह्मादिभागाः ]
ब्रह्मांशश्चतुरस्रो (वोऽधो) मध्येऽष्टास्रस्तु वैष्णवः ।
पूजाभागः सुवृत्तः स्यात् पीठोर्ध्वं शङ्करस्य च ॥८३॥
[ नागरलिङ्गानि ]
गर्भा(र्थं?र्धं) कन्यसं श्रेष्ठं पञ्च(विं?त्र्यं)शं शिवालयम् ।
भवन्ति नव लिङ्गानि तयोर्मध्येऽष्ट(भागिके?भाजिते) ॥८४॥
श्रेष्ठमध्यकनिष्ठानि त्रित्रिभेदानि तानि हि ।
नागरे नागरस्यो(क्त?क्तं)मा(न?नं)लिङ्गस्य मन्दिरे ॥८५॥
अग्रेऽशभागोऽधिक इति दृश्यते प्रकृते तु ब्रह्माभागः, तस्य सार्धाष्टभागभाजित्वात् ।
तदग्रेऽशपदं ब्रह्मपरं वा स्यात् मूलपदम् ऊर्ध्वपरं वेति तत्रभवन्तो निर्माणनिपुणा जातिशिल्पिनो
निर्दिशन्त्विति । परमीशपदस्य ब्रह्मपरत्वेऽपि तस्य मूलभाक्त्वादाधिक्यमसम्भवमेव ।
८३। ब्रह्मादिभागस्य देशं प्रकारञ्चाऽऽह—ब्रह्मांश इति । ब्रह्मांशश्चतुरस्रः समचतुष्कोणः,
स च अधो विधेयः, वैष्णवः अष्टास्रः, स तु मध्ये कर्त्तव्यः, शङ्करस्य पूजाभागः सुवृत्तः पीठोर्ध्वञ्च
स्यादिति योजना । तदेतदाह शिल्परत्ने—
यथोचितातानवितानयुक्तां शिलां यथोक्तक्रमतोऽभिभज्य ।
मूलं युगाश्रं विदधीत मध्यमष्टाश्रकं वृत्तमयं परञ्च ॥
इति (उ० अ० २, श्लो० ७७) ।
८४-८५। सम्प्रति लिङ्गस्य पूर्वोक्तं श्रेष्ठमध्यकनिष्ठत्वादिभेदत्रयमनूद्य नागरादिप्रासादभेदेन
लिङ्गमानमाह—गर्भार्धमिति । गर्भार्धं शिवालयं शिवलिङ्गं कन्यसं कनिष्ठम्, पञ्चत्र्यंशं गर्भपञ्चांशस्य
त्र्यंशं शिवलिङ्गं ज्येष्ठम् इति पूर्वोक्तानुवादः । प्रस्तुतमाह—भवन्तीति । तयोर्मध्ये ज्येष्ठ-
कनिष्ठयोर्मध्ये नवांशीकृतस्य गर्भस्य पञ्चांशे इत्यर्थः, पूर्वं तस्यैव मध्यमत्वाभिधानात् ;
अष्टभाजिते अष्टभिर्विभक्ते नव लिङ्गानि भवन्ति ; तानि च श्रेष्ठमध्यकनिष्ठानीति त्रित्रिभेदानि
भवन्तीत्यर्थः । निगमयति—नागर इति । नागरे मन्दिरे नागरस्य लिङ्गस्य मानम् इत्युक्तम् ।
शिल्परत्ने 'नागरे' इत्यत्र 'वेशरे' इति लिखितं विलक्षणैरांशादिभिरयमेव प्रकारोऽभिहितः ।
तथाच—
अभिकृत्यंशके (२६) गर्भे षोडशांशं तदुत्तमम् ।
त्रयोदशांशमधमं तयोर्मध्येऽष्टभाजिते ॥
नव लिङ्गानि सिध्यन्ति वेसरे तानि कल्पयेत् । ( उ० अ० २, श्लो० ६४-६६ )
देवता—१५
११४ देवतामूर्तिप्रकरणम्
विकारांशे तदायामे भूत(भङ्गानि?वेदाग्नि)विस्तरम् ।
(नयदं ?जयदं) पौष्टिकं सार्थकामकं नागरे विदुः ॥८६॥
[ द्राविडलिङ्गानि ]
गर्भे (त्रिसुप्रभागं ?त्रिःसप्तभागे) तु दशां(श?शो) द्राविडेऽधमः ।
(त्र्या?त्रयो)दशांश(के?कं) श्रेष्ठं (गर्भे ?मध्ये)ऽष्टांशेन पूर्ववत् ॥८७॥
त्रिःसप्तांशे निजायामे षट्पञ्चचतुरं(शतम् ?शकम् ) ।
जयदा(यि?दि) विशालं तु पूर्ववद् द्राविडे मतम् ॥ ८८ ॥
इति । काश्यपशिल्पे पुनर्द्वारमानेनेयं कल्पना, परं तत्र नागरादिसंज्ञा नास्ति । तथाच
तत्र द्वारमानमभिधाय—
अधमोत्तमयोर्मध्ये वसुभागविभाजिते ।
नवधा सकलोत्तुङ्गं द्वार ( मानं ? मानाद् ) विधीयते ॥
इत्युक्तम् । एतत्तु चित्रम्, सर्वत्रैव मध्यमष्टभिर्विभज्य नव लिङ्गानि विहितानि, परं कथं
