सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

निर्गुणब्रह्म एवाहं सुगुरोरुपदेशतः ।
विज्ञानं सगुणो ब्रह्म अहं विज्ञानविग्रहः ॥ २१.१४॥

निर्गुणोऽस्मि निरंशोऽस्मि भवोऽस्मि भरणोऽस्म्यहम् ।
देवोऽस्मि द्रव्यपूर्णोऽस्मि शुद्धोऽस्मि रहितोऽस्म्यहम् ॥ २१.१५॥

रसोऽस्मि रसहीनोऽस्मि तुर्योऽस्मि शुभभावनः ।
कामोऽस्मि कार्यहीनोऽस्मि नित्यनिर्मलविग्रहः ॥ २१.१६॥

आचारफलहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ।
इदं सर्वं परं ब्रह्म अयमात्मा न विस्मयः ॥ २१.१७॥

पूर्णापूर्णस्वरूपात्मा नित्यं सर्वात्मविग्रहः ।
परमानन्दतत्त्वात्मा परिच्छिन्नं न हि क्वचित् ॥ २१.१८॥

एकात्मा निर्मलाकार अहमेवेति भावय ।
अहंभावनया युक्त अहंभावेन संयुतः ॥ २१.१९॥

शान्तं भावय सर्वात्मा शाम्यतत्त्वं मनोमलः ।
देहोऽहमिति संत्यज्य ब्रह्माहमिति निश्चिनु ॥ २१.२०॥

ब्रह्मैवाहं ब्रह्ममात्रं ब्रह्मणोऽन्यन्न किंचन ।
इदं नाहमिदं नाहमिदं नाहं सदा स्मर ॥ २१.२१॥

अहं सोऽहमहं सोऽहमहं ब्रह्मेति भावय ।
चिदहं चिदहं ब्रह्म चिदहं चिदहं वद ॥ २१.२२॥

नेदं नेदं सदा नेदं न त्वं नाहं च भावय ।
सर्वं ब्रह्म न संदेहः सर्वं वेदं न किंचन ॥ २१.२३॥

सर्वं शब्दार्थभवनं सर्वलोकभयं न च ।
सर्वतीर्थं न सत्यं हि सर्वदेवालयं न हि ॥ २१.२४॥

सर्वचैतन्यमात्रत्वात् सर्वं नाम सदा न हि ।
सर्वरूपं परित्यज्य सर्वं ब्रह्मेति निश्चिनु ॥ २१.२५॥

ब्रह्मैव सर्वं तत्सत्यं प्रपञ्चं प्रकृतिर्नहि ।
प्राकृतं स्मरणं त्यज्य ब्रह्मस्मरणमाहर ॥ २१.२६॥

ततस्तदपि संत्यज्य निजरूपे स्थिरो भव ।
स्थिररूपं परित्यज्य आत्ममात्रं भवत्सा ॥ २१.२७॥

त्यागत्वमपि संत्यज्य भेदमात्रं सदा त्यज ।
स्वयं निजं समावृत्य स्वयमेव स्वयं भज ॥ २१.२८॥

इदमित्यङ्गुलीदृष्टमिदमस्तमचेतनम् ।
इदं वाक्यं च वाक्येन वाचाऽपि परिवेदनम् ॥ २१.२९॥

सर्वभावं न सन्देहः सर्वं नास्ति न संशयः ।
सर्वं तुच्छं न सन्देहः सर्वं माया न संशयः ॥ २१.३०॥

त्वं ब्रह्म्याहं न सन्देहो ब्रह्म्यैवेदं न संशयः ।
सर्वं चित्तं न सन्देहः सर्वं ब्रह्म न संशयः ॥ २१.३१॥

ब्रह्मोऽन्यद्वाति चेन्मिथ्या सर्वं मिथ्या परावरा ।
न देहं पञ्चभूतं वा न चित्तं भ्रान्तिमात्रकम् ॥ २१.३२॥

न च बुद्धीन्द्रियाभावो न मुक्तिर्हृह्यामात्रकम् ।
निमिषं च न शङ्कापि न सङ्कल्पं तदस्ति चेत् ॥ २१.३३॥

अहङ्कारमसद्विद्धि अभिमानं तदस्ति चेत् ।
न चित्तस्मरणं तच्चेन्न सन्देहो जरा यदि ॥ २१.३४॥

प्राणो???बीयीते शास्ति प्राणो यदिह गन्धकम् ।
चक्षुर्यदिह भूतस्य श्रोत्रं श्रवणभावनम् ॥ २१.३५॥

त्वगस्ति चेत् स्पर्शसत्ता जिह्वा चेद्रससङ्ग्रहः ।
जीवोऽस्ति चेज्जीवनं च पादश्चेत् पादचारणम् ॥ २१.३६॥

हस्ता यदि क्रियासत्ता स्रष्टा चेत् सृष्टिसम्भवः ।
रक्ष्यं चेद्रक्षको विष्णुर्भक्ष्यं चेद्भक्षकः शिवः ॥ २१.३७॥

सर्वं ब्रह्म न सन्देहः सर्वं ब्रह्मैव केवलम् ।
पूज्यं चेत् पूजनं चास्ति भास्यं चेद्ध्यासकः शिवः ॥ २१.३८॥

सर्वं मिथ्या न सन्देहः सर्वं चिन्मात्रमेव हि ।
अस्ति चेत् कारणं सत्यं कार्यं चैव भविष्यति ॥ २१.३९॥

नास्ति चेन्नास्ति हीनोऽहं ब्रह्मैवाहं परायणम् ।
अत्यन्तदुःखमेतद्धि अत्यन्तसुखमव्ययम् ॥ २१.४०॥

अत्यन्तं जन्ममात्रं च अत्यन्तं रणसम्भवम् ।
अत्यन्तं मलिनं सर्वमत्यन्तं निर्मलं परम् ॥ २१.४१॥

अत्यन्तं कल्पनं दुष्टं अत्यन्तं निर्मलं त्वहम् ।
अत्यन्तं सर्वदा दोषमत्यन्तं सर्वदा गुणम् ॥ २१.४२॥

अत्यन्तं सर्वदा शुभ्रमत्यन्तं सर्वदा मलम् ।
अत्यन्तं सर्वदा चाहमत्यन्तं सर्वदा इदम् ॥ २१.४३॥

అత్యంతం సర్వదా బ్రహ్మ అత్యంతం సర్వదా జగత్ ।
ఏతావదుక్తమభయమహం భేదం న కించన ॥ २१.४४॥

सदसद्वापि नास्त्येव सदसद्वापि वाक्यकम् ।
नास्ति नास्ति न सन्देहो ब्रह्मैवाहं न संशयः ॥ २१.४५॥

