सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 190, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 190

षष्ठोऽध्यायः १०३
चतुर्वक्त्रमष्टबाहुं चतुष्कैकनिवासिनम् ।
ऋद्धा(?)मुखगतः कार्यः पद्महस्तो दिवाकरः ॥ ४४ ॥
खट्वाङ्गत्विशूलहस्तो रुद्रो दक्षिणतः शुभः ।
कमण्डलुश्चाक्षसूत्रमपरस्थः पितामहः ॥ ४५ ॥
शङ्खचक्रधरो हरिर्वामे चैव तु संस्थितः ।
एवं विधेय(?)कर्त्तव्यं सर्वकामफलप्रदम् ॥ ४६ ॥
इति (सूर्य?)हरिहरपितामहः ।
षड्भुजञ्च चतुर्वक्त्रं सर्वाभरणभूषितम् ।
कमण्डलुश्चाक्षसूत्रमुभयोः कमलधृतकरम् ॥ ४७ ॥
मणा(?)लोर्द्धौ युग्महस्ते कर्त्तव्ये शुभलक्षणे ।
सर्वाभरणसंयुक्तं सर्वकामफलप्रदम् ॥ ४८ ॥
इति चन्द्राङ्कपितामहः ।
लेलिहन्तं दंष्ट्राकरालं चण्डभैरवमुत्तमम् ।
एकवक्त्रं शूलहस्तं खड्गशक्तिशराङ्कुशम् ॥ ४९ ॥
वरदं दक्षिणे ज्ञेयं खट्वाङ्गं खेटकं तथा ।
चापं तथाऽभयं चैव कपालं वामहस्तके ॥ ५० ॥
लक्षणयोर्भिन्नतयैकस्य वस्तुनः प्रतिपादकत्वानुपपत्तेः । तस्माद् द्वितीयहरिहरपितामहलक्षणे
'दिवाकर'पददर्शनात् सूर्यहरिहरपितामहस्येदं लक्षणमिति निश्चिनुमः । 'तनुत्रयनिवासिनमि'ति
सम्भाव्यमाने पाठे एतेषां पृथङ्मूर्त्तयः कर्त्तव्या इत्यर्थः ।
४४ । चतुर्वक्त्रमिति द्वितीयान्तपदाना मन्वयो दुर्घटः । चतुष्कैकनिवासिनमिति, एकस्मिन्
चतुष्कोणे स्थाने चतुष्कोणवत्यासने वा समासीनम् । ऋद्धामुखगत इति, रुद्रस्य दक्षिणे,
हरेर्वामे, पितामहस्य पश्चिमे सन्निवेशदर्शनादयं पूर्वदिक्स्थ इत्यायाति, क्वचित्तदर्थद्योतकमिदं
पदं स्यादनर्थकं वेति सुधीभिर्भाव्यम् ।
४६ । द्वितीयार्द्धे 'एवंविधोऽयं कर्त्तव्यः सर्वकामफलप्रदः' इति स्यात् ।
४७-४८ । चन्द्राङ्कपितामहोऽनुसन्धेयस्वरूपः ।