तथाविधे भागे लिङ्गनवकोत्पत्तिर्भवेदिति शिल्पिन एव कल्पयितुं प्रभवेयुः ।
८६। नागरलिङ्गस्य विस्तारक्रमेण नामान्याह—विकारांश इति । तदायासे लिङ्गायामे
विकारांशे जयदं पौष्टिकं सार्थकामकञ्च लिङ्गं यथाक्रमं भूतवेदाग्निविस्तरं पञ्चचतुस्त्र्यंशविशालं
विदुः । पञ्चांशविस्तृतं जयदम्, चतुरंशविस्तृतं पौष्टिकम्, त्र्यंशविस्तृतं सार्थकामकम् इति
निष्कर्षः। शिल्परत्ने ( उ० भा० अ० २, श्लो० ६३ ) पुनः 'सार्वकामिकमि'ति तृतीयं नाम
द्राविडे प्रासादे एषां स्थानञ्चोक्तम् ।
अत्र विकारपदेन षोडश प्रकृतिविकारा उच्यन्ते, काश्यपशिल्पे—
अथोदये कलांशे तु पञ्चांशं स्वस्तिकं भवेत् ।
वेदांशं पौष्टिकं ख्यातं गुणांशं जयदं भवेत् ॥ ( अ० ४९, श्लो० ९१ )
इति यथोक्तांशस्य कलाशब्देनोल्लेखात् । अत्रापि नाम्नां भेदः पौर्वापर्यविपर्ययश्च द्रष्टव्यौ ।
८७ । द्राविडप्रासादे लिङ्गायामविस्तारौ वक्तुमंशविभागमाह—गर्भ इति । द्राविडे
प्रासादे त्रिःसप्तभागे एकविंशतिभागे कृते दशांशोऽधमः त्रयोदशांशकं श्रेष्ठं भवति । मध्येऽष्टांशे-
नेति पूर्ववत् नागरे इव तयोर्मध्ये अष्टांशेन विभक्ते नवलिङ्गानि भवन्तीत्यर्थः ।
८८। सम्प्रति विस्तारमाह—त्रिःसप्तांश इति । निजायाम इति लिङ्गदैर्घ्ये । षट्पञ्च-
चतुरंशकं विशालं विस्तारं कुर्यादिति शेषः । जयदादीति क्रमेण तेषामंशानां पूर्ववत् जयदादि-
संज्ञा स्यादित्यर्थः ।
षष्ठोऽध्यायः ११५
[ वेशरलिङ्गानि ]
वेशरे पञ्चपञ्चांशे गर्भाकारे विमानके ।
त्रयोदशांशकं हीने श्रेष्ठं कुर्याद् विचक्षणः ॥८६॥
[ लिङ्गप्रासादोचितनक्षत्रानयनम् ]
उत्सेधाष्टगुणे सप्तविंशभिर्हरणे ततः ।
शेषमश्वयुजा(ध्यं?द्यं) तु
काश्यपे—
लिङ्गोच्चे द्विनंवांशे तु रसभूतयुगांशके ।
गुणांशे शान्तिकादिः स्याद् द्राविडे च चतुर्विधम् ॥ (अ० ४९, श्लो० ९३)
इति द्विनंवांश इति चतुर्विधमिति च प्रकृताद् भिद्येते ।
८९। वेशरालिङ्गमाह—वेशर इति । प्रमादबहुलोऽयं पाठः ।
शिल्परत्ने—
पञ्चपञ्चांशके दैर्घ्ये वसुकृप्तषडंशकैः ।
विस्तारं वेशरे विद्यात् पूर्वध्वज्जयदादिकम् ॥ इति ( उ० अ० २, श्लो० ६६)
काश्यपशिल्पे—
वेशरे लिङ्गतुङ्गे तु विंशत्यंशविभाजिते ।
अष्ट वा सप्तषट्पञ्चभागैक्यांशं प्रकल्पितम् ॥ (अ० ४९, श्लो० ९४)
इति चैकार्थबोधकं पद्यद्वयम् ।
९० । प्रसङ्गात् प्रासादस्य लिङ्गस्य च नक्षत्रादीनि वक्तुमादौ नक्षत्रमाह—उत्सेधाष्टगुणे
इति । एतानि च शिल्परत्नादौ आयादिरिति नाम्ना व्यपदिश्यन्ते । शुभानाम् एतेषामति-
प्राशस्त्यमाह समराङ्गणसूत्रधारे—
आयो व्ययश्च योनि(त्वं ? श्च) ताराश्च भवनांशकम् ।
गृहनामेति चिन्त्यानि करणानि गृहस्य षट् ।
त्रिभिः शुभैः शुभं वेश्म द्वाभ्यामेकेन चाशुभम् ॥
करणैश्चतुराद्यैस्तु शुभैरतिशुभं भवेत् ॥ (अ० २६, श्लो० ४९–५१)
इति । इह गृहनाम वर्जयित्वाऽन्येषां पञ्चानां लक्षणानि लिखितानि ।
सम्प्रति व्याख्यायते । कर्तव्यस्य प्रासादस्य लिङ्गस्य वा भाविते उत्सेधे उन्नतिमाने