कारणं कार्यरूपं वा सर्वं नास्ति न संशयः ।
कर्ता भोक्ता क्रिया वापि न भोज्यं भोगतृप्तता ॥ २१.४६॥

सर्वं ब्रह्म न सन्देहः सर्वशब्दो न वास्तवम् ।
भूतं भविष्यं वार्तं तु कार्यं वा नास्ति सर्वदा ॥ २१.४७॥

सदसद्वैद्यभेदं वा न गुणा गुणभागिनः ।
निर्मलं वा मलं वापि नास्ति नास्ति न किञ्चन ॥ २१.४८॥

भाष्यं वा भाषणं वापि नास्ति नास्ति न किञ्चन ।
प्रबलं दुर्बलं वापि अहं च त्वं च वा क्वचित् ॥ २१.४९॥

ग्राह्यं च ग्राहकं वापि उपेक्ष्यं नात्मनः क्वचित् ।
तीर्थं वा स्नानरूपं वा देवो वा देवपूजनम् ॥ २१.५०॥

जन्म वा मरणं हेतुर्नास्ति नास्ति न किञ्चन ।
सत्यं वा सत्यरूपं वा नास्ति नास्ति न किञ्चन ॥ २१.५१॥

मातरः पितरो वापि देहो वा नास्ति किञ्चन ।
दृग्रूपं दृश्यरूपं वा नास्ति नास्तीह किञ्चन ॥ २१.५२॥

मायाकार्यं च माया वा नास्ति नास्तीह किञ्चन ।
ज्ञानं वा ज्ञानभेदो वा नास्ति नास्तीह किञ्चन ॥ २१.५३॥

सर्वप्रपञ्चहेयत्वं प्रोक्तं प्रकरणं च ते ।
यः शृणोति सकृद्वापि आत्माकारं प्रपद्यते ॥ २१.५४॥

स्कन्दः –

माया सा त्रिगुणा गणाधिपगुरोरेणाङ्कचूडामणेः
पादाम्भोजसमर्चनेन विलयं यात्येव नास्त्यन्यथा ।
विद्या हृद्यतमा सुविद्युदिव सा भात्येव हृत्पङ्कजे
यस्यानल्पतपोभिरुग्रकरणाद्यक् तस्य मुक्तिः स्थिरा ॥ २१.५५॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वप्रपञ्चहेयत्वप्रकरणवर्णनं नाम एकविंशोऽध्यायः ॥

॥ द्वाविंशोऽध्यायः ॥

ऋभुः —

वक्ष्ये ब्रह्ममयं सर्वं नास्ति सर्वं जगन्मृषा ।
अहं ब्रह्म न मे चिन्ता अहं ब्रह्म न मे जडम् ॥ २२.१॥

अहं ब्रह्म न मे दोषः अहं ब्रह्म न मे फलम् ।
अहं ब्रह्म न मे वार्ता अहं ब्रह्म न मे द्वयम् ॥ २२.२॥

अहं ब्रह्म न मे नित्यमहं ब्रह्म न मे गतिः ।
अहं ब्रह्म न मे माता अहं ब्रह्म न मे पिता ॥ २२.३॥

अहं ब्रह्म न मे सोऽयमहं वैश्वानरो न हि ।
अहं ब्रह्म चिदाकाशमहं ब्रह्म न संशयः ॥ २२.४॥

सर्वान्तरोऽहं पूर्णात्मा सर्वान्तरमनोऽन्तरः ।
अहमेव शरीरान्तरहमेव स्थिरः सदा ॥ २२.५॥

एवं विज्ञानवान् मुक्त एवं ज्ञानं सुदुर्लभम् ।
अनेकशतसाहस्रैश्चैक एव विवेकवान् ॥ २२.६॥

तस्य दर्शनमात्रेण पितरस्तृप्तिमागताः ।
ज्ञानिनो दर्शनं पुण्यं सर्वतीर्थावगाहनम् ॥ २२.७॥

ज्ञानिनः चार्चनेनैव जीवन्मुक्तो भवेन्नरः ।
ज्ञानिनो भोजने दाने सद्यो मुक्तो भवेन्नरः ॥ २२.८॥

अहं ब्रह्म न संदेहः अहमेव गुरुः परः ।
अहं शान्तोऽस्मि शुद्धोऽस्मि अहमेव गुणान्तरः ॥ २२.९॥

गुणातीतो जनातीतः परातीतो मनः परः ।
परतः परतोऽतीतो बुद्ध्यतीतो रसात् परः ॥ २२.१०॥

भावातीतो मनातीतो वेदातीतो विदः परः ।
शरीरादेश्च परतो जाग्रत्स्वप्नसुषुप्तितः ॥ २२.११॥

अव्यक्तात् परतोऽतीत इत्येवं ज्ञाननिश्चयः ।
क्वचिदेतत्परित्यज्य सर्वं संत्यज्य मूकवत् ॥ २२.१२॥

तूष्णीं ब्रह्म परं ब्रह्म शाश्वतब्रह्मवान् स्वयं ।
ज्ञानिनो महिमा किंचिदणुमात्रमपि स्फुटम् ॥ २२.१३॥

हरिणापि हरेणापि ब्रह्मणापि सुरैरपि ।
न शक्यते वर्णयितुं कल्पकोटिशतैरपि ॥ २२.१४ ॥

अहं ब्रह्मेति विज्ञानं त्रिषु लोकेषु दुर्लभं ।
विवेकिनं महात्मानं ब्रह्ममात्रेणावस्थितं ॥ २२.१५ ॥

द्रष्टुं च भाषितुं वापि दुर्लभं पादसेवनं ।
कदाचित् पादतीर्थेन स्नातश्चेत् ब्रह्म एव सः ॥ २२.१६ ॥

सर्वं मिथ्या न संदेहः सर्वं ब्रह्मैव केवलं ।
एतत् प्रकरणं प्रोक्तं सर्वसिद्धान्तसंग्रहः ॥ २२.१७ ॥

दुर्लभं यः पठेद्भक्त्या ब्रह्म संपद्यते नरः ।
वक्ष्ये ब्रह्ममयं सर्वं नान्यत् सर्वं जगन्मृषा ॥ २२.१८ ॥

ब्रह्मैव जगदाकारं ब्रह्मैव परमं पदं ।
अहमेव परं ब्रह्म अहमित्यपि वर्जितः ॥ २२.१९ ॥

सर्ववर्जितचिन्मात्रं सर्ववर्जितचेतनः ।
सर्ववर्जितशांतात्मा सर्वमंगलविग्रहः ॥ २२.२० ॥

अहं ब्रह्म परं ब्रह्म असन्नेदं न मे न मे ।
न मे भूतं भविष्यच्च न मे वर्णं न संशयः ॥ २२.२१ ॥

