ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 129, कुल 249 में से
संदर्भ में पढ़ेंकामादिकलनं ब्रह्म देवादि कलनं पृथक् ।
जीवयुक्तेति कलनं विदेहो मुक्तिकल्पनम् ॥ २५.२८॥
ब्रह्म इत्यपि संकल्पं ब्रह्मविद्वरकल्पनम् ।
वरीयानिति संकल्पं वरिष्ठ इति कल्पनम् ॥ २५.२९॥
ब्रह्माहमिति संकल्पं चिदहं चेति कल्पनम् ।
महाविद्येति संकल्पं महामायेति कल्पनम् ॥ २५.३०॥
महाशून्येति संकल्पं महाचिन्तेति कल्पनम् ।
महालोकेति संकल्पं महासत्येति कल्पनम् ॥ २५.३१॥
महारूपेति संकल्पं महारूपं च कल्पनम् ।
सर्वसंकल्पकं चित्तं सर्वसंकल्पकं मनः ॥ २५.३२॥
सर्वं नास्त्येव नास्त्येव सर्वं ब्रह्मैव केवलम् ।
सर्वं द्वैतं मनोरूपं सर्वं दुःखं मनोमयम् ॥ २५.३३॥
चिदेवाहं न सन्देहः चिदेवेदं जगत्त्रयम् ।
यत्किञ्चिद्भाषणं वापि यत्किञ्चिन्न्यासो जपम् ।
यत्किञ्चिन्न्यासनं कर्म सर्वं ब्रह्मैव केवलम् ॥ २५.३४॥
सर्वं नास्तीति सन्मन्त्रं जीवब्रह्मस्वरूपकम् ।
ब्रह्मैव सर्वमित्येवं मन्त्रञ्चैवोत्तमोत्तमम् ॥ २५.३५॥
अनुक्तमन्त्रं सन्मन्त्रं वृत्तिशून्यं परं महत् ।
सर्वं ब्रह्मेति संकल्पं तदेव परमं पदम् ॥ २५.३६॥
सर्वं ब्रह्मेति संकल्पं महादेवेति कीर्तनम् ।
सर्वं ब्रह्मेति संकल्पं शिवपूजासमं महत् ॥ २५.३७॥
सर्वं ब्रह्मेत्यनुभवः सर्वाकारो न संशयः ।
सर्वं ब्रह्मेति संकल्पं सर्वत्यागमितीरितम् ॥ २५.३८॥
सर्वं ब्रह्मेति संकल्पं भावाभावविनाशनम् ।
सर्वं ब्रह्मेति संकल्पं महादेवेति निश्चयः ॥ २५.३९॥
सर्वं ब्रह्मेति संकल्पं कालसत्ताविनिर्मुक्तः ।
सर्वं ब्रह्मेति संकल्पः देहसत्ता विमुक्तिकः ॥ २५.४०॥
सर्वं ब्रह्मेति संकल्पः सच्चिदानन्दरूपकः ।
सर्वोऽहं ब्रह्ममात्रैव सर्वं ब्रह्मैव केवलम् ॥ २५.४१॥