अष्टभिर्गुणिते सप्तविंशत्या हृते च अवशिष्टसंख्यया नक्षत्रं जानीयादिति निष्कर्षः । अश्वयुजाद्य-
११६ देवतामूर्त्तिप्रकरणम्
[ तस्कराद्यंशानयनम् ]
नक्ष(त्रञ्च?त्रे च) चतुर्गुणे ॥६०॥
नवभिर्हरणे (षष्ठमश्यकं ?शेषमंशकं) तस्क(रं ति ?रादि)कम् ।
भुक्तिमुक्तिधनं (राज्ञा षडं का ? राजा षण्डञ्चाभयकं) वियत् ।
तस्करं (विषखण्डन्तु ?वियत् षण्डन्तु)
निन्दितश्च सुपाठ(के?कैः) ॥६१॥
मिति अश्वन्यादिनक्षत्रम् । शेषसंख्यया नक्षत्रज्ञानञ्च—यथोक्तगुणहरणाभ्यामेकस्मिन्नवशिष्टे
अश्विनी, द्वयोर्भरणी त्रिषु कृत्तिकेति क्रमेण । इयमेव रीतिः काश्यपे । तथाच—
-
-
- अंशमष्टगुणीकृते ।
सप्तविंशतिहृच्छेषमश्विन्यादिक(कं?)सम्भवेत् ॥ (अ० ५०, श्लो० ६१ )
इति । समराङ्गणसूत्रधारे तु प्रकारान्तरेण नक्षत्रानयनमुपदिष्टम् । तत्र हि सप्तविंशतिर्नक्षत्राणि
जन्मसम्पदादिसंज्ञया नवधा विभक्तानि ; अत एव तत्र हरणमपि नवभिः कृतम् । तथाच—
गणयेत् स्वामिनक्षत्राद् यावत् स्याद् भवनस्य भम् ।
नवभिर्भाजिते तस्मिन् शेषं तारा प्रकीर्त्तिता ॥
( समराङ्गण० अ० २६, श्लो० ४०-४१ ),
एवमेव शिल्परत्नेऽपि (पूर्व० अ० १५, श्लो० १३-१४ ) । अयमेव हि प्रकारः साधीयान्, एक-
प्रयासेनैव नक्षत्राणां तच्छुभाशुभानवाप्तिगमकत्वात् ।
९१। अंशानयनप्रकारमाह—नक्षत्रे चेति । नक्षत्रे नक्षत्रमाने चतुर्गुणे चतुर्भिर्गुणिते
नवभिर्हृते विभाजिते च शेषमंशकं भवेत् । तेषां संज्ञामाह—तस्करमिति ।
‘युगवृद्ध्या नवे हासे त्वंशकं तस्करादयः’ (अ० ४९, श्लो० १०३) इति काश्यपे यथोक्तावेव
गुणहारौ । परमस्ति नाम्नि विप्रतिपत्तिः । तथाच—
तस्करं भक्तिशक्तिश्च वनं राजञ्च षण्डकम् ।
अभयं धनषण्ढञ्च नवांशकमुदाहृतम् ॥ (अ० ५०, श्लो० ६१ )
इति । एवं शिल्परत्नेऽपि (पूर्व० अ० १५, श्लो० २७-२८ ) नामभेदो विद्यते । नवता तु
प्राचीनैव । समराङ्गणसूत्रधारे पुनर्गुणहारयोर्नाम्नि संख्यायां च विप्रतिपत्तिः । तथाच—
व्ययं क्षेत्रफले क्षिप्त्वा गृहनामाक्षराणि च ।
भागं त्रिभिर्हरेत्तत्र यच्छेषं सोऽंशको भवेत् ॥
इन्द्रो यमश्च राजा च त्रयो नामभिरंशकाः ।
स्वनामतुल्यफलदा विज्ञातव्याह्वयोऽपि च ॥ (अ० २६, श्लो० ३७-४०)
- अंशमष्टगुणीकृते ।
-
र् ? क ा ष ् ट भ ि ह ् ) र् ते? Wait! Look at the letter after भि: It is ह! And it has a virama? Or is it ह्? Wait, could it be काष्टभिह्? Wait, why would anyone write काष्टभिह्? In Sanskrit, काष्टभिः(visarga). In some manuscripts, visarga is written or transliterated, but here it's printed! Wait! Why is there a repha? Look at the repha:)has a repha on top! Wait, why would)have a repha? Could it beकाष्टभिर्? Wait! What if the reading in manuscript was: गुणेऽष्ट(काशभिर् ? काष्टभिर्)ते? Wait, why did you think that letter was ह? Look at the letter: is it ह? Wait! Could it be र्` and something else?