ब्रह्मैवाहं न मे तुच्छं अहं ब्रह्म परं तपः ।
ब्रह्मरूपमिदं सर्वं ब्रह्मरूपमनामयं ॥ २२.२२ ॥

ब्रह्मैव भाति भेदेन ब्रह्मैव न परः परः ।
आत्मैव द्वैतवद्भाति आत्मैव परमं पदं ॥ २२.२३ ॥

ब्रह्मैवं भेदरहितं भेदमेव महद्द्वयं ।
आत्मैवाहं निर्मलोऽहमात्मैव भुवनत्रयं ॥ २२.२४ ॥

आत्मैव नान्यत् सर्वत्र सर्वं ब्रह्मैव नान्यकः ।
अहमेव सदा भामि ब्रह्मैवास्मि परोऽस्म्यहं ॥ २२.२५ ॥

निर्मलोऽस्मि परं ब्रह्म कार्याकार्यविवर्जितः ।
सदा शुद्धैकरूपोऽस्मि सदा चैतन्यमात्रकः ॥ २२.२६ ॥

निश्चयोऽस्मि परं ब्रह्म सत्योऽस्मि सकलोऽस्म्यहं ।
अक्षरोऽस्मि परं ब्रह्म शिवोऽस्मि शिखरोऽस्म्यहं ॥ २२.२७ ॥

समरूपोऽस्मि शांतोऽस्मि तत्परोऽस्मि चिदव्ययः ।
सदा ब्रह्म हि नित्योऽस्मि सदा चिन्मात्रलक्षणः ॥ २२.२८ ॥

सदाऽखण्डैकरूपोऽस्मि सदामानविवर्जितः ।
सदा शुद्धैकरूपोऽस्मि सदा चैतन्यमात्रकः ॥ २२.२९॥

सदा सन्मानरूपोऽस्मि सदा सत्ताप्रकाशकः ।
सदा सिद्धान्तरूपोऽस्मि सदा पावनमङ्गलः ॥ २२.३०॥

एवं निश्चितवान् मुक्तः एवं नित्यपरो वरः ।
एवं भावनया युक्तः परं ब्रह्मैव सर्वदा ॥ २२.३१॥

एवं ब्रह्मोत्थवान् ज्ञानी ब्रह्मोहमिति निश्चयः ।
स एव पुरुषो लोके ब्रह्मोहमिति निश्चितः ॥ २२.३२॥

स एव पुरुषो ज्ञानी जीवन्मुक्तः स आत्मवान् ।
ब्रह्मैवाहं महानात्मा सच्चिदानन्दविग्रहः ॥ २२.३३॥

नाहं जीवो न मे भेदो नाहं चिन्ता न मे मनः ।
नाहं मांसं न मेऽस्थीनि नाहङ्कारकलेवरः ॥ २२.३४॥

न प्रमाता न मेयं वा नाहं सर्वं परोऽस्म्यहं ।
सर्वविज्ञानरूपोऽस्मि नाहं सर्वं कदाचन ॥ २२.३५॥

नाहं मृतो जन्मनान्यो न चिन्मात्रोऽस्मि नास्म्यहं ।
न वाच्योऽहं न मुक्तोऽहं न बुद्धोऽहं कदाचन ॥ २२.३६॥

न शून्योऽहं न मूढोऽहं न सर्वोऽहं परोऽस्म्यहं ।
सर्वदा ब्रह्ममात्रोऽहं न रसोऽहं सदाशिवः ॥ २२.३७॥

न घ्राणोऽहं न गन्धोऽहं न बिहण्योऽयं न मे प्रियः ।
नाहं जीवो रसो नाहं वरुणो न च गोलकः ॥ २२.३८॥

ब्रह्मैवाहं न सन्देहो नामरूपं न किञ्चन ।
न श्रोत्रोऽहं न शब्दोऽहं न दिशोऽहं न साक्षिकः ॥ २२.३९॥

नाहं न त्वं न च स्वर्गो नाहं वायुर्न साक्षिकः ।
पायुर्नाहं विसर्गो न न मृत्युर्न च साक्षिकः ॥ २२.४०॥

गुह्यं नाहं न चानन्दो न प्रजापतिदेवता ।
सर्वं ब्रह्म न सन्देहः सर्वं ब्रह्मैव केवलम् ॥ २२.४१॥

नाहं मनो न सङ्कल्पो न चन्द्रो न च साक्षिकः ।
नाहं बुद्धीन्द्रियो ब्रह्म नाहं निश्चयरूपवान् ॥ २२.४२॥

नाहङ्कारमहं रुद्रो नाभिमानो न साक्षिकः ।
चित्तं नाहं वासुदेवो धारणा नायमीश्वरः ॥ २२.४३॥

नाहं विश्वो न जाग्रद्वा स्थूलदेहो न मे क्वचित् ।
न प्रातिभासिको जीवो न चाहं व्यावहारिकः ॥ २२.४४॥

न पारमार्थिको देवो नाहमन्नमयो जडः ।
न प्राणमयकोशोऽहं न मनोमयकोशवान् ॥ २२.४५॥

न विज्ञानमयः कोशो नानन्दमयकोशवान् ।
ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन ॥ २२.४६॥

एतावदुक्त्वा सकलं नामरूपद्वयात्मकम् ।
सर्वं क्षणेन विस्मृत्य काष्ठलोष्टादिवत् त्यजेत् ॥ २२.४७॥

एतत्सर्वमसन्नित्यं सदा वन्ध्याकुमारवत् ।
शशशृङ्गवदेवेदं नरशृङ्गवदेव तत् ॥ २२.४८॥

आकाशपुष्पसदृशं यथा मरुमरीचिका ।
गन्धर्वनगरं यद्यदिन्द्रजालवदेव हि ॥ २२.४९॥

असत्यमेव सततं पञ्चरूपकमिष्यते ।
शिष्योपदेशकालो हि द्वैतं न परमार्थतः ॥ २२.५०॥

माता मृते रोदनाय द्रव्यं दत्त्वाऽह्वयेज्जनान् ।
तेषां रोदनमात्रं यत् केवलं द्रव्यपञ्चकम् ॥ २२.५१॥

तदद्वैतं मया प्रोक्तं सर्वं विस्मृत्य कुड्यवत् ।
अहं ब्रह्मेति निश्चित्य अहमेवेति भावय ॥ २२.५२॥

अहमेव सुखं चेति अहमेव न चापरः ।
अहं चिन्मात्रमेवेति ब्रह्मैवेति विनिश्चिनु ॥ २२.५३॥

अहं निर्मलशुद्धेति अहं जीवविलक्षणः ।
अहं ब्रह्मैव सर्वात्मा अहमित्यवभासकः ॥ २२.५४॥

अहमेव हि चिन्मात्रमहमेव हि निर्गुणः ।
सर्वान्तर्याम्यहं ब्रह्म चिन्मात्रोऽहं सदाशिवः ॥ २२.५५॥

नित्यमङ्गलरूपात्मा नित्यमोक्षमयः पुमान् ।
एवं निश्चित्य सततं स्वात्मानं स्वयमास्थितः ॥ २२.५६॥

ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन ।
एतद्रूपप्रकरणं सर्ववेदेषु दुर्लभम् ।
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयं ॥ २२.५७॥

तं वेदादिवचोभीरीडितमहायागैश्च भोगैर्वृतै-
र्दानैश्चानशनैर्यमादिनियमैस्तं विद्विषन्ते द्विजाः ।
तस्यानङ्गरिपोरतीव सुमहाहृद्यं हि लिङ्गार्चनं
तेनैवाशु विनाश्य मोहमखिलं ज्ञानं ददातीश्वरः ॥ २२.५८॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे नामरूपनिषेधप्रकरणं नाम द्वाविंशोऽध्यायः ॥

॥ त्रयोविंशोऽध्यायः ॥

ऋभुः -

निदाघ शृणु वक्ष्यामि सर्वलोकेषु दुर्लभम् ।
इदं ब्रह्म परं ब्रह्म सच्चिदानन्द एव हि ॥ 23.1॥

नानाविधजनं लोकं नाना कारणकार्यकम् ।
ब्रह्मैवान्यदसत् सर्वं सच्चिदानन्द एव हि ॥ 23.2॥

अहं ब्रह्म सदा ब्रह्म अस्मि ब्रह्मोहमेव हि ।
कालो ब्रह्म क्षणो ब्रह्म अहं ब्रह्म न संशयः ॥ 23.3॥

वेदो ब्रह्म परं ब्रह्म सत्यं ब्रह्म परात् परः ।
हंसो ब्रह्म हरिर्ब्रह्म शिवो ब्रह्म चिदव्ययः ॥ 23.4॥

सर्वोपनिषदो ब्रह्म सौम्यं ब्रह्म समोऽस्म्यहम् ।
अजो ब्रह्म रसो ब्रह्म वियद्ब्रह्म परात्परः ॥ 23.5॥

त्रुटिर्ब्रह्म मनो ब्रह्म वृष्टिर्ब्रह्म सदामुदः ।
इदं ब्रह्म परं ब्रह्म तत्त्वं ब्रह्म सदा जपः ॥ 23.6॥

अकारो ब्रह्म एवाहमुकारोऽहं न संशयः ।
मकारब्रह्ममात्रोऽहं मन्त्रब्रह्ममनुः परम् ॥ 23.7॥

शिकारब्रह्ममात्रोऽहं वाकारं ब्रह्म केवलम् ।
यकारं ब्रह्म नित्यं च पञ्चाक्षरमहं परम् ॥ 23.8॥

रेचकं ब्रह्म सद्ब्रह्म पूरकं ब्रह्म सर्वतः ।
कुम्भकं ब्रह्म सर्वोऽहं धारणं ब्रह्म सर्वतः ॥ 23.9॥

ब्रह्मैव नान्यत् तत्सर्वं सच्चिदानन्द एव हि ।
एवं च निश्चितौ मुक्तः सद्य एव न संशयः ॥ 23.10॥

केचिदेव महामूढाः द्वैतमेवं वदन्ति हि ।
न सम्भाष्याः सदानर्हाः नमस्कारे न योग्यता ॥ 23.11॥

मूढा मूढतराश्चान्यस्तथा मूढतमाः परे ।
एते न सन्ति मे नित्यं अहंविज्ञानमात्रतः ॥ 23.12॥

सर्वं चिन्मात्ररूपत्वादानन्दत्वान्न मे भयम् ।
अहमित्यपि नास्त्येव परमित्यपि न क्वचित् ॥ 23.13॥

ब्रह्मैव नान्यत् तत्सर्वं सच्चिदानन्द एव हि ।
कालातीतं सुखातीतं सर्वातीतमतीतकम् ॥ २३.१४॥

नित्यातीतमनित्यानाममितं ब्रह्म केवलम् ।
ब्रह्मैव नान्यत्सर्वं सच्चिदानन्दमात्रकम् ॥ २३.१५॥

द्वैतसत्यत्वबुद्धिश्च द्वैतबुद्ध्या न तत् स्मर ।
सर्वं ब्रह्मैव नान्योऽस्ति सर्वं ब्रह्मैव केवलम् ॥ २३.१६॥

बुद्ध्यातीतं मनोऽतीतं वेदातीतमतः परम् ।
आत्मातीतं जनातीतं जीवातीतं च निर्गुणम् ॥ २३.१७॥

काष्ठातीतं कलातीतं नाट्यातीतं परं सुखम् ।
ब्रह्ममात्रेण संपश्यन् ब्रह्ममात्रपरो भव ॥ २३.१८॥

ब्रह्ममात्रपरो नित्यं चिन्मात्रोऽहं न संशयः ।
ज्योतिरानन्दमात्रोऽहं निजानन्दात्ममात्रकः ॥ २३.१९॥

शून्यानन्दात्ममात्रोऽहं चिन्मात्रोऽहमिति स्मर ।
सत्तामात्रोऽहमेवात्र सदा कालगुणान्तरः ॥ २३.२०॥

नित्यसन्मात्ररूपोऽहं शुद्धानन्दात्ममात्रकम् ।
प्रपञ्चहीनरूपोऽहं सच्चिदानन्दमात्रकः ॥ २३.२१॥

निश्चयानन्दमात्रोऽहं केवलानन्दमात्रकः ।
परमानन्दमात्रोऽहं पूर्णानन्दोऽहमेव हि ॥ २३.२२॥

द्वैतस्वमात्रसिद्धोऽहं साम्राज्यपदलक्षणम् ।
इत्येवं निश्चयं कुर्वन् सदा तिष्ठ यथासुखम् ॥ २३.२३॥

दृढनिश्चयरूपात्मा दृढनिश्चयसन्मयः ।
दृढनिश्चयशान्तात्मा दृढनिश्चयमानसः ॥ २३.२४॥

दृढनिश्चयपूर्णात्मा दृढनिश्चयनिर्मलः ।
दृढनिश्चयजीवात्मा दृढनिश्चयमङ्गलः ॥ २३.२५॥

दृढनिश्चयजीवात्मा संशयं नाशमेष्यति ।
दृढनिश्चयमेवात्र ब्रह्मज्ञानस्य लक्षणम् ॥ २३.२६॥

दृढनिश्चयमेवात्र वाक्यज्ञानस्य लक्षणम् ।
दृढनिश्चयमेवात्र कारणं मोक्षसंपदः ॥ २३.२७॥