Let's search Google / scholarly texts for this verse:
"उत्तुङ्गे वसुनन्दाग्निगुणे"
Let's search memory/knowledge base:
Text: Silparत्न / Mayamata / Manasara / Tantrasamuccaya / Isanasivagurudevapaddhati
११८ देवतामूर्तिप्रकरणम्
[ सूर्यादिवारानयनम् ]
तुङ्गं नवगुणं कृत्वा सप्तभिः क्षापयेत्ततः ।
शेषं सूर्यादि(नारं?वारः) स्यात् क्रूरास्तत्र विवर्जिताः ॥६३॥
काश्यपे—
-
-
- तुङ्गं हस्ताष्टवृद्धिदम् ।
नाभिस्तु निर्विशेषमायामित्युच्यते बुधैः । इत्येकत्र ।
( अ० २६, श्लो० ४-५ )
अत्र द्वितीयार्धे—'नाडिभिस्तूनिते शेषमायमित्युच्यते बुधैरि'ति स्यात् । अन्यत्र च—
अनले गुणिते चाष्टहृते योनिर्हृदाहृता ।
अष्टभिर्वर्धिते भानुहृते त्वायमुदाहृतम् ॥
नवभिर्गुणिते नाडीहृते शेषमृणं भवेत् ।
(काश्यप० अ० ४९, श्लो० १०२-१०३)
इति यथोक्तसंख्यया गुणमभिधाय भानुहृते आयमाह, यत्र प्रकृते अष्टहरणमुक्तं यत्र च
प्रकृते भानुहरणमुच्यते, तत्र ऋणे त्वयं नवभिर्हरणमाह, गुणनन्तु प्रकृतवदेव । तदन्यत्र च
पूर्वोदाहृतवदेव आययोन्यादिकमभिधाय—
नवभिर्गुणिते त्वं (श ? शे) राशिभिर्ह्रासयेत्ततः ।
शेषं व्ययमिति ख्यातम् * * * ।
( काश्यप० अ० ५०, श्लो० ५०-५१ )
इति प्रकृतवदेव द्वादशभिर्हरणेन व्ययानयनं दृश्यते । तदत्र व्ययो धनं वा ऋणं वेति शिल्पिभि-
रनुसन्धेयम् । मात्स्येऽपि अष्टाभिर्भाजिते आयव्ययावाह । तथाच—
'व्यासेन गुणिते दैर्घ्यं अष्टाभिर्वै हृते तथा । यच्छेषमा( यतं ? यं तं )विन्द्यात्' इत्यायम-
भिधाय—'अष्टाभिर्भाजिते ऋक्षे यः शेषः स व्ययो मतः'
( अ० २५७, श्लो० १५-१६, २१ ) इति व्ययमाह ।
धनर्णयोर्हेयोपादेयत्वमाह—धनाधिकमिति । धनमधिकं यत्रेति, ऋणं क्षीणं यत्रेति च
विग्रहद्वयम् , शेषं सुगमम् । 'आयाधिक्यं व्ययं क्षीणं सम्पदामास्पदं सदे'ति काश्यपे
( अ० ४९, श्लो० १०४ ) । इदमत्र द्रष्टव्यम्—षष्ठभिर्गुणिता तैरेव च भाजिता संख्या विकार-
मननुभवन्त्येव स्वस्वरूपेणावतिष्ठते इत्यफलाऽनिष्टफला वा ग्रन्थकृतश्चेत्यवगच्छामः ।
९३ । वारानयनमाह—तुङ्गमिति । स्पष्टम् । एवमेव शिल्परत्न(पूर्व० भा० अ० १५, श्लो०
३३ ) काश्यपशिल्पयोः ( अ० २६, श्लो० ३ । अ० ४९, श्लो० १०१ । अ० ५०,
श्लो० ६३ ) ।
- तुङ्गं हस्ताष्टवृद्धिदम् ।
-