एवमेव सदा कार्यं ब्रह्मैवाहमिति स्थिरम् ।
ब्रह्मैवाहं न सन्देहः सच्चिदानन्द एव हि ॥ २३.२८॥

आत्मानन्दस्वरूपोऽहं नान्यदस्तीति भावय ।
ततस्तदपि सन्त्यज्य एक एव स्थिरो भव ॥ २३.२९॥

ततस्तदपि सन्त्यज्य निर्गुणो भव सर्वदा ।
निर्गुणत्वं च सन्त्यज्य वाचातीतो भवेत् ततः ॥ २३.३०॥

वाचातीतं च सन्त्यज्य चिन्मात्रत्वपरो भव ।
आत्मातीतं च सन्त्यज्य ब्रह्ममात्रपरो भव ॥ २३.३१॥

चिन्मात्रत्वं च सन्त्यज्य सर्वतूष्णींपरो भव ।
सर्वतूष्णीं च सन्त्यज्य महातूष्णींपरो भव ॥ २३.३२॥

महातूष्णीं च सन्त्यज्य चित्ततूष्णीं समाश्रय ।
चित्ततूष्णीं च सन्त्यज्य जीवतूष्णीं समाहर ॥ २३.३३॥

जीवतूष्णीं परित्यज्य जीवशून्यपरो भव ।
शून्यत्यागं परित्यज्य यथा तिष्ठ तथासि भो ॥ २३.३४॥

तिष्ठत्वमपि सन्त्यज्य अवाङ्मानसगोचरः ।
ततः परं न वक्तव्यं ततः पश्येन्न किञ्चन ॥ २३.३५॥

नो चेत् सर्वपरित्यागो ब्रह्मैवाहमितीरय ।
सदा स्मरन् सदा चिन्त्यं सदा भावय निर्गुणं ॥ २३.३६॥

सदा तिष्ठस्व तत्त्वज्ञ सदा ज्ञानी सदा परः ।
सदानन्दः सदातीतः सदादोषविवर्जितः ॥ २३.३७॥

सदा शान्तः सदा तृप्तः सदा ज्योतिः सदा रसः ।
सदा नित्यः सदा शुद्धः सदा बुद्धः सदा लयः ॥ २३.३८॥

सदा ब्रह्म सदा मोदः सदानन्दः सदा परः ।
सदा स्वयं सदा शून्यः सदा मौनी सदा शिवः ॥ २३.३९॥

सदा सर्वं सदा मित्रः सदा स्नानं सदा जपः ।
सदा सर्वं च विस्मृत्य सदा मौनं परित्यज ॥ २३.४०॥

देहाभिमानं सन्त्यज्य चित्तसत्तां परित्यज ।
आत्मैवाहं स्वयं चाहं इत्येवं सर्वदा भव ॥ २३.४१॥

एवं स्थिते त्वं मुक्तोऽसि न तु कार्या विचारणा ।
ब्रह्मैव सर्वं यत्किञ्चित् सच्चिदानन्द एव हि ॥ २३.४२॥

अहं ब्रह्म इदं ब्रह्म त्वं ब्रह्मासि निरन्तरः ।
प्रज्ञानं ब्रह्म एवासि त्वं ब्रह्मासि न संशयः ॥ २३.४३॥

दृढनिश्चयमेव त्वं कुरु कल्याणमात्मनः ।
मनसो भूषणं ब्रह्म मनसो भूषणं परः ॥ २३.४४॥

मनसो भूषणं कर्ता ब्रह्मैवाहमवेक्षतः ।
ब्रह्मैव सच्चिदानन्दः सच्चिदानन्दविग्रहः ॥ २३.४५॥

सच्चिदानन्दमखिलं सच्चिदानन्द एव हि ।
सच्चिदानन्दजीवात्मा सच्चिदानन्दविग्रहः ॥ २३.४६॥

सच्चिदानन्दमद्वैतं सच्चिदानन्दशंकरः ।
सच्चिदानन्दविज्ञानं सच्चिदानन्दभोजनः ॥ २३.४७॥

सच्चिदानन्दपूर्णात्मा सच्चिदानन्दकारणः ।
सच्चिदानन्दलीलात्मा सच्चिदानन्दशेवधिः ॥ २३.४८॥

सच्चिदानन्दसर्वाङ्गः सच्चिदानन्दचन्दनः ।
सच्चिदानन्दसिद्धान्तः सच्चिदानन्दवेदकः ॥ २३.४९॥

सच्चिदानन्दशास्त्रार्थः सच्चिदानन्दवाचकः ।
सच्चिदानन्दहोमश्च सच्चिदानन्दराज्यकः ॥ २३.५०॥

सच्चिदानन्दपूर्णात्मा सच्चिदानन्दपूर्णकः ।
सच्चिदानन्दसन्मात्रं मूढेषु पठितं च यत् ॥ २३.५१॥

शुद्धं मूढेषु यद्दत्तं सुबद्धं मार्गचारिणा ।
विषयासक्तचित्तेषु न संभाष्यं विवेकिना ॥ २३.५२॥

सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयं ।
इच्छा चेद्यदि नारीणां मुखं ब्राह्मण एव हि ॥ २३.५३॥

सर्वं चैतन्यमात्रत्वात् स्त्रीभेदं च न विद्यते ।
वेदशास्त्रेण युक्तोऽपि ज्ञानाभावाद् द्विजोऽद्विजः ॥ २३.५४॥

ब्रह्मैव तन्तुना तेन बद्धास्ते मुक्तिचिन्तकाः ।
सर्वमुक्तं भगवता रहस्यं शङ्करेण हि ॥ २३.५५॥

सोमापीडपदाम्बुजार्चनफलैर्युक्त्यै भवान् मानसं
नान्यद्योगपधा श्रुतिश्रवणतः किं कर्मभिर्यायते ।
युक्त्या शिक्षितमानसानुभवतोऽप्यस्पर्श्यास्पृशङ्गो वचां
किं ग्राह्यं भवतीन्द्रियार्थरहितानन्दैकसान्द्रः शिवः ॥ २३.५६॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे रहस्योपदेशप्रकरणं नाम त्रयोविंशोऽध्यायः ॥

॥ चतुर्विंशोऽध्यायः ॥

ऋभुः –

पुनः पुनः परं वक्ष्ये आत्मनोऽन्यदसत् स्वतः ।
असतो वचनं नास्ति सतो नास्ति सदा स्थिते ॥ २४.१॥

ब्रह्माभ्यास परस्याहं वक्ष्ये निर्णयमात्मनः ।
तस्यापि सकृदेवाहं वक्ष्ये मङ्गलपूर्वकम् ॥ २४.२॥

सर्वं ब्रह्माहमेवास्मि चिन्मात्रो नास्ति किंचन ।
अहमेव परं ब्रह्म अहमेव चिदात्मकम् ॥ २४.३॥

अहं ममेति नास्त्येव अहं ज्ञानीति नास्ति च ।
शुद्धोऽहं ब्रह्मरूपोऽहमानन्दोऽहमजो नरः ॥ २४.४॥
देवोऽहं दिव्यभानोऽहं तुर्योऽहं भवभाव्यहम् ।
अण्डजोऽहमशेषोऽहमन्तरादन्तरोऽस्म्यहम् ॥ २४.५॥

अमरोऽहमजस्रोऽहमत्यन्तपरमोऽस्म्यहम् ।
परापरस्वरूपोऽहं नित्यानित्यरसोऽस्म्यहम् ॥ २४.६॥

गुणागुणविहीनोऽहं तुर्यातुर्यरसोऽस्म्यहम् ।
शान्ताशान्तविहीनोऽहं ज्ञानाज्ञानरसोऽस्म्यहम् ॥ २४.७॥

कालाकालविहीनोऽहमात्मानात्मविवर्जितः ।
लब्धालब्धादिहीनोऽहं सर्वशून्योऽहमव्ययः ॥ २४.८॥

अहमेवाहमेवाहमनन्तरनिरन्तरम् ।
शाश्वतोऽहमलक्ष्योऽहमात्मा न परिपूर्णतः ॥ २४.९॥

इत्यादिशब्दमुक्तोऽहं इत्याद्यं च न चास्म्यहम् ।
इत्यादिवाक्यमुक्तोऽहं सर्ववर्जितदुर्जयः ॥ २४.१०॥

निरन्तरोऽहं भूतोऽहं भव्योऽहं भववर्जितः ।
लक्ष्यलक्षणहीनोऽहं कार्यहीनोऽहमाशुगः ॥ २४.११॥

व्योमादिरूपहीनोऽहं व्योमरूपोऽहमच्युतः ।
अन्तरान्तरभावोऽहमन्तरान्तरवर्जितः ॥ २४.१२॥

सर्वसिद्धान्तरूपोऽहं सर्वदोषविवर्जितः ।
न कदाचन मुक्तोऽहं न बद्धोऽहं कदाचन ॥ २४.१३॥

एवमेव सदा कृत्वा ब्रह्मैवाहमिति स्मर ।
एतावदेव मात्रं तु मुक्तो भवतु निश्चयः ॥ 24.14॥

चिन्मात्रोऽहं शिवोऽहं वै शुभमात्रमहं सदा ।
सदाकारोऽहं मुक्तोऽहं सदा वाचामगोचरः ॥ 24.15॥

सर्वदा परिपूर्णोऽहं वेदोपाधिविवर्जितः ।
चित्तकार्यविहीनोऽहं चित्तमस्तीति मे न हि ॥ 24.16॥

यत् किंचिदपि नास्त्येव नास्त्येव प्रियभाषणं ।
आत्मप्रियमनात्मा हि इदं मे वस्तुतो न हि ॥ 24.17॥

इदं दुःखमिदं सौख्यमिदं भाति अहं न हि ।
सर्ववर्जितरूपोऽहं सर्ववर्जितचेतनः ॥ 24.18॥

अनिर्वाच्यमनिर्वाच्यं परं ब्रह्म रसोऽस्म्यहं ।
अहं ब्रह्म न संदेह अहमेव परात् परः ॥ 24.19॥

अहं चैतन्यभूतात्मा देहो नास्ति कदाचन ।
लिंगदेहं च नास्त्येव कारणं देहमेव न ॥ 24.20॥

अहं त्यक्त्वा परं चाहं अहं ब्रह्मस्वरूपतः ।
कामादिवर्जितोऽतीतः कालभेदपरात्परः ॥ 24.21॥

ब्रह्मैवेदं न संवेद्यं नाहं भावं न वा नहि ।
सर्वसंशयसंशांतो ब्रह्मैवाहमिति स्थितिः ॥ 24.22॥

निश्चयं च न मे किंचित् चिंताभावात् सदाऽक्षरः ।
चिदहं चिदहं ब्रह्म चिदहं चिदहं सदा ॥ 24.23॥

एवं भावनया युक्तस्त्यक्तशंकः सुखीभव ।
सर्वसंगं परित्यज्य आत्मैक्यैवं भवान्वहं ॥ 24.24॥

संगं नाम प्रवक्ष्येऽहं ब्रह्मैवाहमिति निश्चयः ।
सत्योऽहं परमात्माऽहं स्वयमेव स्वयं स्वयं ॥ 24.25॥

नाहं देहो न च प्राणो न द्वंद्वो न च निर्मलः ।
एष एव हि सत्संगः एष एव हि निर्मलः ॥ 24.26॥

महत्संगे महद्व्याप्त्यभावनं परमं पदं ।
अहं शांतप्रभावोऽहं अहं ब्रह्म न संशयः ॥ 24.27॥

अहं त्यक्तस्वरूपोऽहं अहं चिंतादिवर्जितः ।
एष एव हि सत्संगः एष नित्यं भवानहं ॥ 24.28॥

सर्वसंकल्पहीनोऽहं सर्ववृत्तिविवर्जितः ।
अमृतोऽहमजो नित्यं मृतिभीतिरतीतिकः ॥ २४.२९॥

सर्वकल्याणरूपोऽहं सर्वदा प्रियरूपवान् ।
समलाङ्गो मलातीतः सर्वदाहं सदानुगः ॥ २४.३०॥

अपरिच्छिन्नसन्मात्रं सत्यज्ञानस्वरूपवान् ।
नादान्तरोऽहं नादोऽहं नामरूपविवर्जितः ॥ २४.३१॥

अत्यन्ताभिन्नहीनोऽहमादिमध्यान्तवर्जितः ।
एवं नित्यं दृढाभ्यास एवं स्वानुभवेन च ॥ २४.३२॥

एवमेव हि नित्यात्मभावनेन सुखी भव ।
एवमात्मा सुखं प्राप्तः पुनर्जन्म न संभवेत् ॥ २४.३३॥

सद्यो मुक्तो भवेद्ब्रह्मकारेण परितिष्ठति ।
आत्माकारमिदं विश्वमात्माकारमहं महत् ॥ २४.३४॥

आत्मैव नान्यद्भूतं वा आत्मैव मन एव हि ।
आत्मैव चित्तवद्भाति आत्मैव स्मृतिवत् क्वचित् ॥ २४.३५॥

आत्मैव वृत्तिवद्भाति आत्मैव क्रोधवत् सदा ।
आत्मैव श्रवणं तद्वदात्मैव मननं च तत् ॥ २४.३६॥

आत्मैवोपक्रमं नित्यमुपसंहारमात्मवत् ।
आत्मैवाभ्यां समं नित्यमात्मैवापूर्वताफलं ॥ २४.३७॥

अर्थवादवदात्मा हि परमात्मोपपत्ति हि ।
इच्छा प्रारभ्यवद्ब्रह्मा इच्छामारभ्यवत् परः ॥ २४.३८॥

परेच्छारब्धवद्ब्रह्मा इच्छाशक्तिश्शिवेव हि ।
अनिच्छाशक्तिरात्मैव परेच्छाशक्तिरव्ययः ॥ २४.३९॥

परमात्मैवाधिकारो विषयं परमात्मनः ।
संबंधं परमात्मैव प्रयोजनं परात्मकं ॥ २४.४०॥

ब्रह्मैव परमं संगं कर्मजं ब्रह्म संगमं ।
ब्रह्मैव भ्रान्तिजं भाति द्वन्द्वं ब्रह्मैव नान्यतः ॥ २४.४१॥

सर्वं ब्रह्मेति निश्चित्य सद्य एव विमोक्षदं ।
सविकल्पसमाधिस्थं निर्विकल्पसमाधि हि ॥ २४.४२॥

शब्दानुविद्धं ब्रह्मैव ब्रह्म दृश्यानुविद्धकं ।
ब्रह्मेवादिसमाधिश्च तन्मध्यमसमाधिकं ॥ २४.४३॥

ब्रह्मैव निश्चयं शून्यं तदुक्तमसमाधिकं ।
देहाभिमानरहितं तद्वैराग्यसमाधिकं ॥ २४.४४॥

एतद्भावनया शान्तं जीवन्मुक्तसमाधिकः ।
अत्यन्तं सर्वशान्तत्वं देहो मुक्तसमाधिकं ॥ २४.४५॥

एतदभ्यासिनां प्रोक्तं सर्वं चैतत्त्वमन्वितं ।
सर्वं विसृत्य विसृत्य त्यक्त्वा त्यक्त्वा पुनः पुनः ॥ २४.४६॥

सर्ववृत्तिं च शून्येन स्थास्यामीति विमुच्य हि ।
न स्थास्यामीति विसृत्य भास्यामीति च विस्मर ॥ २४.४७॥

चैतन्योऽहमिति त्यक्त्वा सन्मात्रोऽहमिति त्यज ।
त्यजनं च परित्यज्य भावनं च परित्यज ॥ २४.४८॥

सर्वं त्यक्त्वा मनः क्षिप्रं स्मरणं च परित्यज ।
स्मरणं किञ्चिदेवात्र महासंसारसागरं ॥ २४.४९॥

स्मरणं किञ्चिदेवात्र महादुःखं भवेत् तदा ।
महादोषं भवं बन्धं चित्तजन्य शतं मनः ॥ २४.५०॥

प्रारब्धं हृदयग्रन्थि ब्रह्महत्यादि पातकं ।
स्मरणं चैवमेवेह बन्धमोक्षस्य कारणं ॥ २४.५१॥

अहं ब्रह्मप्रकरणं सर्वदुःखविनाशकं ।
सर्वप्रपञ्चशमनं सद्यो मोक्षप्रदं सदा ।
एतच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयं ॥ २४.५२॥

भक्त्या पद्मदलाक्षपूजितपदध्यानानुवृत्त्या मनः
स्वान्तानन्तपथप्रचारविधुरं मुख्यै भवेन्मानसं ।
सङ्कल्पोज्झितमेतदल्पसुमहाशीलो दयाम्भोनिधौ
कश्चित् स्याच्छिवभक्तधुर्यसुमहाशान्तः शिवप्रेमतः ॥ २४.५३॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे अहं ब्रह्मप्रकरणनिरूपणं नाम चतुर्विंशोऽध्यायः ॥

॥ पञ्चविंशोऽध्यायः ॥

ऋभुः –

वक्ष्ये प्रसिद्धमात्मानं सर्वलोकप्रकाशकम् ।
सर्वाकारं सदा सिद्धं सर्वत्र निबिडं महत् ॥ २५.१॥

तद्ब्रह्माहं न सन्देह इति निश्चित्य तिष्ठ भोः ।
चिदेवाहं चिदेवाहं चित्रं चेदहमेव हि ॥ २५.२॥

वाचावधिश्च देवोऽहं चिदेव मनसः परः ।
चिदेवाहं परं ब्रह्म चिदेव सकलं पदम् ॥ २५.३॥

स्थूलदेहं चिदेवेदं सूक्ष्मदेहं चिदेव हि ।
चिदेव कारणं सोऽहं कायमेव चिदेव हि ॥ २५.४॥

अखण्डाकारवृत्तिश्च उत्तमाधममध्यमाः ।
देहहीनश्चिदेवाहं सूक्ष्मदेहश्चिदेव हि ॥ २५.५॥

चिदेव कारणं सोऽहं बुद्धिहीनश्चिदेव हि ।
भावहीनश्चिदेवाहं दोषहीनश्चिदेव हि ॥ २५.६॥

अस्तित्वं ब्रह्म नास्त्येव नास्ति ब्रह्मेति नास्ति हि ।
अस्ति नास्तीति नास्त्येव अहमेव चिदेव हि ॥ २५.७॥

सर्वं नास्त्येव नास्त्येव साकारं नास्ति नास्ति हि ।
यत्किञ्चिदपि नास्त्येव अहमेव चिदेव हि ॥ २५.८॥

अन्वयव्यतिरेकं च आदिमध्यान्तदूषणम् ।
सर्वं चिन्मात्ररूपत्वादहमेव चिदेव हि ॥ २५.९॥

सर्वापरं च सदसत् कार्यकारणकर्तृकम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१०॥

अशुद्धं शुद्धमद्वैतं द्वैतमेकमनेककम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.११॥

असत्यसत्यमद्वन्द्वं द्वन्द्वं च परतः परम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१२॥

भूतं भविष्यं वर्तं च मोहोमोहौ समासमौ ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१३॥

क्षणं लवं त्रुटीर्ह्याह्यं त्वंपदं तत्पदं तथा ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१४॥

त्वंपदं तत्पदं वापि ऐक्यं च ह्यहमेव हि ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१५॥

आनन्दं परमानन्दं सर्वानन्दं निजं महत् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१६॥

अहं ब्रह्म इदं ब्रह्म कं ब्रह्म ह्यक्षरं परं ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१७॥

विष्णुरेव परं ब्रह्म शिवो ब्रह्मोऽहमेव हि ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१८॥

श्रोत्रं ब्रह्म परं ब्रह्म शब्दं ब्रह्मपदं शुभं ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१९॥

स्पर्शो ब्रह्म पदं त्वक्च त्वक्च ब्रह्म परस्परं ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२०॥

परं रूपं चक्षुभिः एव तत्रैव योज्यतां ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२१॥

ब्रह्मैव सर्वं सततं सच्चिदानन्दमात्रकं ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२२॥

चिन्मयानन्दमात्रोऽहं इदं विश्वमिदं सदा ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२३॥

ब्रह्मैव सर्वं यत्किञ्चित् तद्ब्रह्माहं न संशयः ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२४॥

वाचा यत् प्रोच्यते नाम मनसा मनुते तु यत् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२५॥

कारणे कल्पिते यद्यत् तूष्णीं वा स्थीयते सदा ।
शरीरेण तु यद् भुङ्क्ते इन्द्रियैर्यत्तु भाव्यते ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२६॥

वेदे यत् कर्म वेदोक्तं शास्त्रं शास्त्रोक्तनिर्णयं ।
गुरूपदेशसिद्धान्तं शुद्धाशुद्धविभासकं ॥ २५.२७॥

कामादिकलनं ब्रह्म देवादि कलनं पृथक् ।
जीवयुक्तेति कलनं विदेहो मुक्तिकल्पनम् ॥ २५.२८॥

ब्रह्म इत्यपि संकल्पं ब्रह्मविद्वरकल्पनम् ।
वरीयानिति संकल्पं वरिष्ठ इति कल्पनम् ॥ २५.२९॥

ब्रह्माहमिति संकल्पं चिदहं चेति कल्पनम् ।
महाविद्येति संकल्पं महामायेति कल्पनम् ॥ २५.३०॥

महाशून्येति संकल्पं महाचिन्तेति कल्पनम् ।
महालोकेति संकल्पं महासत्येति कल्पनम् ॥ २५.३१॥

महारूपेति संकल्पं महारूपं च कल्पनम् ।
सर्वसंकल्पकं चित्तं सर्वसंकल्पकं मनः ॥ २५.३२॥

सर्वं नास्त्येव नास्त्येव सर्वं ब्रह्मैव केवलम् ।
सर्वं द्वैतं मनोरूपं सर्वं दुःखं मनोमयम् ॥ २५.३३॥

चिदेवाहं न सन्देहः चिदेवेदं जगत्त्रयम् ।
यत्किञ्चिद्भाषणं वापि यत्किञ्चिन्न्यासो जपम् ।
यत्किञ्चिन्न्यासनं कर्म सर्वं ब्रह्मैव केवलम् ॥ २५.३४॥

सर्वं नास्तीति सन्मन्त्रं जीवब्रह्मस्वरूपकम् ।
ब्रह्मैव सर्वमित्येवं मन्त्रञ्चैवोत्तमोत्तमम् ॥ २५.३५॥

अनुक्तमन्त्रं सन्मन्त्रं वृत्तिशून्यं परं महत् ।
सर्वं ब्रह्मेति संकल्पं तदेव परमं पदम् ॥ २५.३६॥

सर्वं ब्रह्मेति संकल्पं महादेवेति कीर्तनम् ।
सर्वं ब्रह्मेति संकल्पं शिवपूजासमं महत् ॥ २५.३७॥

सर्वं ब्रह्मेत्यनुभवः सर्वाकारो न संशयः ।
सर्वं ब्रह्मेति संकल्पं सर्वत्यागमितीरितम् ॥ २५.३८॥

सर्वं ब्रह्मेति संकल्पं भावाभावविनाशनम् ।
सर्वं ब्रह्मेति संकल्पं महादेवेति निश्चयः ॥ २५.३९॥

सर्वं ब्रह्मेति संकल्पं कालसत्ताविनिर्मुक्तः ।
सर्वं ब्रह्मेति संकल्पः देहसत्ता विमुक्तिकः ॥ २५.४०॥

सर्वं ब्रह्मेति संकल्पः सच्चिदानन्दरूपकः ।
सर्वोऽहं ब्रह्ममात्रैव सर्वं ब्रह्मैव केवलम् ॥ २५.४१॥

इदमित्येव यत्किञ्चित् तद्ध्येव न संशयः ।
भ्रान्तिश्च नरकं दुःखं स्वर्गभ्रान्तिरितीरिता ॥ २५.४२॥

ब्रह्मो विष्णुरिति भ्रान्तिर्भ्रान्तिश्च शिवरूपकम् ।
विराट् स्वराट् तथा सम्राट् सूत्रात्मा भ्रान्तिरेव च ॥ २५.४३॥

देवाश्च देवकार्याणि सूर्याचन्द्रमसोर्गतिः ।
मुनयो मनवः सिद्धा भ्रान्तिरेव न संशयः ॥ २५.४४॥

सर्वदेवासुरा भ्रान्तिस्तेषां युद्धादि जन्म च ।
विष्णोर्ज्जावताराणि चरितं शान्तिरेव हि ॥ २५.४५॥

ब्रह्मणः सृष्टिकृत्यानि रुद्रस्य चरितानि च ।
सर्वभ्रान्तिसमायुक्तं भ्रान्त्या लोकाश्चतुर्दश ॥ २५.४६॥

वर्णाश्रमविभागश्च भ्रान्तिरेव न संशयः ।
ब्रह्मविष्णीशरुद्राणामुपासा भ्रान्तिरेव च ॥ २५.४७॥

तत्रापि यन्त्रमन्त्राभ्यां भ्रान्तिरेव न संशयः ।
वाचामगोचरं ब्रह्म सर्वं ब्रह्ममयं च हि ॥ २५.४८॥

सर्वं नास्त्येव नास्त्येव अहमेव चिदेव हि ।
एवं वद त्वं तिष्ठ त्वं सद्योमुक्तो भविष्यसि ॥ २५.४९॥

एतावदुक्तं यत्किञ्चित् तन्नास्त्येव न संशयः ।
एवं यदान्तरं क्षिप्रं ब्रह्म्येव दृढनिश्चयम् ॥ २५.५०॥

दृढनिश्चयमेवात्र प्रथमं कारणं भवेत् ।
निश्चयः खल्वयं पश्चात् स्वयमेव भविष्यति ॥ २५.५१॥

आर्थं यच्छिवपादतोऽन्यदितरं तज्जादिशब्दात्मकं
चेतोवृत्तिपरं पराप्रमुदितं षड्भावसिद्धं जगत् ।
भूताक्षादिमनोवचोभरनभे सान्द्रे महेशे घने
सिन्धौ सैन्धवखण्डवज्जगदिदं लीयेत वृत्युज्जितम् ॥ २५.५२॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मणस्स्वरूपत्वनिरूपणप्रकरणं नाम पञ्चविंशोऽध्यायः ॥